diff --git "a/DharmicData/Mahabharata/Chapters/MBH3.txt" "b/DharmicData/Mahabharata/Chapters/MBH3.txt" new file mode 100644--- /dev/null +++ "b/DharmicData/Mahabharata/Chapters/MBH3.txt" @@ -0,0 +1,22462 @@ +जनमेजय उवाच +एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः +धार्तराष्ट्रैः सहामात्यैर्निकृत्या द्विजसत्तम +श्राविताः परुषा वाचः सृजद्भिर्वैरमुत्तमम् +किमकुर्वन्त कौरव्या मम पूर्वपितामहाः +कथं चैश्वर्यविभ्रष्टाः सहसा दुःखमेयुषः +वने विजह्रिरे पार्थाः शक्रप्रतिमतेजसः +के चैनानन्ववर्तन्त प्राप्तान्व्यसनमुत्तमम् +किमाहाराः किमाचाराः क्व च वासो महात्मनाम् +कथं द्वादश वर्षाणि वने तेषां महात्मनाम् +व्यतीयुर्ब्राह्मणश्रेष्ठ शूराणामरिघातिनाम् +कथं च राजपुत्री सा प्रवरा सर्वयोषिताम् +पतिव्रता महाभागा सततं सत्यवादिनी +वनवासमदुःखार्हा दारुणं प्रत्यपद्यत +एतदाचक्ष्व मे सर्वं विस्तरेण तपोधन +श्रोतुमिच्छामि चरितं भूरिद्रविणतेजसाम् +कथ्यमानं त्वया विप्र परं कौतूहलं हि मे +वैशंपायन उवाच +एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः +धार्तराष्ट्रैः सहामात्यैर्निर्ययुर्गजसाह्वयात् +वर्धमानपुरद्वारेणाभिनिष्क्रम्य ते तदा +उदङ्मुखाः शस्त्रभृतः प्रययुः सह कृष्णया +इन्द्रसेनादयश्चैनान्भृत्याः परिचतुर्दश +रथैरनुययुः शीघ्रैः स्त्रिय आदाय सर्वशः +व्रजतस्तान्विदित्वा तु पौराः शोकाभिपीडिताः +गर्हयन्तोऽसकृद्भीष्मविदुरद्रोणगौतमान् +ऊचुर्विगतसंत्रासाः समागम्य परस्परम् +नेदमस्ति कुलं सर्वं न वयं न च नो गृहाः +यत्र दुर्योधनः पापः सौबलेयेन पालितः +कर्णदुःशासनाभ्यां च राज्यमेतच्चिकीर्षति +नो चेत्कुलं न चाचारो न धर्मोऽर्थः कुतः सुखम् +यत्र पापसहायोऽयं पापो राज्यं बुभूषते +दुर्योधनो गुरुद्वेषी त्यक्ताचारसुहृज्जनः +अर्थलुब्धोऽभिमानी च नीचः प्रकृतिनिर्घृणः +नेयमस्ति मही कृत्स्ना यत्र दुर्योधनो नृपः +साधु गच्छामहे सर्वे यत्र गच्छन्ति पाण्डवाः +सानुक्रोशा महात्मानो विजितेन्द्रियशत्रवः +ह्रीमन्तः कीर्तिमन्तश्च धर्माचारपरायणाः +एवमुक्त्वानुजग्मुस्तान्पाण्डवांस्ते समेत्य च +ऊचुः प्राञ्जलयः सर्वे तान्कुन्तीमाद्रिनन्दनान् +क्व गमिष्यथ भद्रं वस्त्यक्त्वास्मान्दुःखभागिनः +वयमप्यनुयास्यामो यत्र यूयं गमिष्यथ +अधर्मेण जिताञ्श्रुत्वा युष्मांस्त्यक्तघृणैः परैः +उद्विग्नाः स्म भृशं सर्वे नास्मान्हातुमिहार्हथ +भक्तानुरक्ताः सुहृदः सदा प्रियहिते रतान् +कुराजाधिष्ठिते राज्ये न विनश्येम सर्वशः +श्रूयतां चाभिधास्यामो गुणदोषान्नरर्षभाः +शुभाशुभाधिवासेन संसर्गं कुरुते यथा +वस्त्रमापस्तिलान्भूमिं गन्धो वासयते यथा +पुष्पाणामधिवासेन तथा संसर्गजा गुणाः +मोहजालस्य योनिर्हि मूढैरेव समागमः +अहन्यहनि धर्मस्य योनिः साधुसमागमः +तस्मात्प्राज्ञैश्च वृद्धैश्च सुस्वभावैस्तपस्विभिः +सद्भिश्च सह संसर्गः कार्यः शमपरायणैः +येषां त्रीण्यवदातानि योनिर्विद्या च कर्म च +तान्सेवेत्तैः समास्या हि शास्त्रेभ्योऽपि गरीयसी +निरारम्भा ह्यपि वयं पुण्यशीलेषु साधुषु +पुण्यमेवाप्नुयामेह पापं पापोपसेवनात् +असतां दर्शनात्स्पर्शात्संजल्पनसहासनात् +धर्माचाराः प्रहीयन्ते न च सिध्यन्ति मानवाः +बुद्धिश्च हीयते पुंसां नीचैः सह समागमात् +मध्यमैर्मध्यतां याति श्रेष्ठतां याति चोत्तमैः +ये गुणाः कीर्तिता लोके धर्मकामार्थसंभवाः +लोकाचारात्मसंभूता वेदोक्ताः शिष्टसंमताः +ते युष्मासु समस्ताश्च व्यस्ताश्चैवेह सद्गुणाः +इच्छामो गुणवन्मध्ये वस्तुं श्रेयोऽभिकाङ्क्षिणः +युधिष्ठिर उवाच +धन्या वयं यदस्माकं स्नेहकारुण्ययन्त्रिताः +असतोऽपि गुणानाहुर्ब्राह्मणप्रमुखाः प्रजाः +तदहं भ्रातृसहितः सर्वान्विज्ञापयामि वः +नान्यथा तद्धि कर्तव्यमस्मत्स्नेहानुकम्पया +भीष्मः पितामहो राजा विदुरो जननी च मे +सुहृज्जनश्च प्रायो मे नगरे नागसाह्वये +ते त्वस्मद्धितकामार्थं पालनीयाः प्रयत्नतः +युष्माभिः सहितैः सर्वैः शोकसंतापविह्वलाः +निवर्ततागता दूरं समागमनशापिताः +स्वजने न्यासभूते मे कार्या स्नेहान्विता मतिः +एतद्धि मम कार्याणां परमं हृदि संस्थितम् +सुकृतानेन मे तुष्टिः सत्कारश्च भविष्यति +वैशंपायन उवाच +तथानुमन्त्रितास्तेन धर्मराजेन ताः प्रजाः +चक्रुरार्तस्वरं घोरं हा राजन्निति दुःखिताः +गुणान्पार्थस्य संस्मृत्य दुःखार्ताः परमातुराः +अकामाः संन्यवर्तन्त समागम्याथ पाण्डवान् +निवृत्तेषु तु पौरेषु रथानास्थाय पाण्डवाः +प्रजग्मुर्जाह्नवीतीरे प्रमाणाख्यं महावटम् +तं ते दिवसशेषेण वटं गत्वा तु पाण्डवाः +ऊषुस्तां रजनीं वीराः संस्पृश्य सलिलं शुचि +उदकेनैव तां रात्रिमूषुस्ते दुःखकर्शिताः +अनुजग्मुश्च तत्रैतान्स्नेहात्केचिद्द्विजातयः +साग्नयोऽनग्नयश्चैव सशिष्यगणबान्धवाः +स तैः परिवृतो राजा शुशुभे ब्रह्मवादिभिः +तेषां प्रादुष्कृताग्नीनां मुहूर्ते रम्यदारुणे +ब्रह्मघोषपुरस्कारः संजल्पः समजायत +राजानं तु कुरुश्रेष्ठं ते हंसमधुरस्वराः +आश्वासयन्तो विप्राग्र्याः क्षपां सर्वां व्यनोदयन् +वैशंपायन उवाच +प्रभातायां तु शर्वर्यां तेषामक्लिष्टकर्मणाम् +वनं यियासतां विप्रास्तस्थुर्भिक्षाभुजोऽग्रतः +तानुवाच ततो राजा कुन्तीपुत्रो युधिष्ठिरः +वयं हि हृतसर्वस्वा हृतराज्या हृतश्रियः +फलमूलामिषाहारा वनं यास्याम दुःखिताः +वनं च दोषबहुलं बहुव्यालसरीसृपम् +परिक्लेशश्च वो मन्ये ध्रुवं तत्र भविष्यति +ब्राह्मणानां परिक्लेशो दैवतान्यपि सादयेत् +किं पुनर्मामितो विप्रा निवर्तध्वं यथेष्टतः +ब्राह्मणा ऊचुः +गतिर्या भवतां राजंस्तां वयं गन्तुमुद्यताः +नार्हथास्मान्परित्यक्तुं भक्तान्सद्धर्मदर्शिनः +अनुकम्पां हि भक्तेषु दैवतान्यपि कुर्वते +विशेषतो ब्राह्मणेषु सदाचारावलम्बिषु +युधिष्ठिर उवाच +ममापि परमा भक्तिर्ब्राह्मणेषु सदा द्विजाः +सहायविपरिभ्रंशस्त्वयं सादयतीव माम् +आहरेयुर्हि मे येऽपि फलमूलमृगांस्तथा +त इमे शोकजैर्दुःखैर्भ्रातरो मे विमोहिताः +द्रौपद्या विप्रकर्षेण राज्यापहरणेन च +दुःखान्वितानिमान्क्लेशैर्नाहं योक्तुमिहोत्सहे +ब्राह्मणा ऊचुः +अस्मत्पोषणजा चिन्ता मा भूत्ते हृदि पार्थिव +स्वयमाहृत्य वन्यानि अनुयास्यामहे वयम् +अनुध्यानेन जप्येन विधास्यामः शिवं तव +कथाभिश्चानुकूलाभिः सह रंस्यामहे वने +युधिष्ठिर उवाच +एवमेतन्न संदेहो रमेयं ब्राह्मणैः सह +न्यूनभावात्तु पश्यामि प्रत्यादेशमिवात्मनः +कथं द्रक्ष्यामि वः सर्वान्स्वयमाहृतभोजनान् +मद्भक्त्या क्लिश्यतोऽनर्हान्धिक्पापान्धृतराष्ट्रजान् +वैशंपायन उवाच +इत्युक्त्वा स नृपः शोचन्निषसाद महीतले +तमध्यात्मरतिर्विद्वाञ्शौनको नाम वै द्विजः +योगे सांख्ये च कुशलो राजानमिदमब्रवीत् +शोकस्थानसहस्राणि भयस्थानशतानि च +दिवसे दिवसे मूढमाविशन्ति न पण्डितम् +न हि ज्ञानविरुद्धेषु बहुदोषेषु कर्मसु +श्रेयोघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः +अष्टाङ्गां बुद्धिमाहुर्यां सर्वाश्रेयोविघातिनीम् +श्रुतिस्मृतिसमायुक्तां सा राजंस्त्वय्यवस्थिता +अर्थकृच्छ्रेषु दुर्गेषु व्यापत्सु स्वजनस्य च +श���रीरमानसैर्दुःखैर्न सीदन्ति भवद्विधाः +श्रूयतां चाभिधास्यामि जनकेन यथा पुरा +आत्मव्यवस्थानकरा गीताः श्लोका महात्मना +मनोदेहसमुत्थाभ्यां दुःखाभ्यामर्दितं जगत् +तयोर्व्याससमासाभ्यां शमोपायमिमं शृणु +व्याधेरनिष्टसंस्पर्शाच्छ्रमादिष्टविवर्जनात् +दुःखं चतुर्भिः शारीरं कारणैः संप्रवर्तते +तदाशुप्रतिकाराच्च सततं चाविचिन्तनात् +आधिव्याधिप्रशमनं क्रियायोगद्वयेन तु +मतिमन्तो ह्यतो वैद्याः शमं प्रागेव कुर्वते +मानसस्य प्रियाख्यानैः संभोगोपनयैर्नृणाम् +मानसेन हि दुःखेन शरीरमुपतप्यते +अयःपिण्डेन तप्तेन कुम्भसंस्थमिवोदकम् +मानसं शमयेत्तस्माज्ज्ञानेनाग्निमिवाम्बुना +प्रशान्ते मानसे दुःखे शारीरमुपशाम्यति +मनसो दुःखमूलं तु स्नेह इत्युपलभ्यते +स्नेहात्तु सज्जते जन्तुर्दुःखयोगमुपैति च +स्नेहमूलानि दुःखानि स्नेहजानि भयानि च +शोकहर्षौ तथायासः सर्वं स्नेहात्प्रवर्तते +स्नेहात्करणरागश्च प्रजज्ञे वैषयस्तथा +अश्रेयस्कावुभावेतौ पूर्वस्तत्र गुरुः स्मृतः +कोटराग्निर्यथाशेषं समूलं पादपं दहेत् +धर्मार्थिनं तथाल्पोऽपि रागदोषो विनाशयेत् +विप्रयोगे न तु त्यागी दोषदर्शी समागमात् +विरागं भजते जन्तुर्निर्वैरो निष्परिग्रहः +तस्मात्स्नेहं स्वपक्षेभ्यो मित्रेभ्यो धनसंचयात् +स्वशरीरसमुत्थं तु ज्ञानेन विनिवर्तयेत् +ज्ञानान्वितेषु मुख्येषु शास्त्रज्ञेषु कृतात्मसु +न तेषु सज्जते स्नेहः पद्मपत्रेष्विवोदकम् +रागाभिभूतः पुरुषः कामेन परिकृष्यते +इच्छा संजायते तस्य ततस्तृष्णा प्रवर्तते +तृष्णा हि सर्वपापिष्ठा नित्योद्वेगकरी नृणाम् +अधर्मबहुला चैव घोरा पापानुबन्धिनी +या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः +योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् +अनाद्यन्ता तु सा तृष्णा अन्तर्देहगता नृणाम् +विनाशयति संभूता अयोनिज इवानलः +यथैधः स्वसमुत्थेन वह्निना नाशमृच्छति +तथाकृतात्मा लोभेन सहजेन विनश्यति +राजतः सलिलादग्नेश्चोरतः स्वजनादपि +भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव +यथा ह्यामिषमाकाशे पक्षिभिः श्वापदैर्भुवि +भक्ष्यते सलिले मत्स्यैस्तथा सर्वेण वित्तवान् +अर्थ एव हि केषांचिदनर्थो भविता नृणाम् +अर्थश्रेयसि चासक्तो न श्रेयो विन्दते नरः +तस्मादर्थागमाः सर्वे मनोमोहविवर्धनाः +कार्पण्यं दर्पमानौ च भयमुद्वेग एव च +अर्थजानि विदुः प्राज्ञा दुःखान्येतानि देहिनाम् +अर्थस्योपार्जने दुःखं पालने च क्षये तथा +नाशे दुःखं व्यये दुःखं घ्नन्ति चैवार्थकारणात् +अर्था दुःखं परित्यक्तुं पालिताश्चापि तेऽसुखाः +दुःखेन चाधिगम्यन्ते तेषां नाशं न चिन्तयेत् +असंतोषपरा मूढाः संतोषं यान्ति पण्डिताः +अन्तो नास्ति पिपासायाः संतोषः परमं सुखम् +तस्मात्संतोषमेवेह धनं पश्यन्ति पण्डिताः +अनित्यं यौवनं रूपं जीवितं द्रव्यसंचयः +ऐश्वर्यं प्रियसंवासो गृध्येदेषु न पण्डितः +त्यजेत संचयांस्तस्मात्तज्जं क्लेशं सहेत कः +न हि संचयवान्कश्चिद्दृश्यते निरुपद्रवः +अतश्च धर्मिभिः पुम्भिरनीहार्थः प्रशस्यते +प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् +युधिष्ठिरैवमर्थेषु न स्पृहां कर्तुमर्हसि +धर्मेण यदि ते कार्यं विमुक्तेच्छो भवार्थतः +युधिष्ठिर उवाच +नार्थोपभोगलिप्सार्थमियमर्थेप्सुता मम +भरणार्थं तु विप्राणां ब्रह्मन्काङ्क्षे न लोभतः +कथं ह्यस्मद्विधो ब्रह्मन्वर्तमानो गृहाश्रमे +भरणं पालनं चापि न कुर्यादनुयायिनाम् +संविभागो हि भूतानां सर्वेषामेव शिष्यते +तथैवापचमानेभ्यः प्रदेयं गृहमेधिना +तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता +सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन +देयमार्तस्य शयनं स्थितश्रान्तस्य चासनम् +तृषितस्य च पानीयं क्षुधितस्य च भोजनम् +चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम् +प्रत्युद्गम्याभिगमनं कुर्यान्न्यायेन चार्चनम् +अघिहोत्रमनड्वांश्च ज्ञातयोऽतिथिबान्धवाः +पुत्रदारभृताश्चैव निर्दहेयुरपूजिताः +नात्मार्थं पाचयेदन्नं न वृथा घातयेत्पशून् +न च तत्स्वयमश्नीयाद्विधिवद्यन्न निर्वपेत् +श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि +वैश्वदेवं हि नामैतत्सायंप्रातर्विधीयते +विघसाशी भवेत्तस्मान्नित्यं चामृतभोजनः +विघसं भृत्यशेषं तु यज्ञशेषं तथामृतम् +एतां यो वर्तते वृत्तिं वर्तमानो गृहाश्रमे +तस्य धर्मं परं प्राहुः कथं वा विप्र मन्यसे +शौनक उवाच +अहो बत महत्कष्टं विपरीतमिदं जगत् +येनापत्रपते साधुरसाधुस्तेन तुष्यति +शिश्नोदरकृतेऽप्राज्ञः करोति विघसं बहु +मोहरागसमाक्रान्त इन्द्रियार्थवशानुगः +ह्रियते बुध्यमानोऽपि नरो हारिभिरिन्द्रियैः +विमूढसंज्ञो दुष्टाश्वैरुद्भ्रान्तैरिव सारथिः +षडिन्द्रियाणि विषयं समागच्छन्ति वै यदा +तदा प्रादुर्भवत्येषां पूर्वसंकल्पजं मनः +मनो यस्येन्द्रियग्रामविषयं प्रति चोदितम् +तस्यौत्सुक्यं संभवति प्रवृत्तिश्चोपजायते +ततः संकल्पवीर्येण कामेन विषयेषुभिः +विद्धः पतति लोभाग्नौ ज्योतिर्लोभात्पतंगवत् +ततो विहारैराहारैर्मोहितश्च विशां पते +महामोहमुखे मग्नो नात्मानमवबुध्यते +एवं पतति संसारे तासु तास्विह योनिषु +अविद्याकर्मतृष्णाभिर्भ्राम्यमाणोऽथ चक्रवत् +ब्रह्मादिषु तृणान्तेषु हूतेषु परिवर्तते +जले भुवि तथाकाशे जायमानः पुनः पुनः +अबुधानां गतिस्त्वेषा बुधानामपि मे शृणु +ये धर्मे श्रेयसि रता विमोक्षरतयो जनाः +यदिदं वेदवचनं कुरु कर्म त्यजेति च +तस्माद्धर्मानिमान्सर्वान्नाभिमानात्समाचरेत् +इज्याध्ययनदानानि तपः सत्यं क्षमा दमः +अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः +तत्र पूर्वश्चतुर्वर्गः पितृयानपथे स्थितः +कर्तव्यमिति यत्कार्यं नाभिमानात्समाचरेत् +उत्तरो देवयानस्तु सद्भिराचरितः सदा +अष्टाङ्गेनैव मार्गेण विशुद्धात्मा समाचरेत् +सम्यक्संकल्पसंबन्धात्सम्यक्चेन्द्रियनिग्रहात् +सम्यग्व्रतविशेषाच्च सम्यक्च गुरुसेवनात् +सम्यगाहारयोगाच्च सम्यक्चाध्ययनागमात् +सम्यक्कर्मोपसंन्यासात्सम्यक्चित्तनिरोधनात् +एवं कर्माणि कुर्वन्ति संसारविजिगीषवः +रागद्वेषविनिर्मुक्ता ऐश्वर्यं देवता गताः +रुद्राः साध्यास्तथादित्या वसवोऽथाश्विनावपि +योगैश्वर्येण संयुक्ता धारयन्ति प्रजा इमाः +तथा त्वमपि कौन्तेय शममास्थाय पुष्कलम् +तपसा सिद्धिमन्विच्छ योगसिद्धिं च भारत +पितृमातृमयी सिद्धिः प्राप्ता कर्ममयी च ते +तपसा सिद्धिमन्विच्छ द्विजानां भरणाय वै +सिद्धा हि यद्यदिच्छन्ति कुर्वते तदनुग्रहात् +तस्मात्तपः समास्थाय कुरुष्वात्ममनोरथम् +वैशंपायन उवाच +शौनकेनैवमुक्तस्तु कुन्तीपुत्रो युधिष्ठिरः +पुरोहितमुपागम्य भ्रातृमध्येऽब्रवीदिदम् +प्रस्थितं मानुयान्तीमे ब्राह्मणा वेदपारगाः +न चास्मि पालने शक्तो बहुदुःखसमन्वितः +परित्यक्तुं न शक्नोमि दानशक्तिश्च नास्ति मे +कथमत्र मया कार्यं भगवांस्तद्ब्रवीतु मे +मुहूर्तमिव स ध्यात्वा धर्मेणान्विष्य तां गतिम् +युधिष्ठ��रमुवाचेदं धौम्यो धर्मभृतां वरः +पुरा सृष्टानि भूतानि पीड्यन्ते क्षुधया भृशम् +ततोऽनुकम्पया तेषां सविता स्वपिता इव +गत्वोत्तरायणं तेजोरसानुद्धृत्य रश्मिभिः +दक्षिणायनमावृत्तो महीं निविशते रविः +क्षेत्रभूते ततस्तस्मिन्नोषधीरोषधीपतिः +दिवस्तेजः समुद्धृत्य जनयामास वारिणा +निषिक्तश्चन्द्रतेजोभिः सूयते भूगतो रविः +ओषध्यः षड्रसा मेध्यास्तदन्नं प्राणिनां भुवि +एवं भानुमयं ह्यन्नं भूतानां प्राणधारणम् +पितैष सर्वभूतानां तस्मात्तं शरणं व्रज +राजानो हि महात्मानो योनिकर्मविशोधिताः +उद्धरन्ति प्रजाः सर्वास्तप आस्थाय पुष्कलम् +भीमेन कार्तवीर्येण वैन्येन नहुषेण च +तपोयोगसमाधिस्थैरुद्धृता ह्यापदः प्रजाः +तथा त्वमपि धर्मात्मन्कर्मणा च विशोधितः +तप आस्थाय धर्मेण द्विजातीन्भर भारत +एवमुक्तस्तु धौम्येन तत्कालसदृशं वचः +धर्मराजो विशुद्धात्मा तप आतिष्ठदुत्तमम् +पुष्पोपहारैर्बलिभिरर्चयित्वा दिवाकरम् +योगमास्थाय धर्मात्मा वायुभक्षो जितेन्द्रियः +गाङ्गेयं वार्युपस्पृष्य प्राणायामेन तस्थिवान् +जनमेजय उवाच +कथं कुरूणामृषभः स तु राजा युधिष्ठिरः +विप्रार्थमाराधितवान्सूर्यमद्भुतविक्रमम् +वैशंपायन उवाच +शृणुष्वावहितो राजञ्शुचिर्भूत्वा समाहितः +क्षणं च कुरु राजेन्द्र सर्वं वक्ष्याम्यशेषतः +धौम्येन तु यथ प्रोक्तं पार्थाय सुमहात्मने +नाम्नामष्टशतं पुण्यं तच्छृणुष्व महामते +सूर्योऽर्यमा भगस्त्वष्टा पूषार्कः सविता रविः +गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः +पृथिव्यापश्च तेजश्च खं वायुश्च परायणम् +सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च +इन्द्रो विवस्वान्दीप्तांशुः शुचिः शौरिः शनैश्चरः +ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणो यमः +वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः +धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः +कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः +कला काष्ठा मुहूर्ताश्च पक्षा मासा ऋतुस्तथा +संवत्सरकरोऽश्वत्थः कालचक्रो विभावसुः +पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः +लोकाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः +वरुणः सागरोंऽशुश्च जीमूतो जीवनोऽरिहा +भूताश्रयो भूतपतिः सर्वभूतनिषेवितः +मणिः सुवर्णो भूतादिः कामदः सर्वतोमुखः +जयो विशालो वरदः शीघ्रगः प्रा���धारणः +धन्वन्तरिर्धूमकेतुरादिदेवोऽदितेः सुतः +द्वादशात्मारविन्दाक्षः पिता माता पितामहः +स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् +देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः +चराचरात्मा सूक्ष्मात्मा मैत्रेण वपुषान्वितः +एतद्वै कीर्तनीयस्य सूर्यस्यैव महात्मनः +नाम्नामष्टशतं पुण्यं शक्रेणोक्तं महात्मना +शक्राच्च नारदः प्राप्तो धौम्यश्च तदनन्तरम् +धौम्याद्युधिष्ठिरः प्राप्य सर्वान्कामानवाप्तवान् +सुरपितृगणयक्षसेवितं; ह्यसुरनिशाचरसिद्धवन्दितम् +वरकनकहुताशनप्रभं; त्वमपि मनस्यभिधेहि भास्करम् +सूर्योदये यस्तु समाहितः पठे;त्स पुत्रलाभं धनरत्नसंचयान् +लभेत जातिस्मरतां सदा नरः; स्मृतिं च मेधां च स विन्दते पराम् +इमं स्तवं देववरस्य यो नरः; प्रकीर्तयेच्छुचिसुमनाः समाहितः +स मुच्यते शोकदवाग्निसागरा;ल्लभेत कामान्मनसा यथेप्सितान् +वैशंपायन उवाच +ततो दिवाकरः प्रीतो दर्शयामास पाण्डवम् +दीप्यमानः स्ववपुषा ज्वलन्निव हुताशनः +यत्तेऽभिलषितं राजन्सर्वमेतदवाप्स्यसि +अहमन्नं प्रदास्यामि सप्त पञ्च च ते समाः +फलमूलामिषं शाकं संस्कृतं यन्महानसे +चतुर्विधं तदन्नाद्यमक्षय्यं ते भविष्यति +धनं च विविधं तुभ्यमित्युक्त्वान्तरधीयत +लब्ध्वा वरं तु कौन्तेयो जलादुत्तीर्य धर्मवित् +जग्राह पादौ धौम्यस्य भ्रातॄंश्चास्वजताच्युतः +द्रौपद्या सह संगम्य पश्यमानोऽभ्ययात्प्रभुः +महानसे तदान्नं तु साधयामास पाण्डवः +संस्कृतं प्रसवं याति वन्यमन्नं चतुर्विधम् +अक्षय्यं वर्धते चान्नं तेन भोजयते द्विजान् +भुक्तवत्सु च विप्रेषु भोजयित्वानुजानपि +शेषं विघससंज्ञं तु पश्चाद्भुङ्क्ते युधिष्ठिरः +युधिष्ठिरं भोजयित्वा शेषमश्नाति पार्षती +एवं दिवाकरात्प्राप्य दिवाकरसमद्युतिः +कामान्मनोऽभिलषितान्ब्राह्मणेभ्यो ददौ प्रभुः +पुरोहितपुरोगाश्च तिथिनक्षत्रपर्वसु +यज्ञियार्थाः प्रवर्तन्ते विधिमन्त्रप्रमाणतः +ततः कृतस्वस्त्ययना धौम्येन सह पाण्डवाः +द्विजसंघैः परिवृताः प्रययुः काम्यकं वनम् +वैशंपायन उवाच +वनं प्रविष्टेष्वथ पाण्डवेषु; प्रज्ञाचक्षुस्तप्यमानोऽम्बिकेयः +धर्मात्मानं विदुरमगाधबुद्धिं; सुखासीनो वाक्यमुवाच राजा +प्रज्ञा च ते भार्गवस्येव शुद्धा; धर्मं च त्वं परमं वेत्थ स��क्ष्मम् +समश्च त्वं संमतः कौरवाणां; पथ्यं चैषां मम चैव ब्रवीहि +एवं गते विदुर यदद्य कार्यं; पौराश्चेमे कथमस्मान्भजेरन् +ते चाप्यस्मान्नोद्धरेयुः समूला;न्न कामये तांश्च विनश्यमानान् +विदुर उवाच +त्रिवर्गोऽयं धर्ममूलो नरेन्द्र; राज्यं चेदं धर्ममूलं वदन्ति +धर्मे राजन्वर्तमानः स्वशक्त्या; पुत्रान्सर्वान्पाहि कुन्तीसुतांश्च +स वै धर्मो विप्रलुप्तः सभायां; पापात्मभिः सौबलेयप्रधानैः +आहूय कुन्तीसुतमक्षवत्यां; पराजैषीत्सत्यसंधं सुतस्ते +एतस्य ते दुष्प्रणीतस्य राज;ञ्शेषस्याहं परिपश्याम्युपायम् +यथा पुत्रस्तव कौरव्य पापा;न्मुक्तो लोके प्रतितिष्ठेत साधु +तद्वै सर्वं पाण्डुपुत्रा लभन्तां; यत्तद्राजन्नतिसृष्टं त्वयासीत् +एष धर्मः परमो यत्स्वकेन; राजा तुष्येन्न परस्वेषु गृध्येत् +एतत्कार्यं तव सर्वप्रधानं; तेषां तुष्टिः शकुनेश्चावमानः +एवं शेषं यदि पुत्रेषु ते स्या;देतद्राजंस्त्वरमाणः कुरुष्व +अथैतदेवं न करोषि राज;न्ध्रुवं कुरूणां भविता विनाशः +न हि क्रुद्धो भीमसेनोऽर्जुनो वा; शेषं कुर्याच्छात्रवाणामनीके +येषां योद्धा सव्यसाची कृतास्त्रो; धनुर्येषां गाण्डिवं लोकसारम् +येषां भीमो बाहुशाली च योद्धा; तेषां लोके किं नु न प्राप्यमस्ति +उक्तं पूर्वं जातमात्रे सुते ते; मया यत्ते हितमासीत्तदानीम् +पुत्रं त्यजेममहितं कुलस्ये;त्येतद्राजन्न च तत्त्वं चकर्थ +इदानीं ते हितमुक्तं न चेत्त्वं; कर्तासि राजन्परितप्तासि पश्चात् +यद्येतदेवमनुमन्ता सुतस्ते; संप्रीयमाणः पाण्डवैरेकराज्यम् +तापो न ते वै भविता प्रीतियोगा;त्त्वं चेन्न गृह्णासि सुतं सहायैः +अथापरो भवति हि तं निगृह्य; पाण्डोः पुत्रं प्रकुरुष्वाधिपत्ये +अजातशत्रुर्हि विमुक्तरागो; धर्मेणेमां पृथिवीं शास्तु राजन् +ततो राजन्पार्थिवाः सर्व एव; वैश्या इवास्मानुपतिष्ठन्तु सद्यः +दुर्योधनः शकुनिः सूतपुत्रः; प्रीत्या राजन्पाण्डुपुत्रान्भजन्ताम् +दुःशासनो याचतु भीमसेनं; सभामध्ये द्रुपदस्यात्मजां च +युधिष्ठिरं त्वं परिसान्त्वयस्व; राज्ये चैनं स्थापयस्वाभिपूज्य +त्वया पृष्टः किमहमन्यद्वदेय;मेतत्कृत्वा कृतकृत्योऽसि राजन् +धृतराष्ट्र उवाच +एतद्वाक्यं विदुर यत्ते सभाया;मिह प्रोक्तं पाण्डवान्प्राप्य मां च +हितं तेषामहितं मामकाना;मेतत्सर्वं मम नोपैति चेतः +इदं त्विदानीं कुत एव निश्चितं; तेषामर्थे पाण्डवानां यदात्थ +तेनाद्य मन्ये नासि हितो ममेति; कथं हि पुत्रं पाण्डवार्थे त्यजेयम् +असंशयं तेऽपि ममैव पुत्रा; दुर्योधनस्तु मम देहात्प्रसूतः +स्वं वै देहं परहेतोस्त्यजेति; को नु ब्रूयात्समतामन्ववेक्षन् +स मा जिह्मं विदुर सर्वं ब्रवीषि; मानं च तेऽहमधिकं धारयामि +यथेच्छकं गच्छ वा तिष्ठ वा त्वं; सुसान्त्व्यमानाप्यसती स्त्री जहाति +वैशंपायन उवाच +एतावदुक्त्वा धृतराष्ट्रोऽन्वपद्य;दन्तर्वेश्म सहसोत्थाय राजन् +नेदमस्तीत्यथ विदुरो भाषमाणः; संप्राद्रवद्यत्र पार्था बभूवुः +वैशंपायन उवाच +पाण्डवास्तु वने वासमुद्दिश्य भरतर्षभाः +प्रययुर्जाह्नवीकूलात्कुरुक्षेत्रं सहानुगाः +सरस्वतीदृषद्वत्यौ यमुनां च निषेव्य ते +ययुर्वनेनैव वनं सततं पश्चिमां दिशम् +ततः सरस्वतीकूले समेषु मरुधन्वसु +काम्यकं नाम ददृशुर्वनं मुनिजनप्रियम् +तत्र ते न्यवसन्वीरा वने बहुमृगद्विजे +अन्वास्यमाना मुनिभिः सान्त्व्यमानाश्च भारत +विदुरस्त्वपि पाण्डूनां तदा दर्शनलालसः +जगामैकरथेनैव काम्यकं वनमृद्धिमत् +ततो यात्वा विदुरः काननं त;च्छीघ्रैरश्वैर्वाहिना स्यन्दनेन +ददर्शासीनं धर्मराजं विविक्ते; सार्धं द्रौपद्या भ्रातृभिर्ब्राह्मणैश्च +ततोऽपश्यद्विदुरं तूर्णमारा;दभ्यायान्तं सत्यसंधः स राजा +अथाब्रवीद्भ्रातरं भीमसेनं; किं नु क्षत्ता वक्ष्यति नः समेत्य +कच्चिन्नायं वचनात्सौबलस्य; समाह्वाता देवनायोपयाति +कच्चित्क्षुद्रः शकुनिर्नायुधानि; जेष्यत्यस्मान्पुनरेवाक्षवत्याम् +समाहूतः केनचिदाद्रवेति; नाहं शक्तो भीमसेनापयातुम् +गाण्डीवे वा संशयिते कथंचि;द्राज्यप्राप्तिः संशयिता भवेन्नः +तत उत्थाय विदुरं पाण्डवेयाः; प्रत्यगृह्णन्नृपते सर्व एव +तैः सत्कृतः स च तानाजमीढो; यथोचितं पाण्डुपुत्रान्समेयात् +समाश्वस्तं विदुरं ते नरर्षभा;स्ततोऽपृच्छन्नागमनाय हेतुम् +स चापि तेभ्यो विस्तरतः शशंस; यथावृत्तो धृतराष्ट्रोऽऽम्बिकेयः +विदुर उवाच +अवोचन्मां धृतराष्ट्रोऽनुगुप्त;मजातशत्रो परिगृह्याभिपूज्य +एवं गते समतामभ्युपेत्य; पथ्यं तेषां मम चैव ब्रवीहि +मयाप्युक्तं यत्क्षमं कौरवाणां; हितं पथ्यं धृतराष्ट्रस्य चैव +तद्वै पथ्यं तन्मनो नाभ्युपैति; ततश्चाहं क्षम���न्यन्न मन्ये +परं श्रेयः पाण्डवेया मयोक्तं; न मे तच्च श्रुतवानाम्बिकेयः +यथातुरस्येव हि पथ्यमन्नं; न रोचते स्मास्य तदुच्यमानम् +न श्रेयसे नीयतेऽजातशत्रो; स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा +ब्रुवन्न रुच्यै भरतर्षभस्य; पतिः कुमार्या इव षष्टिवर्षः +ध्रुवं विनाशो नृप कौरवाणां; न वै श्रेयो धृतराष्ट्रः परैति +यथा पर्णे पुष्करस्येव सिक्तं; जलं न तिष्ठेत्पथ्यमुक्तं तथास्मिन् +ततः क्रुद्धो धृतराष्ट्रोऽब्रवीन्मां; यत्र श्रद्धा भारत तत्र याहि +नाहं भूयः कामये त्वां सहायं; महीमिमां पालयितुं पुरं वा +सोऽहं त्यक्तो धृतराष्ट्रेण राजं;स्त्वां शासितुमुपयातस्त्वरावान् +तद्वै सर्वं यन्मयोक्तं सभायां; तद्धार्यतां यत्प्रवक्ष्यामि भूयः +क्लेशैस्तीव्रैर्युज्यमानः सपत्नैः; क्षमां कुर्वन्कालमुपासते यः +सं वर्धयन्स्तोकमिवाग्निमात्मवा;न्स वै भुङ्क्ते पृथिवीमेक एव +यस्याविभक्तं वसु राजन्सहायै;स्तस्य दुःखेऽप्यंशभाजः सहायाः +सहायानामेष संग्रहणेऽभ्युपायः; सहायाप्तौ पृथिवीप्राप्तिमाहुः +सत्यं श्रेष्ठं पाण्डव निष्प्रलापं; तुल्यं चान्नं सह भोज्यं सहायैः +आत्मा चैषामग्रतो नातिवर्ते;देवंवृत्तिर्वर्धते भूमिपालः +युधिष्ठिर उवाच +एवं करिष्यामि यथा ब्रवीषि; परां बुद्धिमुपगम्याप्रमत्तः +यच्चाप्यन्यद्देशकालोपपन्नं; तद्वै वाच्यं तत्करिष्यामि कृत्स्नम् +वैशंपायन उवाच +गते तु विदुरे राजन्नाश्रमं पाण्डवान्प्रति +धृतराष्ट्रो महाप्राज्ञः पर्यतप्यत भारत +स सभाद्वारमागम्य विदुरस्मारमोहितः +समक्षं पार्थिवेन्द्राणां पपाताविष्टचेतनः +स तु लब्ध्वा पुनः संज्ञां समुत्थाय महीतलात् +समीपोपस्थितं राजा संजयं वाक्यमब्रवीत् +भ्राता मम सुहृच्चैव साक्षाद्धर्म इवापरः +तस्य स्मृत्वाद्य सुभृशं हृदयं दीर्यतीव मे +तमानयस्व धर्मज्ञं मम भ्रातरमाशु वै +इति ब्रुवन्स नृपतिः करुणं पर्यदेवयत् +पश्चात्तापाभिसंतप्तो विदुरस्मारकर्शितः +भ्रातृस्नेहादिदं राजन्संजयं वाक्यमब्रवीत् +गच्छ संजय जानीहि भ्रातरं विदुरं मम +यदि जीवति रोषेण मया पापेन निर्धुतः +न हि तेन मम भ्रात्रा सुसूक्ष्ममपि किंचन +व्यलीकं कृतपूर्वं मे प्राज्ञेनामितबुद्धिना +स व्यलीकं कथं प्राप्तो मत्तः परमबुद्धिमान् +न जह्याज्जीवितं प्राज्ञस्तं गच्छानय सं��य +तस्य तद्वचनं श्रुत्वा राज्ञस्तमनुमान्य च +संजयो बाढमित्युक्त्वा प्राद्रवत्काम्यकं वनम् +सोऽचिरेण समासाद्य तद्वनं यत्र पाण्डवाः +रौरवाजिनसंवीतं ददर्शाथ युधिष्ठिरम् +विदुरेण सहासीनं ब्राह्मणैश्च सहस्रशः +भ्रातृभिश्चाभिसंगुप्तं देवैरिव शतक्रतुम् +युधिष्ठिरमथाभ्येत्य पूजयामास संजयः +भीमार्जुनयमांश्चापि तदर्हं प्रत्यपद्यत +राज्ञा पृष्टः स कुशलं सुखासीनश्च संजयः +शशंसागमने हेतुमिदं चैवाब्रवीद्वचः +राजा स्मरति ते क्षत्तर्धृतराष्ट्रोऽम्बिकासुतः +तं पश्य गत्वा त्वं क्षिप्रं संजीवय च पार्थिवम् +सोऽनुमान्य नरश्रेष्ठान्पाण्डवान्कुरुनन्दनान् +नियोगाद्राजसिंहस्य गन्तुमर्हसि मानद +एवमुक्तस्तु विदुरो धीमान्स्वजनवत्सलः +युधिष्ठिरस्यानुमते पुनरायाद्गजाह्वयम् +तमब्रवीन्महाप्राज्ञं धृतराष्ट्रः प्रतापवान् +दिष्ट्या प्राप्तोऽसि धर्मज्ञ दिष्ट्या स्मरसि मेऽनघ +अद्य रात्रौ दिवा चाहं त्वत्कृते भरतर्षभ +प्रजागरे प्रपश्यामि विचित्रं देहमात्मनः +सोऽङ्कमादाय विदुरं मूर्ध्न्युपाघ्राय चैव ह +क्षम्यतामिति चोवाच यदुक्तोऽसि मया रुषा +विदुर उवाच +क्षान्तमेव मया राजन्गुरुर्नः परमो भवान् +तथा ह्यस्म्यागतः क्षिप्रं त्वद्दर्शनपरायणः +भवन्ति हि नरव्याघ्र पुरुषा धर्मचेतसः +दीनाभिपातिनो राजन्नात्र कार्या विचारणा +पाण्डोः सुता यादृशा मे तादृशा मे सुतास्तव +दीना इति हि मे बुद्धिरभिपन्नाद्य तान्प्रति +वैशंपायन उवाच +अन्योन्यमनुनीयैवं भ्रातरौ तौ महाद्युती +विदुरो धृतराष्ट्रश्च लेभाते परमां मुदम् +वैशंपायन उवाच +श्रुत्वा च विदुरं प्राप्तं राज्ञा च परिसान्त्वितम् +धृतराष्ट्रात्मजो राजा पर्यतप्यत दुर्मतिः +स सौबलं समानाय्य कर्णदुःशासनावपि +अब्रवीद्वचनं राजा प्रविश्याबुद्धिजं तमः +एष प्रत्यागतो मन्त्री धृतराष्ट्रस्य संमतः +विदुरः पाण्डुपुत्राणां सुहृद्विद्वान्हिते रतः +यावदस्य पुनर्बुद्धिं विदुरो नापकर्षति +पाण्डवानयने तावन्मन्त्रयध्वं हितं मम +अथ पश्याम्यहं पार्थान्प्राप्तानिह कथंचन +पुनः शोषं गमिष्यामि निरासुर्निरवग्रहः +विषमुद्बन्धनं वापि शस्त्रमग्निप्रवेशनम् +करिष्ये न हि तानृद्धान्पुनर्द्रष्टुमिहोत्सहे +शकुनिरुवाच +किं बालिषां मतिं राजन्नास्थितोऽसि विशां पते +गता���्ते समयं कृत्वा नैतदेवं भविष्यति +सत्यवाक्ये स्थिताः सर्वे पाण्डवा भरतर्षभ +पितुस्ते वचनं तात न ग्रहीष्यन्ति कर्हिचित् +अथ वा ते ग्रहीष्यन्ति पुनरेष्यन्ति वा पुरम् +निरस्य समयं भूयः पणोऽस्माकं भविष्यति +सर्वे भवामो मध्यस्था राज्ञश्छन्दानुवर्तिनः +छिद्रं बहु प्रपश्यन्तः पाण्डवानां सुसंवृताः +दुःशासन उवाच +एवमेतन्महाप्राज्ञ यथा वदसि मातुल +नित्यं हि मे कथयतस्तव बुद्धिर्हि रोचते +कर्ण उवाच +काममीक्षामहे सर्वे दुर्योधन तवेप्सितम् +ऐकमत्यं हि नो राजन्सर्वेषामेव लक्ष्यते +वैशंपायन उवाच +एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा +नातिहृष्टमनाः क्षिप्रमभवत्स पराङ्मुखः +उपलभ्य ततः कर्णो विवृत्य नयने शुभे +रोषाद्दुःशासनं चैव सौबलेयं च तावुभौ +उवाच परमक्रुद्ध उद्यम्यात्मानमात्मना +अहो मम मतं यत्तन्निबोधत नराधिपाः +प्रियं सर्वे चिकीर्षामो राज्ञः किंकरपाणयः +न चास्य शक्नुमः सर्वे प्रिये स्थातुमतन्द्रिताः +वयं तु शस्त्राण्यादाय रथानास्थाय दंशिताः +गच्छामः सहिता हन्तुं पाण्डवान्वनगोचरान् +तेषु सर्वेषु शान्तेषु गतेष्वविदितां गतिम् +निर्विवादा भविष्यन्ति धार्तराष्ट्रास्तथा वयम् +यावदेव परिद्यूना यावच्छोकपरायणाः +यावन्मित्रविहीनाश्च तावच्छक्या मतं मम +तस्य तद्वचनं श्रुत्वा पूजयन्तः पुनः पुनः +बाढमित्येव ते सर्वे प्रत्यूचुः सूतजं तदा +एवमुक्त्वा तु संक्रुद्धा रथैः सर्वे पृथक्पृथक् +निर्ययुः पाण्डवान्हन्तुं संघशः कृतनिश्चयाः +तान्प्रस्थितान्परिज्ञाय कृष्णद्वैपायनस्तदा +आजगाम विशुद्धात्मा दृष्ट्वा दिव्येन चक्षुषा +प्रतिषिध्याथ तान्सर्वान्भगवाँल्लोकपूजितः +प्रज्ञाचक्षुषमासीनमुवाचाभ्येत्य सत्वरः +व्यास उवाच +धृतराष्ट्र महाप्राज्ञ निबोध वचनं मम +वक्ष्यामि त्वा कौरवाणां सर्वेषां हितमुत्तमम् +न मे प्रियं महाबाहो यद्गताः पाण्डवा वनम् +निकृत्या निर्जिताश्चैव दुर्योधनवशानुगैः +ते स्मरन्तः परिक्लेशान्वर्षे पूर्णे त्रयोदशे +विमोक्ष्यन्ति विषं क्रुद्धाः कौरवेयेषु भारत +तदयं किं नु पापात्मा तव पुत्रः सुमन्दधीः +पाण्डवान्नित्यसंक्रुद्धो राज्यहेतोर्जिघांसति +वार्यतां साध्वयं मूढः शमं गच्छतु ते सुतः +वनस्थांस्तानयं हन्तुमिच्छन्प्राणैर्विमोक्ष्यते +यथाह विदुरः प्राज्ञो ��था भीष्मो यथा वयम् +यथा कृपश्च द्रोणश्च तथा साधु विधीयताम् +विग्रहो हि महाप्राज्ञ स्वजनेन विगर्हितः +अधर्म्यमयशस्यं च मा राजन्प्रतिपद्यथाः +समीक्षा यादृशी ह्यस्य पाण्डवान्प्रति भारत +उपेक्ष्यमाणा सा राजन्महान्तमनयं स्पृशेत् +अथ वायं सुमन्दात्मा वनं गच्छतु ते सुतः +पाण्डवैः सहितो राजन्नेक एवासहायवान् +ततः संसर्गजः स्नेहः पुत्रस्य तव पाण्डवैः +यदि स्यात्कृतकार्योऽद्य भवेस्त्वं मनुजेश्वर +अथ वा जायमानस्य यच्छीलमनुजायते +श्रूयते तन्महाराज नामृतस्यापसर्पति +कथं वा मन्यते भीष्मो द्रोणो वा विदुरोऽपि वा +भवान्वात्र क्षमं कार्यं पुरा चार्थोऽतिवर्तते +धृतराष्ट्र उवाच +भगवन्नाहमप्येतद्रोचये द्यूतसंस्तवम् +मन्ये तद्विधिनाक्रम्य कारितोऽस्मीति वै मुने +नैतद्रोचयते भीष्मो न द्रोणो विदुरो न च +गान्धारी नेच्छति द्यूतं तच्च मोहात्प्रवर्तितम् +परित्यक्तुं न शक्नोमि दुर्योधनमचेतनम् +पुत्रस्नेहेन भगवञ्जानन्नपि यतव्रत +व्यास उवाच +वैचित्रवीर्य नृपते सत्यमाह यथा भवान् +दृढं वेद्मि परं पुत्रं परं पुत्रान्न विद्यते +इन्द्रोऽप्यश्रुनिपातेन सुरभ्या प्रतिबोधितः +अन्यैः समृद्धैरप्यर्थैर्न सुताद्विद्यते परम् +अत्र ते वर्तयिष्यामि महदाख्यानमुत्तमम् +सुरभ्याश्चैव संवादमिन्द्रस्य च विशां पते +त्रिविष्टपगता राजन्सुरभिः प्रारुदत्किल +गवां मात पुरा तात तामिन्द्रोऽन्वकृपायत +इन्द्र उवाच +किमिदं रोदिषि शुभे कच्चित्क्षेमं दिवौकसाम् +मानुषेष्वथ वा गोषु नैतदल्पं भविष्यति +सुरभिरुवाच +विनिपातो न वः कश्चिद्दृश्यते त्रिदशाधिप +अहं तु पुत्रं शोचामि तेन रोदिमि कौशिक +पश्यैनं कर्षकं रौद्रं दुर्बलं मम पुत्रकम् +प्रतोदेनाभिनिघ्नन्तं लाङ्गलेन निपीडितम् +एतं दृष्ट्वा भृशं श्रान्तं वध्यमानं सुराधिप +कृपाविष्टास्मि देवेन्द्र मनश्चोद्विजते मम +एकस्तत्र बलोपेतो धुरमुद्वहतेऽधिकाम् +अपरोऽल्पबलप्राणः कृशो धमनिसंततः +कृच्छ्रादुद्वहते भारं तं वै शोचामि वासव +वध्यमानः प्रतोदेन तुद्यमानः पुनः पुनः +नैव शक्नोति तं भारमुद्वोढुं पश्य वासव +ततोऽहं तस्य दुःखार्ता विरौमि भृशदुःखिता +अश्रूण्यावर्तयन्ती च नेत्राभ्यां करुणायती +इन्द्र उवाच +तव पुत्रसहस्रेषु पीड्यमानेषु शोभने +किं कृपायितमस्त्यत्र पुत्र एकोऽ���्र पीड्यते +सुरभिरुवाच +यदि पुत्रसहस्रं मे सर्वत्र सममेव मे +दीनस्य तु सतः शक्र पुत्रस्याभ्यधिका कृपा +व्यास उवाच +तदिन्द्रः सुरभीवाक्यं निशम्य भृशविस्मितः +जीवितेनापि कौरव्य मेनेऽभ्यधिकमात्मजम् +प्रववर्ष च तत्रैव सहसा तोयमुल्बणम् +कर्षकस्याचरन्विघ्नं भगवान्पाकशासनः +तद्यथा सुरभिः प्राह सममेवास्तु ते तथा +सुतेषु राजन्सर्वेषु दीनेष्वभ्यधिका कृपा +यादृशो मे सुतः पण्डुस्तादृशो मेऽसि पुत्रक +विदुरश्च महाप्राज्ञः स्नेहादेतद्ब्रवीम्यहम् +चिराय तव पुत्राणां शतमेकश्च पार्थिव +पाण्डोः पञ्चैव लक्ष्यन्ते तेऽपि मन्दाः सुदुःखिताः +कथं जीवेयुरत्यन्तं कथं वर्धेयुरित्यपि +इति दीनेषु पार्थेषु मनो मे परितप्यते +यदि पार्थिव कौरव्याञ्जीवमानानिहेच्छसि +दुर्योधनस्तव सुतः शमं गच्छतु पाण्डवैः +धृतराष्ट्र उवाच +एवमेतन्महाप्राज्ञ यथा वदसि नो मुने +अहं चैव विजानामि सर्वे चेमे नराधिपाः +भवांस्तु मन्यते साधु यत्कुरूणां सुखोदयम् +तदेव विदुरोऽप्याह भीष्मो द्रोणश्च मां मुने +यदि त्वहमनुग्राह्यः कौरवेषु दया यदि +अनुशाधि दुरात्मानं पुत्रं दुर्योधनं मम +व्यास उवाच +अयमायाति वै राजन्मैत्रेयो भगवानृषिः +अन्वीय पाण्डवान्भ्रातॄनिहैवास्मद्दिदृक्षया +एष दुर्योधनं पुत्रं तव राजन्महानृषिः +अनुशास्ता यथान्यायं शमायास्य कुलस्य ते +ब्रूयाद्यदेष राजेन्द्र तत्कार्यमविशङ्कया +अक्रियायां हि कार्यस्य पुत्रं ते शप्स्यते रुषा +वैशंपायन उवाच +एवमुक्त्वा ययौ व्यासो मैत्रेयः प्रत्यदृश्यत +पूजया प्रतिजग्राह सपुत्रस्तं नराधिपः +दत्त्वार्घ्याद्याः क्रियाः सर्वा विश्रान्तं मुनिपुंगवम् +प्रश्रयेणाब्रवीद्राजा धृतराष्ट्रोऽम्बिकासुतः +सुखेनागमनं कच्चिद्भगवन्कुरुजाङ्गले +कच्चित्कुशलिनो वीरा भ्रातरः पञ्च पाण्डवाः +समये स्थातुमिच्छन्ति कच्चिच्च पुरुषर्षभाः +कच्चित्कुरूणां सौभ्रात्रमव्युच्छिन्नं भविष्यति +मैत्रेय उवाच +तीर्थयात्रामनुक्रामन्प्राप्तोऽस्मि कुरुजाङ्गलम् +यदृच्छया धर्मराजं दृष्टवान्काम्यके वने +तं जटाजिनसंवीतं तपोवननिवासिनम् +समाजग्मुर्महात्मानं द्रष्टुं मुनिगणाः प्रभो +तत्राश्रौषं महाराज पुत्राणां तव विभ्रमम् +अनयं द्यूतरूपेण महापायमुपस्थितम् +ततोऽहं त्वामनुप्राप्तः कौरवाणामवे���्षया +सदा ह्यभ्यधिकः स्नेहः प्रीतिश्च त्वयि मे प्रभो +नैतदौपयिकं राजंस्त्वयि भीष्मे च जीवति +यदन्योन्येन ते पुत्रा विरुध्यन्ते नराधिप +मेढीभूतः स्वयं राजन्निग्रहे प्रग्रहे भवान् +किमर्थमनयं घोरमुत्पतन्तमुपेक्षसे +दस्यूनामिव यद्वृत्तं सभायां कुरुनन्दन +तेन न भ्राजसे राजंस्तापसानां समागमे +वैशंपायन उवाच +ततो व्यावृत्य राजानं दुर्योधनममर्षणम् +उवाच श्लक्ष्णया वाचा मैत्रेयो भगवानृषिः +दुर्योधन महाबाहो निबोध वदतां वर +वचनं मे महाप्राज्ञ ब्रुवतो यद्धितं तव +मा द्रुहः पाण्डवान्राजन्कुरुष्व हितमात्मनः +पाण्डवानां कुरूणां च लोकस्य च नरर्षभ +ते हि सर्वे नरव्याघ्राः शूरा विक्रान्तयोधिनः +सर्वे नागायुतप्राणा वज्रसंहनना दृढाः +सत्यव्रतपराः सर्वे सर्वे पुरुषमानिनः +हन्तारो देवशत्रूणां रक्षसां कामरूपिणाम् +हिडिम्बबकमुख्यानां किर्मीरस्य च रक्षसः +इतः प्रच्यवतां रात्रौ यः स तेषां महात्मनाम् +आवृत्य मार्गं रौद्रात्मा तस्थौ गिरिरिवाचलः +तं भीमः समरश्लाघी बलेन बलिनां वरः +जघान पशुमारेण व्याघ्रः क्षुद्रमृगं यथा +पश्य दिग्विजये राजन्यथा भीमेन पातितः +जरासंधो महेष्वासो नागायुतबलो युधि +संबन्धी वासुदेवश्च येषां श्यालश्च पार्षतः +कस्तान्युधि समासीत जरामरणवान्नरः +तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ +कुरु मे वचनं राजन्मा मृत्युवशमन्वगाः +एवं तु ब्रुवतस्तस्य मैत्रेयस्य विशां पते +ऊरुं गजकराकारं करेणाभिजघान सः +दुर्योधनः स्मितं कृत्वा चरणेनालिखन्महीम् +न किंचिदुक्त्वा दुर्मेधास्तस्थौ किंचिदवाङ्मुखः +तमशुश्रूषमाणं तु विलिखन्तं वसुंधराम् +दृष्ट्वा दुर्योधनं राजन्मैत्रेयं कोप आविशत् +स कोपवशमापन्नो मैत्रेयो मुनिसत्तमः +विधिना संप्रयुक्तश्च शापायास्य मनो दधे +ततः स वार्युपस्पृश्य कोपसंरक्तलोचनः +मैत्रेयो धार्तराष्ट्रं तमशपद्दुष्टचेतसम् +यस्मात्त्वं मामनादृत्य नेमां वाचं चिकीर्षसि +तस्मादस्याभिमानस्य सद्यः फलमवाप्नुहि +त्वदभिद्रोहसंयुक्तं युद्धमुत्पत्स्यते महत् +यत्र भीमो गदापातैस्तवोरुं भेत्स्यते बली +इत्येवमुक्ते वचने धृतराष्ट्रो महीपतिः +प्रसादयामास मुनिं नैतदेवं भवेदिति +मैत्रेय उवाच +शमं यास्यति चेत्पुत्रस्तव राजन्यथा तथा +शापो न भविता तात विपरीते भविष्यति +वैशंप��यन उवाच +स विलक्षस्तु राजेन्द्र दुर्योधनपिता तदा +मैत्रेयं प्राह किर्मीरः कथं भीमेन पातितः +मैत्रेय उवाच +नाहं वक्ष्याम्यसूया ते न ते शुश्रूषते सुतः +एष ते विदुरः सर्वमाख्यास्यति गते मयि +वैशंपायन उवाच +इत्येवमुक्त्वा मैत्रेयः प्रातिष्ठत यथागतम् +किर्मीरवधसंविग्नो बहिर्दुर्योधनोऽगमत् +धृतराष्ट्र उवाच +किर्मीरस्य वधं क्षत्तः श्रोतुमिच्छामि कथ्यताम् +रक्षसा भीमसेनस्य कथमासीत्समागमः +विदुर उवाच +शृणु भीमस्य कर्मेदमतिमानुषकर्मणः +श्रुतपूर्वं मया तेषां कथान्तेषु पुनः पुनः +इतः प्रयाता राजेन्द्र पाण्डवा द्यूतनिर्जिताः +जग्मुस्त्रिभिरहोरात्रैः काम्यकं नाम तद्वनम् +रात्रौ निशीथे स्वाभीले गतेऽर्धसमये नृप +प्रचारे पुरुषादानां रक्षसां भीमकर्मणाम् +तद्वनं तापसा नित्यं शेषाश्च वनचारिणः +दूरात्परिहरन्ति स्म पुरुषादभयात्किल +तेषां प्रविशतां तत्र मार्गमावृत्य भारत +दीप्ताक्षं भीषणं रक्षः सोल्मुकं प्रत्यदृश्यत +बाहू महान्तौ कृत्वा तु तथास्यं च भयानकम् +स्थितमावृत्य पन्थानं येन यान्ति कुरूद्वहाः +दष्टोष्ठदंष्ट्रं ताम्राक्षं प्रदीप्तोर्ध्वशिरोरुहम् +सार्करश्मितडिच्चक्रं सबलाकमिवाम्बुदम् +सृजन्तं राक्षसीं मायां महारावविराविणम् +मुञ्चन्तं विपुलं नादं सतोयमिव तोयदम् +तस्य नादेन संत्रस्ताः पक्षिणः सर्वतोदिशम् +विमुक्तनादाः संपेतुः स्थलजा जलजैः सह +संप्रद्रुतमृगद्वीपिमहिषर्क्षसमाकुलम् +तद्वनं तस्य नादेन संप्रस्थितमिवाभवत् +तस्योरुवाताभिहता ताम्रपल्लवबाहवः +विदूरजाताश्च लताः समाश्लिष्यन्त पादपान् +तस्मिन्क्षणेऽथ प्रववौ मारुतो भृशदारुणः +रजसा संवृतं तेन नष्टर्क्षमभवन्नभः +पञ्चानां पाण्डुपुत्राणामविज्ञातो महारिपुः +पञ्चानामिन्द्रियाणां तु शोकवेग इवातुलः +स दृष्ट्वा पाण्डवान्दूरात्कृष्णाजिनसमावृतान् +आवृणोत्तद्वनद्वारं मैनाक इव पर्वतः +तं समासाद्य वित्रस्ता कृष्णा कमललोचना +अदृष्टपूर्वं संत्रासान्न्यमीलयत लोचने +दुःशासनकरोत्सृष्टविप्रकीर्णशिरोरुहा +पञ्चपर्वतमध्यस्था नदीवाकुलतां गता +मोमुह्यमानां तां तत्र जगृहुः पञ्च पाण्डवाः +इन्द्रियाणि प्रसक्तानि विषयेषु यथा रतिम् +अथ तां राक्षसीं मायामुत्थितां घोरदर्शनाम् +रक्षोघ्नैर्विविधैर्मन्त्रैर्धौम्यः स��्यक्प्रयोजितैः +पश्यतां पाण्डुपुत्राणां नाशयामास वीर्यवान् +स नष्टमायोऽतिबलः क्रोधविस्फारितेक्षणः +काममूर्तिधरः क्षुद्रः कालकल्पो व्यदृश्यत +तमुवाच ततो राजा दीर्घप्रज्ञो युधिष्ठिरः +को भवान्कस्य वा किं ते क्रियतां कार्यमुच्यताम् +प्रत्युवाचाथ तद्रक्षो धर्मराजं युधिष्ठिरम् +अहं बकस्य वै भ्राता किर्मीर इति विश्रुतः +वनेऽस्मिन्काम्यके शून्ये निवसामि गतज्वरः +युधि निर्जित्य पुरुषानाहारं नित्यमाचरन् +के यूयमिह संप्राप्ता भक्ष्यभूता ममान्तिकम् +युधि निर्जित्य वः सर्वान्भक्षयिष्ये गतज्वरः +युधिष्ठिरस्तु तच्छ्रुत्वा वचस्तस्य दुरात्मनः +आचचक्षे ततः सर्वं गोत्रनामादि भारत +पाण्डवो धर्मराजोऽहं यदि ते श्रोत्रमागतः +सहितो भ्रातृभिः सर्वैर्भीमसेनार्जुनादिभिः +हृतराज्यो वने वासं वस्तुं कृतमतिस्ततः +वनमभ्यागतो घोरमिदं तव परिग्रहम् +किर्मीरस्त्वब्रवीदेनं दिष्ट्या देवैरिदं मम +उपपादितमद्येह चिरकालान्मनोगतम् +भीमसेनवधार्थं हि नित्यमभ्युद्यतायुधः +चरामि पृथिवीं कृत्स्नां नैनमासादयाम्यहम् +सोऽयमासादितो दिष्ट्या भ्रातृहा काङ्क्षितश्चिरम् +अनेन हि मम भ्राता बको विनिहतः प्रियः +वेत्रकीयगृहे राजन्ब्राह्मणच्छद्मरूपिणा +विद्याबलमुपाश्रित्य न ह्यस्त्यस्यौरसं बलम् +हिडिम्बश्च सखा मह्यं दयितो वनगोचरः +हतो दुरात्मनानेन स्वसा चास्य हृता पुरा +सोऽयमभ्यागतो मूढो ममेदं गहनं वनम् +प्रचारसमयेऽस्माकमर्धरात्रे समास्थिते +अद्यास्य यातयिष्यामि तद्वैरं चिरसंभृतम् +तर्पयिष्यामि च बकं रुधिरेणास्य भूरिणा +अद्याहमनृणो भूत्वा भ्रातुः सख्युस्तथैव च +शान्तिं लब्धास्मि परमां हत्व राक्षसकण्टकम् +यदि तेन पुरा मुक्तो भीमसेनो बकेन वै +अद्यैनं भक्षयिष्यामि पश्यतस्ते युधिष्ठिर +एनं हि विपुलप्राणमद्य हत्वा वृकोदरम् +संभक्ष्य जरयिष्यामि यथागस्त्यो महासुरम् +एवमुक्तस्तु धर्मात्मा सत्यसंधो युधिष्ठिरः +नैतदस्तीति सक्रोधो भर्त्सयामास राक्षसम् +ततो भीमो महाबाहुरारुज्य तरसा द्रुम +दशव्याममिवोद्विद्धं निष्पत्रमकरोत्तदा +चकार सज्यं गाण्डीवं वज्रनिष्पेषगौरवम् +निमेषान्तरमात्रेण तथैव विजयोऽर्जुनः +निवार्य भीमो जिष्णुं तु तद्रक्षो घोरदर्शनम् +अभिद्रुत्याब्रवीद्वाक्यं तिष्ठ तिष्ठेति भारत +इ��्युक्त्वैनमभिक्रुद्धः कक्ष्यामुत्पीड्य पाण्डवः +निष्पिष्य पाणिना पाणिं संदष्टोष्ठपुटो बली +तमभ्यधावद्वेगेन भीमो वृक्षायुधस्तदा +यमदण्डप्रतीकाशं ततस्तं तस्य मूर्धनि +पातयामास वेगेन कुलिशं मघवानिव +असंभ्रान्तं तु तद्रक्षः समरे प्रत्यदृश्यत +चिक्षेप चोल्मुकं दीप्तमशनिं ज्वलितामिव +तदुदस्तमलातं तु भीमः प्रहरतां वरः +पदा सव्येन चिक्षेप तद्रक्षः पुनराव्रजत् +किर्मीरश्चापि सहसा वृक्षमुत्पाट्य पाण्डवम् +दण्डपाणिरिव क्रुद्धः समरे प्रत्ययुध्यत +तद्वृक्षयुद्धमभवन्महीरुहविनाशनम् +वालिसुग्रीवयोर्भ्रात्रोर्यथा श्रीकाङ्क्षिणोः पुरा +शीर्षयोः पतिता वृक्षा बिभिदुर्नैकधा तयोः +यथैवोत्पलपद्मानि मत्तयोर्द्विपयोस्तथा +मुञ्जवज्जर्जरीभूता बहवस्तत्र पादपाः +चीराणीव व्युदस्तानि रेजुस्तत्र महावने +तद्वृक्षयुद्धमभवत्सुमुहूर्तं विशां पते +राक्षसानां च मुख्यस्य नराणामुत्तमस्य च +ततः शिलां समुत्क्षिप्य भीमस्य युधि तिष्ठतः +प्राहिणोद्राक्षसः क्रुद्धो भीमसेनश्चचाल ह +तं शिलाताडनजडं पर्यधावत्स राक्षसः +बाहुविक्षिप्तकिरणः स्वर्भानुरिव भास्करम् +तावन्योन्यं समाश्लिष्य प्रकर्षन्तौ परस्परम् +उभावपि चकाशेते प्रयुद्धौ वृषभाविव +तयोरासीत्सुतुमुलः संप्रहारः सुदारुणः +नखदंष्ट्रायुधवतोर्व्याघ्रयोरिव दृप्तयोः +दुर्योधननिकाराच्च बाहुवीर्याच्च दर्पितः +कृष्णानयनदृष्टश्च व्यवर्धत वृकोदरः +अभिपत्याथ बाहुभ्यां प्रत्यगृह्णादमर्षितः +मातङ्ग इव मातङ्गं प्रभिन्नकरटामुखः +तं चाप्याथ ततो रक्षः प्रतिजग्राह वीर्यवान् +तमाक्षिपद्भीमसेनो बलेन बलिनां वरः +तयोर्भुजविनिष्पेषादुभयोर्बलिनोस्तदा +शब्दः समभवद्घोरो वेणुस्फोटसमो युधि +अथैनमाक्षिप्य बलाद्गृह्य मध्ये वृकोदरः +धूनयामास वेगेन वायुश्चण्ड इव द्रुमम् +स भीमेन परामृष्टो दुर्बलो बलिना रणे +व्यस्पन्दत यथाप्राणं विचकर्ष च पाण्डवम् +तत एनं परिश्रान्तमुपलभ्य वृकोदरः +योक्त्रयामास बाहुभ्यां पशुं रशनया यथा +विनदन्तं महानादं भिन्नभेरीसमस्वनम् +भ्रामयामास सुचिरं विस्फुरन्तमचेतसम् +तं विषीदन्तमाज्ञाय राक्षसं पाण्डुनन्दनः +प्रगृह्य तरसा दोर्भ्यां पशुमारममारयत् +आक्रम्य स कटीदेशे जानुना राक्षसाधमम् +अपीडयत बाहुभ्यां कण्ठं तस्य वृकोदरः +अथ तं जडसर्वाङ्गं व्यावृत्तनयनोल्बणम् +भूतले पातयामास वाक्यं चेदमुवाच ह +हिडिम्बबकयोः पाप न त्वमश्रुप्रमार्जनम् +करिष्यसि गतश्चासि यमस्य सदनं प्रति +इत्येवमुक्त्वा पुरुषप्रवीर;स्तं राक्षसं क्रोधविवृत्तनेत्रः +प्रस्रस्तवस्त्राभरणं स्फुरन्त;मुद्भ्रान्तचित्तं व्यसुमुत्ससर्ज +तस्मिन्हते तोयदतुल्यरूपे; कृष्णां पुरस्कृत्य नरेन्द्रपुत्राः +भीमं प्रशस्याथ गुणैरनेकै;र्हृष्टास्ततो द्वैतवनाय जग्मुः +एवं विनिहतः संख्ये किर्मीरो मनुजाधिप +भीमेन वचनात्तस्य धर्मराजस्य कौरव +ततो निष्कण्टकं कृत्वा वनं तदपराजितः +द्रौपद्या सह धर्मज्ञो वसतिं तामुवास ह +समाश्वास्य च ते सर्वे द्रौपदीं भरतर्षभाः +प्रहृष्टमनसः प्रीत्या प्रशशंसुर्वृकोदरम् +भीमबाहुबलोत्पिष्टे विनष्टे राक्षसे ततः +विविशुस्तद्वनं वीराः क्षेमं निहतकण्टकम् +स मया गच्छता मार्गे विनिकीर्णो भयावहः +वने महति दुष्टात्मा दृष्टो भीमबलाद्धतः +तत्राश्रौषमहं चैतत्कर्म भीमस्य भारत +ब्राह्मणानां कथयतां ये तत्रासन्समागताः +वैशंपायन उवाच +एवं विनिहतं संख्ये किर्मीरं राक्षसोत्तमम् +श्रुत्वा ध्यानपरो राजा निशश्वासार्तवत्तदा +वैशंपायन उवाच +भोजाः प्रव्रजिताञ्श्रुत्वा वृष्णयश्चान्धकैः सह +पाण्डवान्दुःखसंतप्तान्समाजग्मुर्महावने +पाञ्चालस्य च दायादा धृष्टकेतुश्च चेदिपः +केकयाश्च महावीर्या भ्रातरो लोकविश्रुताः +वने तेऽभिययुः पार्थान्क्रोधामर्शसमन्विताः +गर्हयन्तो धार्तराष्ट्रान्किं कुर्म इति चाब्रुवन् +वासुदेवं पुरस्कृत्य सर्वे ते क्षत्रियर्षभाः +परिवार्योपविविशुर्धर्मराजं युधिष्ठिरम् +वासुदेव उवाच +दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः +दुःशासनचतुर्थानां भूमिः पास्यति शोणितम् +ततः सर्वेऽभिषिञ्चामो धर्मराजं युधिष्ठिरम् +निकृत्योपचरन्वध्य एष धर्मः सनातनः +वैशंपायन उवाच +पार्थानामभिषङ्गेण तथा क्रुद्धं जनार्दनम् +अर्जुनः शमयामासा दिधक्षन्तमिव प्रजाः +संक्रुद्धं केशवं दृष्ट्वा पूर्वदेहेषु फल्गुनः +कीर्तयामास कर्माणि सत्यकीर्तेर्महात्मनः +पुरुषस्याप्रमेयस्य सत्यस्यामिततेजसः +प्रजापतिपतेर्विष्णोर्लोकनाथस्य धीमतः +अर्जुन उवाच +दश वर्षसहस्राणि यत्रसायंगृहो मुनिः +व्यचरस्त्वं पुरा कृष्ण पर्वते गन्धमाद��े +दश वर्षसहस्राणि दश वर्षशतानि च +पुष्करेष्ववसः कृष्ण त्वमपो भक्षयन्पुरा +ऊर्ध्वबाहुर्विशालायां बदर्यां मधुसूदन +अतिष्ठ एकपादेन वायुभक्षः शतं समाः +अपकृष्टोत्तरासङ्गः कृशो धमनिसंततः +आसीः कृष्ण सरस्वत्यां सत्रे द्वादशवार्षिके +प्रभासं चाप्यथासाद्य तीर्थं पुण्यजनोचितम् +तथा कृष्ण महातेजा दिव्यं वर्षसहस्रकम् +आतिष्ठस्तप एकेन पादेन नियमे स्थितः +क्षेत्रज्ञः सर्वभूतानामादिरन्तश्च केशव +निधानं तपसां कृष्ण यज्ञस्त्वं च सनातनः +निहत्य नरकं भौममाहृत्य मणिकुण्डले +प्रथमोत्पादितं कृष्ण मेध्यमश्वमवासृजः +कृत्वा तत्कर्म लोकानामृषभः सर्वलोकजित् +अवधीस्त्वं रणे सर्वान्समेतान्दैत्यदानवान् +ततः सर्वेश्वरत्वं च संप्रदाय शचीपतेः +मानुषेषु महाबाहो प्रादुर्भूतोऽसि केशव +स त्वं नारायणो भूत्वा हरिरासीः परंतप +ब्रह्मा सोमश्च सूर्यश्च धर्मो धाता यमोऽनलः +वायुर्वैश्रवणो रुद्रः कालः खं पृथिवी दिशः +अजश्चराचरगुरुः स्रष्टा त्वं पुरुषोत्तम +तुरायणादिभिर्देव क्रतुभिर्भूरिदक्षिणैः +अयजो भूरितेजा वै कृष्ण चैत्ररथे वने +शतं शतसहस्राणि सुवर्णस्य जनार्दन +एकैकस्मिंस्तदा यज्ञे परिपूर्णानि भागशः +अदितेरपि पुत्रत्वमेत्य यादवनन्दन +त्वं विष्णुरिति विख्यात इन्द्रादवरजो भुवि +शिशुर्भूत्वा दिवं खं च पृथिवीं च परंतप +त्रिभिर्विक्रमणैः कृष्ण क्रान्तवानसि तेजसा +संप्राप्य दिवमाकाशमादित्यसदने स्थितः +अत्यरोचश्च भूतात्मन्भास्करं स्वेन तेजसा +सादिता मौरवाः पाशा निसुन्दनरकौ हतौ +कृतः क्षेमः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति +जारूथ्यामाहुतिः क्राथः शिशुपालो जनैः सह +भीमसेनश्च शैब्यश्च शतधन्वा च निर्जितः +तथा पर्जन्यघोषेण रथेनादित्यवर्चसा +अवाक्षीर्महिषीं भोज्यां रणे निर्जित्य रुक्मिणम् +इन्द्रद्युम्नो हतः कोपाद्यवनश्च कशेरुमान् +हतः सौभपतिः शाल्वस्त्वया सौभं च पातितम् +इरावत्यां तथा भोजः कार्तवीर्यसमो युधि +गोपतिस्तालकेतुश्च त्वया विनिहतावुभौ +तां च भोगवतीं पुण्यामृषिकान्तां जनार्दन +द्वारकामात्मसात्कृत्वा समुद्रं गमयिष्यसि +न क्रोधो न च मात्सर्यं नानृतं मधुसूदन +त्वयि तिष्ठति दाशार्ह न नृशंस्यं कुतोऽनृजु +आसीनं चित्तमध्ये त्वां दीप्यमानं स्वतेजसा +आगम्य ऋषयः सर्वेऽयाचन्ताभयम���्युत +युगान्ते सर्वभूतानि संक्षिप्य मधुसूदन +आत्मन्येवात्मसात्कृत्वा जगदास्से परंतप +नैवं पूर्वे नापरे वा करिष्यन्ति कृतानि ते +कर्माणि यानि देव त्वं बाल एव महाद्युते +कृतवान्पुण्डरीकाक्ष बलदेवसहायवान् +वैराजभवने चापि ब्रह्मणा न्यवसः सह +वैशंपायन उवाच +एवमुक्त्वा तदात्मानमात्मा कृष्णस्य पाण्डवः +तूष्णीमासीत्ततः पार्थमित्युवाच जनार्दनः +ममैव त्वं तवैवाहं ये मदीयास्तवैव ते +यस्त्वां द्वेष्टि स मां द्वेष्टि यस्त्वामनु स मामनु +नरस्त्वमसि दुर्धर्ष हरिर्नारायणो ह्यहम् +लोकाल्लोकमिमं प्राप्तौ नरनारायणावृषी +अनन्यः पार्थ मत्तस्त्वमहं त्वत्तश्च भारत +नावयोरन्तरं शक्यं वेदितुं भरतर्षभ +तस्मिन्वीरसमावाये संरब्धेष्वथ राजसु +धृष्टद्युम्नमुखैर्वीरैर्भ्रातृभिः परिवारिता +पाञ्चाली पुण्डरीकाक्षमासीनं यादवैः सह +अभिगम्याब्रवीत्कृष्णा शरण्यं शरणैषिणी +पूर्वे प्रजानिसर्गे त्वामाहुरेकं प्रजापतिम् +स्रष्टारं सर्वभूतानामसितो देवलोऽब्रवीत् +विष्णुस्त्वमसि दुर्धर्ष त्वं यज्ञो मधुसूदन +यष्टा त्वमसि यष्टव्यो जामदग्न्यो यथाब्रवीत् +ऋषयस्त्वां क्षमामाहुः सत्यं च पुरुषोत्तम +सत्याद्यज्ञोऽसि संभूतः कश्यपस्त्वां यथाब्रवीत् +साध्यानामपि देवानां वसूनामीश्वरेश्वरः +लोकभावन लोकेश यथा त्वां नारदोऽब्रवीत् +दिवं ते शिरसा व्याप्तं पद्भ्यां च पृथिवी विभो +जठरं ते इमे लोकाः पुरुषोऽसि सनातनः +विद्यातपोऽभितप्तानां तपसा भावितात्मनाम् +आत्मदर्शनसिद्धानामृषीणामृषिसत्तम +राजर्षीणां पुण्यकृतामाहवेष्वनिवर्तिनाम् +सर्वधर्मोपपन्नानां त्वं गतिः पुरुषोत्तम +त्वं प्रभुस्त्वं विभुस्त्वं भूरात्मभूस्त्वं सनातनः +लोकपालाश्च लोकाश्च नक्षत्राणि दिशो दश +नभश्चन्द्रश्च सूर्यश्च त्वयि सर्वं प्रतिष्ठितम् +मर्त्यता चैव भूतानाममरत्वं दिवौकसाम् +त्वयि सर्वं महाबाहो लोककार्यं प्रतिष्ठितम् +सा तेऽहं दुःखमाख्यास्ये प्रणयान्मधुसूदन +ईशस्त्वं सर्वभूतानां ये दिव्या ये च मानुषाः +कथं नु भार्या पार्थानां तव कृष्ण सखी विभो +धृष्टद्युम्नस्य भगिनी सभां कृष्येत मादृशी +स्त्रीधर्मिणी वेपमाना रुधिरेण समुक्षिता +एकवस्त्रा विकृष्टास्मि दुःखिता कुरुसंसदि +राजमध्ये सभायां तु रजसाभिसमीरिताम् +दृष्ट्वा च मां ���ार्तराष्ट्राः प्राहसन्पापचेतसः +दासीभावेन भोक्तुं मामीषुस्ते मधुसूदन +जीवत्सु पाण्डुपुत्रेषु पाञ्चालेष्वथ वृष्णिषु +नन्वहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चोभयोः +स्नुषा भवामि धर्मेण साहं दासीकृता बलात् +गर्हये पाण्डवांस्त्वेव युधि श्रेष्ठान्महाबलान् +ये क्लिश्यमानां प्रेक्षन्ते धर्मपत्नीं यशस्विनीम् +धिग्बलं भीमसेनस्य धिक्पार्थस्य धनुष्मताम् +यौ मां विप्रकृतां क्षुद्रैर्मर्षयेतां जनार्दन +शाश्वतोऽयं धर्मपथः सद्भिराचरितः सदा +यद्भार्यां परिरक्षन्ति भर्तारोऽल्पबला अपि +भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता +प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः +आत्मा हि जायते तस्यां तस्माज्जाया भवत्युत +भर्ता च भार्यया रक्ष्यः कथं जायान्ममोदरे +नन्विमे शरणं प्राप्तान्न त्यजन्ति कदाचन +ते मां शरणमापन्नां नान्वपद्यन्त पाण्डवाः +पञ्चेमे पञ्चभिर्जाताः कुमाराश्चामितौजसः +एतेषामप्यवेक्षार्थं त्रातव्यास्मि जनार्दन +प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात् +अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः +कनिष्ठाच्छ्रुतकर्मा तु सर्वे सत्यपराक्रमाः +प्रद्युम्नो यादृशः कृष्ण तादृशास्ते महारथाः +नन्विमे धनुषि श्रेष्ठा अजेया युधि शात्रवैः +किमर्थं धार्तराष्ट्राणां सहन्ते दुर्बलीयसाम् +अधर्मेण हृतं राज्यं सर्वे दासाः कृतास्तथा +सभायां परिकृष्टाहमेकवस्त्रा रजस्वला +नाधिज्यमपि यच्छक्यं कर्तुमन्येन गाण्डिवम् +अन्यत्रार्जुनभीमाभ्यां त्वया वा मधुसूदन +धिग्भीमसेनस्य बलं धिक्पार्थस्य च गाण्डिवम् +यत्र दुर्योधनः कृष्ण मुहूर्तमपि जीवति +य एतानाक्षिपद्राष्ट्रात्सह मात्राविहिंसकान् +अधीयानान्पुरा बालान्व्रतस्थान्मधुसूदन +भोजने भीमसेनस्य पापः प्राक्षेपयद्विषम् +कालकूटं नवं तीक्ष्णं संभृतं लोमहर्षणम् +तज्जीर्णमविकारेण सहान्नेन जनार्दन +सशेषत्वान्महाबाहो भीमस्य पुरुषोत्तम +प्रमाणकोट्यां विश्वस्तं तथा सुप्तं वृकोदरम् +बद्ध्वैनं कृष्ण गङ्गायां प्रक्षिप्य पुनराव्रजत् +यदा विबुद्धः कौन्तेयस्तदा संछिद्य बन्धनम् +उदतिष्ठन्महाबाहुर्भीमसेनो महाबलः +आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत् +सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा +प्रतिबुद्धस्तु कौन्तेयः सर्वान्सर्पानपोथयत् +सारथिं चास्य दयितमपहस्तेन जघ्निवान् +पुनः सुप्तानुपाधाक्षीद्बालकान्वारणावते +शयानानार्यया सार्धं को नु तत्कर्तुमर्हति +यत्रार्या रुदती भीता पाण्डवानिदमब्रवीत् +महद्व्यसनमापन्ना शिखिना परिवारिता +हा हतास्मि कुतो न्वद्य भवेच्छान्तिरिहानलात् +अनाथा विनशिष्यामि बालकैः पुत्रकैः सह +तत्र भीमो महाबाहुर्वायुवेगपराक्रमः +आर्यामाश्वासयामास भ्रातॄंश्चापि वृकोदरः +वैनतेयो यथा पक्षी गरुडः पततां वरः +तथैवाभिपतिष्यामि भयं वो नेह विद्यते +आर्यामङ्केन वामेन राजानं दक्षिणेन च +अंसयोश्च यमौ कृत्वा पृष्ठे बीभत्सुमेव च +सहसोत्पत्य वेगेन सर्वानादाय वीर्यवान् +भ्रातॄनार्यां च बलवान्मोक्षयामास पावकात् +ते रात्रौ प्रस्थिताः सर्वे मात्रा सह यशस्विनः +अभ्यगच्छन्महारण्यं हिडिम्बवनमन्तिकात् +श्रान्ताः प्रसुप्तास्तत्रेमे मात्रा सह सुदुःखिताः +सुप्तांश्चैनानभ्यगच्छद्धिडिम्बा नाम राक्षसी +भीमस्य पादौ कृत्वा तु स्व उत्सङ्गे ततो बलात् +पर्यमर्दत संहृष्टा कल्याणी मृदुपाणिना +तामबुध्यदमेयात्मा बलवान्सत्यविक्रमः +पर्यपृच्छच्च तां भीमः किमिहेच्छस्यनिन्दिते +तयोः श्रुत्वा तु कथितमागच्छद्राक्षसाधमः +भीमरूपो महानादान्विसृजन्भीमदर्शनः +केन सार्धं कथयसि आनयैनं ममान्तिकम् +हिडिम्बे भक्षयिष्यावो न चिरं कर्तुमर्हसि +सा कृपासंगृहीतेन हृदयेन मनस्विनी +नैनमैच्छत्तदाख्यातुमनुक्रोशादनिन्दिता +स नादान्विनदन्घोरान्राक्षसः पुरुषादकः +अभ्यद्रवत वेगेन भीमसेनं तदा किल +तमभिद्रुत्य संक्रुद्धो वेगेन महता बली +अगृह्णात्पाणिना पाणिं भीमसेनस्य राक्षसः +इन्द्राशनिसमस्पर्शं वज्रसंहननं दृढम् +संहत्य भीमसेनाय व्याक्षिपत्सहसा करम् +गृहीतं पाणिना पाणिं भीमसेनोऽथ रक्षसा +नामृष्यत महाबाहुस्तत्राक्रुध्यद्वृकोदरः +तत्रासीत्तुमुलं युद्धं भीमसेनहिडिम्बयोः +सर्वास्त्रविदुषोर्घोरं वृत्रवासवयोरिव +हत्वा हिडिम्बं भीमोऽथ प्रस्थितो भ्रातृभिः सह +हिडिम्बामग्रतः कृत्वा यस्यां जातो घटोत्कचः +ततश्च प्राद्रवन्सर्वे सह मात्रा यशस्विनः +एकचक्रामभिमुखाः संवृता ब्राह्मणव्रजैः +प्रस्थाने व्यास एषां च मन्त्री प्रियहितोऽभवत् +ततोऽगच्छन्नेकचक्रां पाण्डवाः संशितव्रताः +तत्राप्यासादयामासुर्बकं नाम महाबलम् +पुरुषादं प्रतिभयं हिडिम्बेनैव संमितम् +तं चापि विनिहत्योग्रं भीमः प्रहरतां वरः +सहितो भ्रातृभिः सर्वैर्द्रुपदस्य पुरं ययौ +लब्धाहमपि तत्रैव वसता सव्यसाचिना +यथा त्वया जिता कृष्ण रुक्मिणी भीष्मकात्मजा +एवं सुयुद्धे पार्थेन जिताहं मधुसूदन +स्वयंवरे महत्कर्म कृत्वा नसुकरं परैः +एवं क्लेशैः सुबहुभिः क्लिश्यमानाः सुदुःखिताः +निवसामार्यया हीनाः कृष्ण धौम्यपुरःसराः +त इमे सिंहविक्रान्ता वीर्येणाभ्यधिकाः परैः +विहीनैः परिक्लिश्यन्तीं समुपेक्षन्त मां कथम् +एतादृशानि दुःखानि सहन्ते दुर्बलीयसाम् +दीर्घकालं प्रदीप्तानि पापानां क्षुद्रकर्मणाम् +कुले महति जातास्मि दिव्येन विधिना किल +पाण्डवानां प्रिया भार्या स्नुषा पाण्डोर्महात्मनः +कचग्रहमनुप्राप्ता सास्मि कृष्ण वरा सती +पञ्चानामिन्द्रकल्पानां प्रेक्षतां मधुसूदन +इत्युक्त्वा प्रारुदत्कृष्णा मुखं प्रच्छाद्य पाणिना +पद्मकोशप्रकाशेन मृदुना मृदुभाषिणी +स्तनावपतितौ पीनौ सुजातौ शुभलक्षणौ +अभ्यवर्षत पाञ्चाली दुःखजैरश्रुबिन्दुभिः +चक्षुषी परिमार्जन्ती निःश्वसन्ती पुनः पुनः +बाष्पपूर्णेन कण्ठेन क्रुद्धा वचनमब्रवीत् +नैव मे पतयः सन्ति न पुत्रा मधुसूदन +न भ्रातरो न च पिता नैव त्वं न च बान्धवाः +ये मां विप्रकृतां क्षुद्रैरुपेक्षध्वं विशोकवत् +न हि मे शाम्यते दुःखं कर्णो यत्प्राहसत्तदा +अथैनामब्रवीत्कृष्णस्तस्मिन्वीरसमागमे +रोदिष्यन्ति स्त्रियो ह्येवं येषां क्रुद्धासि भामिनि +बीभत्सुशरसंछन्नाञ्शोणितौघपरिप्लुतान् +निहताञ्जीवितं त्यक्त्वा शयानान्वसुधातले +यत्समर्थं पाण्डवानां तत्करिष्यामि मा शुचः +सत्यं ते प्रतिजानामि राज्ञां राज्ञी भविष्यसि +पतेद्द्यौर्हिमवाञ्शीर्येत्पृथिवी शकलीभवेत् +शुष्येत्तोयनिधिः कृष्णे न मे मोघं वचो भवेत् +धृष्टद्युम्न उवाच +अहं द्रोणं हनिष्यामि शिखण्डी तु पितामहम् +दुर्योधनं भीमसेनः कर्णं हन्ता धनंजयः +रामकृष्णौ व्यपाश्रित्य अजेयाः स्म शुचिस्मिते +अपि वृत्रहणा युद्धे किं पुनर्धृतराष्ट्रजैः +वैशंपायन उवाच +इत्युक्तेऽभिमुखा वीरा वासुदेवमुपस्थिता +तेषां मध्ये महाबाहुः केशवो वाक्यमब्रवीत् +वासुदेव उवाच +नेदं कृच्छ्रमनुप्राप्तो भवान्स्याद्वसुधाधिप +यद्यहं द्वारकायां स्यां राज��्संनिहितः पुरा +आगच्छेयमहं द्यूतमनाहूतोऽपि कौरवैः +आम्बिकेयेन दुर्धर्ष राज्ञा दुर्योधनेन च +वारयेयमहं द्यूतं बहून्दोषान्प्रदर्शयन् +भीष्मद्रोणौ समानाय्य कृपं बाह्लीकमेव च +वैचित्रवीर्यं राजानमलं द्यूतेन कौरव +पुत्राणां तव राजेन्द्र त्वन्निमित्तमिति प्रभो +तत्र वक्ष्याम्यहं दोषान्यैर्भवानवरोपितः +वीरसेनसुतो यैश्च राज्यात्प्रभ्रंशितः पुरा +अभक्षितविनाशं च देवनेन विशां पते +सातत्यं च प्रसङ्गस्य वर्णयेयं यथातथम् +स्त्रियोऽक्षा मृगया पानमेतत्कामसमुत्थितम् +व्यसनं चतुष्टयं प्रोक्तं यै राजन्भ्रश्यते श्रियः +तत्र सर्वत्र वक्तव्यं मन्यन्ते शास्त्रकोविदाः +विशेषतश्च वक्तव्यं द्यूते पश्यन्ति तद्विदः +एकाह्ना द्रव्यनाशोऽत्र ध्रुवं व्यसनमेव च +अभुक्तनाशश्चार्थानां वाक्पारुष्यं च केवलम् +एतच्चान्यच्च कौरव्य प्रसङ्गि कटुकोदयम् +द्यूते ब्रूयां महाबाहो समासाद्याम्बिकासुतम् +एवमुक्तो यदि मया गृह्णीयाद्वचनं मम +अनामयं स्याद्धर्मस्य कुरूणां कुरुनन्दन +न चेत्स मम राजेन्द्र गृह्णीयान्मधुरं वचः +पथ्यं च भरतश्रेष्ठ निगृह्णीयां बलेन तम् +अथैनानभिनीयैवं सुहृदो नाम दुर्हृदः +सभासदश्च तान्सर्वान्भेदयेयं दुरोदरान् +असांनिध्यं तु कौरव्य ममानर्तेष्वभूत्तदा +येनेदं व्यसनं प्राप्ता भवन्तो द्यूतकारितम् +सोऽहमेत्य कुरुश्रेष्ठ द्वारकां पाण्डुनन्दन +अश्रौषं त्वां व्यसनिनं युयुधानाद्यथातथम् +श्रुत्वैव चाहं राजेन्द्र परमोद्विग्नमानसः +तूर्णमभ्यागतोऽस्मि त्वां द्रष्टुकामो विशां पते +अहो कृच्छ्रमनुप्राप्ताः सर्वे स्म भरतर्षभ +ये वयं त्वां व्यसनिनं पश्यामः सह सोदरैः +युधिष्ठिर उवाच +असांनिध्यं कथं कृष्ण तवासीद्वृष्णिनन्दन +क्व चासीद्विप्रवासस्ते किं वाकार्षीः प्रवासकः +कृष्ण उवाच +शाल्वस्य नगरं सौभं गतोऽहं भरतर्षभ +विनिहन्तुं नरश्रेष्ठ तत्र मे शृणु कारणम् +महातेजा महाबाहुर्यः स राजा महायशाः +दमघोषात्मजो वीरः शिशुपालो मया हतः +यज्ञे ते भरतश्रेष्ठ राजसूयेऽर्हणां प्रति +स रोषवशसंप्राप्तो नामृष्यत दुरात्मवान् +श्रुत्वा तं निहतं शाल्वस्तीव्ररोषसमन्वितः +उपायाद्द्वारकां शून्यामिहस्थे मयि भारत +स तत्र योधितो राजन्बालकैर्वृष्णिपुंगवैः +आगतः कामगं सौभमारुह्यैव नृशंसकृत् +ततो वृ���्णिप्रवीरांस्तान्बालान्हत्वा बहूंस्तदा +पुरोद्यानानि सर्वाणि भेदयामास दुर्मतिः +उक्तवांश्च महाबाहो क्वासौ वृष्णिकुलाधमः +वासुदेवः सुमन्दात्मा वसुदेवसुतो गतः +तस्य युद्धार्थिनो दर्पं युद्धे नाशयितास्म्यहम् +आनर्ताः सत्यमाख्यात तत्र गन्तास्मि यत्र सः +तं हत्वा विनिवर्तिष्ये कंसकेशिनिषूदनम् +अहत्वा न निवर्तिष्ये सत्येनायुधमालभे +क्वासौ क्वासाविति पुनस्तत्र तत्र विधावति +मया किल रणे युद्धं काङ्क्षमाणः स सौभराट् +अद्य तं पापकर्माणं क्षुद्रं विश्वासघातिनम् +शिशुपालवधामर्षाद्गमयिष्ये यमक्षयम् +मम पापस्वभावेन भ्राता येन निपातितः +शिशुपालो महीपालस्तं वधिष्ये महीतले +भ्राता बालश्च राजा च न च संग्राममूर्धनि +प्रमत्तश्च हतो वीरस्तं हनिष्ये जनार्दनम् +एवमादि महाराज विलप्य दिवमास्थितः +कामगेन स सौभेन क्षिप्त्वा मां कुरुनन्दन +तमश्रौषमहं गत्वा यथा वृत्तः सुदुर्मतिः +मयि कौरव्य दुष्टात्मा मार्त्तिकावतको नृपः +ततोऽहमपि कौरव्य रोषव्याकुललोचनः +निश्चित्य मनसा राजन्वधायास्य मनो दधे +आनर्तेषु विमर्दं च क्षेपं चात्मनि कौरव +प्रवृद्धमवलेपं च तस्य दुष्कृतकर्मणः +ततः सौभवधायाहं प्रतस्थे पृथिवीपते +स मया सागरावर्ते दृष्ट आसीत्परीप्सता +ततः प्रध्माप्य जलजं पाञ्चजन्यमहं नृप +आहूय शाल्वं समरे युद्धाय समवस्थितः +सुमुहूर्तमभूद्युद्धं तत्र मे दानवैः सह +वशीभूताश्च मे सर्वे भूतले च निपातिताः +एतत्कार्यं महाबाहो येनाहं नागमं तदा +श्रुत्वैव हास्तिनपुरं द्यूतं चाविनयोत्थितम् +युधिष्ठिर उवाच +वासुदेव महाबाहो विस्तरेण महामते +सौभस्य वधमाचक्ष्व न हि तृप्यामि कथ्यतः +वासुदेव उवाच +हतं श्रुत्वा महाबाहो मया श्रौतश्रवं नृपम् +उपायाद्भरतश्रेष्ठ शाल्वो द्वारवतीं पुरीम् +अरुन्धत्तां सुदुष्टात्मा सर्वतः पाण्डुनन्दन +शाल्वो वैहायसं चापि तत्पुरं व्यूह्य विष्ठितः +तत्रस्थोऽथ महीपालो योधयामास तां पुरीम् +अभिसारेण सर्वेण तत्र युद्धमवर्तत +पुरी समन्ताद्विहिता सपताका सतोरणा +सचक्रा सहुडा चैव सयन्त्रखनका तथा +सोपतल्पप्रतोलीका साट्टाट्टालकगोपुरा +सकचग्रहणी चैव सोल्कालातावपोथिका +सोष्ट्रिका भरतश्रेष्ठ सभेरीपणवानका +समित्तृणकुशा राजन्सशतघ्नीकलाङ्गला +सभुशुण्ड्यश्मलगुडा सायुधा सपरश्वधा +लोहच��्मवती चापि साग्निः सहुडशृङ्गिका +शास्त्रदृष्टेन विधिना संयुक्ता भरतर्षभ +द्रव्यैरनेकैर्विविधैर्गदसाम्बोद्धवादिभिः +पुरुषैः कुरुशार्दूल समर्थैः प्रतिबाधने +अभिख्यातकुलैर्वीरैर्दृष्टवीर्यैश्च संयुगे +मध्यमेन च गुल्मेन रक्षिता सारसंज्ञिता +उत्क्षिप्तगुल्मैश्च तथा हयैश्चैव पदातिभिः +आघोषितं च नगरे न पातव्या सुरेति ह +प्रमादं परिरक्षद्भिरुग्रसेनोद्धवादिभिः +प्रमत्तेष्वभिघातं हि कुर्याच्छाल्वो नराधिपः +इति कृत्वाप्रमत्तास्ते सर्वे वृष्ण्यन्धकाः स्थिताः +आनर्ताश्च तथा सर्वे नटनर्तकगायनाः +बहिर्विवासिताः सर्वे रक्षद्भिर्वित्तसंचयान् +संक्रमा भेदिताः सर्वे नावश्च प्रतिषेधिताः +परिखाश्चापि कौरव्य कीलैः सुनिचिताः कृताः +उदपानाः कुरुश्रेष्ठ तथैवाप्यम्बरीषकाः +समन्तात्क्रोशमात्रं च कारिता विषमा च भूः +प्रकृत्या विषमं दुर्गं प्रकृत्या च सुरक्षितम् +प्रकृत्या चायुधोपेतं विशेषेण तदानघ +सुरक्षितं सुगुप्तं च सर्वायुधसमन्वितम् +तत्पुरं भरतश्रेष्ठ यथेन्द्रभवनं तथा +न चामुद्रोऽभिनिर्याति न चामुद्रः प्रवेश्यते +वृष्ण्यन्धकपुरे राजंस्तदा सौभसमागमे +अनु रथ्यासु सर्वासु चत्वरेषु च कौरव +बलं बभूव राजेन्द्र प्रभूतगजवाजिमत् +दत्तवेतनभक्तं च दत्तायुधपरिच्छदम् +कृतापदानं च तदा बलमासीन्महाभुज +न कुप्यवेतनी कश्चिन्न चातिक्रान्तवेतनी +नानुग्रहभृतः कश्चिन्न चादृष्टपराक्रमः +एवं सुविहिता राजन्द्वारका भूरिदक्षिणैः +आहुकेन सुगुप्ता च राज्ञा राजीवलोचन +वासुदेव उवाच +तां तूपयात्वा राजेन्द्र शाल्वः सौभपतिस्तदा +प्रभूतनरनागेन बलेनोपविवेश ह +समे निविष्टा सा सेना प्रभूतसलिलाशये +चतुरङ्गबलोपेता शाल्वराजाभिपालिता +वर्जयित्वा श्मशानानि देवतायतनानि च +वल्मीकांश्चैव चैत्यांश्च तन्निविष्टमभूद्बलम् +अनीकानां विभागेन पन्थानः षट्कृताभवन् +प्रवणा नव चैवासञ्शाल्वस्य शिबिरे नृप +सर्वायुधसमोपेतं सर्वशस्त्रविशारदम् +रथनागाश्वकलिलं पदातिध्वजसंकुलम् +तुष्टपुष्टजनोपेतं वीरलक्षणलक्षितम् +विचित्रध्वजसंनाहं विचित्ररथकार्मुकम् +संनिवेश्य च कौरव्य द्वारकायां नरर्षभ +अभिसारयामास तदा वेगेन पतगेन्द्रवत् +तदापतन्तं संदृश्य बलं शाल्वपतेस्तदा +निर्याय योधयामासुः कुमारा वृष्णिनन्दनाः +असहन्तोऽभियानं तच्छाल्वराजस्य कौरव +चारुदेष्णश्च साम्बश्च प्रद्युम्नश्च महारथः +ते रथैर्दंशिताः सर्वे विचित्राभरणध्वजाः +संसक्ताः शाल्वराजस्य बहुभिर्योधपुंगवैः +गृहीत्वा तु धनुः साम्बः शाल्वस्य सचिवं रणे +योधयामास संहृष्टः क्षेमवृद्धिं चमूपतिम् +तस्य बाणमयं वर्षं जाम्बवत्याः सुतो महत् +मुमोच भरतश्रेष्ठ यथा वर्षं सहस्रदृक् +तद्बाणवर्षं तुमुलं विषेहे स चमूपतिः +क्षेमवृद्धिर्महाराज हिमवानिव निश्चलः +ततः साम्बाय राजेन्द्र क्षेमवृद्धिरपि स्म ह +मुमोच मायाविहितं शरजालं महत्तरम् +ततो मायामयं जालं माययैव विदार्य सः +साम्बः शरसहस्रेण रथमस्याभ्यवर्षत +ततः स विद्धः साम्बेन क्षेमवृद्धिश्चमूपतिः +अपायाज्जवनैरश्वैः साम्बबाणप्रपीडितः +तस्मिन्विप्रद्रुते क्रूरे शाल्वस्याथ चमूपतौ +वेगवान्नाम दैतेयः सुतं मेऽभ्यद्रवद्बली +अभिपन्नस्तु राजेन्द्र साम्बो वृष्णिकुलोद्वहः +वेगं वेगवतो राजंस्तस्थौ वीरो विधारयन् +स वेगवति कौन्तेय साम्बो वेगवतीं गदाम् +चिक्षेप तरसा वीरो व्याविध्य सत्यविक्रमः +तया त्वभिहतो राजन्वेगवानपतद्भुवि +वातरुग्ण इव क्षुण्णो जीर्णमूलो वनस्पतिः +तस्मिन्निपतिते वीरे गदानुन्ने महासुरे +प्रविश्य महतीं सेनां योधयामास मे सुतः +चारुदेष्णेन संसक्तो विविन्ध्यो नाम दानवः +महारथः समाज्ञातो महाराज महाधनुः +ततः सुतुमुलं युद्धं चारुदेष्णविविन्ध्ययोः +वृत्रवासवयो राजन्यथा पूर्वं तथाभवत् +अन्योन्यस्याभिसंक्रुद्धावन्योन्यं जघ्नतुः शरैः +विनदन्तौ महाराज सिंहाविव महाबलौ +रौक्मिणेयस्ततो बाणमग्न्यर्कोपमवर्चसम् +अभिमन्त्र्य महास्त्रेण संदधे शत्रुनाशनम् +स विविन्ध्याय सक्रोधः समाहूय महारथः +चिक्षेप मे सुतो राजन्स गतासुरथापतत् +विविन्ध्यं निहतं दृष्ट्वा तां च विक्षोभितां चमूम् +कामगेन स सौभेन शाल्वः पुनरुपागमत् +ततो व्याकुलितं सर्वं द्वारकावासि तद्बलम् +दृष्ट्वा शाल्वं महाबाहो सौभस्थं पृथिवीगतम् +ततो निर्याय कौन्तेय व्यवस्थाप्य च तद्बलम् +आनर्तानां महाराज प्रद्युम्नो वाक्यमब्रवीत् +सर्वे भवन्तस्तिष्ठन्तु सर्वे पश्यन्तु मां युधि +निवारयन्तं संग्रामे बलात्सौभं सराजकम् +अहं सौभपतेः सेनामायसैर्भुजगैरिव +धनुर्भुजविनिर्मुक्तैर्नाशयाम्यद्य यादवाः +आश्वसध्वं न भीः कार्या सौभराडद्य नश्यति +मयाभिपन्नो दुष्टात्मा ससौभो विनशिष्यति +एवं ब्रुवति संहृष्टे प्रद्युम्ने पाण्डुनन्दन +विष्ठितं तद्बलं वीर युयुधे च यथासुखम् +वासुदेव उवाच +एवमुक्त्वा रौक्मिणेयो यादवान्भरतर्षभ +दंशितैर्हरिभिर्युक्तं रथमास्थाय काञ्चनम् +उच्छ्रित्य मकरं केतुं व्यात्ताननमलंकृतम् +उत्पतद्भिरिवाकाशं तैर्हयैरन्वयात्परान् +विक्षिपन्नादयंश्चापि धनुःश्रेष्ठं महाबलः +तूणखड्गधरः शूरो बद्धगोधाङ्गुलित्रवान् +स विद्युच्चलितं चापं विहरन्वै तलात्तलम् +मोहयामास दैतेयान्सर्वान्सौभनिवासिनः +नास्य विक्षिपतश्चापं संदधानस्य चासकृत् +अन्तरं ददृशे कश्चिन्निघ्नतः शात्रवान्रणे +मुखस्य वर्णो न विकल्पतेऽस्य; चेलुश्च गात्राणि न चापि तस्य +सिंहोन्नतं चाप्यभिगर्जतोऽस्य; शुश्राव लोकोऽद्भुतरूपमग्र्यम् +जलेचरः काञ्चनयष्टिसंस्थो; व्यात्ताननः सर्वतिमिप्रमाथी +वित्रासयन्राजति वाहमुख्ये; शाल्वस्य सेनाप्रमुखे ध्वजाग्र्यः +ततः स तूर्णं निष्पत्य प्रद्युम्नः शत्रुकर्शनः +शाल्वमेवाभिदुद्राव विधास्यन्कलहं नृप +अभियानं तु वीरेण प्रद्युम्नेन महाहवे +नामर्षयत संक्रुद्धः शाल्वः कुरुकुलोद्वह +स रोषमदमत्तो वै कामगादवरुह्य च +प्रद्युम्नं योधयामास शाल्वः परपुरंजयः +तयोः सुतुमुलं युद्धं शाल्ववृष्णिप्रवीरयोः +समेता ददृशुर्लोका बलिवासवयोरिव +तस्य मायामयो वीर रथो हेमपरिष्कृतः +सध्वजः सपताकश्च सानुकर्षः सतूणवान् +स तं रथवरं श्रीमान्समारुह्य किल प्रभो +मुमोच बाणान्कौरव्य प्रद्युम्नाय महाबलः +ततो बाणमयं वर्षं व्यसृजत्तरसा रणे +प्रद्युम्नो भुजवेगेन शाल्वं संमोहयन्निव +स तैरभिहतः संख्ये नामर्षयत सौभराट् +शरान्दीप्ताग्निसंकाशान्मुमोच तनये मम +स शाल्वबाणै राजेन्द्र विद्धो रुक्मिणिनन्दनः +मुमोच बाणं त्वरितो मर्मभेदिनमाहवे +तस्य वर्म विभिद्याशु स बाणो मत्सुतेरितः +बिभेद हृदयं पत्री स पपात मुमोह च +तस्मिन्निपतिते वीरे शाल्वराजे विचेतसि +संप्राद्रवन्दानवेन्द्रा दारयन्तो वसुंधराम् +हाहाकृतमभूत्सैन्यं शाल्वस्य पृथिवीपते +नष्टसंज्ञे निपतिते तदा सौभपतौ नृप +तत उत्थाय कौरव्य प्रतिलभ्य च चेतनाम् +मुमोच बाणं तरसा प्रद्युम्नाय महाबलः +तेन विद्धो महाबाहुः प्रद्युम्नः समरे स्थितः +जत्रुदेशे भृशं वीरो व्यवासीदद्रथे तदा +तं स विद्ध्वा महाराज शाल्वो रुक्मिणिनन्दनम् +ननाद सिंहनादं वै नादेनापूरयन्महीम् +ततो मोहं समापन्ने तनये मम भारत +मुमोच बाणांस्त्वरितः पुनरन्यान्दुरासदान् +स तैरभिहतो बाणैर्बहुभिस्तेन मोहितः +निश्चेष्टः कौरवश्रेष्ठ प्रद्युम्नोऽभूद्रणाजिरे +वासुदेव उवाच +शाल्वबाणार्दिते तस्मिन्प्रद्युम्ने बलिनां वरे +वृष्णयो भग्नसंकल्पा विव्यथुः पृतनागताः +हाहाकृतमभूत्सार्वं वृष्ण्यन्धकबलं तदा +प्रद्युम्ने पतिते राजन्परे च मुदिताभवन् +तं तथा मोहितं दृष्ट्वा सारथिर्जवनैर्हयैः +रणादपाहरत्तूर्णं शिक्षितो दारुकिस्ततः +नातिदूरापयाते तु रथे रथवरप्रणुत् +धनुर्गृहीत्वा यन्तारं लब्धसंज्ञोऽब्रवीदिदम् +सौते किं ते व्यवसितं कस्माद्यासि पराङ्मुखः +नैष वृष्णिप्रवीराणामाहवे धर्म उच्यते +कच्चित्सौते न ते मोहः शाल्वं दृष्ट्वा महाहवे +विषादो वा रणं दृष्ट्वा ब्रूहि मे त्वं यथातथम् +सूत उवाच +जानार्दने न मे मोहो नापि मे भयमाविशत् +अतिभारं तु ते मन्ये शाल्वं केशवनन्दन +सोऽपयामि शनैर्वीर बलवानेष पापकृत् +मोहितश्च रणे शूरो रक्ष्यः सारथिना रथी +आयुष्मंस्त्वं मया नित्यं रक्षितव्यस्त्वयाप्यहम् +रक्षितव्यो रथी नित्यमिति कृत्वापयाम्यहम् +एकश्चासि महाबाहो बहवश्चापि दानवाः +नसमं रौक्मिणेयाहं रणं मत्वापयाम्यहम् +वासुदेव उवाच +एवं ब्रुवति सूते तु तदा मकरकेतुमान् +उवाच सूतं कौरव्य निवर्तय रथं पुनः +दारुकात्मज मैवं त्वं पुनः कार्षीः कथंचन +व्यपयानं रणात्सौते जीवतो मम कर्हिचित् +न स वृष्णिकुले जातो यो वै त्यजति संगरम् +यो वा निपतितं हन्ति तवास्मीति च वादिनम् +तथा स्त्रियं वै यो हन्ति वृद्धं बालं तथैव च +विरथं विप्रकीर्णं च भग्नशस्त्रायुधं तथा +त्वं च सूतकुले जातो विनीतः सूतकर्मणि +धर्मज्ञश्चासि वृष्णीनामाहवेष्वपि दारुके +स जानंश्चरितं कृत्स्नं वृष्णीनां पृतनामुखे +अपयानं पुनः सौते मैवं कार्षीः कथंचन +अपयातं हतं पृष्ठे भीतं रणपलायिनम् +गदाग्रजो दुराधर्षः किं मां वक्ष्यति माधवः +केशवस्याग्रजो वापि नीलवासा मदोत्कटः +किं वक्ष्यति महाबाहुर्बलदेवः समागतः +किं वक्ष्यति शिनेर्नप्ता नरसिंहो महाधनुः +अपयातं रणात्सौते साम्बश्च समितिंजयः +चारुदेष्णश्च दुर्धर्षस्तथैव गदसारणौ +अक्रूरश्च म��ाबाहुः किं मां वक्ष्यति सारथे +शूरं संभावितं सन्तं नित्यं पुरुषमानिनम् +स्त्रियश्च वृष्णीवीराणां किं मां वक्ष्यन्ति संगताः +प्रद्युम्नोऽयमुपायाति भीतस्त्यक्त्वा महाहवम् +धिगेनमिति वक्ष्यन्ति न तु वक्ष्यन्ति साध्विति +धिग्वाचा परिहासोऽपि मम वा मद्विधस्य वा +मृत्युनाभ्यधिकः सौते स त्वं मा व्यपयाः पुनः +भारं हि मयि संन्यस्य यातो मधुनिहा हरिः +यज्ञं भरतसिंहस्य पार्थस्यामिततेजसः +कृतवर्मा मया वीरो निर्यास्यन्नेव वारितः +शाल्वं निवारयिष्येऽहं तिष्ठ त्वमिति सूतज +स च संभावयन्मां वै निवृत्तो हृदिकात्मजः +तं समेत्य रणं त्यक्त्वा किं वक्ष्यामि महारथम् +उपयातं दुराधर्षं शङ्खचक्रगदाधरम् +पुरुषं पुण्डरीकाक्षं किं वक्ष्यामि महाभुजम् +सात्यकिं बलदेवं च ये चान्येऽन्धकवृष्णयः +मया स्पर्धन्ति सततं किं नु वक्ष्यामि तानहम् +त्यक्त्वा रणमिमं सौते पृष्ठतोऽभ्याहतः शरैः +त्वयापनीतो विवशो न जीवेयं कथंचन +स निवर्त रथेनाशु पुनर्दारुकनन्दन +न चैतदेवं कर्तव्यमथापत्सु कथंचन +न जीवितमहं सौते बहु मन्ये कदाचन +अपयातो रणाद्भीतः पृष्ठतोऽभ्याहतः शरैः +कदा वा सूतपुत्र त्वं जानीषे मां भयार्दितम् +अपयातं रणं हित्वा यथा कापुरुषं तथा +न युक्तं भवता त्यक्तुं संग्रामं दारुकात्मज +मयि युद्धार्थिनि भृशं स त्वं याहि यतो रणम् +वासुदेव उवाच +एवमुक्तस्तु कौन्तेय सूतपुत्रस्तदा मृधे +प्रद्युम्नमब्रवीच्छ्लक्ष्णं मधुरं वाक्यमञ्जसा +न मे भयं रौक्मिणेय संग्रामे यच्छतो हयान् +युद्धज्ञश्चास्मि वृष्णीनां नात्र किंचिदतोऽन्यथा +आयुष्मन्नुपदेशस्तु सारथ्ये वर्ततां स्मृतः +सर्वार्थेषु रथी रक्ष्यस्त्वं चापि भृशपीडितः +त्वं हि शाल्वप्रयुक्तेन पत्रिणाभिहतो भृशम् +कश्मलाभिहतो वीर ततोऽहमपयातवान् +स त्वं सात्वतमुख्याद्य लब्धसंज्ञो यदृच्छया +पश्य मे हयसंयाने शिक्षां केशवनन्दन +दारुकेणाहमुत्पन्नो यथावच्चैव शिक्षितः +वीतभीः प्रविशाम्येतां शाल्वस्य महतीं चमूम् +एवमुक्त्वा ततो वीर हयान्संचोद्य संगरे +रश्मिभिश्च समुद्यम्य जवेनाभ्यपतत्तदा +मण्डलानि विचित्राणि यमकानीतराणि च +सव्यानि च विचित्राणि दक्षिणानि च सर्वशः +प्रतोदेनाहता राजन्रश्मिभिश्च समुद्यताः +उत्पतन्त इवाकाशं विबभुस्ते हयोत्तमाः +ते हस्तलाघवोपेतं विज्ञाय न���प दारुकिम् +दह्यमाना इव तदा पस्पृशुश्चरणैर्महीम् +सोऽपसव्यां चमूं तस्य शाल्वस्य भरतर्षभ +चकार नातियत्नेन तदद्भुतमिवाभवत् +अमृष्यमाणोऽपसव्यं प्रद्युम्नेन स सौभराट् +यन्तारमस्य सहसा त्रिभिर्बाणैः समर्पयत् +दारुकस्य सुतस्तं तु बाणवेगमचिन्तयन् +भूय एव महाबाहो प्रययौ हयसंमतः +ततो बाणान्बहुविधान्पुनरेव स सौभराट् +मुमोच तनये वीरे मम रुक्मिणिनन्दने +तानप्राप्ताञ्शितैर्बाणैश्चिच्छेद परवीरहा +रौक्मिणेयः स्मितं कृत्वा दर्शयन्हस्तलाघवम् +छिन्नान्दृष्ट्वा तु तान्बाणान्प्रद्युम्नेन स सौभराट् +आसुरीं दारुणीं मायामास्थाय व्यसृजच्छरान् +प्रयुज्यमानमाज्ञाय दैतेयास्त्रं महाबलः +ब्रह्मास्त्रेणान्तरा छित्त्वा मुमोचान्यान्पतत्रिणः +ते तदस्त्रं विधूयाशु विव्यधू रुधिराशनाः +शिरस्युरसि वक्त्रे च स मुमोह पपात च +तस्मिन्निपतिते क्षुद्रे शाल्वे बाणप्रपीडिते +रौक्मिणेयोऽपरं बाणं संदधे शत्रुनाशनम् +तमर्चितं सर्वदाशार्हपूगै;राशीर्भिरर्कज्वलनप्रकाशम् +दृष्ट्वा शरं ज्यामभिनीयमानं; बभूव हाहाकृतमन्तरिक्षम् +ततो देवगणाः सर्वे सेन्द्राः सह धनेश्वराः +नारदं प्रेषयामासुः श्वसनं च महाबलम् +तौ रौक्मिणेयमागम्य वचोऽब्रूतां दिवौकसाम् +नैष वध्यस्त्वया वीर शाल्वराजः कथंचन +संहरस्व पुनर्बाणमवध्योऽयं त्वया रणे +एतस्य हि शरस्याजौ नावध्योऽस्ति पुमान्क्वचित् +मृत्युरस्य महाबाहो रणे देवकिनन्दनः +कृष्णः संकल्पितो धात्रा तन्न मिथ्या भवेदिति +ततः परमसंहृष्टः प्रद्युम्नः शरमुत्तमम् +संजहार धनुःश्रेष्ठात्तूणे चैव न्यवेशयत् +तत उत्थाय राजेन्द्र शाल्वः परमदुर्मनाः +व्यपायात्सबलस्तूर्णं प्रद्युम्नशरपीडितः +स द्वारकां परित्यज्य क्रूरो वृष्णिभिरर्दितः +सौभमास्थाय राजेन्द्र दिवमाचक्रमे तदा +वासुदेव उवाच +आनर्तनगरं मुक्तं ततोऽहमगमं तदा +महाक्रतौ राजसूये निवृत्ते नृपते तव +अपश्यं द्वारकां चाहं महाराज हतत्विषम् +निःस्वाध्यायवषट्कारां निर्भूषणवरस्त्रियम् +अनभिज्ञेयरूपाणि द्वारकोपवनानि च +दृष्ट्वा शङ्कोपपन्नोऽहमपृच्छं हृदिकात्मजम् +अस्वस्थनरनारीकमिदं वृष्णिपुरं भृशम् +किमिदं नरशार्दूल श्रोतुमिच्छामहे वयम् +एवमुक्तस्तु स मया विस्तरेणेदमब्रवीत् +रोधं मोक्षं च शाल्वेन हार्दिक्यो राजसत्तम +ततोऽहं कौरवश्रेष्ठ श्रुत्वा सर्वमशेषतः +विनाशे शाल्वराजस्य तदैवाकरवं मतिम् +ततोऽहं भरतश्रेष्ठ समाश्वास्य पुरे जनम् +राजानमाहुकं चैव तथैवानकदुन्दुभिम् +सर्ववृष्णिप्रवीरांश्च हर्षयन्नब्रुवं तदा +अप्रमादः सदा कार्यो नगरे यादवर्षभाः +शाल्वराजविनाशाय प्रयातं मां निबोधत +नाहत्वा तं निवर्तिष्ये पुरीं द्वारवतीं प्रति +सशाल्वं सौभनगरं हत्वा द्रष्टास्मि वः पुनः +त्रिसामा हन्यतामेषा दुन्दुभिः शत्रुभीषणी +ते मयाश्वासिता वीरा यथावद्भरतर्षभ +सर्वे मामब्रुवन्हृष्टाः प्रयाहि जहि शात्रवान् +तैः प्रहृष्टात्मभिर्वीरैराशीर्भिरभिनन्दितः +वाचयित्वा द्विजश्रेष्ठान्प्रणम्य शिरसाहुकम् +सैन्यसुग्रीवयुक्तेन रथेनानादयन्दिशः +प्रध्माप्य शङ्खप्रवरं पाञ्चजन्यमहं नृप +प्रयातोऽस्मि नरव्याघ्र बलेन महता वृतः +कॢप्तेन चतुरङ्गेण बलेन जितकाशिना +समतीत्य बहून्देशान्गिरींश्च बहुपादपान् +सरांसि सरितश्चैव मार्त्तिकावतमासदम् +तत्राश्रौषं नरव्याघ्र शाल्वं नगरमन्तिकात् +प्रयातं सौभमास्थाय तमहं पृष्ठतोऽन्वयाम् +ततः सागरमासाद्य कुक्षौ तस्य महोर्मिणः +समुद्रनाभ्यां शाल्वोऽभूत्सौभमास्थाय शत्रुहन् +स समालोक्य दूरान्मां स्मयन्निव युधिष्ठिर +आह्वयामास दुष्टात्मा युद्धायैव मुहुर्मुहुः +तस्य शार्ङ्गविनिर्मुक्तैर्बहुभिर्मर्मभेदिभिः +पुरं नासाद्यत शरैस्ततो मां रोष आविशत् +स चापि पापप्रकृतिर्दैतेयापसदो नृप +मय्यवर्षत दुर्धर्षः शरधाराः सहस्रशः +सैनिकान्मम सूतं च हयांश्च समवाकिरत् +अचिन्तयन्तस्तु शरान्वयं युध्याम भारत +ततः शतसहस्राणि शराणां नतपर्वणाम् +चिक्षिपुः समरे वीरा मयि शाल्वपदानुगाः +ते हयान्मे रथं चैव तदा दारुकमेव च +छादयामासुरसुरा बाणैर्मर्मविभेदिभिः +न हया न रथो वीर न यन्ता मम दारुकः +अदृश्यन्त शरैश्छन्नास्तथाहं सैनिकाश्च मे +ततोऽहमपि कौरव्य शराणामयुतान्बहून् +अभिमन्त्रितानां धनुषा दिव्येन विधिनाक्षिपम् +न तत्र विषयस्त्वासीन्मम सैन्यस्य भारत +खे विषक्तं हि तत्सौभं क्रोशमात्र इवाभवत् +ततस्ते प्रेक्षकाः सर्वे रङ्गवाट इव स्थिताः +हर्षयामासुरुच्चैर्मां सिंहनादतलस्वनैः +मत्कार्मुकविनिर्मुक्ता दानवानां महारणे +अङ्गेषु रुधिराक्तास्ते विविशुः शलभा इव +ततो हलहलाशब्दः सौभमध्ये व्���वर्धत +वध्यतां विशिखैस्तीक्ष्णैः पततां च महार्णवे +ते निकृत्तभुजस्कन्धाः कबन्धाकृतिदर्शनाः +नदन्तो भैरवान्नादन्निपतन्ति स्म दानवाः +ततो गोक्षीरकुन्देन्दुमृणालरजतप्रभम् +जलजं पाञ्चजन्यं वै प्राणेनाहमपूरयम् +तान्दृष्ट्वा पतितांस्तत्र शाल्वः सौभपतिस्तदा +मायायुद्धेन महता योधयामास मां युधि +ततो हुडहुडाः प्रासाः शक्तिशूलपरश्वधाः +पट्टिशाश्च भुशुण्ड्यश्च प्रापतन्ननिशं मयि +तानहं माययैवाशु प्रतिगृह्य व्यनाशयम् +तस्यां हतायां मायायां गिरिशृङ्गैरयोधयत् +ततोऽभवत्तम इव प्रभातमिव चाभवत् +दुर्दिनं सुदिनं चैव शीतमुष्णं च भारत +एवं मायां विकुर्वाणो योधयामास मां रिपुः +विज्ञाय तदहं सर्वं माययैव व्यनाशयम् +यथाकालं तु युद्धेन व्यधमं सर्वतः शरैः +ततो व्योम महाराज शतसूर्यमिवाभवत् +शतचन्द्रं च कौन्तेय सहस्रायुततारकम् +ततो नाज्ञायत तदा दिवारात्रं तथा दिशः +ततोऽहं मोहमापन्नः प्रज्ञास्त्रं समयोजयम् +ततस्तदस्त्रमस्त्रेण विधूतं शरतूलवत् +तथा तदभवद्युद्धं तुमुलं लोमहर्षणम् +लब्धालोकश्च राजेन्द्र पुनः शत्रुमयोधयम् +वासुदेव उवाच +एवं स पुरुषव्याघ्र शाल्वो राज्ञां महारिपुः +युध्यमानो मया संख्ये वियदभ्यागमत्पुनः +ततः शतघ्नीश्च महागदाश्च; दीप्तांश्च शूलान्मुसलानसींश्च +चिक्षेप रोषान्मयि मन्दबुद्धिः; शाल्वो महाराज जयाभिकाङ्क्षी +तानाशुगैरापततोऽहमाशु; निवार्य तूर्णं खगमान्ख एव +द्विधा त्रिधा चाच्छिनमाशु मुक्तै;स्ततोऽन्तरिक्षे निनदो बभूव +ततः शतसहस्रेण शराणां नतपर्वणाम् +दारुकं वाजिनश्चैव रथं च समवाकिरत् +ततो मामब्रवीद्वीर दारुको विह्वलन्निव +स्थातव्यमिति तिष्ठामि शाल्वबाणप्रपीडितः +इति तस्य निशम्याहं सारथेः करुणं वचः +अवेक्षमाणो यन्तारमपश्यं शरपीडितम् +न तस्योरसि नो मूर्ध्नि न काये न भुजद्वये +अन्तरं पाण्डवश्रेष्ठ पश्यामि नहतं शरैः +स तु बाणवरोत्पीडाद्विस्रवत्यसृगुल्बणम् +अभिवृष्टो यथा मेघैर्गिरिर्गैरिकधातुमान् +अभीषुहस्तं तं दृष्ट्वा सीदन्तं सारथिं रणे +अस्तम्भयं महाबाहो शाल्वबाणप्रपीडितम् +अथ मां पुरुषः कश्चिद्द्वारकानिलयोऽब्रवीत् +त्वरितो रथमभ्येत्य सौहृदादिव भारत +आहुकस्य वचो वीर तस्यैव परिचारकः +विषण्णः सन्नकण्ठो वै तन्निबोध युधिष्ठिर +द्वारकाधिपतिर्वीर आह त्���ामाहुको वचः +केशवेह विजानीष्व यत्त्वां पितृसखोऽब्रवीत् +उपयात्वाद्य शाल्वेन द्वारकां वृष्णिनन्दन +विषक्ते त्वयि दुर्धर्ष हतः शूरसुतो बलात् +तदलं साधु युद्धेन निवर्तस्व जनार्दन +द्वारकामेव रक्षस्व कार्यमेतन्महत्तव +इत्यहं तस्य वचनं श्रुत्वा परमदुर्मनाः +निश्चयं नाधिगच्छामि कर्तव्यस्येतरस्य वा +सात्यकिं बलदेवं च प्रद्युम्नं च महारथम् +जगर्हे मनसा वीर तच्छ्रुत्वा विप्रियं वचः +अहं हि द्वारकायाश्च पितुश्च कुरुनन्दन +तेषु रक्षां समाधाय प्रयातः सौभपातने +बलदेवो महाबाहुः कच्चिज्जीवति शत्रुहा +सात्यकी रौक्मिणेयश्च चारुदेष्णश्च वीर्यवान् +साम्बप्रभृतयश्चैवेत्यहमासं सुदुर्मनाः +एतेषु हि नरव्याघ्र जीवत्सु न कथंचन +शक्यः शूरसुतो हन्तुमपि वज्रभृता स्वयम् +हतः शूरसुतो व्यक्तं व्यक्तं ते च परासवः +बलदेवमुखाः सर्वे इति मे निश्चिता मतिः +सोऽहं सर्वविनाशं तं चिन्तयानो मुहुर्मुहुः +सुविह्वलो महाराज पुनः शाल्वमयोधयम् +ततोऽपश्यं महाराज प्रपतन्तमहं तदा +सौभाच्छूरसुतं वीर ततो मां मोह आविशत् +तस्य रूपं प्रपततः पितुर्मम नराधिप +ययातेः क्षीणपुण्यस्य स्वर्गादिव महीतलम् +विशीर्णगलितोष्णीषः प्रकीर्णाम्बरमूर्धजः +प्रपतन्दृश्यते ह स्म क्षीणपुण्य इव ग्रहः +ततः शार्ङ्गं धनुःश्रेष्ठं करात्प्रपतितं मम +मोहात्सन्नश्च कौन्तेय रथोपस्थ उपाविशम् +ततो हाहाकृतं सर्वं सैन्यं मे गतचेतनम् +मां दृष्ट्वा रथनीडस्थं गतासुमिव भारत +प्रसार्य बाहू पततः प्रसार्य चरणावपि +रूपं पितुरपश्यं तच्छकुनेः पततो यथा +तं पतन्तं महाबाहो शूलपट्टिशपाणयः +अभिघ्नन्तो भृशं वीरा मम चेतो व्यकम्पयन् +ततो मुहूर्तात्प्रतिलभ्य संज्ञा;महं तदा वीर महाविमर्दे +न तत्र सौभं न रिपुं न शाल्वं; पश्यामि वृद्धं पितरं न चापि +ततो ममासीन्मनसि मायेयमिति निश्चितम् +प्रबुद्धोऽस्मि ततो भूयः शतशो विकिरञ्शरान् +वासुदेव उवाच +ततोऽहं भरतश्रेष्ठ प्रगृह्य रुचिरं धनुः +शरैरपातयं सौभाच्छिरांसि विबुधद्विषाम् +शरांश्चाशीविषाकारानूर्ध्वगांस्तिग्मतेजसः +अप्रैषं शाल्वराजाय शार्ङ्गमुक्तान्सुवाससः +ततो नादृश्यत तदा सौभं कुरुकुलोद्वह +अन्तर्हितं माययाभूत्ततोऽहं विस्मितोऽभवम् +अथ दानवसंघास्ते विकृताननमूर्धजाः +उदक्रोशन्महाराज विष्ठिते मयि भारत +त��ोऽस्त्रं शब्दसाहं वै त्वरमाणो महाहवे +अयोजयं तद्वधाय ततः शब्द उपारमत् +हतास्ते दानवाः सर्वे यैः स शब्द उदीरितः +शरैरादित्यसंकाशैर्ज्वलितैः शब्दसाधनैः +तस्मिन्नुपरते शब्दे पुनरेवान्यतोऽभवत् +शब्दोऽपरो महाराज तत्रापि प्राहरं शरान् +एवं दश दिशः सर्वास्तिर्यगूर्ध्वं च भारत +नादयामासुरसुरास्ते चापि निहता मया +ततः प्राग्ज्योतिषं गत्वा पुनरेव व्यदृश्यत +सौभं कामगमं वीर मोहयन्मम चक्षुषी +ततो लोकान्तकरणो दानवो वानराकृतिः +शिलावर्षेण सहसा महता मां समावृणोत् +सोऽहं पर्वतवर्षेण वध्यमानः समन्ततः +वल्मीक इव राजेन्द्र पर्वतोपचितोऽभवम् +ततोऽहं पर्वतचितः सहयः सहसारथिः +अप्रख्यातिमियां राजन्सध्वजः पर्वतैश्चितः +ततो वृष्णिप्रवीरा ये ममासन्सैनिकास्तदा +ते भयार्ता दिशः सर्वाः सहसा विप्रदुद्रुवुः +ततो हाहाकृतं सर्वमभूत्किल विशां पते +द्यौश्च भूमिश्च खं चैवादृश्यमाने तथा मयि +ततो विषण्णमनसो मम राजन्सुहृज्जनाः +रुरुदुश्चुक्रुशुश्चैव दुःखशोकसमन्विताः +द्विषतां च प्रहर्षोऽभूदार्तिश्चाद्विषतामपि +एवं विजितवान्वीर पश्चादश्रौषमच्युत +ततोऽहमस्त्रं दयितं सर्वपाषाणभेदनम् +वज्रमुद्यम्य तान्सर्वान्पर्वतान्समशातयम् +ततः पर्वतभारार्ता मन्दप्राणविचेष्टिताः +हया मम महाराज वेपमाना इवाभवन् +मेघजालमिवाकाशे विदार्याभ्युदितं रविम् +दृष्ट्वा मां बान्धवाः सर्वे हर्षमाहारयन्पुनः +ततो मामब्रवीत्सूतः प्राञ्जलिः प्रणतो नृप +साधु संपश्य वार्ष्णेय शाल्वं सौभपतिं स्थितम् +अलं कृष्णावमन्यैनं साधु यत्नं समाचर +मार्दवं सखितां चैव शाल्वादद्य व्यपाहर +जहि शाल्वं महाबाहो मैनं जीवय केशव +सर्वैः पराक्रमैर्वीर वध्यः शत्रुरमित्रहन् +न शत्रुरवमन्तव्यो दुर्बलोऽपि बलीयसा +योऽपि स्यात्पीठगः कश्चित्किं पुनः समरे स्थितः +स त्वं पुरुषशार्दूल सर्वयत्नैरिमं प्रभो +जहि वृष्णिकुलश्रेष्ठ मा त्वां कालोऽत्यगात्पुनः +नैष मार्दवसाध्यो वै मतो नापि सखा तव +येन त्वं योधितो वीर द्वारका चावमर्दिता +एवमादि तु कौन्तेय श्रुत्वाहं सारथेर्वचः +तत्त्वमेतदिति ज्ञात्वा युद्धे मतिमधारयम् +वधाय शाल्वराजस्य सौभस्य च निपातने +दारुकं चाब्रुवं वीर मुहूर्तं स्थीयतामिति +ततोऽप्रतिहतं दिव्यमभेद्यमतिवीर्यवत् +आग्नेयमस्त्रं दयितं स���्वसाहं महाप्रभम् +यक्षाणां राक्षसानां च दानवानां च संयुगे +राज्ञां च प्रतिलोमानां भस्मान्तकरणं महत् +क्षुरान्तममलं चक्रं कालान्तकयमोपमम् +अभिमन्त्र्याहमतुलं द्विषतां च निबर्हणम् +जहि सौभं स्ववीर्येण ये चात्र रिपवो मम +इत्युक्त्वा भुजवीर्येण तस्मै प्राहिणवं रुषा +रूपं सुदर्शनस्यासीदाकाशे पततस्तदा +द्वितीयस्येव सूर्यस्य युगान्ते परिविष्यतः +तत्समासाद्य नगरं सौभं व्यपगतत्विषम् +मध्येन पाटयामास क्रकचो दार्विवोच्छ्रितम् +द्विधा कृतं ततः सौभं सुदर्शनबलाद्धतम् +महेश्वरशरोद्धूतं पपात त्रिपुरं यथा +तस्मिन्निपतिते सौभे चक्रमागात्करं मम +पुनश्चोद्धूय वेगेन शाल्वायेत्यहमब्रुवम् +ततः शाल्वं गदां गुर्वीमाविध्यन्तं महाहवे +द्विधा चकार सहसा प्रजज्वाल च तेजसा +तस्मिन्निपतिते वीरे दानवास्त्रस्तचेतसः +हाहाभूता दिशो जग्मुरर्दिता मम सायकैः +ततोऽहं समवस्थाप्य रथं सौभसमीपतः +शङ्खं प्रध्माप्य हर्षेण सुहृदः पर्यहर्षयम् +तन्मेरुशिखराकारं विध्वस्ताट्टालगोपुरम् +दह्यमानमभिप्रेक्ष्य स्त्रियस्ताः संप्रदुद्रुवुः +एवं निहत्य समरे शाल्वं सौभं निपात्य च +आनर्तान्पुनरागम्य सुहृदां प्रीतिमावहम् +एतस्मात्कारणाद्राजन्नागमं नागसाह्वयम् +यद्यगां परवीरघ्न न हि जीवेत्सुयोधनः +वैशंपायन उवाच +एवमुक्त्वा महाबाहुः कौरवं पुरुषोत्तमः +आमन्त्र्य प्रययौ धीमान्पाण्डवान्मधुसूदनः +अभिवाद्य महाबाहुर्धर्मराजं युधिष्ठिरम् +राज्ञा मूर्धन्युपाघ्रातो भीमेन च महाभुजः +सुभद्रामभिमन्युं च रथमारोप्य काञ्चनम् +आरुरोह रथं कृष्णः पाण्डवैरभिपूजितः +सैन्यसुग्रीवयुक्तेन रथेनादित्यवर्चसा +द्वारकां प्रययौ कृष्णः समाश्वास्य युधिष्ठिरम् +ततः प्रयाते दाशार्हे धृष्टद्युम्नोऽपि पार्षतः +द्रौपदेयानुपादाय प्रययौ स्वपुरं तदा +धृष्टकेतुः स्वसारं च समादायाथ चेदिराट् +जगाम पाण्डवान्दृष्ट्वा रम्यां शुक्तिमतीं पुरीम् +केकयाश्चाप्यनुज्ञाताः कौन्तेयेनामितौजसा +आमन्त्र्य पाण्डवान्सर्वान्प्रययुस्तेऽपि भारत +ब्राह्मणाश्च विशश्चैव तथा विषयवासिनः +विसृज्यमानाः सुभृशं न त्यजन्ति स्म पाण्डवान् +समवायः स राजेन्द्र सुमहाद्भुतदर्शनः +आसीन्महात्मनां तेषां काम्यके भरतर्षभ +युधिष्ठिरस्तु विप्रांस्ताननुमान्य महामन���ः +शशास पुरुषान्काले रथान्योजयतेति ह +वैशंपायन उवाच +तस्मिन्दशार्हाधिपतौ प्रयाते; युधिष्ठिरो भीमसेनार्जुनौ च +यमौ च कृष्णा च पुरोहितश्च; रथान्महार्हान्परमाश्वयुक्तान् +आस्थाय वीराः सहिता वनाय; प्रतस्थिरे भूतपतिप्रकाशाः +हिरण्यनिष्कान्वसनानि गाश्च; प्रदाय शिक्षाक्षरमन्त्रविद्भ्यः +प्रेष्याः पुरो विंशतिरात्तशस्त्रा; धनूंषि वर्माणि शरांश्च पीतान् +मौर्वीश्च यन्त्राणि च सायकांश्च; सर्वे समादाय जघन्यमीयुः +ततस्तु वासांसि च राजपुत्र्या; धात्र्यश्च दास्यश्च विभूषणं च +तदिन्द्रसेनस्त्वरितं प्रगृह्य; जघन्यमेवोपययौ रथेन +ततः कुरुश्रेष्ठमुपेत्य पौराः; प्रदक्षिणं चक्रुरदीनसत्त्वाः +तं ब्राह्मणाश्चाभ्यवदन्प्रसन्ना; मुख्याश्च सर्वे कुरुजाङ्गलानाम् +स चापि तानभ्यवदत्प्रसन्नः; सहैव तैर्भ्रातृभिर्धर्मराजः +तस्थौ च तत्राधिपतिर्महात्मा; दृष्ट्वा जनौघं कुरुजाङ्गलानाम् +पितेव पुत्रेषु स तेषु भावं; चक्रे कुरूणामृषभो महात्मा +ते चापि तस्मिन्भरतप्रबर्हे; तदा बभूवुः पितरीव पुत्राः +ततः समासाद्य महाजनौघाः; कुरुप्रवीरं परिवार्य तस्थुः +हा नाथ हा धर्म इति ब्रुवन्तो; ह्रिया च सर्वेऽश्रुमुखा बभूवुः +वरः कुरूणामधिपः प्रजानां; पितेव पुत्रानपहाय चास्मान् +पौरानिमाञ्जानपदांश्च सर्वा;न्हित्वा प्रयातः क्व नु धर्मराजः +धिग्धार्तराष्ट्रं सुनृशंसबुद्धिं; ससौबलं पापमतिं च कर्णम् +अनर्थमिच्छन्ति नरेन्द्र पापा; ये धर्मनित्यस्य सतस्तवोग्राः +स्वयं निवेश्याप्रतिमं महात्मा; पुरं महद्देवपुरप्रकाशम् +शतक्रतुप्रस्थममोघकर्मा; हित्वा प्रयातः क्व नु धर्मराजः +चकार यामप्रतिमां महात्मा; सभां मयो देवसभाप्रकाशाम् +तां देवगुप्तामिव देवमायां; हित्वा प्रयातः क्व नु धर्मराजः +तान्धर्मकामार्थविदुत्तमौजा; बीभत्सुरुच्चैः सहितानुवाच +आदास्यते वासमिमं निरुष्य; वनेषु राजा द्विषतां यशांसि +द्विजातिमुख्याः सहिताः पृथक्च; भवद्भिरासाद्य तपस्विनश्च +प्रसाद्य धर्मार्थविदश्च वाच्या; यथार्थसिद्धिः परमा भवेन्नः +इत्येवमुक्ते वचनेऽर्जुनेन; ते ब्राह्मणाः सर्ववर्णाश्च राजन् +मुदाभ्यनन्दन्सहिताश्च चक्रुः; प्रदक्षिणं धर्मभृतां वरिष्ठम् +आमन्त्र्य पार्थं च वृकोदरं च; धनंजयं याज्ञसेनीं यमौ च +प्रतस्थिरे राष्ट्रमपेतहर���षा; युधिष्ठिरेणानुमता यथास्वम् +वैशंपायन उवाच +ततस्तेषु प्रयातेषु कौन्तेयः सत्यसंगरः +अभ्यभाषत धर्मात्मा भ्रातॄन्सर्वान्युधिष्ठिरः +द्वादशेमाः समास्माभिर्वस्तव्यं निर्जने वने +समीक्षध्वं महारण्ये देशं बहुमृगद्विजम् +बहुपुष्पफलं रम्यं शिवं पुण्यजनोचितम् +यत्रेमाः शरदः सर्वाः सुखं प्रतिवसेमहि +एवमुक्ते प्रत्युवाच धर्मराजं धनंजयः +गुरुवन्मानवगुरुं मानयित्वा मनस्विनम् +अर्जुन उवाच +भवानेव महर्षीणां वृद्धानां पर्युपासिता +अज्ञातं मानुषे लोके भवतो नास्ति किंचन +त्वया ह्युपासिता नित्यं ब्राह्मणा भरतर्षभ +द्वैपायनप्रभृतयो नारदश्च महातपाः +यः सर्वलोकद्वाराणि नित्यं संचरते वशी +देवलोकाद्ब्रह्मलोकं गन्धर्वाप्सरसामपि +सर्वा गतीर्विजानासि ब्राह्मणानां न संशयः +प्रभावांश्चैव वेत्थ त्वं सर्वेषामेव पार्थिव +त्वमेव राजञ्जानासि श्रेयःकारणमेव च +यत्रेच्छसि महाराज निवासं तत्र कुर्महे +इदं द्वैतवनं नाम सरः पुण्यजनोचितम् +बहुपुष्पफलं रम्यं नानाद्विजनिषेवितम् +अत्रेमा द्वादश समा विहरेमेति रोचये +यदि तेऽनुमतं राजन्किं वान्यन्मन्यते भवान् +युधिष्ठिर उवाच +ममाप्येतन्मतं पार्थ त्वया यत्समुदाहृतम् +गच्छाम पुण्यं विख्यातं महद्द्वैतवनं सरः +वैशंपायन उवाच +ततस्ते प्रययुः सर्वे पाण्डवा धर्मचारिणः +ब्राह्मणैर्बहुभिः सार्धं पुण्यं द्वैतवनं सरः +ब्राह्मणाः साग्निहोत्राश्च तथैव च निरग्नयः +स्वाध्यायिनो भिक्षवश्च सजपा वनवासिनः +बहवो ब्राह्मणास्तत्र परिवव्रुर्युधिष्ठिरम् +तपस्विनः सत्यशीलाः शतशः संशितव्रताः +ते यात्वा पाण्डवास्तत्र बहुभिर्ब्राह्मणैः सह +पुण्यं द्वैतवनं रम्यं विविशुर्भरतर्षभाः +तच्छालतालाम्रमधूकनीप; कदम्बसर्जार्जुनकर्णिकारैः +तपात्यये पुष्पधरैरुपेतं; महावनं राष्ट्रपतिर्ददर्श +महाद्रुमाणां शिखरेषु तस्थु;र्मनोरमां वाचमुदीरयन्तः +मयूरदात्यूहचकोरसंघा;स्तस्मिन्वने काननकोकिलाश्च +करेणुयूथैः सह यूथपानां; मदोत्कटानामचलप्रभाणाम् +महान्ति यूथानि महाद्विपानां; तस्मिन्वने राष्ट्रपतिर्ददर्श +मनोरमां भोगवतीमुपेत्य; धृतात्मनां चीरजटाधराणाम् +तस्मिन्वने धर्मभृतां निवासे; ददर्श सिद्धर्षिगणाननेकान् +ततः स यानादवरुह्य राजा; सभ्रातृकः सजनः काननं तत् +विवेश धर्मा��्मवतां वरिष्ठ;स्त्रिविष्टपं शक्र इवामितौजाः +तं सत्यसंधं सहिताभिपेतु;र्दिदृक्षवश्चारणसिद्धसंघाः +वनौकसश्चापि नरेन्द्रसिंहं; मनस्विनं संपरिवार्य तस्थुः +स तत्र सिद्धानभिवाद्य सर्वा;न्प्रत्यर्चितो राजवद्देववच्च +विवेश सर्वैः सहितो द्विजाग्र्यैः; कृताञ्जलिर्धर्मभृतां वरिष्ठः +स पुण्यशीलः पितृवन्महात्मा; तपस्विभिर्धर्मपरैरुपेत्य +प्रत्यर्चितः पुष्पधरस्य मूले; महाद्रुमस्योपविवेश राजा +भीमश्च कृष्णा च धनंजयश्च; यमौ च ते चानुचरा नरेन्द्रम् +विमुच्य वाहानवरुह्य सर्वे; तत्रोपतस्थुर्भरतप्रबर्हाः +लतावतानावनतः स पाण्डवै;र्महाद्रुमः पञ्चभिरुग्रधन्विभिः +बभौ निवासोपगतैर्महात्मभि;र्महागिरिर्वारणयूथपैरिव +वैशंपायन उवाच +तत्काननं प्राप्य नरेन्द्रपुत्राः; सुखोचिता वासमुपेत्य कृच्छ्रम् +विजह्रुरिन्द्रप्रतिमाः शिवेषु; सरस्वतीशालवनेषु तेषु +यतींश्च सर्वान्स मुनींश्च राजा; तस्मिन्वने मूलफलैरुदग्रैः +द्विजातिमुख्यानृषभः कुरूणां; संतर्पयामास महानुभावः +इष्टीश्च पित्र्याणि तथाग्रियाणि; महावने वसतां पाण्डवानाम् +पुरोहितः सर्वसमृद्धतेजा;श्चकार धौम्यः पितृवत्कुरूणाम् +अपेत्य राष्ट्राद्वसतां तु तेषा;मृषिः पुराणोऽतिथिराजगाम +तमाश्रमं तीव्रसमृद्धतेजा; मार्कण्डेयः श्रीमतां पाण्डवानाम् +स सर्वविद्द्रौपदीं प्रेक्ष्य कृष्णां; युधिष्ठिरं भीमसेनार्जुनौ च +संस्मृत्य रामं मनसा महात्मा; तपस्विमध्येऽस्मयतामितौजाः +तं धर्मराजो विमना इवाब्रवी;त्सर्वे ह्रिया सन्ति तपस्विनोऽमी +भवानिदं किं स्मयतीव हृष्ट;स्तपस्विनां पश्यतां मामुदीक्ष्य +मार्कण्डेय उवाच +न तात हृष्यामि न च स्मयामि; प्रहर्षजो मां भजते न दर्पः +तवापदं त्वद्य समीक्ष्य रामं; सत्यव्रतं दाशरथिं स्मरामि +स चापि राजा सह लक्ष्मणेन; वने निवासं पितुरेव शासनात् +धन्वी चरन्पार्थ पुरा मयैव; दृष्टो गिरेरृष्यमूकस्य सानौ +सहस्रनेत्रप्रतिमो महात्मा; मयस्य जेत नमुचेश्च हन्ता +पितुर्निदेशादनघः स्वधर्मं; वने वासं दाशरथिश्चकार +स चापि शक्रस्य समप्रभावो; महानुभावः समरेष्वजेयः +विहाय भोगानचरद्वनेषु; नेशे बलस्येति चरेदधर्मम् +नृपाश्च नाभागभगीरथादयो; महीमिमां सागरान्तां विजित्य +सत्येन तेऽप्यजयंस्तात लोका;न्नेशे बलस्येति चरेदधर्मम् +अलर्कमाहुर्नरवर्य सन्तं; सत्यव्रतं काशिकरूषराजम् +विहाय राष्ट्राणि वसूनि चैव; नेशे बलस्येति चरेदधर्मम् +धात्रा विधिर्यो विहितः पुराण;स्तं पूजयन्तो नरवर्य सन्तः +सप्तर्षयः पार्थ दिवि प्रभान्ति; नेशे बलस्येति चरेदधर्मम् +महाबलान्पर्वतकूटमात्रा;न्विषाणिनः पश्य गजान्नरेन्द्र +स्थितान्निदेशे नरवर्य धातु;र्नेशे बलस्येति चरेदधर्मम् +सर्वाणि भूतानि नरेन्द्र पश्य; यथा यथावद्विहितं विधात्रा +स्वयोनितस्तत्कुरुते प्रभावा;न्नेशे बलस्येति चरेदधर्मम् +सत्येन धर्मेण यथार्हवृत्त्या; ह्रिया तथा सर्वभूतान्यतीत्य +यशश्च तेजश्च तवापि दीप्तं; विभावसोर्भास्करस्येव पार्थ +यथाप्रतिज्ञं च महानुभाव; कृच्छ्रं वने वासमिमं निरुष्य +ततः श्रियं तेजसा स्वेन दीप्ता;मादास्यसे पार्थिव कौरवेभ्यः +वैशंपायन उवाच +तमेवमुक्त्वा वचनं महर्षि;स्तपस्विमध्ये सहितं सुहृद्भिः +आमन्त्र्य धौम्यं सहितांश्च पार्थां;स्ततः प्रतस्थे दिशमुत्तरां सः +वैशंपायन उवाच +वसत्स्वथ द्वैतवने पाण्डवेषु महात्मसु +अनुकीर्णं महारण्यं ब्राह्मणैः समपद्यत +ईर्यमाणेन सततं ब्रह्मघोषेण सर्वतः +ब्रह्मलोकसमं पुण्यमासीद्द्वैतवनं सरः +यजुषामृचां च साम्नां च गद्यानां चैव सर्वशः +आसीदुच्चार्यमाणानां निस्वनो हृदयंगमः +ज्याघोषः पाण्डवेयानां ब्रह्मघोषश्च धीमताम् +संसृष्टं ब्रह्मणा क्षत्रं भूय एव व्यरोचत +अथाब्रवीद्बको दाल्भ्यो धर्मराजं युधिष्ठिरम् +संध्यां कौन्तेयमासीनमृषिभिः परिवारितम् +पश्य द्वैतवने पार्थ ब्राह्मणानां तपस्विनाम् +होमवेलां कुरुश्रेष्ठ संप्रज्वलितपावकाम् +चरन्ति धर्मं पुण्येऽस्मिंस्त्वया गुप्ता धृतव्रताः +भृगवोऽङ्गिरसश्चैव वासिष्ठाः काश्यपैः सह +आगस्त्याश्च महाभागा आत्रेयाश्चोत्तमव्रताः +सर्वस्य जगतः श्रेष्ठा ब्राह्मणाः संगतास्त्वया +इदं तु वचनं पार्थ शृण्वेकाग्रमना मम +भ्रातृभिः सह कौन्तेय यत्त्वां वक्ष्यामि कौरव +ब्रह्म क्षत्रेण संसृष्टं क्षत्रं च ब्रह्मणा सह +उदीर्णौ दहतः शत्रून्वनानीवाग्निमारुतौ +नाब्राह्मणस्तात चिरं बुभूषे;दिच्छन्निमं लोकममुं च जेतुम् +विनीतधर्मार्थमपेतमोहं; लब्ध्वा द्विजं नुदति नृपः सपत्नान् +चरन्नैःश्रेयसं धर्मं प्रजापालनकारितम् +नाध्यगच्छद्बलिर्लोके तीर्थमन्यत्र वै द्विजात् +अनूनमासीदसुरस्य कामै;र्वैरोचनेः श्रीरपि चाक्षयासीत् +लब्ध्वा महीं ब्राह्मणसंप्रयोगा;त्तेष्वाचरन्दुष्टमतो व्यनश्यत् +नाब्राह्मणं भूमिरियं सभूति;र्वर्णं द्वितीयं भजते चिराय +समुद्रनेमिर्नमते तु तस्मै; यं ब्राह्मणः शास्ति नयैर्विनीतः +कुञ्जरस्येव संग्रामेऽपरिगृह्याङ्कुशग्रहम् +ब्राह्मणैर्विप्रहीणस्य क्षत्रस्य क्षीयते बलम् +ब्रह्मण्यनुपमा दृष्टिः क्षात्रमप्रतिमं बलम् +तौ यदा चरतः सार्धमथ लोकः प्रसीदति +यथा हि सुमहानग्निः कक्षं दहति सानिलः +तथा दहति राजन्यो ब्राह्मणेन समं रिपून् +ब्राह्मणेभ्योऽथ मेधावी बुद्धिपर्येषणं चरेत् +अलब्धस्य च लाभाय लब्धस्य च विवृद्धये +अलब्धलाभाय च लब्धवृद्धये; यथार्हतीर्थप्रतिपादनाय +यशस्विनं वेदविदं विपश्चितं; बहुश्रुतं ब्राह्मणमेव वासय +ब्राह्मणेषूत्तमा वृत्तिस्तव नित्यं युधिष्ठिर +तेन ते सर्वलोकेषु दीप्यते प्रथितं यशः +ततस्ते ब्राह्मणाः सर्वे बकं दाल्भ्यमपूजयन् +युधिष्ठिरे स्तूयमाने भूयः सुमनसोऽभवन् +द्वैपायनो नारदश्च जामदग्न्यः पृथुश्रवाः +इन्द्रद्युम्नो भालुकिश्च कृतचेताः सहस्रपात् +कर्णश्रवाश्च मुञ्जश्च लवणाश्वश्च काश्यपः +हारीतः स्थूणकर्णश्च अग्निवेश्योऽथ शौनकः +ऋतवाक्च सुवाक्चैव बृहदश्व ऋतावसुः +ऊर्ध्वरेता वृषामित्रः सुहोत्रो होत्रवाहनः +एते चान्ये च बहवो ब्राह्मणाः संशितव्रताः +अजातशत्रुमानर्चुः पुरंदरमिवर्षयः +वैशंपायन उवाच +ततो वनगताः पार्थाः सायाह्ने सह कृष्णया +उपविष्टाः कथाश्चक्रुर्दुःखशोकपरायणाः +प्रिया च दर्शनीया च पण्डिता च पतिव्रता +ततः कृष्णा धर्मराजमिदं वचनमब्रवीत् +न नूनं तस्य पापस्य दुःखमस्मासु किंचन +विद्यते धार्तराष्ट्रस्य नृशंसस्य दुरात्मनः +यस्त्वां राजन्मया सार्धमजिनैः प्रतिवासितम् +भ्रातृभिश्च तथा सर्वैर्नाभ्यभाषत किंचन +वनं प्रस्थाप्य दुष्टात्मा नान्वतप्यत दुर्मतिः +आयसं हृदयं नूनं तस्य दुष्कृतकर्मणः +यस्त्वां धर्मपरं श्रेष्ठं रूक्षाण्यश्रावयत्तदा +सुखोचितमदुःखार्हं दुरात्मा ससुहृद्गणः +ईदृशं दुःखमानीय मोदते पापपूरुषः +चतुर्णामेव पापानामश्रु वै नापतत्तदा +त्वयि भारत निष्क्रान्ते वनायाजिनवाससि +दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः +दुर्भ्रातुस्तस्य चोग्रस्य तथा दुःशासनस्य च +इतरेषां तु सर्वेषां कुरूणां कुरुसत्तम +दुःखेनाभिपरीतानां नेत्रेभ्यः प्रापतज्जलम् +इदं च शयनं दृष्ट्वा यच्चासीत्ते पुरातनम् +शोचामि त्वां महाराज दुःखानर्हं सुखोचितम् +दान्तं यच्च सभामध्ये आसनं रत्नभूषितम् +दृष्ट्वा कुशबृसीं चेमां शोको मां रुन्धयत्ययम् +यदपश्यं सभायां त्वां राजभिः परिवारितम् +तच्च राजन्नपश्यन्त्याः का शान्तिर्हृदयस्य मे +या त्वाहं चन्दनादिग्धमपश्यं सूर्यवर्चसम् +सा त्वा पङ्कमलादिग्धं दृष्ट्वा मुह्यामि भारत +या वै त्वा कौशिकैर्वस्त्रैः शुभ्रैर्बहुधनैः पुरा +दृष्टवत्यस्मि राजेन्द्र सा त्वां पश्यामि चीरिणम् +यच्च तद्रुक्मपात्रीभिर्ब्राह्मणेभ्यः सहस्रशः +ह्रियते ते गृहादन्नं संस्कृतं सार्वकामिकम् +यतीनामगृहाणां ते तथैव गृहमेधिनाम् +दीयते भोजनं राजन्नतीव गुणवत्प्रभो +तच्च राजन्नपश्यन्त्याः का शान्तिर्हृदयस्य मे +यांस्ते भ्रातॄन्महाराज युवानो मृष्टकुण्डलाः +अभोजयन्त मृष्टान्नैः सूदाः परमसंस्कृतैः +सर्वांस्तानद्य पश्यामि वने वन्येन जीवतः +अदुःखार्हान्मनुष्येन्द्र नोपशाम्यति मे मनः +भीमसेनमिमं चापि दुःखितं वनवासिनम् +ध्यायन्तं किं न मन्युस्ते प्राप्ते काले विवर्धते +भीमसेनं हि कर्माणि स्वयं कुर्वाणमच्युत +सुखार्हं दुःखितं दृष्ट्वा कस्मान्मन्युर्न वर्धते +सत्कृतं विविधैर्यानैर्वस्त्रैरुच्चावचैस्तथा +तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते +कुरूनपि हि यः सर्वान्हन्तुमुत्सहते प्रभुः +त्वत्प्रसादं प्रतीक्षंस्तु सहतेऽयं वृकोदरः +योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना +शरातिसर्गे शीघ्रत्वात्कालान्तकयमोपमः +यस्य शस्त्रप्रतापेन प्रणताः सर्वपार्थिवाः +यज्ञे तव महाराज ब्राह्मणानुपतस्थिरे +तमिमं पुरुषव्याघ्रं पूजितं देवदानवैः +ध्यायन्तमर्जुनं दृष्ट्वा कस्मान्मन्युर्न वर्धते +दृष्ट्वा वनगतं पार्थमदुःखार्हं सुखोचितम् +न च ते वर्धते मन्युस्तेन मुह्यामि भारत +यो देवांश्च मनुष्यांश्च सर्पांश्चैकरथोऽजयत् +तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते +यो यानैरद्भुताकारैर्हयैर्नागैश्च संवृतः +प्रसह्य वित्तान्यादत्त पार्थिवेभ्यः परंतपः +क्षिपत्येकेन वेगेन पञ्च बाणशतानि यः +तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते +श्यामं बृहन्तं तरुणं चर्मिणामुत्तमं रणे +नकुलं ते वने दृष्ट्वा कस्मान्मन्युर्न वर्धते +दर्शनीयं च शूरं च माद्रीपुत्रं युधिष्ठिर +सहदेवं वने दृष्ट्वा कस्मान्मन्युर्न वर्धते +द्रुपदस्य कुले जातां स्नुषां पाण्डोर्महात्मनः +मां ते वनगतां दृष्ट्वा कस्मान्मन्युर्न वर्धते +नूनं च तव नैवास्ति मन्युर्भरतसत्तम +यत्ते भ्रातॄंश्च मां चैव दृष्ट्वा न व्यथते मनः +न निर्मन्युः क्षत्रियोऽस्ति लोके निर्वचनं स्मृतम् +तदद्य त्वयि पश्यामि क्षत्रिये विपरीतवत् +यो न दर्शयते तेजः क्षत्रियः काल आगते +सर्वभूतानि तं पार्थ सदा परिभवन्त्युत +तत्त्वया न क्षमा कार्या शत्रून्प्रति कथंचन +तेजसैव हि ते शक्या निहन्तुं नात्र संशयः +तथैव यः क्षमाकाले क्षत्रियो नोपशाम्यति +अप्रियः सर्वभूतानां सोऽमुत्रेह च नश्यति +द्रौपद्युवाच +अत्राप्युदाहरन्तीममितिहासं पुरातनम् +प्रह्लादस्य च संवादं बलेर्वैरोचनस्य च +असुरेन्द्रं महाप्राज्ञं धर्माणामागतागमम् +बलिः पप्रच्छ दैत्येन्द्रं प्रह्लादं पितरं पितुः +क्षमा स्विच्छ्रेयसी तात उताहो तेज इत्युत +एतन्मे संशयं तात यथावद्ब्रूहि पृच्छते +श्रेयो यदत्र धर्मज्ञ ब्रूहि मे तदसंशयम् +करिष्यामि हि तत्सर्वं यथावदनुशासनम् +तस्मै प्रोवाच तत्सर्वमेवं पृष्टः पितामहः +सर्वनिश्चयवित्प्राज्ञः संशयं परिपृच्छते +प्रह्लाद उवाच +न श्रेयः सततं तेजो न नित्यं श्रेयसी क्षमा +इति तात विजानीहि द्वयमेतदसंशयम् +यो नित्यं क्षमते तात बहून्दोषान्स विन्दति +भृत्याः परिभवन्त्येनमुदासीनास्तथैव च +सर्वभूतानि चाप्यस्य न नमन्ते कदाचन +तस्मान्नित्यं क्षमा तात पण्डितैरपवादिता +अवज्ञाय हि तं भृत्या भजन्ते बहुदोषताम् +आदातुं चास्य वित्तानि प्रार्थयन्तेऽल्पचेतसः +यानं वस्त्राण्यलंकाराञ्शयनान्यासनानि च +भोजनान्यथ पानानि सर्वोपकरणानि च +आददीरन्नधिकृता यथाकाममचेतसः +प्रदिष्टानि च देयानि न दद्युर्भर्तृशासनात् +न चैनं भर्तृपूजाभिः पूजयन्ति कदाचन +अवज्ञानं हि लोकेऽस्मिन्मरणादपि गर्हितम् +क्षमिणं तादृशं तात ब्रुवन्ति कटुकान्यपि +प्रेष्याः पुत्राश्च भृत्याश्च तथोदासीनवृत्तयः +अप्यस्य दारानिच्छन्ति परिभूय क्षमावतः +दाराश्चास्य प्रवर्तन्ते यथाकाममचेतसः +तथा च नित्यमुदिता यदि स्वल्पमपीश्वरात् +दण्डम��्हन्ति दुष्यन्ति दुष्टाश्चाप्यपकुर्वते +एते चान्ये च बहवो नित्यं दोषाः क्षमावताम् +अथ वैरोचने दोषानिमान्विद्ध्यक्षमावताम् +अस्थाने यदि वा स्थाने सततं रजसावृतः +क्रुद्धो दण्डान्प्रणयति विविधान्स्वेन तेजसा +मित्रैः सह विरोधं च प्राप्नुते तेजसावृतः +प्राप्नोति द्वेष्यतां चैव लोकात्स्वजनतस्तथा +सोऽवमानादर्थहानिमुपालम्भमनादरम् +संतापद्वेषलोभांश्च शत्रूंश्च लभते नरः +क्रोधाद्दण्डान्मनुष्येषु विविधान्पुरुषो नयन् +भ्रश्यते शीघ्रमैश्वर्यात्प्राणेभ्यः स्वजनादपि +योऽपकर्तॄंश्च कर्तॄंश्च तेजसैवोपगच्छति +तस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव +यस्मादुद्विजते लोकः कथं तस्य भवो भवेत् +अन्तरं ह्यस्य दृष्ट्वैव लोको विकुरुते ध्रुवम् +तस्मान्नात्युत्सृजेत्तेजो न च नित्यं मृदुर्भवेत् +काले मृदुर्यो भवति काले भवति दारुणः +स वै सुखमवाप्नोति लोकेऽमुष्मिन्निहैव च +क्षमाकालांस्तु वक्ष्यामि शृणु मे विस्तरेण तान् +ये ते नित्यमसंत्याज्या यथा प्राहुर्मनीषिणः +पूर्वोपकारी यस्तु स्यादपराधेऽगरीयसि +उपकारेण तत्तस्य क्षन्तव्यमपराधिनः +अबुद्धिमाश्रितानां च क्षन्तव्यमपराधिनाम् +न हि सर्वत्र पाण्डित्यं सुलभं पुरुषेण वै +अथ चेद्बुद्धिजं कृत्वा ब्रूयुस्ते तदबुद्धिजम् +पापान्स्वल्पेऽपि तान्हन्यादपराधे तथानृजून् +सर्वस्यैकोऽपराधस्ते क्षन्तव्यः प्राणिनो भवेत् +द्वितीये सति वध्यस्तु स्वल्पेऽप्यपकृते भवेत् +अजानता भवेत्कश्चिदपराधः कृतो यदि +क्षन्तव्यमेव तस्याहुः सुपरीक्ष्य परीक्षया +मृदुना मार्दवं हन्ति मृदुना हन्ति दारुणम् +नासाध्यं मृदुना किंचित्तस्मात्तीक्ष्णतरो मृदुः +देशकालौ तु संप्रेक्ष्य बलाबलमथात्मनः +नादेशकाले किंचित्स्याद्देशः कालः प्रतीक्ष्यते +तथा लोकभयाच्चैव क्षन्तव्यमपराधिनः +एत एवंविधाः कालाः क्षमायाः परिकीर्तिताः +अतोऽन्यथानुवर्तत्सु तेजसः काल उच्यते +द्रौपद्युवाच +तदहं तेजसः कालं तव मन्ये नराधिप +धार्तराष्ट्रेषु लुब्धेषु सततं चापकारिषु +न हि कश्चित्क्षमाकालो विद्यतेऽद्य कुरून्प्रति +तेजसश्चागते काले तेज उत्स्रष्टुमर्हसि +मृदुर्भवत्यवज्ञातस्तीक्ष्णादुद्विजते जनः +काले प्राप्ते द्वयं ह्येतद्यो वेद स महीपतिः +युधिष्ठिर उवाच +क्रोधो हन्ता मनुष्याणां क्रोधो भावयिता पुनः +इति विद्धि महाप्राज्ञे क्रोधमूलौ भवाभवौ +यो हि संहरते क्रोधं भावस्तस्य सुशोभने +यः पुनः पुरुषः क्रोधं नित्यं न सहते शुभे +तस्याभावाय भवति क्रोधः परमदारुणः +क्रोधमूलो विनाशो हि प्रजानामिह दृश्यते +तत्कथं मादृशः क्रोधमुत्सृजेल्लोकनाशनम् +क्रुद्धः पापं नरः कुर्यात्क्रुद्धो हन्याद्गुरूनपि +क्रुद्धः परुषया वाचा श्रेयसोऽप्यवमन्यते +वाच्यावाच्ये हि कुपितो न प्रजानाति कर्हिचित् +नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते तथा +हिंस्यात्क्रोधादवध्यांश्च वध्यान्संपूजयेदपि +आत्मानमपि च क्रुद्धः प्रेषयेद्यमसादनम् +एतान्दोषान्प्रपश्यद्भिर्जितः क्रोधो मनीषिभिः +इच्छद्भिः परमं श्रेय इह चामुत्र चोत्तमम् +तं क्रोधं वर्जितं धीरैः कथमस्मद्विधश्चरेत् +एतद्द्रौपदि संधाय न मे मन्युः प्रवर्धते +आत्मानं च परं चैव त्रायते महतो भयात् +क्रुध्यन्तमप्रतिक्रुध्यन्द्वयोरेष चिकित्सकः +मूढो यदि क्लिश्यमानः क्रुध्यतेऽशक्तिमान्नरः +बलीयसां मनुष्याणां त्यजत्यात्मानमन्ततः +तस्यात्मानं संत्यजतो लोका नश्यन्त्यनात्मनः +तस्माद्द्रौपद्यशक्तस्य मन्योर्नियमनं स्मृतम् +विद्वांस्तथैव यः शक्तः क्लिश्यमानो न कुप्यति +स नाशयित्वा क्लेष्टारं परलोके च नन्दति +तस्माद्बलवता चैव दुर्बलेन च नित्यदा +क्षन्तव्यं पुरुषेणाहुरापत्स्वपि विजानता +मन्योर्हि विजयं कृष्णे प्रशंसन्तीह साधवः +क्षमावतो जयो नित्यं साधोरिह सतां मतम् +सत्यं चानृततः श्रेयो नृशंसाच्चानृशंसता +तमेवं बहुदोषं तु क्रोधं साधुविवर्जितम् +मादृशः प्रसृजेत्कस्मात्सुयोधनवधादपि +तेजस्वीति यमाहुर्वै पण्डिता दीर्घदर्शिनः +न क्रोधोऽभ्यन्तरस्तस्य भवतीति विनिश्चितम् +यस्तु क्रोधं समुत्पन्नं प्रज्ञया प्रतिबाधते +तेजस्विनं तं विद्वांसो मन्यन्ते तत्त्वदर्शिनः +क्रुद्धो हि कार्यं सुश्रोणि न यथावत्प्रपश्यति +न कार्यं न च मर्यादां नरः क्रुद्धोऽनुपश्यति +हन्त्यवध्यानपि क्रुद्धो गुरून्रूक्षैस्तुदत्यपि +तस्मात्तेजसि कर्तव्ये क्रोधो दूरात्प्रतिष्ठितः +दाक्ष्यं ह्यमर्षः शौर्यं च शीघ्रत्वमिति तेजसः +गुणाः क्रोधाभिभूतेन न शक्याः प्राप्तुमञ्जसा +क्रोधं त्यक्त्वा तु पुरुषः सम्यक्तेजोऽभिपद्यते +कालयुक्तं महाप्राज्ञे क्रुद्धै��्तेजः सुदुःसहम् +क्रोधस्त्वपण्डितैः शश्वत्तेज इत्यभिधीयते +रजस्तल्लोकनाशाय विहितं मानुषान्प्रति +तस्माच्छश्वत्त्यजेत्क्रोधं पुरुषः सम्यगाचरन् +श्रेयान्स्वधर्मानपगो न क्रुद्ध इति निश्चितम् +यदि सर्वमबुद्धीनामतिक्रान्तममेधसाम् +अतिक्रमो मद्विधस्य कथं स्वित्स्यादनिन्दिते +यदि न स्युर्मनुष्येषु क्षमिणः पृथिवीसमाः +न स्यात्संधिर्मनुष्याणां क्रोधमूलो हि विग्रहः +अभिषक्तो ह्यभिषजेदाहन्याद्गुरुणा हतः +एवं विनाशो भूतानामधर्मः प्रथितो भवेत् +आक्रुष्टः पुरुषः सर्वः प्रत्याक्रोशेदनन्तरम् +प्रतिहन्याद्धतश्चैव तथा हिंस्याच्च हिंसितः +हन्युर्हि पितरः पुत्रान्पुत्राश्चापि तथा पितॄन् +हन्युश्च पतयो भार्याः पतीन्भार्यास्तथैव च +एवं संकुपिते लोके जन्म कृष्णे न विद्यते +प्रजानां संधिमूलं हि जन्म विद्धि शुभानने +ताः क्षीयेरन्प्रजाः सर्वाः क्षिप्रं द्रौपदि तादृशे +तस्मान्मन्युर्विनाशाय प्रजानामभवाय च +यस्मात्तु लोके दृश्यन्ते क्षमिणः पृथिवीसमाः +तस्माज्जन्म च भूतानां भवश्च प्रतिपद्यते +क्षन्तव्यं पुरुषेणेह सर्वास्वापत्सु शोभने +क्षमा भवो हि भूतानां जन्म चैव प्रकीर्तितम् +आक्रुष्टस्ताडितः क्रुद्धः क्षमते यो बलीयसा +यश्च नित्यं जितक्रोधो विद्वानुत्तमपूरुषः +प्रभाववानपि नरस्तस्य लोकाः सनातनाः +क्रोधनस्त्वल्पविज्ञानः प्रेत्य चेह च नश्यति +अत्राप्युदाहरन्तीमा गाथा नित्यं क्षमावताम् +गीताः क्षमावता कृष्णे काश्यपेन महात्मना +क्षमा धर्मः क्षमा यज्ञः क्षमा वेदाः क्षमा श्रुतम् +यस्तामेवं विजानाति स सर्वं क्षन्तुमर्हति +क्षमा ब्रह्म क्षमा सत्यं क्षमा भूतं च भावि च +क्षमा तपः क्षमा शौचं क्षमया चोद्धृतं जगत् +अति ब्रह्मविदां लोकानति चापि तपस्विनाम् +अति यज्ञविदां चैव क्षमिणः प्राप्नुवन्ति तान् +क्षमा तेजस्विनां तेजः क्षमा ब्रह्म तपस्विनाम् +क्षमा सत्यं सत्यवतां क्षमा दानं क्षमा यशः +तां क्षमामीदृशीं कृष्णे कथमस्मद्विधस्त्यजेत् +यस्यां ब्रह्म च सत्यं च यज्ञा लोकाश्च विष्ठिताः +भुज्यन्ते यज्वनां लोकाः क्षमिणामपरे तथा +क्षन्तव्यमेव सततं पुरुषेण विजानता +यदा हि क्षमते सर्वं ब्रह्म संपद्यते तदा +क्षमावतामयं लोकः परश्चैव क्षमावताम् +इह संमानमृच्छन्ति परत्र च शुभां गतिम् +येषां मन्युर्मनुष्याणां क्षमया निहतः सदा +तेषां परतरे लोकास्तस्मात्क्षान्तिः परा मता +इति गीताः काश्यपेन गाथा नित्यं क्षमावताम् +श्रुत्वा गाथाः क्षमायास्त्वं तुष्य द्रौपदि मा क्रुधः +पितामहः शांतनवः शमं संपूजयिष्यति +आचार्यो विदुरः क्षत्ता शममेव वदिष्यतः +कृपश्च संजयश्चैव शममेव वदिष्यतः +सोमदत्तो युयुत्सुश्च द्रोणपुत्रस्तथैव च +पितामहश्च नो व्यासः शमं वदति नित्यशः +एतैर्हि राजा नियतं चोद्यमानः शमं प्रति +राज्यं दातेति मे बुद्धिर्न चेल्लोभान्नशिष्यति +कालोऽयं दारुणः प्राप्तो भरतानामभूतये +निश्चितं मे सदैवैतत्पुरस्तादपि भामिनि +सुयोधनो नार्हतीति क्षमामेवं न विन्दति +अर्हस्तस्याहमित्येव तस्मान्मां विन्दते क्षमा +एतदात्मवतां वृत्तमेष धर्मः सनातनः +क्षमा चैवानृशंस्यं च तत्कर्तास्म्यहमञ्जसा +द्रौपद्युवाच +नमो धात्रे विधात्रे च यौ मोहं चक्रतुस्तव +पितृपैतामहे वृत्ते वोढव्ये तेऽन्यथा मतिः +नेह धर्मानृशंस्याभ्यां न क्षान्त्या नार्जवेन च +पुरुषः श्रियमाप्नोति न घृणित्वेन कर्हिचित् +त्वां चेद्व्यसनमभ्यागादिदं भारत दुःसहम् +यत्त्वं नार्हसि नापीमे भ्रातरस्ते महौजसः +न हि तेऽध्यगमञ्जातु तदानीं नाद्य भारत +धर्मात्प्रियतरं किंचिदपि चेज्जीवितादिह +धर्मार्थमेव ते राज्यं धर्मार्थं जीवितं च ते +ब्राह्मणा गुरवश्चैव जानन्त्यपि च देवताः +भीमसेनार्जुनौ चैव माद्रेयौ च मया सह +त्यजेस्त्वमिति मे बुद्धिर्न तु धर्मं परित्यजेः +राजानं धर्मगोप्तारं धर्मो रक्षति रक्षितः +इति मे श्रुतमार्याणां त्वां तु मन्ये न रक्षति +अनन्या हि नरव्याघ्र नित्यदा धर्ममेव ते +बुद्धिः सततमन्वेति छायेव पुरुषं निजा +नावमंस्था हि सदृशान्नावराञ्श्रेयसः कुतः +अवाप्य पृथिवीं कृत्स्नां न ते शृङ्गमवर्धत +स्वाहाकारैः स्वधाभिश्च पूजाभिरपि च द्विजान् +दैवतानि पितॄंश्चैव सततं पार्थ सेवसे +ब्राह्मणाः सर्वकामैस्ते सततं पार्थ तर्पिताः +यतयो मोक्षिणश्चैव गृहस्थाश्चैव भारत +आरण्यकेभ्यो लौहानि भाजनानि प्रयच्छसि +नादेयं ब्राह्मणेभ्यस्ते गृहे किंचन विद्यते +यदिदं वैश्वदेवान्ते सायंप्रातः प्रदीयते +तद्दत्त्वातिथिभृत्येभ्यो राजञ्शेषेण जीवसि +इष्टयः पशुबन्धाश्च काम्यनैमित्तिकाश्च ये +वर्तन्ते पाकयज्ञाश्च यज्ञकर्म च नि��्यदा +अस्मिन्नपि महारण्ये विजने दस्युसेविते +राष्ट्रादपेत्य वसतो धार्मस्ते नावसीदति +अश्वमेधो राजसूयः पुण्डरीकोऽथ गोसवः +एतैरपि महायज्ञैरिष्टं ते भूरिदक्षिणैः +राजन्परीतया बुद्ध्या विषमेऽक्षपराजये +राज्यं वसून्यायुधानि भ्रातॄन्मां चासि निर्जितः +ऋजोर्मृदोर्वदान्यस्य ह्रीमतः सत्यवादिनः +कथमक्षव्यसनजा बुद्धिरापतिता तव +अतीव मोहमायाति मनश्च परिदूयते +निशाम्य ते दुःखमिदमिमां चापदमीदृशीम् +अत्राप्युदाहरन्तीममितिहासं पुरातनम् +ईश्वरस्य वशे लोकस्तिष्ठते नात्मनो यथा +धातैव खलु भूतानां सुखदुःखे प्रियाप्रिये +दधाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन् +यथा दारुमयी योषा नरवीर समाहिता +ईरयत्यङ्गमङ्गानि तथा राजन्निमाः प्रजाः +आकाश इव भूतानि व्याप्य सर्वाणि भारत +ईश्वरो विदधातीह कल्याणं यच्च पापकम् +शकुनिस्तन्तुबद्धो वा नियतोऽयमनीश्वरः +ईश्वरस्य वशे तिष्ठन्नान्येषां नात्मनः प्रभुः +मणिः सूत्र इव प्रोतो नस्योत इव गोवृषः +धातुरादेशमन्वेति तन्मयो हि तदर्पणः +नात्माधीनो मनुष्योऽयं कालं भवति कंचन +स्रोतसो मध्यमापन्नः कूलाद्वृक्ष इव च्युतः +अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः +ईश्वरप्रेरितो गच्छेत्स्वर्गं नरकमेव च +यथा वायोस्तृणाग्राणि वशं यान्ति बलीयसः +धातुरेवं वशं यान्ति सर्वभूतानि भारत +आर्यकर्मणि युञ्जानः पापे वा पुनरीश्वरः +व्याप्य भूतानि चरते न चायमिति लक्ष्यते +हेतुमात्रमिदं धातुः शरीरं क्षेत्रसंज्ञितम् +येन कारयते कर्म शुभाशुभफलं विभुः +पश्य मायाप्रभावोऽयमीश्वरेण यथा कृतः +यो हन्ति भूतैर्भूतानि मोहयित्वात्ममायया +अन्यथा परिदृष्टानि मुनिभिर्वेददर्शिभिः +अन्यथा परिवर्तन्ते वेगा इव नभस्वतः +अन्यथैव हि मन्यन्ते पुरुषास्तानि तानि च +अन्यथैव प्रभुस्तानि करोति विकरोति च +यथा काष्ठेन वा काष्ठमश्मानं चाश्मना पुनः +अयसा चाप्ययश्छिन्द्यान्निर्विचेष्टमचेतनम् +एवं स भगवान्देवः स्वयम्भूः प्रपितामहः +हिनस्ति भूतैर्भूतानि छद्म कृत्वा युधिष्ठिर +संप्रयोज्य वियोज्यायं कामकारकरः प्रभुः +क्रीडते भगवान्भूतैर्बालः क्रीडनकैरिव +न मातृपितृवद्राजन्धाता भूतेषु वर्तते +रोषादिव प्रवृत्तोऽयं यथायमितरो जनः +आर्याञ्शीलवतो दृष्ट्वा ह्रीमतो वृत्तिकर्शितान् +अनार्यान्सुखिन���्चैव विह्वलामीव चिन्तया +तवेमामापदं दृष्ट्वा समृद्धिं च सुयोधने +धातारं गर्हये पार्थ विषमं योऽनुपश्यति +आर्यशास्त्रातिगे क्रूरे लुब्धे धर्मापचायिनि +धार्तराष्ट्रे श्रियं दत्त्वा धाता किं फलमश्नुते +कर्म चेत्कृतमन्वेति कर्तारं नान्यमृच्छति +कर्मणा तेन पापेन लिप्यते नूनमीश्वरः +अथ कर्म कृतं पापं न चेत्कर्तारमृच्छति +कारणं बलमेवेह जनाञ्शोचामि दुर्बलान् +युधिष्ठिर उवाच +वल्गु चित्रपदं श्लक्ष्णं याज्ञसेनि त्वया वचः +उक्तं तच्छ्रुतमस्माभिर्नास्तिक्यं तु प्रभाषसे +नाहं धर्मफलान्वेषी राजपुत्रि चराम्युत +ददामि देयमित्येव यजे यष्टव्यमित्युत +अस्तु वात्र फलं मा वा कर्तव्यं पुरुषेण यत् +गृहानावसता कृष्णे यथाशक्ति करोमि तत् +धर्मं चरामि सुश्रोणि न धर्मफलकारणात् +आगमाननतिक्रम्य सतां वृत्तमवेक्ष्य च +धर्म एव मनः कृष्णे स्वभावाच्चैव मे धृतम् +न धर्मफलमाप्नोति यो धर्मं दोग्धुमिच्छति +यश्चैनं शङ्कते कृत्वा नास्तिक्यात्पापचेतनः +अतिवादान्मदाच्चैव मा धर्ममतिशङ्किथाः +धर्मातिशङ्की पुरुषस्तिर्यग्गतिपरायणः +धर्मो यस्यातिशङ्क्यः स्यादार्षं वा दुर्बलात्मनः +वेदाच्छूद्र इवापेयात्स लोकादजरामरात् +वेदाध्यायी धर्मपरः कुले जातो यशस्विनि +स्थविरेषु स योक्तव्यो राजभिर्धर्मचारिभिः +पापीयान्हि स शूद्रेभ्यस्तस्करेभ्यो विशेषतः +शास्त्रातिगो मन्दबुद्धिर्यो धर्ममतिशङ्कते +प्रत्यक्षं हि त्वया दृष्ट ऋषिर्गच्छन्महातपाः +मार्कण्डेयोऽप्रमेयात्मा धर्मेण चिरजीविताम् +व्यासो वसिष्ठो मैत्रेयो नारदो लोमशः शुकः +अन्ये च ऋषयः सिद्धा धर्मेणैव सुचेतसः +प्रत्यक्षं पश्यसि ह्येतान्दिव्ययोगसमन्वितान् +शापानुग्रहणे शक्तान्देवैरपि गरीयसः +एते हि धर्ममेवादौ वर्णयन्ति सदा मम +कर्तव्यममरप्रख्याः प्रत्यक्षागमबुद्धयः +अतो नार्हसि कल्याणि धातारं धर्ममेव च +रजोमूढेन मनसा क्षेप्तुं शङ्कितुमेव च +धर्मातिशङ्की नान्यस्मिन्प्रमाणमधिगच्छति +आत्मप्रमाण उन्नद्धः श्रेयसो ह्यवमन्यकः +इन्द्रियप्रीतिसंबद्धं यदिदं लोकसाक्षिकम् +एतावान्मन्यते बालो मोहमन्यत्र गच्छति +प्रायश्चित्तं न तस्यास्ति यो धर्ममतिशङ्कते +ध्यायन्स कृपणः पापो न लोकान्प्रतिपद्यते +प्रमाणान्यतिवृत्तो हि वेदशास्त्रार्थनिन्दकः +कामलोभ��नुगो मूढो नरकं प्रतिपद्यते +यस्तु नित्यं कृतमतिर्धर्ममेवाभिपद्यते +अशङ्कमानः कल्याणि सोऽमुत्रानन्त्यमश्नुते +आर्षं प्रमाणमुत्क्रम्य धर्मानपरिपालयन् +सर्वशास्त्रातिगो मूढः शं जन्मसु न विन्दति +शिष्टैराचरितं धर्मं कृष्णे मा स्मातिशङ्किथाः +पुराणमृषिभिः प्रोक्तं सर्वज्ञैः सर्वदर्शिभिः +धर्म एव प्लवो नान्यः स्वर्गं द्रौपदि गच्छताम् +सैव नौः सागरस्येव वणिजः पारमृच्छतः +अफालो यदि धर्मः स्याच्चरितो धर्मचारिभिः +अप्रतिष्ठे तमस्येतज्जगन्मज्जेदनिन्दिते +निर्वाणं नाधिगच्छेयुर्जीवेयुः पशुजीविकाम् +विघातेनैव युज्येयुर्न चार्थं किंचिदाप्नुयुः +तपश्च ब्रह्मचर्यं च यज्ञः स्वाध्याय एव च +दानमार्जवमेतानि यदि स्युरफलानि वै +नाचरिष्यन्परे धर्मं परे परतरे च ये +विप्रलम्भोऽयमत्यन्तं यदि स्युरफलाः क्रियाः +ऋषयश्चैव देवाश्च गन्धर्वासुरराक्षसाः +ईश्वराः कस्य हेतोस्ते चरेयुर्धर्ममादृताः +फलदं त्विह विज्ञाय धातारं श्रेयसि ध्रुवे +धर्मं ते ह्याचरन्कृष्णे तद्धि धर्मसनातनम् +स चायं सफलो धर्मो न धर्मोऽफल उच्यते +दृश्यन्तेऽपि हि विद्यानां फलानि तपसां तथा +त्वय्येतद्वै विजानीहि जन्म कृष्णे यथा श्रुतम् +वेत्थ चापि यथा जातो धृष्टद्युम्नः प्रतापवान् +एतावदेव पर्याप्तमुपमानं शुचिस्मिते +कर्मणां फलमस्तीति धीरोऽल्पेनापि तुष्यति +बहुनापि ह्यविद्वांसो नैव तुष्यन्त्यबुद्धयः +तेषां न धर्मजं किंचित्प्रेत्य शर्मास्ति कर्म वा +कर्मणामुत पुण्यानां पापानां च फलोदयः +प्रभवश्चाप्ययश्चैव देवगुह्यानि भामिनि +नैतानि वेद यः कश्चिन्मुह्यन्त्यत्र प्रजा इमाः +रक्ष्याण्येतानि देवानां गूढमाया हि देवताः +कृशाङ्गाः सुव्रताश्चैव तपसा दग्धकिल्बिषाः +प्रसन्नैर्मानसैर्युक्ताः पश्यन्त्येतानि वै द्विजाः +न फलादर्शनाद्धर्मः शङ्कितव्यो न देवताः +यष्टव्यं चाप्रमत्तेन दातव्यं चानसूयता +कर्मणां फलमस्तीति तथैतद्धर्म शाश्वतम् +ब्रह्मा प्रोवाच पुत्राणां यदृषिर्वेद कश्यपः +तस्मात्ते संशयः कृष्णे नीहार इव नश्यतु +व्यवस्य सर्वमस्तीति नास्तिक्यं भावमुत्सृज +ईश्वरं चापि भूतानां धातारं मा विचिक्षिपः +शिक्षस्वैनं नमस्वैनं मा ते भूद्बुद्धिरीदृशी +यस्य प्रसादात्तद्भक्तो मर्त्यो गच्छत्यमर्त्यताम् +उत्तमं दैवतं ��ृष्णे मातिवोचः कथंचन +द्रौपद्युवाच +नावमन्ये न गर्हे च धर्मं पार्थ कथंचन +ईश्वरं कुत एवाहमवमंस्ये प्रजापतिम् +आर्ताहं प्रलपामीदमिति मां विद्धि भारत +भूयश्च विलपिष्यामि सुमनास्तन्निबोध मे +कर्म खल्विह कर्तव्यं जातेनामित्रकर्शन +अकर्माणो हि जीवन्ति स्थावरा नेतरे जनाः +आ मातृस्तनपानाच्च यावच्छय्योपसर्पणम् +जङ्गमाः कर्मणा वृत्तिमाप्नुवन्ति युधिष्ठिर +जङ्गमेषु विशेषेण मनुष्या भरतर्षभ +इच्छन्ति कर्मणा वृत्तिमवाप्तुं प्रेत्य चेह च +उत्थानमभिजानन्ति सर्वभूतानि भारत +प्रत्यक्षं फलमश्नन्ति कर्मणां लोकसाक्षिकम् +पश्यामि स्वं समुत्थानमुपजीवन्ति जन्तवः +अपि धाता विधाता च यथायमुदके बकः +स्वकर्म कुरु मा ग्लासीः कर्मणा भव दंशितः +कृत्यं हि योऽभिजानाति सहस्रे नास्ति सोऽस्ति वा +तस्य चापि भवेत्कार्यं विवृद्धौ रक्षणे तथा +भक्ष्यमाणो ह्यनावापः क्षीयते हिमवानपि +उत्सीदेरन्प्रजाः सर्वा न कुर्युः कर्म चेद्यदि +अपि चाप्यफलं कर्म पश्यामः कुर्वतो जनान् +नान्यथा ह्यभिजानन्ति वृत्तिं लोके कथंचन +यश्च दिष्टपरो लोके यश्चायं हठवादकः +उभावपसदावेतौ कर्मबुद्धिः प्रशस्यते +यो हि दिष्टमुपासीनो निर्विचेष्टः सुखं स्वपेत् +अवसीदेत्सुदुर्बुद्धिरामो घट इवाम्भसि +तथैव हठबुद्धिर्यः शक्तः कर्मण्यकर्मकृत् +आसीत न चिरं जीवेदनाथ इव दुर्बलः +अकस्मादपि यः कश्चिदर्थं प्राप्नोति पूरुषः +तं हठेनेति मन्यन्ते स हि यत्नो न कस्यचित् +यच्चापि किंचित्पुरुषो दिष्टं नाम लभत्युत +दैवेन विधिना पार्थ तद्दैवमिति निश्चितम् +यत्स्वयं कर्मणा किंचित्फलमाप्नोति पूरुषः +प्रत्यक्षं चक्षुषा दृष्टं तत्पौरुषमिति स्मृतम् +स्वभावतः प्रवृत्तोऽन्यः प्राप्नोत्यर्थानकारणात् +तत्स्वभावात्मकं विद्धि फलं पुरुषसत्तम +एवं हठाच्च दैवाच्च स्वभावात्कर्मणस्तथा +यानि प्राप्नोति पुरुषस्तत्फलं पूर्वकर्मणः +धातापि हि स्वकर्मैव तैस्तैर्हेतुभिरीश्वरः +विदधाति विभज्येह फलं पूर्वकृतं नृणाम् +यद्ध्ययं पुरुषः किंचित्कुरुते वै शुभाशुभम् +तद्धातृविहितं विद्धि पूर्वकर्मफलोदयम् +कारणं तस्य देहोऽयं धातुः कर्मणि कर्मणि +स यथा प्रेरयत्येनं तथायं कुरुतेऽवशः +तेषु तेषु हि कृत्येषु विनियोक्ता महेश्वरः +सर्वभूतानि कौन्तेय कारयत्यवशान्यपि +मनसार��थान्विनिश्चित्य पश्चात्प्राप्नोति कर्मणा +बुद्धिपूर्वं स्वयं धीरः पुरुषस्तत्र कारणम् +संख्यातुं नैव शक्यानि कर्माणि पुरुषर्षभ +अगारनगराणां हि सिद्धिः पुरुषहैतुकी +तिले तैलं गवि क्षीरं काष्ठे पावकमन्ततः +धिया धीरो विजानीयादुपायं चास्य सिद्धये +ततः प्रवर्तते पश्चात्करणेष्वस्य सिद्धये +तां सिद्धिमुपजीवन्ति कर्मणामिह जन्तवः +कुशलेन कृतं कर्म कर्त्रा साधु विनिश्चितम् +इदं त्वकुशलेनेति विशेषादुपलभ्यते +इष्टापूर्तफलं न स्यान्न शिष्यो न गुरुर्भवेत् +पुरुषः कर्मसाध्येषु स्याच्चेदयमकारणम् +कर्तृत्वादेव पुरुषः कर्मसिद्धौ प्रशस्यते +असिद्धौ निन्द्यते चापि कर्मनाशः कथं त्विह +सर्वमेव हठेनैके दिष्टेनैके वदन्त्युत +पुरुषप्रयत्नजं केचित्त्रैधमेतन्निरुच्यते +न चैवैतावता कार्यं मन्यन्त इति चापरे +अस्ति सर्वमदृश्यं तु दिष्टं चैव तथा हठः +दृश्यते हि हठाच्चैव दिष्टाच्चार्थस्य संततिः +किंचिद्दैवाद्धठात्किंचित्किंचिदेव स्वकर्मतः +पुरुषः फलमाप्नोति चतुर्थं नात्र कारणम् +कुशलाः प्रतिजानन्ति ये तत्त्वविदुषो जनाः +तथैव धाता भूतानामिष्टानिष्टफलप्रदः +यदि न स्यान्न भूतानां कृपणो नाम कश्चन +यं यमर्थमभिप्रेप्सुः कुरुते कर्म पूरुषः +तत्तत्सफलमेव स्याद्यदि न स्यात्पुराकृतम् +त्रिद्वारामर्थसिद्धिं तु नानुपश्यन्ति ये नराः +तथैवानर्थसिद्धिं च यथा लोकास्तथैव ते +कर्तव्यं त्वेव कर्मेति मनोरेष विनिश्चयः +एकान्तेन ह्यनीहोऽयं पराभवति पूरुषः +कुर्वतो हि भवत्येव प्रायेणेह युधिष्ठिर +एकान्तफलसिद्धिं तु न विन्दत्यलसः क्वचित् +असंभवे त्वस्य हेतुः प्रायश्चित्तं तु लक्ष्यते +कृते कर्मणि राजेन्द्र तथानृण्यमवाप्यते +अलक्ष्मीराविशत्येनं शयानमलसं नरम् +निःसंशयं फलं लब्ध्वा दक्षो भूतिमुपाश्नुते +अनर्थं संशयावस्थं वृण्वते मुक्तसंशयाः +धीरा नराः कर्मरता न तु निःसंशयं क्वचित् +एकान्तेन ह्यनर्थोऽयं वर्ततेऽस्मासु सांप्रतम् +न तु निःसंशयं न स्यात्त्वयि कर्मण्यवस्थिते +अथ वा सिद्धिरेव स्यान्महिमा तु तथैव ते +वृकोदरस्य बीभत्सोर्भ्रात्रोश्च यमयोरपि +अन्येषां कर्म सफलमस्माकमपि वा पुनः +विप्रकर्षेण बुध्येत कृतकर्मा यथा फलम् +पृथिवीं लाङ्गलेनैव भित्त्वा बीजं वपत्युत +आस्तेऽथ कर्षकस्तूष्णीं पर्जन्यस्तत्र कारणम् +वृष्टिश्चेन्नानुगृह्णीयादनेनास्तत्र कर्षकः +यदन्यः पुरुषः कुर्यात्कृतं तत्सकलं मया +तच्चेदफलमस्माकं नापराधोऽस्ति नः क्वचित् +इति धीरोऽन्ववेक्ष्यैव नात्मानं तत्र गर्हयेत् +कुर्वतो नार्थसिद्धिर्मे भवतीति ह भारत +निर्वेदो नात्र गन्तव्यो द्वावेतौ ह्यस्य कर्मणः +सिद्धिर्वाप्यथ वासिद्धिरप्रवृत्तिरतोऽन्यथा +बहूनां समवाये हि भावानां कर्म सिध्यति +गुणाभावे फलं न्यूनं भवत्यफलमेव वा +अनारम्भे तु न फलं न गुणो दृश्यतेऽच्युत +देशकालावुपायांश्च मङ्गलं स्वस्ति वृद्धये +युनक्ति मेधया धीरो यथाशक्ति यथाबलम् +अप्रमत्तेन तत्कार्यमुपदेष्टा पराक्रमः +भूयिष्ठं कर्मयोगेषु सर्व एव पराक्रमः +यं तु धीरोऽन्ववेक्षेत श्रेयांसं बहुभिर्गुणैः +साम्नैवार्थं ततो लिप्सेत्कर्म चास्मै प्रयोजयेत् +व्यसनं वास्य काङ्क्षेत विनाशं वा युधिष्ठिर +अपि सिन्धोर्गिरेर्वापि किं पुनर्मर्त्यधर्मिणः +उत्थानयुक्तः सततं परेषामन्तरैषणे +आनृण्यमाप्नोति नरः परस्यात्मन एव च +न चैवात्मावमन्तव्यः पुरुषेण कदाचन +न ह्यात्मपरिभूतस्य भूतिर्भवति भारत +एवं संस्थितिका सिद्धिरियं लोकस्य भारत +चित्रा सिद्धिगतिः प्रोक्ता कालावस्थाविभागतः +ब्राह्मणं मे पिता पूर्वं वासयामास पण्डितम् +सोऽस्मा अर्थमिमं प्राह पित्रे मे भरतर्षभ +नीतिं बृहस्पतिप्रोक्तां भ्रातॄन्मेऽग्राहयत्पुरा +तेषां सांकथ्यमश्रौषमहमेतत्तदा गृहे +स मां राजन्कर्मवतीमागतामाह सान्त्वयन् +शुश्रूषमाणामासीनां पितुरङ्के युधिष्ठिर +वैशंपायन उवाच +याज्ञसेन्या वचः श्रुत्वा भीमसेनोऽत्यमर्षणः +निःश्वसन्नुपसंगम्य क्रुद्धो राजानमब्रवीत् +राज्यस्य पदवीं धर्म्यां व्रज सत्पुरुषोचिताम् +धर्मकामार्थहीनानां किं नो वस्तुं तपोवने +नैव धर्मेण तद्राज्यं नार्जवेन न चौजसा +अक्षकूटमधिष्ठाय हृतं दुर्योधनेन नः +गोमायुनेव सिंहानां दुर्बलेन बलीयसाम् +आमिषं विघसाशेन तद्वद्राज्यं हि नो हृतम् +धर्मलेशप्रतिच्छन्नः प्रभवं धर्मकामयोः +अर्थमुत्सृज्य किं राजन्दुर्गेषु परितप्यसे +भवतोऽनुविधानेन राज्यं नः पश्यतां हृतम् +अहार्यमपि शक्रेण गुप्तं गाण्डीवधन्वना +कुणीनामिव बिल्वानि पङ्गूनामिव धेनवः +हृतमैश्वर्यमस्माकं जीवतां भवतः कृते +भवतः प्रियमित्येवं महद्व्यसनमीदृशम् +धर्मकामे प्रतीतस्य प्रतिपन्नाः स्म भारत +कर्शयामः स्वमित्राणि नन्दयामश्च शात्रवान् +आत्मानं भवतः शास्त्रे नियम्य भरतर्षभ +यद्वयं न तदैवैतान्धार्तराष्ट्रान्निहन्महि +भवतः शास्त्रमादाय तन्नस्तपति दुष्कृतम् +अथैनामन्ववेक्षस्व मृगचर्यामिवात्मनः +अवीराचरितां राजन्न बलस्थैर्निषेविताम् +यां न कृष्णो न बीभत्सुर्नाभिमन्युर्न सृञ्जयः +न चाहमभिनन्दामि न च माद्रीसुतावुभौ +भवान्धर्मो धर्म इति सततं व्रतकर्शितः +कच्चिद्राजन्न निर्वेदादापन्नः क्लीबजीविकाम् +दुर्मनुष्या हि निर्वेदमफलं सर्वघातिनम् +अशक्ताः श्रियमाहर्तुमात्मनः कुर्वते प्रियम् +स भवान्दृष्टिमाञ्शक्तः पश्यन्नात्मनि पौरुषम् +आनृशंस्यपरो राजन्नानर्थमवबुध्यसे +अस्मानमी धार्तराष्ट्राः क्षममाणानलं सतः +अशक्तानेव मन्यन्ते तद्दुःखं नाहवे वधः +तत्र चेद्युध्यमानानामजिह्ममनिवर्तिनाम् +सर्वशो हि वधः श्रेयान्प्रेत्य लोकाँल्लभेमहि +अथ वा वयमेवैतान्निहत्य भरतर्षभ +आददीमहि गां सर्वां तथापि श्रेय एव नः +सर्वथा कार्यमेतन्नः स्वधर्ममनुतिष्ठताम् +काङ्क्षतां विपुलां कीर्तिं वैरं प्रतिचिकीर्षताम् +आत्मार्थं युध्यमानानां विदिते कृत्यलक्षणे +अन्यैरपहृते राज्ये प्रशंसैव न गर्हणा +कर्शनार्थो हि यो धर्मो मित्राणामात्मनस्तथा +व्यसनं नाम तद्राजन्न स धर्मः कुधर्म तत् +सर्वथा धर्मनित्यं तु पुरुषं धर्मदुर्बलम् +जहतस्तात धर्मार्थौ प्रेतं दुःखसुखे यथा +यस्य धर्मो हि धर्मार्थं क्लेशभाङ्न स पण्डितः +न स धर्मस्य वेदार्थं सूर्यस्यान्धः प्रभामिव +यस्य चार्थार्थमेवार्थः स च नार्थस्य कोविदः +रक्षते भृतकोऽरण्यं यथा स्यात्तादृगेव सः +अतिवेलं हि योऽर्थार्थी नेतरावनुतिष्ठति +स वध्यः सर्वभूतानां ब्रह्महेव जुगुप्सितः +सततं यश्च कामार्थी नेतरावनुतिष्ठति +मित्राणि तस्य नश्यन्ति धर्मार्थाभ्यां च हीयते +तस्य धर्मार्थहीनस्य कामान्ते निधनं ध्रुवम् +कामतो रममाणस्य मीनस्येवाम्भसः क्षये +तस्माद्धर्मार्थयोर्नित्यं न प्रमाद्यन्ति पण्डिताः +प्रकृतिः सा हि कामस्य पावकस्यारणिर्यथा +सर्वथा धर्ममूलोऽर्थो धर्मश्चार्थपरिग्रहः +इतरेतरयोनी तौ विद्धि मेघोदधी यथा +द्रव्यार्थस्पर्शसंयोगे या प्रीतिरुपजायते +स कामश्चित्तसंकल्पः शरीरं नास्य ���िद्यते +अर्थार्थी पुरुषो राजन्बृहन्तं धर्ममृच्छति +अर्थमृच्छति कामार्थी न कामादन्यमृच्छती +न हि कामेन कामोऽन्यः साध्यते फलमेव तत् +उपयोगात्फलस्येव काष्ठाद्भस्मेव पण्डितः +इमाञ्शकुनिकान्राजन्हन्ति वैतंसिको यथा +एतद्रूपमधर्मस्य भूतेषु च विहिंसताम् +कामाल्लोभाच्च धर्मस्य प्रवृत्तिं यो न पश्यति +स वध्यः सर्वभूतानां प्रेत्य चेह च दुर्मतिः +व्यक्तं ते विदितो राजन्नर्थो द्रव्यपरिग्रहः +प्रकृतिं चापि वेत्थास्य विकृतिं चापि भूयसीम् +तस्य नाशं विनाशं वा जरया मरणेन वा +अनर्थमिति मन्यन्ते सोऽयमस्मासु वर्तते +इन्द्रियाणां च पञ्चानां मनसो हृदयस्य च +विषये वर्तमानानां या प्रीतिरुपजायते +स काम इति मे बुद्धिः कर्मणां फलमुत्तमम् +एवमेव पृथग्दृष्ट्वा धर्मार्थौ काममेव च +न धर्मपर एव स्यान्न चार्थपरमो नरः +न कामपरमो वा स्यात्सर्वान्सेवेत सर्वदा +धर्मं पूर्वं धनं मध्ये जघन्ये काममाचरेत् +अहन्यनुचरेदेवमेष शास्त्रकृतो विधिः +कामं पूर्वं धनं मध्ये जघन्ये धर्ममाचरेत् +वयस्यनुचरेदेवमेष शास्त्रकृतो विधिः +धर्मं चार्थं च कामं च यथावद्वदतां वर +विभज्य काले कालज्ञः सर्वान्सेवेत पण्डितः +मोक्षो वा परमं श्रेय एष राजन्सुखार्थिनाम् +प्राप्तिर्वा बुद्धिमास्थाय सोपायं कुरुनन्दन +तद्वाशु क्रियतां राजन्प्राप्तिर्वाप्यधिगम्यताम् +जीवितं ह्यातुरस्येव दुःखमन्तरवर्तिनः +विदितश्चैव ते धर्मः सततं चरितश्च ते +जानते त्वयि शंसन्ति सुहृदः कर्मचोदनाम् +दानं यज्ञः सतां पूजा वेदधारणमार्जवम् +एष धर्मः परो राजन्फलवान्प्रेत्य चेह च +एष नार्थविहीनेन शक्यो राजन्निषेवितुम् +अखिलाः पुरुषव्याघ्र गुणाः स्युर्यद्यपीतरे +धर्ममूलं जगद्राजन्नान्यद्धर्माद्विशिष्यते +धर्मश्चार्थेन महता शक्यो राजन्निषेवितुम् +न चार्थो भैक्षचर्येण नापि क्लैब्येन कर्हिचित् +वेत्तुं शक्यः सदा राजन्केवलं धर्मबुद्धिना +प्रतिषिद्धा हि ते याच्ञा यया सिध्यति वै द्विजः +तेजसैवार्थलिप्सायां यतस्व पुरुषर्षभ +भैक्षचर्या न विहिता न च विट्शूद्रजीविका +क्षत्रियस्य विशेषेण धर्मस्तु बलमौरसम् +उदारमेव विद्वांसो धर्मं प्राहुर्मनीषिणः +उदारं प्रतिपद्यस्व नावरे स्थातुमर्हसि +अनुबुध्यस्व राजेन्द्र वेत्थ धर्मान्सनातनान् +क्रूरकर्माभिजातोऽसि य��्मादुद्विजते जनः +प्रजापालनसंभूतं फलं तव न गर्हितम् +एष ते विहितो राजन्धात्रा धर्मः सनातनः +तस्माद्विचलितः पार्थ लोके हास्यं गमिष्यसि +स्वधर्माद्धि मनुष्याणां चलनं न प्रशस्यते +स क्षात्रं हृदयं कृत्वा त्यक्त्वेदं शिथिलं मनः +वीर्यमास्थाय कौन्तेय धुरमुद्वह धुर्यवत् +न हि केवलधर्मात्मा पृथिवीं जातु कश्चन +पार्थिवो व्यजयद्राजन्न भूतिं न पुनः श्रियम् +जिह्वां दत्त्वा बहूनां हि क्षुद्राणां लुब्धचेतसाम् +निकृत्या लभते राज्यमाहारमिव शल्यकः +भ्रातरः पूर्वजाताश्च सुसमृद्धाश्च सर्वशः +निकृत्या निर्जिता देवैरसुराः पाण्डवर्षभ +एवं बलवतः सर्वमिति बुद्ध्वा महीपते +जहि शत्रून्महाबाहो परां निकृतिमास्थितः +न ह्यर्जुनसमः कश्चिद्युधि योद्धा धनुर्धरः +भविता वा पुमान्कश्चिन्मत्समो वा गदाधरः +सत्त्वेन कुरुते युद्धं राजन्सुबलवानपि +न प्रमाणेन नोत्साहात्सत्त्वस्थो भव पाण्डव +सत्त्वं हि मूलमर्थस्य वितथं यदतोऽन्यथा +न तु प्रसक्तं भवति वृक्षच्छायेव हैमनी +अर्थत्यागो हि कार्यः स्यादर्थं श्रेयांसमिच्छता +बीजौपम्येन कौन्तेय मा ते भूदत्र संशयः +अर्थेन तु समोऽनर्थो यत्र लभ्येत नोदयः +न तत्र विपणः कार्यः खरकण्डूयितं हि तत् +एवमेव मनुष्येन्द्र धर्मं त्यक्त्वाल्पकं नरः +बृहन्तं धर्ममाप्नोति स बुद्ध इति निश्चितः +अमित्रं मित्रसंपन्नं मित्रैर्भिन्दन्ति पण्डिताः +भिन्नैर्मित्रैः परित्यक्तं दुर्बलं कुरुते वशे +सत्त्वेन कुरुते युद्धं राजन्सुबलवानपि +नोद्यमेन न होत्राभिः सर्वाः स्वीकुरुते प्रजाः +सर्वथा संहतैरेव दुर्बलैर्बलवानपि +अमित्रः शक्यते हन्तुं मधुहा भ्रमरैरिव +यथा राजन्प्रजाः सर्वाः सूर्यः पाति गभस्तिभिः +अत्ति चैव तथैव त्वं सवितुः सदृशो भव +एतद्ध्यपि तपो राजन्पुराणमिति नः श्रुतम् +विधिना पालनं भूमेर्यत्कृतं नः पितामहैः +अपेयात्किल भाः सूर्याल्लक्ष्मीश्चन्द्रमसस्तथा +इति लोको व्यवसितो दृष्ट्वेमां भवतो व्यथाम् +भवतश्च प्रशंसाभिर्निन्दाभिरितरस्य च +कथायुक्ताः परिषदः पृथग्राजन्समागताः +इदमभ्यधिकं राजन्ब्राह्मणा गुरवश्च ते +समेताः कथयन्तीह मुदिताः सत्यसंधताम् +यन्न मोहान्न कार्पण्यान्न लोभान्न भयादपि +अनृतं किंचिदुक्तं ते न कामान्नार्थकारणात् +यदेनः कुरुते किंचिद्राजा भूमिमव��प्नुवन् +सर्वं तन्नुदते पश्चाद्यज्ञैर्विपुलदक्षिणैः +ब्राह्मणेभ्यो ददद्ग्रामान्गाश्च राजन्सहस्रशः +मुच्यते सर्वपापेभ्यस्तमोभ्य इव चन्द्रमाः +पौरजानपदाः सर्वे प्रायशः कुरुनन्दन +सवृद्धबालाः सहिताः शंसन्ति त्वां युधिष्ठिर +श्वदृतौ क्षीरमासक्तं ब्रह्म वा वृषले यथा +सत्यं स्तेने बलं नार्यां राज्यं दुर्योधने तथा +इति निर्वचनं लोके चिरं चरति भारत +अपि चैतत्स्त्रियो बालाः स्वाध्यायमिव कुर्वते +स भवान्रथमास्थाय सर्वोपकरणान्वितम् +त्वरमाणोऽभिनिर्यातु चिरमर्थोपपादकम् +वाचयित्वा द्विजश्रेष्ठानद्यैव गजसाह्वयम् +अस्त्रविद्भिः परिवृतो भ्रातृभिर्दृढधन्विभिः +आशीविषसमैर्वीरैर्मरुद्भिरिव वृत्रहा +अमित्रांस्तेजसा मृद्नन्नसुरेभ्य इवारिहा +श्रियमादत्स्व कौन्तेय धार्तराष्ट्रान्महाबल +न हि गाण्डीवमुक्तानां शराणां गार्ध्रवाससाम् +स्पर्शमाशीविषाभानां मर्त्यः कश्चन संसहेत् +न स वीरो न मातङ्गो न सदश्वोऽस्ति भारत +यः सहेत गदावेगं मम क्रुद्धस्य संयुगे +सृञ्जयैः सह कैकेयैर्वृष्णीनामृषभेण च +कथं स्विद्युधि कौन्तेय राज्यं न प्राप्नुयामहे +युधिष्ठिर उवाच +असंशयं भारत सत्यमेत;द्यन्मा तुदन्वाक्यशल्यैः क्षिणोषि +न त्वा विगर्हे प्रतिकूलमेत;न्ममानयाद्धि व्यसनं व आगात् +अहं ह्यक्षानन्वपद्यं जिहीर्ष;न्राज्यं सराष्ट्रं धृतराष्ट्रस्य पुत्रात् +तन्मा शठः कितवः प्रत्यदेवी;त्सुयोधनार्थं सुबलस्य पुत्रः +महामायः शकुनिः पार्वतीयः; सदा सभायां प्रवपन्नक्षपूगान् +अमायिनं मायया प्रत्यदेवी;त्ततोऽपश्यं वृजिनं भीमसेन +अक्षान्हि दृष्ट्वा शकुनेर्यथाव;त्कामानुलोमानयुजो युजश्च +शक्यं नियन्तुमभविष्यदात्मा; मन्युस्तु हन्ति पुरुषस्य धैर्यम् +यन्तुं नात्मा शक्यते पौरुषेण; मानेन वीर्येण च तात नद्धः +न ते वाचं भीमसेनाभ्यसूये; मन्ये तथा तद्भवितव्यमासीत् +स नो राजा धृतराष्ट्रस्य पुत्रो; न्यपातयद्व्यसने राज्यमिच्छन् +दास्यं च नोऽगमयद्भीमसेन; यत्राभवच्छरणं द्रौपदी नः +त्वं चापि तद्वेत्थ धनंजयश्च; पुनर्द्यूतायागतानां सभां नः +यन्माब्रवीद्धृतराष्ट्रस्य पुत्र; एकग्लहार्थं भरतानां समक्षम् +वने समा द्वादश राजपुत्र; यथाकामं विदितमजातशत्रो +अथापरं चाविदितं चरेथाः; सर्वैः सह भ्रातृभिश्छद्मगूढः +त्वां चेच��छ्रुत्वा तात तथा चरन्त;मवभोत्स्यन्ते भारतानां चराः स्म +अन्यांश्चरेथास्तावतोऽब्दांस्ततस्त्वं; निश्चित्य तत्प्रतिजानीहि पार्थ +चरैश्चेन्नोऽविदितः कालमेतं; युक्तो राजन्मोहयित्वा मदीयान् +ब्रवीमि सत्यं कुरुसंसदीह; तवैव ता भारत पञ्च नद्यः +वयं चैवं भ्रातरः सर्व एव; त्वया जिताः कालमपास्य भोगान् +वसेम इत्याह पुरा स राजा; मध्ये कुरूणां स मयोक्तस्तथेति +तत्र द्यूतमभवन्नो जघन्यं; तस्मिञ्जिताः प्रव्रजिताश्च सर्वे +इत्थं च देशाननुसंचरामो; वनानि कृच्छ्राणि च कृच्छ्ररूपाः +सुयोधनश्चापि न शान्तिमिच्छ;न्भूयः स मन्योर्वशमन्वगच्छत् +उद्योजयामास कुरूंश्च सर्वा;न्ये चास्य केचिद्वशमन्वगच्छन् +तं संधिमास्थाय सतां सकाशे; को नाम जह्यादिह राज्यहेतोः +आर्यस्य मन्ये मरणाद्गरीयो; यद्धर्ममुत्क्रम्य महीं प्रशिष्यात् +तदैव चेद्वीरकर्माकरिष्यो; यदा द्यूते परिघं पर्यमृक्षः +बाहू दिधक्षन्वारितः फल्गुनेन; किं दुष्कृतं भीम तदाभविष्यत् +प्रागेव चैवं समयक्रियायाः; किं नाब्रवीः पौरुषमाविदानः +प्राप्तं तु कालं त्वभिपद्य पश्चा;त्किं मामिदानीमतिवेलमात्थ +भूयोऽपि दुःखं मम भीमसेन; दूये विषस्येव रसं विदित्वा +यद्याज्ञसेनीं परिकृष्यमाणां; संदृश्य तत्क्षान्तमिति स्म भीम +न त्वद्य शक्यं भरतप्रवीर; कृत्वा यदुक्तं कुरुवीरमध्ये +कालं प्रतीक्षस्व सुखोदयस्य; पक्तिं फलानामिव बीजवापः +यदा हि पूर्वं निकृतो निकृत्या; वैरं सपुष्पं सफलं विदित्वा +महागुणं हरति हि पौरुषेण; तदा वीरो जीवति जीवलोके +श्रियं च लोके लभते समग्रां; मन्ये चास्मै शत्रवः संनमन्ते +मित्राणि चैनमतिरागाद्भजन्ते; देवा इवेन्द्रमनुजीवन्ति चैनम् +मम प्रतिज्ञां च निबोध सत्यां; वृणे धर्मममृताज्जीविताच्च +राज्यं च पुत्राश्च यशो धनं च; सर्वं न सत्यस्य कलामुपैति +भीमसेन उवाच +संधिं कृत्वैव कालेन अन्तकेन पतत्रिणा +अनन्तेनाप्रमेयेन स्रोतसा सर्वहारिणा +प्रत्यक्षं मन्यसे कालं मर्त्यः सन्कालबन्धनः +फेनधर्मा महाराज फलधर्मा तथैव च +निमेषादपि कौन्तेय यस्यायुरपचीयते +सूच्येवाञ्जनचूर्णस्य किमिति प्रतिपालयेत् +यो नूनममितायुः स्यादथ वापि प्रमाणवित् +स कालं वै प्रतीक्षेत सर्वप्रत्यक्षदर्शिवान् +प्रतीक्षमाणान्कालो नः समा राजंस्त्रयोदश +आयुषोऽपचयं कृत्वा मरणायोपनेष्यति +शरीरिणां हि मरणं शरीरे नित्यमाश्रितम् +प्रागेव मरणात्तस्माद्राज्यायैव घटामहे +यो न याति प्रसंख्यानमस्पष्टो भूमिवर्धनः +अयातयित्वा वैराणि सोऽवसीदति गौरिव +यो न यातयते वैरमल्पसत्त्वोद्यमः पुमान् +अफलं तस्य जन्माहं मन्ये दुर्जातजायिनः +हैरण्यौ भवतो बाहू श्रुतिर्भवति पार्थिव +हत्वा द्विषन्तं संग्रामे भुक्त्वा बाह्वर्जितं वसु +हत्वा चेत्पुरुषो राजन्निकर्तारमरिंदम +अह्नाय नरकं गच्छेत्स्वर्गेणास्य स संमितः +अमर्षजो हि संतापः पावकाद्दीप्तिमत्तरः +येनाहमभिसंतप्तो न नक्तं न दिवा शये +अयं च पार्थो बीभत्सुर्वरिष्ठो ज्याविकर्षणे +आस्ते परमसंतप्तो नूनं सिंह इवाशये +योऽयमेकोऽभिमनुते सर्वाँल्लोके धनुर्भृतः +सोऽयमात्मजमूष्माणं महाहस्तीव यच्छति +नकुलः सहदेवश्च वृद्धा माता च वीरसूः +तवैव प्रियमिच्छन्त आसते जडमूकवत् +सर्वे ते प्रियमिच्छन्ति बान्धवाः सह सृञ्जयैः +अहमेकोऽभिसंतप्तो माता च प्रतिविन्ध्यतः +प्रियमेव तु सर्वेषां यद्ब्रवीम्युत किंचन +सर्वे ही व्यसनं प्राप्ताः सर्वे युद्धाभिनन्दिनः +नेतः पापीयसी काचिदापद्राजन्भविष्यति +यन्नो नीचैरल्पबलै राज्यमाच्छिद्य भुज्यते +शीलदोषाद्घृणाविष्ट आनृशंस्यात्परंतप +क्लेशांस्तितिक्षसे राजन्नान्यः कश्चित्प्रशंसति +घृणी ब्राह्मणरूपोऽसि कथं क्षत्रे अजायथाः +अस्यां हि योनौ जायन्ते प्रायशः क्रूरबुद्धयः +अश्रौषीस्त्वं राजधर्मान्यथा वै मनुरब्रवीत् +क्रूरान्निकृतिसंयुक्तान्विहितानशमात्मकान् +कर्तव्ये पुरुषव्याघ्र किमास्से पीठसर्पवत् +बुद्ध्या वीर्येण संयुक्तः श्रुतेनाभिजनेन च +तृणानां मुष्टिनैकेन हिमवन्तं तु पर्वतम् +छन्नमिच्छसि कौन्तेय योऽस्मान्संवर्तुमिच्छसि +अज्ञातचर्या गूढेन पृथिव्यां विश्रुतेन च +दिवीव पार्थ सूर्येण न शक्या चरितुं त्वया +बृहच्छाल इवानूपे शाखापुष्पपलाशवान् +हस्ती श्वेत इवाज्ञातः कथं जिष्णुश्चरिष्यति +इमौ च सिंहसंकाशौ भ्रातरौ सहितौ शिशू +नकुलः सहदेवश्च कथं पार्थ चरिष्यतः +पुण्यकीर्ती राजपुत्री द्रौपदी वीरसूरियम् +विश्रुता कथमज्ञाता कृष्णा पार्थ चरिष्यति +मां चापि राजञ्जानन्ति आकुमारमिमाः प्रजाः +अज्ञातचर्यां पश्यामि मेरोरिव निगूहनम् +तथैव बहवोऽस्माभी राष्ट्रेभ्यो विप्रवासिताः +राजानो राजप���त्राश्च धृतराष्ट्रमनुव्रताः +न हि तेऽप्युपशाम्यन्ति निकृतानां निराकृताः +अवश्यं तैर्निकर्तव्यमस्माकं तत्प्रियैषिभिः +तेऽप्यस्मासु प्रयुञ्जीरन्प्रच्छन्नान्सुबहूञ्जनान् +आचक्षीरंश्च नो ज्ञात्वा तन्नः स्यात्सुमहद्भयम् +अस्माभिरुषिताः सम्यग्वने मासास्त्रयोदश +परिमाणेन तान्पश्य तावतः परिवत्सरान् +अस्ति मासः प्रतिनिधिर्यथा प्राहुर्मनीषिणः +पूतिकानिव सोमस्य तथेदं क्रियतामिति +अथ वानडुहे राजन्साधवे साधुवाहिने +सौहित्यदानादेकस्मादेनसः प्रतिमुच्यते +तस्माच्छत्रुवधे राजन्क्रियतां निश्चयस्त्वया +क्षत्रियस्य तु सर्वस्य नान्यो धर्मोऽस्ति संयुगात् +वैशंपायन उवाच +भीमसेनवचः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः +निःश्वस्य पुरुषव्याघ्रः संप्रदध्यौ परंतपः +स मुहूर्तमिव ध्यात्वा विनिश्चित्येतिकृत्यताम् +भीमसेनमिदं वाक्यमपदान्तरमब्रवीत् +एवमेतन्महाबाहो यथा वदसि भारत +इदमन्यत्समाधत्स्व वाक्यं मे वाक्यकोविद +महापापानि कर्माणि यानि केवलसाहसात् +आरभ्यन्ते भीमसेन व्यथन्ते तानि भारत +सुमन्त्रिते सुविक्रान्ते सुकृते सुविचारिते +सिध्यन्त्यर्था महाबाहो दैवं चात्र प्रदक्षिणम् +त्वं तु केवलचापल्याद्बलदर्पोच्छ्रितः स्वयम् +आरब्धव्यमिदं कर्म मन्यसे शृणु तत्र मे +भूरिश्रवाः शलश्चैव जलसंधश्च वीर्यवान् +भीष्मो द्रोणश्च कर्णश्च द्रोणपुत्रश्च वीर्यवान् +धार्तराष्ट्रा दुराधर्षा दुर्योधनपुरोगमाः +सर्व एव कृतास्त्राश्च सततं चाततायिनः +राजानः पार्थिवाश्चैव येऽस्माभिरुपतापिताः +संश्रिताः कौरवं पक्षं जातस्नेहाश्च सांप्रतम् +दुर्योधनहिते युक्ता न तथास्मासु भारत +पूर्णकोशा बलोपेताः प्रयतिष्यन्ति रक्षणे +सर्वे कौरवसैन्यस्य सपुत्रामात्यसैनिकाः +संविभक्ता हि मात्राभिर्भोगैरपि च सर्वशः +दुर्योधनेन ते वीरा मानिताश्च विशेषतः +प्राणांस्त्यक्ष्यन्ति संग्रामे इति मे निश्चिता मतिः +समा यद्यपि भीष्मस्य वृत्तिरस्मासु तेषु च +द्रोणस्य च महाबाहो कृपस्य च महात्मनः +अवश्यं राजपिण्डस्तैर्निर्वेश्य इति मे मतिः +तस्मात्त्यक्ष्यन्ति संग्रामे प्राणानपि सुदुस्त्यजान् +सर्वे दिव्यास्त्रविद्वांसः सर्वे धर्मपरायणाः +अजेयाश्चेति मे बुद्धिरपि देवैः सवासवैः +अमर्षी नित्यसंहृष्टस्तत्र कर्णो महारथः +सर्वास्त्रविदनाधृष्य अभेद्यकवचावृतः +अनिर्जित्य रणे सर्वानेतान्पुरुषसत्तमान् +अशक्यो ह्यसहायेन हन्तुं दुर्योधनस्त्वया +न निद्रामधिगच्छामि चिन्तयानो वृकोदर +अति सर्वान्धनुर्ग्राहान्सूतपुत्रस्य लाघवम् +एतद्वचनमाज्ञाय भीमसेनोऽत्यमर्षणः +बभूव विमनास्त्रस्तो न चैवोवाच किंचन +तयोः संवदतोरेवं तदा पाण्डवयोर्द्वयोः +आजगाम महायोगी व्यासः सत्यवतीसुतः +सोऽभिगम्य यथान्यायं पाण्डवैः प्रतिपूजितः +युधिष्ठिरमिदं वाक्यमुवाच वदतां वरः +युधिष्ठिर महाबाहो वेद्मि ते हृदि मानसम् +मनीषया ततः क्षिप्रमागतोऽस्मि नरर्षभ +भीष्माद्द्रोणात्कृपात्कर्णाद्द्रोणपुत्राच्च भारत +यत्ते भयममित्रघ्न हृदि संपरिवर्तते +तत्तेऽहं नाशयिष्यामि विधिदृष्टेन हेतुना +तच्छ्रुत्वा धृतिमास्थाय कर्मणा प्रतिपादय +तत एकान्तमुन्नीय पाराशर्यो युधिष्ठिरम् +अब्रवीदुपपन्नार्थमिदं वाक्यविशारदः +श्रेयसस्ते परः कालः प्राप्तो भरतसत्तम +येनाभिभविता शत्रून्रणे पार्थो धनंजयः +गृहाणेमां मया प्रोक्तां सिद्धिं मूर्तिमतीमिव +विद्यां प्रतिस्मृतिं नाम प्रपन्नाय ब्रवीमि ते +यामवाप्य महाबाहुरर्जुनः साधयिष्यति +अस्त्रहेतोर्महेन्द्रं च रुद्रं चैवाभिगच्छतु +वरुणं च धनेशं च धर्मराजं च पाण्डव +शक्तो ह्येष सुरान्द्रष्टुं तपसा विक्रमेण च +ऋषिरेष महातेजा नारायणसहायवान् +पुराणः शाश्वतो देवो विष्णोरंशः सनातनः +अस्त्राणीन्द्राच्च रुद्राच्च लोकपालेभ्य एव च +समादाय महाबाहुर्महत्कर्म करिष्यति +वनादस्माच्च कौन्तेय वनमन्यद्विचिन्त्यताम् +निवासार्थाय यद्युक्तं भवेद्वः पृथिवीपते +एकत्र चिरवासो हि न प्रीतिजननो भवेत् +तापसानां च शान्तानां भवेदुद्वेगकारकः +मृगाणामुपयोगश्च वीरुदोषधिसंक्षयः +बिभर्षि हि बहून्विप्रान्वेदवेदाङ्गपारगान् +एवमुक्त्वा प्रपन्नाय शुचये भगवान्प्रभुः +प्रोवाच योगतत्त्वज्ञो योगविद्यामनुत्तमाम् +धर्मराज्ञे तदा धीमान्व्यासः सत्यवतीसुतः +अनुज्ञाय च कौन्तेयं तत्रैवान्तरधीयत +युधिष्ठिरस्तु धर्मात्मा तद्ब्रह्म मनसा यतः +धारयामास मेधावी काले काले समभ्यसन् +स व्यासवाक्यमुदितो वनाद्द्वैतवनात्ततः +ययौ सरस्वतीतीरे काम्यकं नाम काननम् +तमन्वयुर्महाराज शिक्षाक्षरविदस्तथा +ब्राह्मणास्तपसा युक्ता ��ेवेन्द्रमृषयो यथा +ततः काम्यकमासाद्य पुनस्ते भरतर्षभाः +न्यविशन्त महात्मानः सामात्याः सपदानुगाः +तत्र ते न्यवसन्राजन्कंचित्कालं मनस्विनः +धनुर्वेदपरा वीराः शृण्वाना वेदमुत्तमम् +चरन्तो मृगयां नित्यं शुद्धैर्बाणैर्मृगार्थिनः +पितृदैवतविप्रेभ्यो निर्वपन्तो यथाविधि +वैशंपायन उवाच +कस्यचित्त्वथ कालस्य धर्मराजो युधिष्ठिरः +संस्मृत्य मुनिसंदेशमिदं वचनमब्रवीत् +विविक्ते विदितप्रज्ञमर्जुनं भरतर्षभम् +सान्त्वपूर्वं स्मितं कृत्वा पाणिना परिसंस्पृशन् +स मुहूर्तमिव ध्यात्वा वनवासमरिंदमः +धनंजयं धर्मराजो रहसीदमुवाच ह +भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे च भारत +धनुर्वेदश्चतुष्पाद एतेष्वद्य प्रतिष्ठितः +ब्राह्मं दैवमासुरं च सप्रयोगचिकित्सितम् +सर्वास्त्राणां प्रयोगं च तेऽभिजानन्ति कृत्स्नशः +ते सर्वे धृतराष्ट्रस्य पुत्रेण परिसान्त्विताः +संविभक्ताश्च तुष्टाश्च गुरुवत्तेषु वर्तते +सर्वयोधेषु चैवास्य सदा वृत्तिरनुत्तमा +शक्तिं न हापयिष्यन्ति ते काले प्रतिपूजिताः +अद्य चेयं मही कृत्स्ना दुर्योधनवशानुगा +त्वयि व्यपाश्रयोऽस्माकं त्वयि भारः समाहितः +तत्र कृत्यं प्रपश्यामि प्राप्तकालमरिंदम +कृष्णद्वैपायनात्तात गृहीतोपनिषन्मया +तया प्रयुक्तया सम्यग्जगत्सर्वं प्रकाशते +तेन त्वं ब्रह्मणा तात संयुक्तः सुसमाहितः +देवतानां यथाकालं प्रसादं प्रतिपालय +तपसा योजयात्मानमुग्रेण भरतर्षभ +धनुष्मान्कवची खड्गी मुनिः सारसमन्वितः +न कस्यचिद्ददन्मार्गं गच्छ तातोत्तरां दिशम् +इन्द्रे ह्यस्त्राणि दिव्यानि समस्तानि धनंजय +वृत्राद्भीतैस्तदा देवैर्बलमिन्द्रे समर्पितम् +तान्येकस्थानि सर्वाणि ततस्त्वं प्रतिपत्स्यसे +शक्रमेव प्रपद्यस्व स तेऽस्त्राणि प्रदास्यति +दीक्षितोऽद्यैव गच्छ त्वं द्रष्टुं देवं पुरंदरम् +एवमुक्त्वा धर्मराजस्तमध्यापयत प्रभुः +दीक्षितं विधिना तेन यतवाक्कायमानसम् +अनुजज्ञे ततो वीरं भ्राता भ्रातरमग्रजः +निदेशाद्धर्मराजस्य द्रष्टुं देवं पुरंदरम् +धनुर्गाण्डीवमादाय तथाक्षय्यौ महेषुधी +कवची सतलत्राणो बद्धगोधाङ्गुलित्रवान् +हुत्वाग्निं ब्राह्मणान्निष्कैः स्वस्ति वाच्य महाभुजः +प्रातिष्ठत महाबाहुः प्रगृहीतशरासनः +वधाय धार्तराष्ट्राणां निःश्वस्योर��ध्वमुदीक्ष्य च +तं दृष्ट्वा तत्र कौन्तेयं प्रगृहीतशरासनम् +अब्रुवन्ब्राह्मणाः सिद्धा भूतान्यन्तर्हितानि च +क्षिप्रं प्राप्नुहि कौन्तेय मनसा यद्यदिच्छसि +तं सिंहमिव गच्छन्तं शालस्कन्धोरुमर्जुनम् +मनांस्यादाय सर्वेषां कृष्णा वचनमब्रवीत् +यत्ते कुन्ती महाबाहो जातस्यैच्छद्धनंजय +तत्तेऽस्तु सर्वं कौन्तेय यथा च स्वयमिच्छसि +मास्माकं क्षत्रियकुले जन्म कश्चिदवाप्नुयात् +ब्राह्मणेभ्यो नमो नित्यं येषां युद्धे न जीविका +नूनं ते भ्रातरः सर्वे त्वत्कथाभिः प्रजागरे +रंस्यन्ते वीरकर्माणि कीर्तयन्तः पुनः पुनः +नैव नः पार्थ भोगेषु न धने नोत जीविते +तुष्टिर्बुद्धिर्भवित्री वा त्वयि दीर्घप्रवासिनि +त्वयि नः पार्थ सर्वेषां सुखदुःखे समाहिते +जीवितं मरणं चैव राज्यमैश्वर्यमेव च +आपृष्टो मेऽसि कौन्तेय स्वस्ति प्राप्नुहि पाण्डव +नमो धात्रे विधात्रे च स्वस्ति गच्छ ह्यनामयम् +स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यश्च भारत +दिव्येभ्यश्चैव भूतेभ्यो ये चान्ये परिपन्थिनः +ततः प्रदक्षिणं कृत्वा भ्रातॄन्धौम्यं च पाण्डवः +प्रातिष्ठत महाबाहुः प्रगृह्य रुचिरं धनुः +तस्य मार्गादपाक्रामन्सर्वभूतानि गच्छतः +युक्तस्यैन्द्रेण योगेन पराक्रान्तस्य शुष्मिणः +सोऽगच्छत्पर्वतं पुण्यमेकाह्नैव महामनाः +मनोजवगतिर्भूत्वा योगयुक्तो यथानिलः +हिमवन्तमतिक्रम्य गन्धमादनमेव च +अत्यक्रामत्स दुर्गाणि दिवारात्रमतन्द्रितः +इन्द्रकीलं समासाद्य ततोऽतिष्ठद्धनंजयः +अन्तरिक्षे हि शुश्राव तिष्ठेति स वचस्तदा +ततोऽपश्यत्सव्यसाची वृक्षमूले तपस्विनम् +ब्राह्म्या श्रिया दीप्यमानं पिङ्गलं जटिलं कृशम् +सोऽब्रवीदर्जुनं तत्र स्थितं दृष्ट्वा महातपाः +कस्त्वं तातेह संप्राप्तो धनुष्मान्कवची शरी +निबद्धासितलत्राणः क्षत्रधर्ममनुव्रतः +नेह शस्त्रेण कर्तव्यं शान्तानामयमालयः +विनीतक्रोधहर्षाणां ब्राह्मणानां तपस्विनाम् +नेहास्ति धनुषा कार्यं न संग्रामेण कर्हिचित् +निक्षिपैतद्धनुस्तात प्राप्तोऽसि परमां गतिम् +इत्यनन्तौजसं वीरं यथा चान्यं पृथग्जनम् +तथा वाचमथाभीक्ष्णं ब्राह्मणोऽर्जुनमब्रवीत् +न चैनं चालयामास धैर्यात्सुदृढनिश्चयम् +तमुवाच ततः प्रीतः स द्विजः प्रहसन्निव +वरं वृणीष्व भद्रं ते शक्रोऽहमरिसूदन +एवमुक्तः प्रत्युवाच सहस्राक्षं धनंजयः +प्राञ्जलिः प्रणतो भूत्वा शूरः कुरुकुलोद्वहः +ईप्सितो ह्येष मे कामो वरं चैनं प्रयच्छ मे +त्वत्तोऽद्य भगवन्नस्त्रं कृत्स्नमिच्छामि वेदितुम् +प्रत्युवाच महेन्द्रस्तं प्रीतात्मा प्रहसन्निव +इह प्राप्तस्य किं कार्यमस्त्रैस्तव धनंजय +कामान्वृणीष्व लोकांश्च प्राप्तोऽसि परमां गतिम् +एवमुक्तः प्रत्युवाच सहस्राक्षं धनंजयः +न लोकान्न पुनः कामान्न देवत्वं कुतः सुखम् +न च सर्वामरैश्वर्यं कामये त्रिदशाधिप +भ्रातॄंस्तान्विपिने त्यक्त्वा वैरमप्रतियात्य च +अकीर्तिं सर्वलोकेषु गच्छेयं शाश्वतीः समाः +एवमुक्तः प्रत्युवाच वृत्रहा पाण्डुनन्दनम् +सान्त्वयञ्श्लक्ष्णया वाचा सर्वलोकनमस्कृतः +यदा द्रक्ष्यसि भूतेशं त्र्यक्षं शूलधरं शिवम् +तदा दातास्मि ते तात दिव्यान्यस्त्राणि सर्वशः +क्रियतां दर्शने यत्नो देवस्य परमेष्ठिनः +दर्शनात्तस्य कौन्तेय संसिद्धः स्वर्गमेष्यसि +इत्युक्त्वा फल्गुनं शक्रो जगामादर्शनं ततः +अर्जुनोऽप्यथ तत्रैव तस्थौ योगसमन्वितः +जनमेजय उवाच +भगवञ्श्रोतुमिच्छामि पार्थस्याक्लिष्टकर्मणः +विस्तरेण कथामेतां यथास्त्राण्युपलब्धवान् +कथं स पुरुषव्याघ्रो दीर्घबाहुर्धनंजयः +वनं प्रविष्टस्तेजस्वी निर्मनुष्यमभीतवत् +किं च तेन कृतं तत्र वसता ब्रह्मवित्तम +कथं च भगवान्स्थाणुर्देवराजश्च तोषितः +एतदिच्छाम्यहं श्रोतुं त्वत्प्रसादाद्द्विजोत्तम +त्वं हि सर्वज्ञ दिव्यं च मानुषं चैव वेत्थ ह +अत्यद्भुतं महाप्राज्ञ रोमहर्षणमर्जुनः +भवेन सह संग्रामं चकाराप्रतिमं किल +पुरा प्रहरतां श्रेष्ठः संग्रामेष्वपराजितः +यच्छ्रुत्वा नरसिंहानां दैन्यहर्षातिविस्मयात् +शूराणामपि पार्थानां हृदयानि चकम्पिरे +यद्यच्च कृतवानन्यत्पार्थस्तदखिलं वद +न ह्यस्य निन्दितं जिष्णोः सुसूक्ष्ममपि लक्षये +चरितं तस्य शूरस्य तन्मे सर्वं प्रकीर्तय +वैशंपायन उवाच +कथयिष्यामि ते तात कथामेतां महात्मनः +दिव्यां कौरवशार्दूल महतीमद्भुतोपमाम् +गात्रसंस्पर्शसंबन्धं त्र्यम्बकेण सहानघ +पार्थस्य देवदेवेन शृणु सम्यक्समागमम् +युधिष्ठिरनियोगात्स जगामामितविक्रमः +शक्रं सुरेश्वरं द्रष्टुं देवदेवं च शंकरम् +दिव्यं तद्धनुरादाय खड्गं च पुरुषर्षभः +महाबलो महाबाहुरर्जुन��� कार्यसिद्धये +दिशं ह्युदीचीं कौरव्यो हिमवच्छिखरं प्रति +ऐन्द्रिः स्थिरमना राजन्सर्वलोकमहारथः +त्वरया परया युक्तस्तपसे धृतनिश्चयः +वनं कण्टकितं घोरमेक एवान्वपद्यत +नानापुष्पफलोपेतं नानापक्षिनिषेवितम् +नानामृगगणाकीर्णं सिद्धचारणसेवितम् +ततः प्रयाते कौन्तेये वनं मानुषवर्जितम् +शङ्खानां पटहानां च शब्दः समभवद्दिवि +पुष्पवर्षं च सुमहन्निपपात महीतले +मेघजालं च विततं छादयामास सर्वतः +अतीत्य वनदुर्गाणि संनिकर्षे महागिरेः +शुशुभे हिमवत्पृष्ठे वसमानोऽर्जुनस्तदा +तत्रापश्यद्द्रुमान्फुल्लान्विहगैर्वल्गु नादितान् +नदीश्च बहुलावर्ता नीलवैडूर्यसंनिभाः +हंसकारण्डवोद्गीताः सारसाभिरुतास्तथा +पुंस्कोकिलरुताश्चैव क्रौञ्चबर्हिणनादिताः +मनोहरवनोपेतास्तस्मिन्नतिरथोऽर्जुनः +पुण्यशीतामलजलाः पश्यन्प्रीतमनाभवत् +रमणीये वनोद्देशे रममाणोऽर्जुनस्तदा +तपस्युग्रे वर्तमान उग्रतेजा महामनाः +दर्भचीरं निवस्याथ दण्डाजिनविभूषितः +पूर्णे पूर्णे त्रिरात्रे तु मासमेकं फलाशनः +द्विगुणेनैव कालेन द्वितीयं मासमत्यगात् +तृतीयमपि मासं स पक्षेणाहारमाचरन् +शीर्णं च पतितं भूमौ पर्णं समुपयुक्तवान् +चतुर्थे त्वथ संप्राप्ते मासि पूर्णे ततः परम् +वायुभक्षो महाबाहुरभवत्पाण्डुनन्दनः +ऊर्ध्वबाहुर्निरालम्बः पादाङ्गुष्ठाग्रविष्ठितः +सदोपस्पर्शनाच्चास्य बभूवुरमितौजसः +विद्युदम्भोरुहनिभा जटास्तस्य महात्मनः +ततो महर्षयः सर्वे जग्मुर्देवं पिनाकिनम् +शितिकण्ठं महाभागं प्रणिपत्य प्रसाद्य च +सर्वे निवेदयामासुः कर्म तत्फल्गुनस्य ह +एष पार्थो महातेजा हिमवत्पृष्ठमाश्रितः +उग्रे तपसि दुष्पारे स्थितो धूमाययन्दिशः +तस्य देवेश न वयं विद्मः सर्वे चिकीर्षितम् +संतापयति नः सर्वानसौ साधु निवार्यताम् +महेश्वर उवाच +शीघ्रं गच्छत संहृष्टा यथागतमतन्द्रिताः +अहमस्य विजानामि संकल्पं मनसि स्थितम् +नास्य स्वर्गस्पृहा काचिन्नैश्वर्यस्य न चायुषः +यत्त्वस्य काङ्क्षितं सर्वं तत्करिष्येऽहमद्य वै +वैशंपायन उवाच +ते श्रुत्व शर्ववचनमृषयः सत्यवादिनः +प्रहृष्टमनसो जग्मुर्यथास्वं पुनराश्रमान् +वैशंपायन उवाच +गतेषु तेषु सर्वेषु तपस्विषु महात्मसु +पिनाकपाणिर्भगवान्सर्वपापहरो हरः +कैरातं वेषमास्थाय काञ्चनद्रुम���ंनिभम् +विभ्राजमानो वपुषा गिरिर्मेरुरिवापरः +श्रीमद्धनुरुपादाय शरांश्चाशीविषोपमान् +निष्पपात महार्चिष्मान्दहन्कक्षमिवानलः +देव्या सहोमया श्रीमान्समानव्रतवेषया +नानावेषधरैर्हृष्टैर्भूतैरनुगतस्तदा +किरातवेषप्रच्छन्नः स्त्रीभिश्चानु सहस्रशः +अशोभत तदा राजन्स देवोऽतीव भारत +क्षणेन तद्वनं सर्वं निःशब्दमभवत्तदा +नादः प्रस्रवणानां च पक्षिणां चाप्युपारमत् +स संनिकर्षमागम्य पार्थस्याक्लिष्टकर्मणः +मूकं नाम दितेः पुत्रं ददर्शाद्भुतदर्शनम् +वाराहं रूपमास्थाय तर्कयन्तमिवार्जुनम् +हन्तुं परमदुष्टात्मा तमुवाचाथ फल्गुनः +गाण्डीवं धनुरादाय शरांश्चाशीविषोपमान् +सज्यं धनुर्वरं कृत्वा ज्याघोषेण निनादयन् +यन्मां प्रार्थयसे हन्तुमनागसमिहागतम् +तस्मात्त्वां पूर्वमेवाहं नेष्यामि यमसादनम् +तं दृष्ट्वा प्रहरिष्यन्तं फल्गुनं दृढधन्विनम् +किरातरूपी सहसा वारयामास शंकरः +मयैष प्रार्थितः पूर्वं नीलमेघसमप्रभः +अनादृत्यैव तद्वाक्यं प्रजहाराथ फल्गुनः +किरातश्च समं तस्मिन्नेकलक्ष्ये महाद्युतिः +प्रमुमोचाशनिप्रख्यं शरमग्निशिखोपमम् +तौ मुक्तौ सायकौ ताभ्यां समं तत्र निपेततुः +मूकस्य गात्रे विस्तीर्णे शैलसंहनने तदा +यथाशनिविनिष्पेषो वज्रस्येव च पर्वते +तथा तयोः संनिपातः शरयोरभवत्तदा +स विद्धो बहुभिर्बाणैर्दीप्तास्यैः पन्नगैरिव +ममार राक्षसं रूपं भूयः कृत्वा विभीषणम् +ददर्शाथ ततो जिष्णुः पुरुषं काञ्चनप्रभम् +किरातवेषप्रच्छन्नं स्त्रीसहायममित्रहा +तमब्रवीत्प्रीतमनाः कौन्तेयः प्रहसन्निव +को भवानटते शून्ये वने स्त्रीगणसंवृतः +न त्वमस्मिन्वने घोरे बिभेषि कनकप्रभ +किमर्थं च त्वया विद्धो मृगोऽयं मत्परिग्रहः +मयाभिपन्नः पूर्वं हि राक्षसोऽयमिहागतः +कामात्परिभवाद्वापि न मे जीवन्विमोक्ष्यसे +न ह्येष मृगयाधर्मो यस्त्वयाद्य कृतो मयि +तेन त्वां भ्रंशयिष्यामि जीवितात्पर्वताश्रय +इत्युक्तः पाण्डवेयेन किरातः प्रहसन्निव +उवाच श्लक्ष्णया वाचा पाण्डवं सव्यसाचिनम् +ममैवायं लक्ष्यभूतः पूर्वमेव परिग्रहः +ममैव च प्रहारेण जीविताद्व्यवरोपितः +दोषान्स्वान्नार्हसेऽन्यस्मै वक्तुं स्वबलदर्पितः +अभिषक्तोऽस्मि मन्दात्मन्न मे जीवन्विमोक्ष्यसे +स्थिरो भवस्व मोक्ष्यामि सायकानशनीनिव +घ���स्व परया शक्त्या मुञ्च त्वमपि सायकान् +ततस्तौ तत्र संरब्धौ गर्जमानौ मुहुर्मुहुः +शरैराशीविषाकारैस्ततक्षाते परस्परम् +ततोऽर्जुनः शरवर्षं किराते समवासृजत् +तत्प्रसन्नेन मनसा प्रतिजग्राह शंकरः +मुहूर्तं शरवर्षं तत्प्रतिगृह्य पिनाकधृक् +अक्षतेन शरीरेण तस्थौ गिरिरिवाचलः +स दृष्ट्वा बाणवर्षं तन्मोघीभूतं धनंजयः +परमं विस्मयं चक्रे साधु साध्विति चाब्रवीत् +अहोऽयं सुकुमाराङ्गो हिमवच्छिखरालयः +गाण्डीवमुक्तान्नाराचान्प्रतिगृह्णात्यविह्वलः +कोऽयं देवो भवेत्साक्षाद्रुद्रो यक्षः सुरेश्वरः +विद्यते हि गिरिश्रेष्ठे त्रिदशानां समागमः +न हि मद्बाणजालानामुत्सृष्टानां सहस्रशः +शक्तोऽन्यः सहितुं वेगमृते देवं पिनाकिनम् +देवो वा यदि वा यक्षो रुद्रादन्यो व्यवस्थितः +अहमेनं शरैस्तीक्ष्णैर्नयामि यमसादनम् +ततो हृष्टमना जिष्णुर्नाराचान्मर्मभेदिनः +व्यसृजच्छतधा राजन्मयूखानिव भास्करः +तान्प्रसन्नेन मनसा भगवाँल्लोकभावनः +शूलपाणिः प्रत्यगृह्णाच्छिलावर्षमिवाचलः +क्षणेन क्षीणबाणोऽथ संवृत्तः फल्गुनस्तदा +वित्रासं च जगामाथ तं दृष्ट्वा शरसंक्षयम् +चिन्तयामास जिष्णुस्तु भगवन्तं हुताशनम् +पुरस्तादक्षयौ दत्तौ तूणौ येनास्य खाण्डवे +किं नु मोक्ष्यामि धनुषा यन्मे बाणाः क्षयं गताः +अयं च पुरुषः कोऽपि बाणान्ग्रसति सर्वशः +अहमेनं धनुष्कोट्या शूलाग्रेणेव कुञ्जरम् +नयामि दण्डधारस्य यमस्य सदनं प्रति +संप्रायुध्यद्धनुष्कोट्या कौन्तेयः परवीरहा +तदप्यस्य धनुर्दिव्यं जग्रास गिरिगोचरः +ततोऽर्जुनो ग्रस्तधनुः खड्गपाणिरतिष्ठत +युद्धस्यान्तमभीप्सन्वै वेगेनाभिजगाम तम् +तस्य मूर्ध्नि शितं खड्गमसक्तं पर्वतेष्वपि +मुमोच भुजवीर्येण विक्रम्य कुरुनन्दनः +तस्य मूर्धानमासाद्य पफालासिवरो हि सः +ततो वृक्षैः शिलाभिश्च योधयामास फल्गुनः +यथा वृक्षान्महाकायः प्रत्यगृह्णादथो शिलाः +किरातरूपी भगवांस्ततः पार्थो महाबलः +मुष्टिभिर्वज्रसंस्पर्शैर्धूममुत्पादयन्मुखे +प्रजहार दुराधर्षे किरातसमरूपिणि +ततः शक्राशनिसमैर्मुष्टिभिर्भृशदारुणैः +किरातरूपी भगवानर्दयामास फल्गुनम् +ततश्चटचटाशब्दः सुघोरः समजायत +पाण्डवस्य च मुष्टीनां किरातस्य च युध्यतः +सुमुहूर्तं महद्युद्धमासीत्तल्लोमहर्षणम् +भुजप्रहारसं���ुक्तं वृत्रवासवयोरिव +जहाराथ ततो जिष्णुः किरातमुरसा बली +पाण्डवं च विचेष्टन्तं किरातोऽप्यहनद्बलात् +तयोर्भुजविनिष्पेषात्संघर्षेणोरसोस्तथा +समजायत गात्रेषु पावकोऽङ्गारधूमवान् +तत एनं महादेवः पीड्य गात्रैः सुपीडितम् +तेजसा व्याक्रमद्रोषाच्चेतस्तस्य विमोहयन् +ततो निपीडितैर्गात्रैः पिण्डीकृत इवाबभौ +फल्गुनो गात्रसंरुद्धो देवदेवेन भारत +निरुच्छ्वासोऽभवच्चैव संनिरुद्धो महात्मना +ततः पपात संमूढस्ततः प्रीतोऽभवद्भवः +भगवानुवाच +भो भो फल्गुन तुष्टोऽस्मि कर्मणाप्रतिमेन ते +शौर्येणानेन धृत्या च क्षत्रियो नास्ति ते समः +समं तेजश्च वीर्यं च ममाद्य तव चानघ +प्रीतस्तेऽहं महाबाहो पश्य मां पुरुषर्षभ +ददानि ते विशालाक्ष चक्षुः पूर्वऋषिर्भवान् +विजेष्यसि रणे शत्रूनपि सर्वान्दिवौकसः +वैशंपायन उवाच +ततो देवं महादेवं गिरिशं शूलपाणिनम् +ददर्श फल्गुनस्तत्र सह देव्या महाद्युतिम् +स जानुभ्यां महीं गत्वा शिरसा प्रणिपत्य च +प्रसादयामास हरं पार्थः परपुरंजयः +अर्जुन उवाच +कपर्दिन्सर्वभूतेश भगनेत्रनिपातन +व्यतिक्रमं मे भगवन्क्षन्तुमर्हसि शंकर +भवगद्दर्शनाकाङ्क्षी प्राप्तोऽस्मीमं महागिरिम् +दयितं तव देवेश तापसालयमुत्तमम् +प्रसादये त्वां भगवन्सर्वभूतनमस्कृत +न मे स्यादपराधोऽयं महादेवातिसाहसात् +कृतो मया यदज्ञानाद्विमर्दोऽयं त्वया सह +शरणं संप्रपन्नाय तत्क्षमस्वाद्य शंकर +वैशंपायन उवाच +तमुवाच महातेजाः प्रहस्य वृषभध्वजः +प्रगृह्य रुचिरं बाहुं क्षान्तमित्येव फल्गुनम् +भगवानुवाच +नरस्त्वं पूर्वदेहे वै नारायणसहायवान् +बदर्यां तप्तवानुग्रं तपो वर्षायुतान्बहून् +त्वयि वा परमं तेजो विष्णौ वा पुरुषोत्तमे +युवाभ्यां पुरुषाग्र्याभ्यां तेजसा धार्यते जगत् +शक्राभिषेके सुमहद्धनुर्जलदनिस्वनम् +प्रगृह्य दानवाः शस्तास्त्वया कृष्णेन च प्रभो +एतत्तदेव गाण्डीवं तव पार्थ करोचितम् +मायामास्थाय यद्ग्रस्तं मया पुरुषसत्तम +तूणौ चाप्यक्षयौ भूयस्तव पार्थ यथोचितौ +प्रीतिमानस्मि वै पार्थ तव सत्यपराक्रम +गृहाण वरमस्मत्तः काङ्क्षितं यन्नरर्षभ +न त्वया सदृशः कश्चित्पुमान्मर्त्येषु मानद +दिवि वा विद्यते क्षत्रं त्वत्प्रधानमरिंदम +अर्जुन उवाच +भगवन्ददासि चेन्मह्यं कामं प्रीत्या वृषध्वज +कामये दिव���यमस्त्रं तद्घोरं पाशुपतं प्रभो +यत्तद्ब्रह्मशिरो नाम रौद्रं भीमपराक्रमम् +युगान्ते दारुणे प्राप्ते कृत्स्नं संहरते जगत् +दहेयं येन संग्रामे दानवान्राक्षसांस्तथा +भूतानि च पिशाचांश्च गन्धर्वानथ पन्नगान् +यतः शूलसहस्राणि गदाश्चोग्रप्रदर्शनाः +शराश्चाशीविषाकाराः संभवन्त्यनुमन्त्रिताः +युध्येयं येन भीष्मेण द्रोणेन च कृपेण च +सूतपुत्रेण च रणे नित्यं कटुकभाषिणा +एष मे प्रथमः कामो भगवन्भगनेत्रहन् +त्वत्प्रसादाद्विनिर्वृत्तः समर्थः स्यामहं यथा +भगवानुवाच +ददानि तेऽस्त्रं दयितमहं पाशुपतं महत् +समर्थो धारणे मोक्षे संहारे चापि पाण्डव +नैतद्वेद महेन्द्रोऽपि न यमो न च यक्षराट् +वरुणो वाथ वा वायुः कुतो वेत्स्यन्ति मानवाः +न त्वेतत्सहसा पार्थ मोक्तव्यं पुरुषे क्वचित् +जगद्विनिर्दहेत्सर्वमल्पतेजसि पातितम् +अवध्यो नाम नास्त्यस्य त्रैलोक्ये सचराचरे +मनसा चक्षुषा वाचा धनुषा च निपात्यते +वैशंपायन उवाच +तच्छ्रुत्वा त्वरितः पार्थः शुचिर्भूत्वा समाहितः +उपसंगृह्य विश्वेशमधीष्वेति च सोऽब्रवीत् +ततस्त्वध्यापयामास सरहस्य निवर्तनम् +तदस्त्रं पाण्डवश्रेष्ठं मूर्तिमन्तमिवान्तकम् +उपतस्थे महात्मानं यथा त्र्यक्षमुमापतिम् +प्रतिजग्राह तच्चापि प्रीतिमानर्जुनस्तदा +ततश्चचाल पृथिवी सपर्वतवनद्रुमा +ससागरवनोद्देशा सग्रामनगराकरा +शङ्खदुन्दुभिघोषाश्च भेरीणां च सहस्रशः +तस्मिन्मुहूर्ते संप्राप्ते निर्घातश्च महानभूत् +अथास्त्रं जाज्वलद्घोरं पाण्डवस्यामितौजसः +मूर्तिमद्विष्ठितं पार्श्वे ददृशुर्देवदानवाः +स्पृष्टस्य च त्र्यम्बकेन फल्गुनस्यामितौजसः +यत्किंचिदशुभं देहे तत्सर्वं नाशमेयिवत् +स्वर्गं गच्छेत्यनुज्ञातस्त्र्यम्बकेन तदार्जुनः +प्रणम्य शिरसा पार्थः प्राञ्जलिर्देवमैक्षत +ततः प्रभुस्त्रिदिवनिवासिनां वशी; महामतिर्गिरिश उमापतिः शिवः +धनुर्महद्दितिजपिशाचसूदनं; ददौ भवः पुरुषवराय गाण्डिवम् +ततः शुभं गिरिवरमीश्वरस्तदा; सहोमया सिततटसानुकन्दरम् +विहाय तं पतगमहर्षिसेवितं; जगाम खं पुरुषवरस्य पश्यतः +वैशंपायन उवाच +तस्य संपश्यतस्त्वेव पिनाकी वृषभध्वजः +जगामादर्शनं भानुर्लोकस्येवास्तमेयिवान् +ततोऽर्जुनः परं चक्रे विस्मयं परवीरहा +मया साक्षान्महादेवो दृष्ट इत्येव भारत +ध��्योऽस्म्यनुगृहीतोऽस्मि यन्मया त्र्यम्बको हरः +पिनाकी वरदो रूपी दृष्टः स्पृष्टश्च पाणिना +कृतार्थं चावगच्छामि परमात्मानमात्मना +शत्रूंश्च विजितान्सर्वान्निर्वृत्तं च प्रयोजनम् +ततो वैडूर्यवर्णाभो भासयन्सर्वतो दिशः +यादोगणवृतः श्रीमानाजगाम जलेश्वरः +नागैर्नदैर्नदीभिश्च दैत्यैः साध्यैश्च दैवतैः +वरुणो यादसां भर्ता वशी तं देशमागमत् +अथ जाम्बूनदवपुर्विमानेन महार्चिषा +कुबेरः समनुप्राप्तो यक्षैरनुगतः प्रभुः +विद्योतयन्निवाकाशमद्भुतोपमदर्शनः +धनानामीश्वरः श्रीमानर्जुनं द्रष्टुमागतः +तथा लोकान्तकृच्छ्रीमान्यमः साक्षात्प्रतापवान् +मूर्त्यमूर्तिधरैः सार्धं पितृभिर्लोकभावनैः +दण्डपाणिरचिन्त्यात्मा सर्वभूतविनाशकृत् +वैवस्वतो धर्मराजो विमानेनावभासयन् +त्रीँल्लोकान्गुह्यकांश्चैव गन्धर्वांश्च सपन्नगान् +द्वितीय इव मार्तण्डो युगान्ते समुपस्थिते +भानुमन्ति विचित्राणि शिखराणि महागिरेः +समास्थायार्जुनं तत्र ददृशुस्तपसान्वितम् +ततो मुहूर्ताद्भगवानैरावतशिरोगतः +आजगाम सहेन्द्राण्या शक्रः सुरगणैर्वृतः +पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि +शुशुभे तारकाराजः सितमभ्रमिवास्थितः +संस्तूयमानो गन्धर्वैरृषिभिश्च तपोधनैः +शृङ्गं गिरेः समासाद्य तस्थौ सूर्य इवोदितः +अथ मेघस्वनो धीमान्व्याजहार शुभां गिरम् +यमः परमधर्मज्ञो दक्षिणां दिशमास्थितः +अर्जुनार्जुन पश्यास्माँल्लोकपालान्समागतान् +दृष्टिं ते वितरामोऽद्य भवानर्हो हि दर्शनम् +पूर्वर्षिरमितात्मा त्वं नरो नाम महाबलः +नियोगाद्ब्रह्मणस्तात मर्त्यतां समुपागतः +त्वं वासवसमुद्भूतो महावीर्यपराक्रमः +क्षत्रं चाग्निसमस्पर्शं भारद्वाजेन रक्षितम् +दानवाश्च महावीर्या ये मनुष्यत्वमागताः +निवातकवचाश्चैव संसाध्याः कुरुनन्दन +पितुर्ममांशो देवस्य सर्वलोकप्रतापिनः +कर्णः स सुमहावीर्यस्त्वया वध्यो धनंजय +अंशाश्च क्षितिसंप्राप्ता देवगन्धर्वरक्षसाम् +तया निपातिता युद्धे स्वकर्मफलनिर्जिताम् +गतिं प्राप्स्यन्ति कौन्तेय यथास्वमरिकर्शन +अक्षया तव कीर्तिश्च लोके स्थास्यति फल्गुन +त्वया साक्षान्महादेवस्तोषितो हि महामृधे +लघ्वी वसुमती चापि कर्तव्या विष्णुना सह +गृहाणास्त्रं महाबाहो दण्डमप्रतिवारणम् +अनेनास्त्रेण सुमहत्त्वं हि कर्म करिष्यसि +प्रतिजग्राह तत्पार्थो विधिवत्कुरुनन्दनः +समन्त्रं सोपचारं च समोक्षं सनिवर्तनम् +ततो जलधरश्यामो वरुणो यादसां पतिः +पश्चिमां दिशमास्थाय गिरमुच्चारयन्प्रभुः +पार्थ क्षत्रियमुख्यस्त्वं क्षत्रधर्मे व्यवस्थितः +पश्य मां पृथुताम्राक्ष वरुणोऽस्मि जलेश्वरः +मया समुद्यतान्पाशान्वारुणाननिवारणान् +प्रतिगृह्णीष्व कौन्तेय सरहस्यनिवर्तनान् +एभिस्तदा मया वीर संग्रामे तारकामये +दैतेयानां सहस्राणि संयतानि महात्मनाम् +तस्मादिमान्महासत्त्व मत्प्रसादात्समुत्थितान् +गृहाण न हि ते मुच्येदन्तकोऽप्याततायिनः +अनेन त्वं यदास्त्रेण संग्रामे विचरिष्यसि +तदा निःक्षत्रिया भूमिर्भविष्यति न संशयः +ततः कैलासनिलयो धनाध्यक्षोऽभ्यभाषत +दत्तेष्वस्त्रेषु दिव्येषु वरुणेन यमेन च +सव्यसाचिन्महाबाहो पूर्वदेव सनातन +सहास्माभिर्भवाञ्श्रान्तः पुराकल्पेषु नित्यशः +मत्तोऽपि त्वं गृहाणास्त्रमन्तर्धानं प्रियं मम +ओजस्तेजोद्युतिहरं प्रस्वापनमरातिहन् +ततोऽर्जुनो महाबाहुर्विधिवत्कुरुनन्दनः +कौबेरमपि जग्राह दिव्यमस्त्रं महाबलः +ततोऽब्रवीद्देवराजः पार्थमक्लिष्टकारिणम् +सान्त्वयञ्श्लक्ष्णया वाचा मेघदुन्दुभिनिस्वनः +कुन्तीमातर्महाबाहो त्वमीशानः पुरातनः +परां सिद्धिमनुप्राप्तः साक्षाद्देवगतिं गतः +देवकार्यं हि सुमहत्त्वया कार्यमरिंदम +आरोढव्यस्त्वया स्वर्गः सज्जीभव महाद्युते +रथो मातलिसंयुक्त आगन्ता त्वत्कृते महीम् +तत्र तेऽहं प्रदास्यामि दिव्यान्यस्त्राणि कौरव +तान्दृष्ट्वा लोकपालांस्तु समेतान्गिरिमूर्धनि +जगाम विस्मयं धीमान्कुन्तीपुत्रो धनंजयः +ततोऽर्जुनो महातेजा लोकपालान्समागतान् +पूजयामास विधिवद्वाग्भिरद्भिः फलैरपि +ततः प्रतिययुर्देवाः प्रतिपूज्य धनंजयम् +यथागतेन विबुधाः सर्वे काममनोजवाः +ततोऽर्जुनो मुदं लेभे लब्धास्त्रः पुरुषर्षभः +कृतार्थमिव चात्मानं स मेने पूर्णमानसः +वैशंपायन उवाच +गतेषु लोकपालेषु पार्थः शत्रुनिबर्हणः +चिन्तयामास राजेन्द्र देवराजरथागमम् +ततश्चिन्तयमानस्य गुडाकेशस्य धीमतः +रथो मातलिसंयुक्त आजगाम महाप्रभः +नभो वितिमिरं कुर्वञ्जलदान्पाटयन्निव +दिशः संपूरयन्नादैर्महामेघरवोपमैः +असयः शक्तयो भीमा गदाश्चोग्रप्रदर्शन���ः +दिव्यप्रभावाः प्रासाश्च विद्युतश्च महाप्रभाः +तथैवाशनयस्तत्र चक्रयुक्ता हुडागुडाः +वायुस्फोटाः सनिर्घाता बर्हिमेघनिभस्वनाः +तत्र नागा महाकाया ज्वलितास्याः सुदारुणाः +सिताभ्रकूटप्रतिमाः संहताश्च यथोपलाः +दश वाजिसहस्राणि हरीणां वातरंहसाम् +वहन्ति यं नेत्रमुषं दिव्यं मायामयं रथम् +तत्रापश्यन्महानीलं वैजयन्तं महाप्रभम् +ध्वजमिन्दीवरश्यामं वंशं कनकभूषणम् +तस्मिन्रथे स्थितं सूतं तप्तहेमविभूषितम् +दृष्ट्वा पार्थो महाबाहुर्देवमेवान्वतर्कयत् +तथा तर्कयतस्तस्य फल्गुनस्याथ मातलिः +संनतः प्रश्रितो भूत्वा वाक्यमर्जुनमब्रवीत् +भो भो शक्रात्मज श्रीमाञ्शक्रस्त्वां द्रष्टुमिच्छति +आरोहतु भवाञ्शीघ्रं रथमिन्द्रस्य संमतम् +आह माममरश्रेष्ठः पिता तव शतक्रतुः +कुन्तीसुतमिह प्राप्तं पश्यन्तु त्रिदशालयाः +एष शक्रः परिवृतो देवैरृषिगणैस्तथा +गन्धर्वैरप्सरोभिश्च त्वां दिदृक्षुः प्रतीक्षते +अस्माल्लोकाद्देवलोकं पाकशासनशासनात् +आरोह त्वं मया सार्धं लब्धास्त्रः पुनरेष्यसि +अर्जुन उवाच +मातले गच्छ शीघ्रं त्वमारोहस्व रथोत्तमम् +राजसूयाश्वमेधानां शतैरपि सुदुर्लभम् +पार्थिवैः सुमहाभागैर्यज्वभिर्भूरिदक्षिणैः +दैवतैर्वा समारोढुं दानवैर्वा रथोत्तमम् +नातप्ततपसा शक्य एष दिव्यो महारथः +द्रष्टुं वाप्यथ वा स्प्रष्टुमारोढुं कुत एव तु +त्वयि प्रतिष्ठिते साधो रथस्थे स्थिरवाजिनि +पश्चादहमथारोक्ष्ये सुकृती सत्पथं यथा +वैशंपायन उवाच +तस्य तद्वचनं श्रुत्वा मातलिः शक्रसारथिः +आरुरोह रथं शीघ्रं हयान्येमे च रश्मिभिः +ततोऽर्जुनो हृष्टमना गङ्गायामाप्लुतः शुचिः +जजाप जप्यं कौन्तेयो विधिवत्कुरुनन्दनः +ततः पितॄन्यथान्यायं तर्पयित्वा यथाविधि +मन्दरं शैलराजं तमाप्रष्टुमुपचक्रमे +साधूनां धर्मशीलानां मुनीनां पुण्यकर्मणाम् +त्वं सदा संश्रयः शैल स्वर्गमार्गाभिकाङ्क्षिणाम् +त्वत्प्रसादात्सदा शैल ब्राह्मणाः क्षत्रिया विशः +स्वर्गं प्राप्ताश्चरन्ति स्म देवैः सह गतव्यथाः +अद्रिराज महाशैल मुनिसंश्रय तीर्थवन् +गच्छाम्यामन्त्रयामि त्वां सुखमस्म्युषितस्त्वयि +तव सानूनि कुञ्जाश्च नद्यः प्रस्रवणानि च +तीर्थानि च सुपुण्यानि मया दृष्टान्यनेकशः +एवमुक्त्वार्जुनः शैलमामन्त्र्य परवीरहा +आरु���ोह रथं दिव्यं द्योतयन्निव भास्करः +स तेनादित्यरूपेण दिव्येनाद्भुतकर्मणा +ऊर्ध्वमाचक्रमे धीमान्प्रहृष्टः कुरुनन्दनः +सोऽदर्शनपथं यात्वा मर्त्यानां भूमिचारिणाम् +ददर्शाद्भुतरूपाणि विमानानि सहस्रशः +न तत्र सूर्यः सोमो वा द्योतते न च पावकः +स्वयैव प्रभया तत्र द्योतन्ते पुण्यलब्धया +तारारूपाणि यानीह दृश्यन्ते द्युतिमन्ति वै +दीपवद्विप्रकृष्टत्वादणूनि सुमहान्त्यपि +तानि तत्र प्रभास्वन्ति रूपवन्ति च पाण्डवः +ददर्श स्वेषु धिष्ण्येषु दीप्तिमन्ति स्वयार्चिषा +तत्र राजर्षयः सिद्धा वीराश्च निहता युधि +तपसा च जितस्वर्गाः संपेतुः शतसंघशः +गन्धर्वाणां सहस्राणि सूर्यज्वलनतेजसाम् +गुह्यकानामृषीणां च तथैवाप्सरसां गणाः +लोकानात्मप्रभान्पश्यन्फल्गुनो विस्मयान्वितः +पप्रच्छ मातलिं प्रीत्या स चाप्येनमुवाच ह +एते सुकृतिनः पार्थ स्वेषु धिष्ण्येष्ववस्थिताः +यान्दृष्टवानसि विभो तारारूपाणि भूतले +ततोऽपश्यत्स्थितं द्वारि सितं वैजयिनं गजम् +ऐरावतं चतुर्दन्तं कैलासमिव शृङ्गिणम् +स सिद्धमार्गमाक्रम्य कुरुपाण्डवसत्तमः +व्यरोचत यथा पूर्वं मान्धाता पार्थिवोत्तमः +अतिचक्राम लोकान्स राज्ञां राजीवलोचनः +ततो ददर्श शक्रस्य पुरीं ताममरावतीम् +वैशंपायन उवाच +स ददर्श पुरीं रम्यां सिद्धचारणसेविताम् +सर्वर्तुकुसुमैः पुण्यैः पादपैरुपशोभिताम् +तत्र सौगन्धिकानां स द्रुमाणां पुण्यगन्धिनाम् +उपवीज्यमानो मिश्रेण वायुना पुण्यगन्धिना +नन्दनं च वनं दिव्यमप्सरोगणसेवितम् +ददर्श दिव्यकुसुमैराह्वयद्भिरिव द्रुमैः +नातप्ततपसा शक्यो द्रष्टुं नानाहिताग्निना +स लोकः पुण्यकर्तॄणां नापि युद्धपराङ्मुखैः +नायज्वभिर्नानृतकैर्न वेदश्रुतिवर्जितैः +नानाप्लुताङ्गैस्तीर्थेषु यज्ञदानबहिष्कृतैः +नापि यज्ञहनैः क्षुद्रैर्द्रष्टुं शक्यः कथंचन +पानपैर्गुरुतल्पैश्च मांसादैर्वा दुरात्मभिः +स तद्दिव्यं वनं पश्यन्दिव्यगीतनिनादितम् +प्रविवेश महाबाहुः शक्रस्य दयितां पुरीम् +तत्र देवविमानानि कामगानि सहस्रशः +संस्थितान्यभियातानि ददर्शायुतशस्तदा +संस्तूयमानो गन्धर्वैरप्सरोभिश्च पाण्डवः +पुष्पगन्धवहैः पुण्यैर्वायुभिश्चानुवीजितः +ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः +हृष्टाः संपूजयामासुः पार्थमक्ल���ष्टकारिणम् +आशीर्वादैः स्तूयमानो दिव्यवादित्रनिस्वनैः +प्रतिपेदे महाबाहुः शङ्खदुन्दुभिनादितम् +नक्षत्रमार्गं विपुलं सुरवीथीति विश्रुतम् +इन्द्राज्ञया ययौ पार्थः स्तूयमानः समन्ततः +तत्र साध्यास्तथा विश्वे मरुतोऽथाश्विनावपि +आदित्या वसवो रुद्रास्तथा ब्रह्मर्षयोऽमलाः +राजर्षयश्च बहवो दिलीपप्रमुखा नृपाः +तुम्बुरुर्नारदश्चैव गन्धर्वौ च हहाहुहू +तान्सर्वान्स समागम्य विधिवत्कुरुनन्दनः +ततोऽपश्यद्देवराजं शतक्रतुमरिंदमम् +ततः पार्थो महाबाहुरवतीर्य रथोत्तमात् +ददर्श साक्षाद्देवेन्द्रं पितरं पाकशासनम् +पाण्डुरेणातपत्रेण हेमदण्डेन चारुणा +दिव्यगन्धाधिवासेन व्यजनेन विधूयता +विश्वावसुप्रभृतिभिर्गन्धर्वैः स्तुतिवन्दनैः +स्तूयमानं द्विजाग्र्यैश्च ऋग्यजुःसामसंस्तवैः +ततोऽभिगम्य कौन्तेयः शिरसाभ्यनमद्बली +स चैनमनुवृत्ताभ्यां भुजाभ्यां प्रत्यगृह्णत +ततः शक्रासने पुण्ये देवराजर्षिपूजिते +शक्रः पाणौ गृहीत्वैनमुपावेशयदन्तिके +मूर्ध्नि चैनमुपाघ्राय देवेन्द्रः परवीरहा +अङ्कमारोपयामास प्रश्रयावनतं तदा +सहस्राक्षनियोगात्स पार्थः शक्रासनं तदा +अध्यक्रामदमेयात्मा द्वितीय इव वासवः +ततः प्रेम्णा वृत्रशत्रुरर्जुनस्य शुभं मुखम् +पस्पर्श पुण्यगन्धेन करेण परिसान्त्वयन् +परिमार्जमानः शनकैर्बाहू चास्यायतौ शुभौ +ज्याशरक्षेपकठिनौ स्तम्भाविव हिरण्मयौ +वज्रग्रहणचिह्नेन करेण बलसूदनः +मुहुर्मुहुर्वज्रधरो बाहू संस्फालयञ्शनैः +स्मयन्निव गुडाकेशं प्रेक्षमाणः सहस्रदृक् +हर्षेणोत्फुल्लनयनो न चातृप्यत वृत्रहा +एकासनोपविष्टौ तौ शोभयां चक्रतुः सभाम् +सूर्याचन्द्रमसौ व्योम्नि चतुर्दश्यामिवोदितौ +तत्र स्म गाथा गायन्ति साम्ना परमवल्गुना +गन्धर्वास्तुम्बुरुश्रेष्ठाः कुशला गीतसामसु +घृताची मेनका रम्भा पूर्वचित्तिः स्वयंप्रभा +उर्वशी मिश्रकेशी च डुण्डुर्गौरी वरूथिनी +गोपाली सहजन्या च कुम्भयोनिः प्रजागरा +चित्रसेना चित्रलेखा सहा च मधुरस्वरा +एताश्चान्याश्च ननृतुस्तत्र तत्र वराङ्गनाः +चित्तप्रमथने युक्ताः सिद्धानां पद्मलोचनाः +महाकटितटश्रोण्यः कम्पमानैः पयोधरैः +कटाक्षहावमाधुर्यैश्चेतोबुद्धिमनोहराः +वैशंपायन उवाच +ततो देवाः सगन्धर्वाः समादायार्घ्यमुत्तमम् +शक्रस्य मतमाज्ञाय पार्थमानर्चुरञ्जसा +पाद्यमाचमनीयं च प्रतिग्राह्य नृपात्मजम् +प्रवेशयामासुरथो पुरंदरनिवेशनम् +एवं संपूजितो जिष्णुरुवास भवने पितुः +उपशिक्षन्महास्त्राणि ससंहाराणि पाण्डवः +शक्रस्य हस्ताद्दयितं वज्रमस्त्रं दुरुत्सहम् +अशनीश्च महानादा मेघबर्हिणलक्षणाः +गृहीतास्त्रस्तु कौन्तेयो भ्रातॄन्सस्मार पाण्डवः +पुरंदरनियोगाच्च पञ्चाब्दमवसत्सुखी +ततः शक्रोऽब्रवीत्पार्थं कृतास्त्रं काल आगते +नृत्तं गीतं च कौन्तेय चित्रसेनादवाप्नुहि +वादित्रं देवविहितं नृलोके यन्न विद्यते +तदर्जयस्व कौन्तेय श्रेयो वै ते भविष्यति +सखायं प्रददौ चास्य चित्रसेनं पुरंदरः +स तेन सह संगम्य रेमे पार्थो निरामयः +कदाचिदटमानस्तु महर्षिरुत लोमशः +जगाम शक्रभवनं पुरंदरदिदृक्षया +स समेत्य नमस्कृत्य देवराजं महामुनिः +ददर्शार्धासनगतं पाण्डवं वासवस्य ह +ततः शक्राभ्यनुज्ञात आसने विष्टरोत्तरे +निषसाद द्विजश्रेष्ठः पूज्यमानो महर्षिभिः +तस्य दृष्ट्वाभवद्बुद्धिः पार्थमिन्द्रासने स्थितम् +कथं नु क्षत्रियः पार्थः शक्रासनमवाप्तवान् +किं त्वस्य सुकृतं कर्म लोका वा के विनिर्जिताः +य एवमुपसंप्राप्तः स्थानं देवनमस्कृतम् +तस्य विज्ञाय संकल्पं शक्रो वृत्रनिषूदनः +लोमशं प्रहसन्वाक्यमिदमाह शचीपतिः +ब्रह्मर्षे श्रूयतां यत्ते मनसैतद्विवक्षितम् +नायं केवलमर्त्यो वै क्षत्रियत्वमुपागतः +महर्षे मम पुत्रोऽयं कुन्त्यां जातो महाभुजः +अस्त्रहेतोरिह प्राप्तः कस्माच्चित्कारणान्तरात् +अहो नैनं भवान्वेत्ति पुराणमृषिसत्तमम् +शृणु मे वदतो ब्रह्मन्योऽयं यच्चास्य कारणम् +नरनारायणौ यौ तौ पुराणावृषिसत्तमौ +ताविमावभिजानीहि हृषीकेशधनंजयौ +यन्न शक्यं सुरैर्द्रष्टुमृषिभिर्वा महात्मभिः +तदाश्रमपदं पुण्यं बदरी नाम विश्रुतम् +स निवासोऽभवद्विप्र विष्णोर्जिष्णोस्तथैव च +यतः प्रववृते गङ्गा सिद्धचारणसेविता +तौ मन्नियोगाद्ब्रह्मर्षे क्षितौ जातौ महाद्युती +भूमेर्भारावतरणं महावीर्यौ करिष्यतः +उद्वृत्ता ह्यसुराः केचिन्निवातकवचा इति +विप्रियेषु स्थितास्माकं वरदानेन मोहिताः +तर्कयन्ते सुरान्हन्तुं बलदर्पसमन्विताः +देवान्न गणयन्ते च तथा दत्तवरा हि ते +पातालवासिनो रौद्रा दनोः पुत्रा महाबलाः +सर्वे देवनिकाया हि नालं य���धयितुं स्म तान् +योऽसौ भूमिगतः श्रीमान्विष्णुर्मधुनिषूदनः +कपिलो नाम देवोऽसौ भगवानजितो हरिः +येन पूर्वं महात्मानः खनमाना रसातलम् +दर्शनादेव निहताः सगरस्यात्मजा विभो +तेन कार्यं महत्कार्यमस्माकं द्विजसत्तम +पार्थेन च महायुद्धे समेताभ्यामसंशयम् +अयं तेषां समस्तानां शक्तः प्रतिसमासने +तान्निहत्य रणे शूरः पुनर्यास्यति मानुषान् +भवांश्चास्मन्नियोगेन यातु तावन्महीतलम् +काम्यके द्रक्ष्यसे वीरं निवसन्तं युधिष्ठिरम् +स वाच्यो मम संदेशाद्धर्मात्मा सत्यसंगरः +नोत्कण्ठा फल्गुने कार्या कृतास्त्रः शीघ्रमेष्यति +नाशुद्धबाहुवीर्येण नाकृतास्त्रेण वा रणे +भीष्मद्रोणादयो युद्धे शक्याः प्रतिसमासितुम् +गृहीतास्त्रो गुडाकेशो महाबाहुर्महामनाः +नृत्तवादित्रगीतानां दिव्यानां पारमेयिवान् +भवानपि विविक्तानि तीर्थानि मनुजेश्वर +भ्रातृभिः सहितः सर्वैर्द्रष्टुमर्हत्यरिंदम +तीर्थेष्वाप्लुत्य पुण्येषु विपाप्मा विगतज्वरः +राज्यं भोक्ष्यसि राजेन्द्र सुखी विगतकल्मषः +भवांश्चैनं द्विजश्रेष्ठ पर्यटन्तं महीतले +त्रातुमर्हति विप्राग्र्य तपोबलसमन्वितः +गिरिदुर्गेषु हि सदा देशेषु विषमेषु च +वसन्ति राक्षसा रौद्रास्तेभ्यो रक्षेत्सदा भवान् +स तथेति प्रतिज्ञाय लोमशः सुमहातपाः +काम्यकं वनमुद्दिश्य समुपायान्महीतलम् +ददर्श तत्र कौन्तेयं धर्मराजमरिंदमम् +तापसैर्भ्रातृभिश्चैव सर्वतः परिवारितम् +जनमेजय उवाच +अत्यद्भुतमिदं कर्म पार्थस्यामिततेजसः +धृतराष्ट्रो महातेजाः श्रुत्वा विप्र किमब्रवीत् +वैशंपायन उवाच +शक्रलोकगतं पार्थं श्रुत्वा राजाम्बिकासुतः +द्वैपायनादृषिश्रेष्ठात्संजयं वाक्यमब्रवीत् +श्रुतं मे सूत कार्त्स्न्येन कर्म पार्थस्य धीमतः +कच्चित्तवापि विदितं यथातथ्येन सारथे +प्रमत्तो ग्राम्यधर्मेषु मन्दात्मा पापनिश्चयः +मम पुत्रः सुदुर्बुद्धिः पृथिवीं घातयिष्यति +यस्य नित्यमृता वाचः स्वैरेष्वपि महात्मनः +त्रैलोक्यमपि तस्य स्याद्योद्धा यस्य धनंजयः +अस्यतः कर्णिनाराचांस्तीक्ष्णाग्रांश्च शिलाशितान् +कोऽर्जुनस्याग्रतस्तिष्ठेदपि मृत्युर्जरातिगः +मम पुत्रा दुरात्मानः सर्वे मृत्युवशं गताः +येषां युद्धं दुराधर्षैः पाण्डवैः प्रत्युपस्थितम् +तस्यैव च न पश्यामि युधि गाण्डीव���न्वनः +अनिशं चिन्तयानोऽपि य एनमुदियाद्रथी +द्रोणकर्णौ प्रतीयातां यदि भीष्मोऽपि वा रणे +महान्स्यात्संशयो लोके न तु पश्यामि नो जयम् +घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः +अमर्षी बलवान्पार्थः संरम्भी दृढविक्रमः +भवेत्सुतुमुलं युद्धं सर्वशोऽप्यपराजितम् +सर्वे ह्यस्त्रविदः शूराः सर्वे प्राप्ता महद्यशः +अपि सर्वेश्वरत्वं हि न वाञ्छेरन्पराजिताः +वधे नूनं भवेच्छान्तिस्तेषां वा फल्गुनस्य वा +न तु हन्तार्जुनस्यास्ति जेता वास्य न विद्यते +मन्युस्तस्य कथं शाम्येन्मन्दान्प्रति समुत्थितः +त्रिदशेशसमो वीरः खाण्डवेऽग्निमतर्पयत् +जिगाय पार्थिवान्सर्वान्राजसूये महाक्रतौ +शेषं कुर्याद्गिरेर्वज्रं निपतन्मूर्ध्नि संजय +न तु कुर्युः शराः शेषमस्तास्तात किरीटिना +यथा हि किरणा भानोस्तपन्तीह चराचरम् +तथा पार्थभुजोत्सृष्टाः शरास्तप्स्यन्ति मे सुतान् +अपि वा रथघोषेण भयार्ता सव्यसाचिनः +प्रतिभाति विदीर्णेव सर्वतो भारती चमूः +यदुद्वपन्प्रवपंश्चैव बाणा;न्स्थाताततायी समरे किरीटी +सृष्टोऽन्तकः सर्वहरो विधात्रा; भवेद्यथा तद्वदपारणीयः +संजय उवाच +यदेतत्कथितं राजंस्त्वया दुर्योधनं प्रति +सर्वमेतद्यथात्थ त्वं नैतन्मिथ्या महीपते +मन्युना हि समाविष्टाः पाण्डवास्तेऽमितौजसः +दृष्ट्वा कृष्णां सभां नीतां धर्मपत्नीं यशस्विनीम् +दुःशासनस्य ता वाचः श्रुत्वा ते दारुणोदयाः +कर्णस्य च महाराज न स्वप्स्यन्तीति मे मतिः +श्रुतं हि ते महाराज यथा पार्थेन संयुगे +एकादशतनुः स्थाणुर्धनुषा परितोषितः +कैरातं वेषमास्थाय योधयामास फल्गुनम् +जिज्ञासुः सर्वदेवेशः कपर्दी भगवान्स्वयम् +तत्रैनं लोकपालास्ते दर्शयामासुरर्जुनम् +अस्त्रहेतोः पराक्रान्तं तपसा कौरवर्षभम् +नैतदुत्सहतेऽन्यो हि लब्धुमन्यत्र फल्गुनात् +साक्षाद्दर्शनमेतेषामीश्वराणां नरो भुवि +महेश्वरेण यो राजन्न जीर्णो ग्रस्तमूर्तिमान् +कस्तमुत्सहते वीरं युद्धे जरयितुं पुमान् +आसादितमिदं घोरं तुमुलं लोमहर्षणम् +द्रौपदीं परिकर्षद्भिः कोपयद्भिश्च पाण्डवान् +यत्र विस्फुरमाणोष्ठो भीमः प्राह वचो महत् +दृष्ट्वा दुर्योधनेनोरू द्रौपद्या दर्शितावुभौ +ऊरू भेत्स्यामि ते पाप गदया वज्रकल्पया +त्रयोदशानां वर्षाणामन्ते दुर्द्यूतदेविनः +सर्वे प्रहरतां श्रेष्ठाः सर्वे चामिततेजसः +सर्वे सर्वास्त्रविद्वांसो देवैरपि सुदुर्जयाः +मन्ये मन्युसमुद्धूताः पुत्राणां तव संयुगे +अन्तं पार्थाः करिष्यन्ति वीर्यामर्षसमन्विताः +धृतराष्ट्र उवाच +किं कृतं सूत कर्णेन वदता परुषं वचः +पर्याप्तं वैरमेतावद्यत्कृष्णा सा सभां गता +अपीदानीं मम सुतास्तिष्ठेरन्मन्दचेतसः +येषां भ्राता गुरुर्ज्येष्ठो विनये नावतिष्ठते +ममापि वचनं सूत न शुश्रूषति मन्दभाक् +दृष्ट्वा मां चक्षुषा हीनं निर्विचेष्टमचेतनम् +ये चास्य सचिवा मन्दाः कर्णसौबलकादयः +तेऽप्यस्य भूयसो दोषान्वर्धयन्ति विचेतसः +स्वैरमुक्ता अपि शराः पार्थेनामिततेजसा +निर्दहेयुर्मम सुतान्किं पुनर्मन्युनेरिताः +पार्थबाहुबलोत्सृष्टा महाचापविनिःसृताः +दिव्यास्त्रमन्त्रमुदिताः सादयेयुः सुरानपि +यस्य मन्त्री च गोप्ता च सुहृच्चैव जनार्दनः +हरिस्त्रैलोक्यनाथः स किं नु तस्य न निर्जितम् +इदं च सुमहच्चित्रमर्जुनस्येह संजय +महादेवेन बाहुभ्यां यत्समेत इति श्रुतिः +प्रत्यक्षं सर्वलोकस्य खाण्डवे यत्कृतं पुरा +फल्गुनेन सहायार्थे वह्नेर्दामोदरेण च +सर्वथा नास्ति मे पुत्रः सामात्यः सहबान्धवः +क्रुद्धे पार्थे च भीमे च वासुदेवे च सात्वते +जनमेजय उवाच +यदिदं शोचितं राज्ञा धृतराष्ट्रेण वै मुने +प्रव्राज्य पाण्डवान्वीरान्सर्वमेतन्निरर्थकम् +कथं हि राजा पुत्रं स्वमुपेक्षेताल्पचेतसम् +दुर्योधनं पाण्डुपुत्रान्कोपयानं महारथान् +किमासीत्पाण्डुपुत्राणां वने भोजनमुच्यताम् +वानेयमथ वा कृष्टमेतदाख्यातु मे भवान् +वैशंपायन उवाच +वानेयं च मृगांश्चैव शुद्धैर्बाणैर्निपातितान् +ब्राह्मणानां निवेद्याग्रमभुञ्जन्पुरुषर्षभाः +तांस्तु शूरान्महेष्वासांस्तदा निवसतो वने +अन्वयुर्ब्राह्मणा राजन्साग्नयोऽनग्नयस्तथा +ब्राह्मणानां सहस्राणि स्नातकानां महात्मनाम् +दश मोक्षविदां तद्वद्यान्बिभर्ति युधिष्ठिरः +रुरून्कृष्णमृगांश्चैव मेध्यांश्चान्यान्वनेचरान् +बाणैरुन्मथ्य विधिवद्ब्राह्मणेभ्यो न्यवेदयत् +न तत्र कश्चिद्दुर्वर्णो व्याधितो वाप्यदृश्यत +कृशो वा दुर्बलो वापि दीनो भीतोऽपि वा नरः +पुत्रानिव प्रियाञ्ज्ञातीन्भ्रातॄनिव सहोदरान् +पुपोष कौरवश्रेष्ठो धर्मराजो युधिष्ठिरः +पतींश्च द्रौपदी सर्वान्द्विज��ंश्चैव यशस्विनी +मातेव भोजयित्वाग्रे शिष्टमाहारयत्तदा +प्राचीं राजा दक्षिणां भीमसेनो; यमौ प्रतीचीमथ वाप्युदीचीम् +धनुर्धरा मांसहेतोर्मृगाणां; क्षयं चक्रुर्नित्यमेवोपगम्य +तथा तेषां वसतां काम्यके वै; विहीनानामर्जुनेनोत्सुकानाम् +पञ्चैव वर्षाणि तदा व्यतीयु;रधीयतां जपतां जुह्वतां च +वैशंपायन उवाच +सुदीर्घमुष्णं निःश्वस्य धृतराष्ट्रोऽम्बिकासुतः +अब्रवीत्संजयं सूतमामन्त्र्य भरतर्षभ +देवपुत्रौ महाभागौ देवराजसमद्युती +नकुलः सहदेवश्च पाण्डवौ युद्धदुर्मदौ +दृढायुधौ दूरपातौ युद्धे च कृतनिश्चयौ +शीघ्रहस्तौ दृढक्रोधौ नित्ययुक्तौ तरस्विनौ +भीमार्जुनौ पुरोधाय यदा तौ रणमूर्धनि +स्थास्येते सिंहविक्रान्तावश्विनाविव दुःसहौ +न शेषमिह पश्यामि तदा सैन्यस्य संजय +तौ ह्यप्रतिरथौ युद्धे देवपुत्रौ महारथौ +द्रौपद्यास्तं परिक्लेशं न क्षंस्येते त्वमर्षिणौ +वृष्णयो वा महेष्वासा पाञ्चाला वा महौजसः +युधि सत्याभिसंधेन वासुदेवेन रक्षिताः +प्रधक्ष्यन्ति रणे पार्थाः पुत्राणां मम वाहिनीम् +रामकृष्णप्रणीतानां वृष्णीनां सूतनन्दन +न शक्यः सहितुं वेगः पर्वतैरपि संयुगे +तेषां मध्ये महेष्वासो भीमो भीमपराक्रमः +शैक्यया वीरघातिन्या गदया विचरिष्यति +तथा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः +गदावेगं च भीमस्य नालं सोढुं नराधिपाः +ततोऽहं सुहृदां वाचो दुर्योधनवशानुगः +स्मरणीयाः स्मरिष्यामि मया या न कृताः पुरा +संजय उवाच +व्यतिक्रमोऽयं सुमहांस्त्वया राजन्नुपेक्षितः +समर्थेनापि यन्मोहात्पुत्रस्ते न निवारितः +श्रुत्वा हि निर्जितान्द्यूते पाण्डवान्मधुसूदनः +त्वरितः काम्यके पार्थान्समभावयदच्युतः +द्रुपदस्य तथा पुत्रा धृष्टद्युम्नपुरोगमाः +विराटो धृष्टकेतुश्च केकयाश्च महारथाः +तैश्च यत्कथितं तत्र दृष्ट्वा पार्थान्पराजितान् +चारेण विदितं सर्वं तन्मया वेदितं च ते +समागम्य वृतस्तत्र पाण्डवैर्मधुसूदनः +सारथ्ये फल्गुनस्याजौ तथेत्याह च तान्हरिः +अमर्षितो हि कृष्णोऽपि दृष्ट्वा पार्थांस्तथागतान् +कृष्णाजिनोत्तरासङ्गानब्रवीच्च युधिष्ठिरम् +या सा समृद्धिः पार्थानामिन्द्रप्रस्थे बभूव ह +राजसूये मया दृष्टा नृपैरन्यैः सुदुर्लभा +यत्र सर्वान्महीपालाञ्शस्त्रतेजोभयार्दितान् +सवङ्गाङ्गान्सपौण्ड्रोड्रान्सचोलद्रविडान्धकान् +सागरानूपगांश्चैव ये च पत्तनवासिनः +सिंहलान्बर्बरान्म्लेच्छान्ये च जाङ्गलवासिनः +पश्चिमानि च राज्यानि शतशः सागरान्तिकान् +पह्लवान्दरदान्सर्वान्किरातान्यवनाञ्शकान् +हारहूणांश्च चीनांश्च तुखारान्सैन्धवांस्तथा +जागुडान्रमठान्मुण्डान्स्त्रीराज्यानथ तङ्गणान् +एते चान्ये च बहवो ये च ते भरतर्षभ +आगतानहमद्राक्षं यज्ञे ते परिवेषकान् +सा ते समृद्धिर्यैरात्ता चपला प्रतिसारिणी +आदाय जीवितं तेषामाहरिष्यामि तामहम् +रामेण सह कौरव्य भीमार्जुनयमैस्तथा +अक्रूरगदसाम्बैश्च प्रद्युम्नेनाहुकेन च +धृष्टद्युम्नेन वीरेण शिशुपालात्मजेन च +दुर्योधनं रणे हत्वा सद्यः कर्णं च भारत +दुःशासनं सौबलेयं यश्चान्यः प्रतियोत्स्यते +ततस्त्वं हास्तिनपुरे भ्रातृभिः सहितो वसन् +धार्तराष्ट्रीं श्रियं प्राप्य प्रशाधि पृथिवीमिमाम् +अथैनमब्रवीद्राजा तस्मिन्वीरसमागमे +शृण्वत्सु तेषु सर्वेषु धृष्टद्युम्नमुखेषु च +प्रतिगृह्णामि ते वाचं सत्यामेतां जनार्दन +अमित्रान्मे महाबाहो सानुबन्धान्हनिष्यसि +वर्षात्त्रयोदशादूर्ध्वं सत्यं मां कुरु केशव +प्रतिज्ञातो वने वासो राजमध्ये मया ह्ययम् +तद्धर्मराजवचनं प्रतिश्रुत्य सभासदः +धृष्टद्युम्नपुरोगास्ते शमयामासुरञ्जसा +केशवं मधुरैर्वाक्यैः कालयुक्तैरमर्षितम् +पाञ्चालीं चाहुरक्लिष्टां वासुदेवस्य शृण्वतः +दुर्योधनस्तव क्रोधाद्देवि त्यक्ष्यति जीवितम् +प्रतिजानीम ते सत्यं मा शुचो वरवर्णिनि +ये स्म ते कुपितां कृष्णे दृष्ट्वा त्वां प्राहसंस्तदा +मांसानि तेषां खादन्तो हसिष्यन्ति मृगद्विजाः +पास्यन्ति रुधिरं तेषां गृध्रा गोमायवस्तथा +उत्तमाङ्गानि कर्षन्तो यैस्त्वं कृष्टा सभातले +तेषां द्रक्ष्यसि पाञ्चालि गात्राणि पृथिवीतले +क्रव्यादैः कृष्यमाणानि भक्ष्यमाणानि चासकृत् +परिक्लिष्टासि यैस्तत्र यैश्चापि समुपेक्षिता +तेषामुत्कृत्तशिरसां भूमिः पास्यति शोणितम् +एवं बहुविधा वाचस्तदोचुः पुरुषर्षभाः +सर्वे तेजस्विनः शूराः सर्वे चाहतलक्षणाः +ते धर्मराजेन वृता वर्षादूर्ध्वं त्रयोदशात् +पुरस्कृत्योपयास्यन्ति वासुदेवं महारथाः +रामश्च कृष्णश्च धनंजयश्च; प्रद्युम्नसाम्बौ युयुधानभीमौ +माद्रीसुतौ केकयराजपुत्राः; पाञ्चालपुत्राः सह धर्मराज्ञा +एतान्सर्वाँल्लोकवीरानजेया;न्महात्मनः सानुबन्धान्ससैन्यान् +को जीवितार्थी समरे प्रत्युदीया;त्क्रुद्धान्सिंहान्केसरिणो यथैव +धृतराष्ट्र उवाच +यन्माब्रवीद्विदुरो द्यूतकाले; त्वं पाण्डवाञ्जेष्यसि चेन्नरेन्द्र +ध्रुवं कुरूणामयमन्तकालो; महाभयो भविता शोणितौघः +मन्ये तथा तद्भवितेति सूत; यथा क्षत्ता प्राह वचः पुरा माम् +असंशयं भविता युद्धमेत;द्गते काले पाण्डवानां यथोक्तम् +जनमेजय उवाच +अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि +युधिष्ठिरप्रभृतयः किमकुर्वन्त पाण्डवाः +वैशंपायन उवाच +अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि +न्यवसन्कृष्णया सार्धं काम्यके पुरुषर्षभाः +ततः कदाचिदेकान्ते विविक्त इव शाद्वले +दुःखार्ता भरतश्रेष्ठा निषेदुः सह कृष्णया +धनंजयं शोचमानाः साश्रुकण्ठाः सुदुःखिताः +तद्वियोगाद्धि तान्सर्वाञ्शोकः समभिपुप्लुवे +धनंजयवियोगाच्च राज्यनाशाच्च दुःखिताः +अथ भीमो महाबाहुर्युधिष्ठिरमभाषत +निदेशात्ते महाराज गतोऽसौ पुरुषर्षभः +अर्जुनः पाण्डुपुत्राणां यस्मिन्प्राणाः प्रतिष्ठिताः +यस्मिन्विनष्टे पाञ्चालाः सह पुत्रैस्तथा वयम् +सात्यकिर्वासुदेवश्च विनश्येयुरसंशयम् +योऽसौ गच्छति तेजस्वी बहून्क्लेशानचिन्तयन् +भवन्नियोगाद्बीभत्सुस्ततो दुःखतरं नु किम् +यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः +मन्यामहे जितानाजौ परान्प्राप्तां च मेदिनीम् +यस्य प्रभावान्न मया सभामध्ये धनुष्मतः +नीता लोकममुं सर्वे धार्तराष्ट्राः ससौबलाः +ते वयं बाहुबलिनः क्रोधमुत्थितमात्मनः +सहामहे भवन्मूलं वासुदेवेन पालिताः +वयं हि सह कृष्णेन हत्वा कर्णमुखान्परान् +स्वबाहुविजितां कृत्स्नां प्रशासेम वसुंधराम् +भवतो द्यूतदोषेण सर्वे वयमुपप्लुताः +अहीनपौरुषा राजन्बलिभिर्बलवत्तमाः +क्षात्रं धर्मं महाराज समवेक्षितुमर्हसि +न हि धर्मो महाराज क्षत्रियस्य वनाश्रयः +राज्यमेव परं धर्मं क्षत्रियस्य विदुर्बुधाः +स क्षत्रधर्मविद्राजन्मा धर्म्यान्नीनशः पथः +प्राग्द्वादश समा राजन्धार्तराष्ट्रान्निहन्महि +निवर्त्य च वनात्पार्थमानाय्य च जनार्दनम् +व्यूढानीकान्महाराज जवेनैव महाहवे +धार्तराष्ट्रानमुं लोकं गमयामि विशां पते +सर्वानहं हनिष्यामि धार्तराष्ट्रान्ससौबलान् +द��र्योधनं च कर्णं च यो वान्यः प्रतियोत्स्यते +मया प्रशमिते पश्चात्त्वमेष्यसि वनात्पुनः +एवं कृते न ते दोषो भविष्यति विशां पते +यज्ञैश्च विविधैस्तात कृतं पापमरिंदम +अवधूय महाराज गच्छेम स्वर्गमुत्तमम् +एवमेतद्भवेद्राजन्यदि राजा न बालिशः +अस्माकं दीर्घसूत्रः स्याद्भवान्धर्मपरायणः +निकृत्या निकृतिप्रज्ञा हन्तव्या इति निश्चयः +न हि नैकृतिकं हत्वा निकृत्या पापमुच्यते +तथा भारत धर्मेषु धर्मज्ञैरिह दृश्यते +अहोरात्रं महाराज तुल्यं संवत्सरेण हि +तथैव वेदवचनं श्रूयते नित्यदा विभो +संवत्सरो महाराज पूर्णो भवति कृच्छ्रतः +यदि वेदाः प्रमाणं ते दिवसादूर्ध्वमच्युत +त्रयोदश समाः कालो ज्ञायतां परिनिष्ठितः +कालो दुर्योधनं हन्तुं सानुबन्धमरिंदम +एकाग्रां पृथिवीं सर्वां पुरा राजन्करोति सः +एवं ब्रुवाणं भीमं तु धर्मराजो युधिष्ठिरः +उवाच सान्त्वयन्राजा मूर्ध्न्युपाघ्राय पाण्डवम् +असंशयं महाबाहो हनिष्यसि सुयोधनम् +वर्षात्त्रयोदशादूर्ध्वं सह गाण्डीवधन्वना +यच्च मा भाषसे पार्थ प्राप्तः काल इति प्रभो +अनृतं नोत्सहे वक्तुं न ह्येतन्मयि विद्यते +अन्तरेणापि कौन्तेय निकृतिं पापनिश्चयम् +हन्ता त्वमसि दुर्धर्ष सानुबन्धं सुयोधनम् +एवं ब्रुवति भीमं तु धर्मराजे युधिष्ठिरे +आजगाम महाभागो बृहदश्वो महानृषिः +तमभिप्रेक्ष्य धर्मात्मा संप्राप्तं धर्मचारिणम् +शास्त्रवन्मधुपर्केण पूजयामास धर्मराट् +आश्वस्तं चैनमासीनमुपासीनो युधिष्ठिरः +अभिप्रेक्ष्य महाबाहुः कृपणं बह्वभाषत +अक्षद्यूतेन भगवन्धनं राज्यं च मे हृतम् +आहूय निकृतिप्रज्ञैः कितवैरक्षकोविदैः +अनक्षज्ञस्य हि सतो निकृत्या पापनिश्चयैः +भार्या च मे सभां नीता प्राणेभ्योऽपि गरीयसी +अस्ति राजा मया कश्चिदल्पभाग्यतरो भुवि +भवता दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा भवेत् +न मत्तो दुःखिततरः पुमानस्तीति मे मतिः +बृहदश्व उवाच +यद्ब्रवीषि महाराज न मत्तो विद्यते क्वचित् +अल्पभाग्यतरः कश्चित्पुमानस्तीति पाण्डव +अत्र ते कथयिष्यामि यदि शुश्रूषसेऽनघ +यस्त्वत्तो दुःखिततरो राजासीत्पृथिवीपते +वैशंपायन उवाच +अथैनमब्रवीद्राजा ब्रवीतु भगवानिति +इमामवस्थां संप्राप्तं श्रोतुमिच्छामि पार्थिवम् +बृहदश्व उवाच +शृणु राजन्नवहितः सह भ्रातृभिरच्युत +यस्त्वत्तो दुः���िततरो राजासीत्पृथिवीपते +निषधेषु महीपालो वीरसेन इति स्म ह +तस्य पुत्रोऽभवन्नाम्ना नलो धर्मार्थदर्शिवान् +स निकृत्या जितो राजा पुष्करेणेति नः श्रुतम् +वनवासमदुःखार्हो भार्यया न्यवसत्सह +न तस्याश्वो न च रथो न भ्राता न च बान्धवाः +वने निवसतो राजञ्शिष्यन्ते स्म कदाचन +भवान्हि संवृतो वीरैर्भ्रातृभिर्देवसंमितैः +ब्रह्मकल्पैर्द्विजाग्र्यैश्च तस्मान्नार्हसि शोचितुम् +युधिष्ठिर उवाच +विस्तरेणाहमिच्छामि नलस्य सुमहात्मनः +चरितं वदतां श्रेष्ठ तन्ममाख्यातुमर्हसि +बृहदश्व उवाच +आसीद्राजा नलो नाम वीरसेनसुतो बली +उपपन्नो गुणैरिष्टै रूपवानश्वकोविदः +अतिष्ठन्मनुजेन्द्राणां मूर्ध्नि देवपतिर्यथा +उपर्युपरि सर्वेषामादित्य इव तेजसा +ब्रह्मण्यो वेदविच्छूरो निषधेषु महीपतिः +अक्षप्रियः सत्यवादी महानक्षौहिणीपतिः +ईप्सितो वरनारीणामुदारः संयतेन्द्रियः +रक्षिता धन्विनां श्रेष्ठः साक्षादिव मनुः स्वयम् +तथैवासीद्विदर्भेषु भीमो भीमपराक्रमः +शूरः सर्वगुणैर्युक्तः प्रजाकामः स चाप्रजः +स प्रजार्थे परं यत्नमकरोत्सुसमाहितः +तमभ्यगच्छद्ब्रह्मर्षिर्दमनो नाम भारत +तं स भीमः प्रजाकामस्तोषयामास धर्मवित् +महिष्या सह राजेन्द्र सत्कारेण सुवर्चसम् +तस्मै प्रसन्नो दमनः सभार्याय वरं ददौ +कन्यारत्नं कुमारांश्च त्रीनुदारान्महायशाः +दमयन्तीं दमं दान्तं दमनं च सुवर्चसम् +उपपन्नान्गुणैः सर्वैर्भीमान्भीमपराक्रमान् +दमयन्ती तु रूपेण तेजसा यशसा श्रिया +सौभाग्येन च लोकेषु यशः प्राप सुमध्यमा +अथ तां वयसि प्राप्ते दासीनां समलंकृतम् +शतं सखीनां च तथा पर्युपास्ते शचीमिव +तत्र स्म भ्राजते भैमी सर्वाभरणभूषिता +सखीमध्येऽनवद्याङ्गी विद्युत्सौदामिनी यथा +अतीव रूपसंपन्ना श्रीरिवायतलोचना +न देवेषु न यक्षेषु तादृग्रूपवती क्वचित् +मानुषेष्वपि चान्येषु दृष्टपूर्वा न च श्रुता +चित्तप्रमाथिनी बाला देवानामपि सुन्दरी +नलश्च नरशार्दूलो रूपेणाप्रतिमो भुवि +कन्दर्प इव रूपेण मूर्तिमानभवत्स्वयम् +तस्याः समीपे तु नलं प्रशशंसुः कुतूहलात् +नैषधस्य समीपे तु दमयन्तीं पुनः पुनः +तयोरदृष्टकामोऽभूच्छृण्वतोः सततं गुणान् +अन्योन्यं प्रति कौन्तेय स व्यवर्धत हृच्छयः +अशक्नुवन्नलः कामं तदा धारयितुं हृदा +अन्तःपुरसमीपस्थे वन आस्ते रहोगतः +स ददर्श तदा हंसाञ्जातरूपपरिच्छदान् +वने विचरतां तेषामेकं जग्राह पक्षिणम् +ततोऽन्तरिक्षगो वाचं व्याजहार तदा नलम् +न हन्तव्योऽस्मि ते राजन्करिष्यामि हि ते प्रियम् +दमयन्तीसकाशे त्वां कथयिष्यामि नैषध +यथा त्वदन्यं पुरुषं न सा मंस्यति कर्हिचित् +एवमुक्तस्ततो हंसमुत्ससर्ज महीपतिः +ते तु हंसाः समुत्पत्य विदर्भानगमंस्ततः +विदर्भनगरीं गत्वा दमयन्त्यास्तदान्तिके +निपेतुस्ते गरुत्मन्तः सा ददर्शाथ तान्खगान् +सा तानद्भुतरूपान्वै दृष्ट्वा सखिगणावृता +हृष्टा ग्रहीतुं खगमांस्त्वरमाणोपचक्रमे +अथ हंसा विससृपुः सर्वतः प्रमदावने +एकैकशस्ततः कन्यास्तान्हंसान्समुपाद्रवन् +दमयन्ती तु यं हंसं समुपाधावदन्तिके +स मानुषीं गिरं कृत्वा दमयन्तीमथाब्रवीत् +दमयन्ति नलो नाम निषधेषु महीपतिः +अश्विनोः सदृशो रूपे न समास्तस्य मानुषाः +तस्य वै यदि भार्या त्वं भवेथा वरवर्णिनि +सफलं ते भवेज्जन्म रूपं चेदं सुमध्यमे +वयं हि देवगन्धर्वमनुष्योरगराक्षसान् +दृष्टवन्तो न चास्माभिर्दृष्टपूर्वस्तथाविधः +त्वं चापि रत्नं नारीणां नरेषु च नलो वरः +विशिष्टाया विशिष्टेन संगमो गुणवान्भवेत् +एवमुक्ता तु हंसेन दमयन्ती विशां पते +अब्रवीत्तत्र तं हंसं तमप्येवं नलं वद +तथेत्युक्त्वाण्डजः कन्यां वैदर्भस्य विशां पते +पुनरागम्य निषधान्नले सर्वं न्यवेदयत् +बृहदश्व उवाच +दमयन्ती तु तच्छ्रुत्वा वचो हंसस्य भारत +तदा प्रभृति नस्वस्था नलं प्रति बभूव सा +ततश्चिन्तापरा दीना विवर्णवदना कृशा +बभूव दमयन्ती तु निःश्वासपरमा तदा +ऊर्ध्वदृष्टिर्ध्यानपरा बभूवोन्मत्तदर्शना +न शय्यासनभोगेषु रतिं विन्दति कर्हिचित् +न नक्तं न दिवा शेते हा हेति वदती मुहुः +तामस्वस्थां तदाकारां सख्यस्ता जज्ञुरिङ्गितैः +ततो विदर्भपतये दमयन्त्याः सखीगणः +न्यवेदयत नस्वस्थां दमयन्तीं नरेश्वर +तच्छ्रुत्वा नृपतिर्भीमो दमयन्तीसखीगणात् +चिन्तयामास तत्कार्यं सुमहत्स्वां सुतां प्रति +स समीक्ष्य महीपालः स्वां सुतां प्राप्तयौवनाम् +अपश्यदात्मनः कार्यं दमयन्त्याः स्वयंवरम् +स संनिपातयामास महीपालान्विशां पते +अनुभूयतामयं वीराः स्वयंवर इति प्रभो +श्रुत्वा तु पार्थिवाः सर्वे दमयन्त्याः स्वयंवरम् +अभिजग्मुस्तदा भीमं राजानो भीमशासनात् +हस्त्यश्वरथघोषेण नादयन्तो वसुंधराम् +विचित्रमाल्याभरणैर्बलैर्दृश्यैः स्वलंकृतैः +एतस्मिन्नेव काले तु पुराणावृषिसत्तमौ +अटमानौ महात्मानाविन्द्रलोकमितो गतौ +नारदः पर्वतश्चैव महात्मानौ महाव्रतौ +देवराजस्य भवनं विविशाते सुपूजितौ +तावर्चित्वा सहस्राक्षस्ततः कुशलमव्ययम् +पप्रच्छानामयं चापि तयोः सर्वगतं विभुः +नारद उवाच +आवयोः कुशलं देव सर्वत्रगतमीश्वर +लोके च मघवन्कृत्स्ने नृपाः कुशलिनो विभो +बृहदश्व उवाच +नारदस्य वचः श्रुत्वा पप्रच्छ बलवृत्रहा +धर्मज्ञाः पृथिवीपालास्त्यक्तजीवितयोधिनः +शस्त्रेण निधनं काले ये गच्छन्त्यपराङ्मुखाः +अयं लोकोऽक्षयस्तेषां यथैव मम कामधुक् +क्व नु ते क्षत्रियाः शूरा न हि पश्यामि तानहम् +आगच्छतो महीपालानतिथीन्दयितान्मम +एवमुक्तस्तु शक्रेण नारदः प्रत्यभाषत +शृणु मे भगवन्येन न दृश्यन्ते महीक्षितः +विदर्भराजदुहिता दमयन्तीति विश्रुता +रूपेण समतिक्रान्ता पृथिव्यां सर्वयोषितः +तस्याः स्वयंवरः शक्र भविता नचिरादिव +तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः +तां रत्नभूतां लोकस्य प्रार्थयन्तो महीक्षितः +काङ्क्षन्ति स्म विशेषेण बलवृत्रनिषूदन +एतस्मिन्कथ्यमाने तु लोकपालाश्च साग्निकाः +आजग्मुर्देवराजस्य समीपममरोत्तमाः +ततस्तच्छुश्रुवुः सर्वे नारदस्य वचो महत् +श्रुत्वा चैवाब्रुवन्हृष्टा गच्छामो वयमप्युत +ततः सर्वे महाराज सगणाः सहवाहनाः +विदर्भानभितो जग्मुर्यत्र सर्वे महीक्षितः +नलोऽपि राजा कौन्तेय श्रुत्वा राज्ञां समागमम् +अभ्यगच्छददीनात्मा दमयन्तीमनुव्रतः +अथ देवाः पथि नलं ददृशुर्भूतले स्थितम् +साक्षादिव स्थितं मूर्त्या मन्मथं रूपसंपदा +तं दृष्ट्वा लोकपालास्ते भ्राजमानं यथा रविम् +तस्थुर्विगतसंकल्पा विस्मिता रूपसंपदा +ततोऽन्तरिक्षे विष्टभ्य विमानानि दिवौकसः +अब्रुवन्नैषधं राजन्नवतीर्य नभस्तलात् +भो भो नैषध राजेन्द्र नल सत्यव्रतो भवान् +अस्माकं कुरु साहाय्यं दूतो भव नरोत्तम +बृहदश्व उवाच +तेभ्यः प्रतिज्ञाय नलः करिष्य इति भारत +अथैनान्परिपप्रच्छ कृताञ्जलिरवस्थितः +के वै भवन्तः कश्चासौ यस्याहं दूत ईप्सितः +किं च तत्र मया कार्यं कथयध्वं यथातथम् +एवमुक्ते नैषधेन मघवान्प्रत्यभाषत +अमरान्वै निबोधास्मान्दमयन्त्यर्थमागतान् +अहमिन्द्रोऽयमग्निश्च तथैवायमपांपतिः +शरीरान्तकरो नॄणां यमोऽयमपि पार्थिव +स वै त्वमागतानस्मान्दमयन्त्यै निवेदय +लोकपालाः सहेन्द्रास्त्वां समायान्ति दिदृक्षवः +प्राप्तुमिच्छन्ति देवास्त्वां शक्रोऽग्निर्वरुणो यमः +तेषामन्यतमं देवं पतित्वे वरयस्व ह +एवमुक्तः स शक्रेण नलः प्राञ्जलिरब्रवीत् +एकार्थसमवेतं मां न प्रेषयितुमर्हथ +देवा ऊचुः +करिष्य इति संश्रुत्य पूर्वमस्मासु नैषध +न करिष्यसि कस्मात्त्वं व्रज नैषध माचिरम् +बृहदश्व उवाच +एवमुक्तः स देवैस्तैर्नैषधः पुनरब्रवीत् +सुरक्षितानि वेश्मानि प्रवेष्टुं कथमुत्सहे +प्रवेक्ष्यसीति तं शक्रः पुनरेवाभ्यभाषत +जगाम स तथेत्युक्त्वा दमयन्त्या निवेशनम् +ददर्श तत्र वैदर्भीं सखीगणसमावृताम् +देदीप्यमानां वपुषा श्रिया च वरवर्णिनीम् +अतीव सुकुमाराङ्गीं तनुमध्यां सुलोचनाम् +आक्षिपन्तीमिव च भाः शशिनः स्वेन तेजसा +तस्य दृष्ट्वैव ववृधे कामस्तां चारुहासिनीम् +सत्यं चिकीर्षमाणस्तु धारयामास हृच्छयम् +ततस्ता नैषधं दृष्ट्वा संभ्रान्ताः परमाङ्गनाः +आसनेभ्यः समुत्पेतुस्तेजसा तस्य धर्षिताः +प्रशशंसुश्च सुप्रीता नलं ता विस्मयान्विताः +न चैनमभ्यभाषन्त मनोभिस्त्वभ्यचिन्तयन् +अहो रूपमहो कान्तिरहो धैर्यं महात्मनः +कोऽयं देवो नु यक्षो नु गन्धर्वो नु भविष्यति +न त्वेनं शक्नुवन्ति स्म व्याहर्तुमपि किंचन +तेजसा धर्षिताः सर्वा लज्जावत्यो वराङ्गनाः +अथैनं स्मयमानेव स्मितपूर्वाभिभाषिणी +दमयन्ती नलं वीरमभ्यभाषत विस्मिता +कस्त्वं सर्वानवद्याङ्ग मम हृच्छयवर्धन +प्राप्तोऽस्यमरवद्वीर ज्ञातुमिच्छामि तेऽनघ +कथमागमनं चेह कथं चासि न लक्षितः +सुरक्षितं हि मे वेश्म राजा चैवोग्रशासनः +एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह +नलं मां विद्धि कल्याणि देवदूतमिहागतम् +देवास्त्वां प्राप्तुमिच्छन्ति शक्रोऽग्निर्वरुणो यमः +तेषामन्यतमं देवं पतिं वरय शोभने +तेषामेव प्रभावेन प्रविष्टोऽहमलक्षितः +प्रविशन्तं हि मां कश्चिन्नापश्यन्नाप्यवारयत् +एतदर्थमहं भद्रे प्रेषितः सुरसत्तमैः +एतच्छ्रुत्वा शुभे बुद्धिं प्रकुरुष्व यथेच्छसि +बृहदश्व उवाच +सा नमस्कृत्य देवेभ्यः प्रहस्य नलमब्रवीत् +प्रणयस्व यथाश्रद्धं राजन्किं करवाणि ते +अहं चैव हि यच्चान्यन्ममास्ति वसु किंचन +सर्वं तत्��व विश्रब्धं कुरु प्रणयमीश्वर +हंसानां वचनं यत्तत्तन्मां दहति पार्थिव +त्वत्कृते हि मया वीर राजानः संनिपातिताः +यदि चेद्भजमानां मां प्रत्याख्यास्यसि मानद +विषमग्निं जलं रज्जुमास्थास्ये तव कारणात् +एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह +तिष्ठत्सु लोकपालेषु कथं मानुषमिच्छसि +येषामहं लोककृतामीश्वराणां महात्मनाम् +न पादरजसा तुल्यो मनस्ते तेषु वर्तताम् +विप्रियं ह्याचरन्मर्त्यो देवानां मृत्युमृच्छति +त्राहि मामनवद्याङ्गि वरयस्व सुरोत्तमान् +ततो बाष्पकलां वाचं दमयन्ती शुचिस्मिता +प्रव्याहरन्ती शनकैर्नलं राजानमब्रवीत् +अस्त्युपायो मया दृष्टो निरपायो नरेश्वर +येन दोषो न भविता तव राजन्कथंचन +त्वं चैव हि नरश्रेष्ठ देवाश्चाग्निपुरोगमाः +आयान्तु सहिताः सर्वे मम यत्र स्वयंवरः +ततोऽहं लोकपालानां संनिधौ त्वां नरेश्वर +वरयिष्ये नरव्याघ्र नैवं दोषो भविष्यति +एवमुक्तस्तु वैदर्भ्या नलो राजा विशां पते +आजगाम पुनस्तत्र यत्र देवाः समागताः +तमपश्यंस्तथायान्तं लोकपालाः सहेश्वराः +दृष्ट्वा चैनं ततोऽपृच्छन्वृत्तान्तं सर्वमेव तत् +देवा ऊचुः +कच्चिद्दृष्टा त्वया राजन्दमयन्ती शुचिस्मिता +किमब्रवीच्च नः सर्वान्वद भूमिपतेऽनघ +नल उवाच +भवद्भिरहमादिष्टो दमयन्त्या निवेशनम् +प्रविष्टः सुमहाकक्ष्यं दण्डिभिः स्थविरैर्वृतम् +प्रविशन्तं च मां तत्र न कश्चिद्दृष्टवान्नरः +ऋते तां पार्थिवसुतां भवतामेव तेजसा +सख्यश्चास्या मया दृष्टास्ताभिश्चाप्युपलक्षितः +विस्मिताश्चाभवन्दृष्ट्वा सर्वा मां विबुधेश्वराः +वर्ण्यमानेषु च मया भवत्सु रुचिरानना +मामेव गतसंकल्पा वृणीते सुरसत्तमाः +अब्रवीच्चैव मां बाला आयान्तु सहिताः सुराः +त्वया सह नरश्रेष्ठ मम यत्र स्वयंवरः +तेषामहं संनिधौ त्वां वरयिष्ये नरोत्तम +एवं तव महाबाहो दोषो न भवितेति ह +एतावदेव विबुधा यथावृत्तमुदाहृतम् +मयाशेषं प्रमाणं तु भवन्तस्त्रिदशेश्वराः +बृहदश्व उवाच +अथ काले शुभे प्राप्ते तिथौ पुण्ये क्षणे तथा +आजुहाव महीपालान्भीमो राजा स्वयंवरे +तच्छ्रुत्वा पृथिवीपालाः सर्वे हृच्छयपीडिताः +त्वरिताः समुपाजग्मुर्दमयन्तीमभीप्सवः +कनकस्तम्भरुचिरं तोरणेन विराजितम् +विविशुस्ते महारङ्गं नृपाः सिंहा इवाचलम् +तत्रासनेषु विविधेष्वासीनाः पृथिवीक्षितः +सुरभिस्रग्धराः सर्वे सुमृष्टमणिकुण्डलाः +तां राजसमितिं पूर्णां नागैर्भोगवतीमिव +संपूर्णां पुरुषव्याघ्रैर्व्याघ्रैर्गिरिगुहामिव +तत्र स्म पीना दृश्यन्ते बाहवः परिघोपमाः +आकारवन्तः सुश्लक्ष्णाः पञ्चशीर्षा इवोरगाः +सुकेशान्तानि चारूणि सुनासानि शुभानि च +मुखानि राज्ञां शोभन्ते नक्षत्राणि यथा दिवि +दमयन्ती ततो रङ्गं प्रविवेश शुभानना +मुष्णन्ती प्रभया राज्ञां चक्षूंषि च मनांसि च +तस्या गात्रेषु पतिता तेषां दृष्टिर्महात्मनाम् +तत्र तत्रैव सक्ताभून्न चचाल च पश्यताम् +ततः संकीर्त्यमानेषु राज्ञां नामसु भारत +ददर्श भैमी पुरुषान्पञ्च तुल्याकृतीनिव +तान्समीक्ष्य ततः सर्वान्निर्विशेषाकृतीन्स्थितान् +संदेहादथ वैदर्भी नाभ्यजानान्नलं नृपम् +यं यं हि ददृशे तेषां तं तं मेने नलं नृपम् +सा चिन्तयन्ती बुद्ध्याथ तर्कयामास भामिनी +कथं नु देवाञ्जानीयां कथं विद्यां नलं नृपम् +एवं संचिन्तयन्ती सा वैदर्भी भृशदुःखिता +श्रुतानि देवलिङ्गानि चिन्तयामास भारत +देवानां यानि लिङ्गानि स्थविरेभ्यः श्रुतानि मे +तानीह तिष्ठतां भूमावेकस्यापि न लक्षये +सा विनिश्चित्य बहुधा विचार्य च पुनः पुनः +शरणं प्रति देवानां प्राप्तकालममन्यत +वाचा च मनसा चैव नमस्कारं प्रयुज्य सा +देवेभ्यः प्राञ्जलिर्भूत्वा वेपमानेदमब्रवीत् +हंसानां वचनं श्रुत्वा यथा मे नैषधो वृतः +पतित्वे तेन सत्येन देवास्तं प्रदिशन्तु मे +वाचा च मनसा चैव यथा नाभिचराम्यहम् +तेन सत्येन विबुधास्तमेव प्रदिशन्तु मे +यथा देवैः स मे भर्ता विहितो निषधाधिपः +तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे +स्वं चैव रूपं पुष्यन्तु लोकपालाः सहेश्वराः +यथाहमभिजानीयां पुण्यश्लोकं नराधिपम् +निशम्य दमयन्त्यास्तत्करुणं परिदेवितम् +निश्चयं परमं तथ्यमनुरागं च नैषधे +मनोविशुद्धिं बुद्धिं च भक्तिं रागं च भारत +यथोक्तं चक्रिरे देवाः सामर्थ्यं लिङ्गधारणे +सापश्यद्विबुधान्सर्वानस्वेदान्स्तब्धलोचनान् +हृषितस्रग्रजोहीनान्स्थितानस्पृशतः क्षितिम् +छायाद्वितीयो म्लानस्रग्रजःस्वेदसमन्वितः +भूमिष्ठो नैषधश्चैव निमेषेण च सूचितः +सा समीक्ष्य ततो देवान्पुण्यश्लोकं च भारत +नैषधं वरयामास भैमी धर्मेण भारत +विलज्जमाना वस्त्रान्ते जग्राहायतलोचना +स्कन्धदेशेऽसृ��च्चास्य स्रजं परमशोभनाम् +वरयामास चैवैनं पतित्वे वरवर्णिनी +ततो हा हेति सहसा शब्दो मुक्तो नराधिपैः +देवैर्महर्षिभिश्चैव साधु साध्विति भारत +विस्मितैरीरितः शब्दः प्रशंसद्भिर्नलं नृपम् +वृते तु नैषधे भैम्या लोकपाला महौजसः +प्रहृष्टमनसः सर्वे नलायाष्टौ वरान्ददुः +प्रत्यक्षदर्शनं यज्ञे गतिं चानुत्तमां शुभाम् +नैषधाय ददौ शक्रः प्रीयमाणः शचीपतिः +अग्निरात्मभवं प्रादाद्यत्र वाञ्छति नैषधः +लोकानात्मप्रभांश्चैव ददौ तस्मै हुताशनः +यमस्त्वन्नरसं प्रादाद्धर्मे च परमां स्थितिम् +अपांपतिरपां भावं यत्र वाञ्छति नैषधः +स्रजं चोत्तमगन्धाढ्यां सर्वे च मिथुनं ददुः +वरानेवं प्रदायास्य देवास्ते त्रिदिवं गताः +पार्थिवाश्चानुभूयास्या विवाहं विस्मयान्विताः +दमयन्त्याः प्रमुदिताः प्रतिजग्मुर्यथागतम् +अवाप्य नारीरत्नं तत्पुण्यश्लोकोऽपि पार्थिवः +रेमे सह तया राजा शच्येव बलवृत्रहा +अतीव मुदितो राजा भ्राजमानोंऽशुमानिव +अरञ्जयत्प्रजा वीरो धर्मेण परिपालयन् +ईजे चाप्यश्वमेधेन ययातिरिव नाहुषः +अन्यैश्च क्रतुभिर्धीमान्बहुभिश्चाप्तदक्षिणैः +पुनश्च रमणीयेषु वनेषूपवनेषु च +दमयन्त्या सह नलो विजहारामरोपमः +एवं स यजमानश्च विहरंश्च नराधिपः +ररक्ष वसुसंपूर्णां वसुधां वसुधाधिपः +बृहदश्व उवाच +वृते तु नैषधे भैम्या लोकपाला महौजसः +यान्तो ददृशुरायान्तं द्वापरं कलिना सह +अथाब्रवीत्कलिं शक्रः संप्रेक्ष्य बलवृत्रहा +द्वापरेण सहायेन कले ब्रूहि क्व यास्यसि +ततोऽब्रवीत्कलिः शक्रं दमयन्त्याः स्वयंवरम् +गत्वाहं वरयिष्ये तां मनो हि मम तद्गतम् +तमब्रवीत्प्रहस्येन्द्रो निर्वृत्तः स स्वयंवरः +वृतस्तया नलो राजा पतिरस्मत्समीपतः +एवमुक्तस्तु शक्रेण कलिः कोपसमन्वितः +देवानामन्त्र्य तान्सर्वानुवाचेदं वचस्तदा +देवानां मानुषं मध्ये यत्सा पतिमविन्दत +ननु तस्या भवेन्न्याय्यं विपुलं दण्डधारणम् +एवमुक्ते तु कलिना प्रत्यूचुस्ते दिवौकसः +अस्माभिः समनुज्ञातो दमयन्त्या नलो वृतः +कश्च सर्वगुणोपेतं नाश्रयेत नलं नृपम् +यो वेद धर्मानखिलान्यथावच्चरितव्रतः +यस्मिन्सत्यं धृतिर्दानं तपः शौचं दमः शमः +ध्रुवाणि पुरुषव्याघ्रे लोकपालसमे नृपे +आत्मानं स शपेन्मूढो हन्याच्चात्मानमात्मना +एवंगुणं नलं यो वै कामयेच्छपितुं ��ले +कृच्छ्रे स नरके मज्जेदगाधे विपुलेऽप्लवे +एवमुक्त्वा कलिं देवा द्वापरं च दिवं ययुः +ततो गतेषु देवेषु कलिर्द्वापरमब्रवीत् +संहर्तुं नोत्सहे कोपं नले वत्स्यामि द्वापर +भ्रंशयिष्यामि तं राज्यान्न भैम्या सह रंस्यते +त्वमप्यक्षान्समाविश्य कर्तुं साहाय्यमर्हसि +बृहदश्व उवाच +एवं स समयं कृत्वा द्वापरेण कलिः सह +आजगाम ततस्तत्र यत्र राजा स नैषधः +स नित्यमन्तरप्रेक्षी निषधेष्ववसच्चिरम् +अथास्य द्वादशे वर्षे ददर्श कलिरन्तरम् +कृत्वा मूत्रमुपस्पृश्य संध्यामास्ते स्म नैषधः +अकृत्वा पादयोः शौचं तत्रैनं कलिराविशत् +स समाविश्य तु नलं समीपं पुष्करस्य ह +गत्वा पुष्करमाहेदमेहि दीव्य नलेन वै +अक्षद्यूते नलं जेता भवान्हि सहितो मया +निषधान्प्रतिपद्यस्व जित्वा राजन्नलं नृपम् +एवमुक्तस्तु कलिना पुष्करो नलमभ्ययात् +कलिश्चैव वृषो भूत्वा गवां पुष्करमभ्ययात् +आसाद्य तु नलं वीरं पुष्करः परवीरहा +दीव्यावेत्यब्रवीद्भ्राता वृषेणेति मुहुर्मुहुः +न चक्षमे ततो राजा समाह्वानं महामनाः +वैदर्भ्याः प्रेक्षमाणायाः पणकालममन्यत +हिरण्यस्य सुवर्णस्य यानयुग्यस्य वाससाम् +आविष्टः कलिना द्यूते जीयते स्म नलस्तदा +तमक्षमदसंमत्तं सुहृदां न तु कश्चन +निवारणेऽभवच्छक्तो दीव्यमानमचेतसम् +ततः पौरजनः सर्वो मन्त्रिभिः सह भारत +राजानं द्रष्टुमागच्छन्निवारयितुमातुरम् +ततः सूत उपागम्य दमयन्त्यै न्यवेदयत् +एष पौरजनः सर्वो द्वारि तिष्ठति कार्यवान् +निवेद्यतां नैषधाय सर्वाः प्रकृतयः स्थिताः +अमृष्यमाणा व्यसनं राज्ञो धर्मार्थदर्शिनः +ततः सा बाष्पकलया वाचा दुःखेन कर्शिता +उवाच नैषधं भैमी शोकोपहतचेतना +राजन्पौरजनो द्वारि त्वां दिदृक्षुरवस्थितः +मन्त्रिभिः सहितः सर्वै राजभक्तिपुरस्कृतः +तं द्रष्टुमर्हसीत्येवं पुनः पुनरभाषत +तां तथा रुचिरापाङ्गीं विलपन्तीं सुमध्यमाम् +आविष्टः कलिना राजा नाभ्यभाषत किंचन +ततस्ते मन्त्रिणः सर्वे ते चैव पुरवासिनः +नायमस्तीति दुःखार्ता व्रीडिता जग्मुरालयान् +तथा तदभवद्द्यूतं पुष्करस्य नलस्य च +युधिष्ठिर बहून्मासान्पुण्यश्लोकस्त्वजीयत +बृहदश्व उवाच +दमयन्ती ततो दृष्ट्वा पुण्यश्लोकं नराधिपम् +उन्मत्तवदनुन्मत्ता देवने गतचेतसम् +भयशोकसमाविष्टा राजन्भीमसुता ततः +चिन्तयामास तत्क��र्यं सुमहत्पार्थिवं प्रति +सा शङ्कमाना तत्पापं चिकीर्षन्ती च तत्प्रियम् +नलं च हृतसर्वस्वमुपलभ्येदमब्रवीत् +बृहत्सेने व्रजामात्यानानाय्य नलशासनात् +आचक्ष्व यद्धृतं द्रव्यमवशिष्टं च यद्वसु +ततस्ते मन्त्रिणः सर्वे विज्ञाय नलशासनम् +अपि नो भागधेयं स्यादित्युक्त्वा पुनराव्रजन् +तास्तु सर्वाः प्रकृतयो द्वितीयं समुपस्थिताः +न्यवेदयद्भीमसुता न च तत्प्रत्यनन्दत +वाक्यमप्रतिनन्दन्तं भर्तारमभिवीक्ष्य सा +दमयन्ती पुनर्वेश्म व्रीडिता प्रविवेश ह +निशम्य सततं चाक्षान्पुण्यश्लोकपराङ्मुखान् +नलं च हृतसर्वस्वं धात्रीं पुनरुवाच ह +बृहत्सेने पुनर्गच्छ वार्ष्णेयं नलशासनात् +सूतमानय कल्याणि महत्कार्यमुपस्थितम् +बृहत्सेना तु तच्छ्रुत्वा दमयन्त्याः प्रभाषितम् +वार्ष्णेयमानयामास पुरुषैराप्तकारिभिः +वार्ष्णेयं तु ततो भैमी सान्त्वयञ्श्लक्ष्णया गिरा +उवाच देशकालज्ञा प्राप्तकालमनिन्दिता +जानीषे त्वं यथा राजा सम्यग्वृत्तः सदा त्वयि +तस्य त्वं विषमस्थस्य साहाय्यं कर्तुमर्हसि +यथा यथा हि नृपतिः पुष्करेणेह जीयते +तथा तथास्य द्यूते वै रागो भूयोऽभिवर्धते +यथा च पुष्करस्याक्षा वर्तन्ते वशवर्तिनः +तथा विपर्ययश्चापि नलस्याक्षेषु दृश्यते +सुहृत्स्वजनवाक्यानि यथावन्न शृणोति च +नूनं मन्ये न शेषोऽस्ति नैषधस्य महात्मनः +यत्र मे वचनं राजा नाभिनन्दति मोहितः +शरणं त्वां प्रपन्नास्मि सारथे कुरु मद्वचः +न हि मे शुध्यते भावः कदाचिद्विनशेदिति +नलस्य दयितानश्वान्योजयित्वा महाजवान् +इदमारोप्य मिथुनं कुण्डिनं यातुमर्हसि +मम ज्ञातिषु निक्षिप्य दारकौ स्यन्दनं तथा +अश्वांश्चैतान्यथाकामं वस वान्यत्र गच्छ वा +दमयन्त्यास्तु तद्वाक्यं वार्ष्णेयो नलसारथिः +न्यवेदयदशेषेण नलामात्येषु मुख्यशः +तैः समेत्य विनिश्चित्य सोऽनुज्ञातो महीपते +ययौ मिथुनमारोप्य विदर्भांस्तेन वाहिना +हयांस्तत्र विनिक्षिप्य सूतो रथवरं च तम् +इन्द्रसेनां च तां कन्यामिन्द्रसेनं च बालकम् +आमन्त्र्य भीमं राजानमार्तः शोचन्नलं नृपम् +अटमानस्ततोऽयोध्यां जगाम नगरीं तदा +ऋतुपर्णं स राजानमुपतस्थे सुदुःखितः +भृतिं चोपययौ तस्य सारथ्येन महीपते +बृहदश्व उवाच +ततस्तु याते वार्ष्णेये पुण्यश्लोकस्य दीव्यतः +पुष्करेण हृतं राज्यं यच्चान्यद्���सु किंचन +हृतराज्यं नलं राजन्प्रहसन्पुष्करोऽब्रवीत् +द्यूतं प्रवर्ततां भूयः प्रतिपाणोऽस्ति कस्तव +शिष्टा ते दमयन्त्येका सर्वमन्यद्धृतं मया +दमयन्त्याः पणः साधु वर्ततां यदि मन्यसे +पुष्करेणैवमुक्तस्य पुण्यश्लोकस्य मन्युना +व्यदीर्यतेव हृदयं न चैनं किंचिदब्रवीत् +ततः पुष्करमालोक्य नलः परममन्युमान् +उत्सृज्य सर्वगात्रेभ्यो भूषणानि महायशाः +एकवासा असंवीतः सुहृच्छोकविवर्धनः +निश्चक्राम तदा राजा त्यक्त्वा सुविपुलां श्रियम् +दमयन्त्येकवस्त्रा तं गच्छन्तं पृष्ठतोऽन्वियात् +स तया बाह्यतः सार्धं त्रिरात्रं नैषधोऽवसत् +पुष्करस्तु महाराज घोषयामास वै पुरे +नले यः सम्यगातिष्ठेत्स गच्छेद्वध्यतां मम +पुष्करस्य तु वाक्येन तस्य विद्वेषणेन च +पौरा न तस्मिन्सत्कारं कृतवन्तो युधिष्ठिर +स तथा नगराभ्याशे सत्कारार्हो न सत्कृतः +त्रिरात्रमुषितो राजा जलमात्रेण वर्तयन् +क्षुधा संपीड्यमानस्तु नलो बहुतिथेऽहनि +अपश्यच्छकुनान्कांश्चिद्धिरण्यसदृशच्छदान् +स चिन्तयामास तदा निषधाधिपतिर्बली +अस्ति भक्षो ममाद्यायं वसु चेदं भविष्यति +ततस्तानन्तरीयेण वाससा समवास्तृणोत् +तस्यान्तरीयमादाय जग्मुः सर्वे विहायसा +उत्पतन्तः खगास्ते तु वाक्यमाहुस्तदा नलम् +दृष्ट्वा दिग्वाससं भूमौ स्थितं दीनमधोमुखम् +वयमक्षाः सुदुर्बुद्धे तव वासो जिहीर्षवः +आगता न हि नः प्रीतिः सवाससि गते त्वयि +तान्समीक्ष्य गतानक्षानात्मानं च विवाससम् +पुण्यश्लोकस्ततो राजा दमयन्तीमथाब्रवीत् +येषां प्रकोपादैश्वर्यात्प्रच्युतोऽहमनिन्दिते +प्राणयात्रां न विन्दे च दुःखितः क्षुधयार्दितः +येषां कृते न सत्कारमकुर्वन्मयि नैषधाः +त इमे शकुना भूत्वा वासोऽप्यपहरन्ति मे +वैषम्यं परमं प्राप्तो दुःखितो गतचेतनः +भर्ता तेऽहं निबोधेदं वचनं हितमात्मनः +एते गच्छन्ति बहवः पन्थानो दक्षिणापथम् +अवन्तीमृक्षवन्तं च समतिक्रम्य पर्वतम् +एष विन्ध्यो महाशैलः पयोष्णी च समुद्रगा +आश्रमाश्च महर्षीणाममी पुष्पफलान्विताः +एष पन्था विदर्भाणामयं गच्छति कोसलान् +अतः परं च देशोऽयं दक्षिणे दक्षिणापथः +ततः सा बाष्पकलया वाचा दुःखेन कर्शिता +उवाच दमयन्ती तं नैषधं करुणं वचः +उद्वेपते मे हृदयं सीदन्त्यङ्गानि सर्वशः +तव पार्थिव संकल्पं चिन्तयन्त्याः पुनः पुन��� +हृतराज्यं हृतधनं विवस्त्रं क्षुच्छ्रमान्वितम् +कथमुत्सृज्य गच्छेयमहं त्वां विजने वने +श्रान्तस्य ते क्षुधार्तस्य चिन्तयानस्य तत्सुखम् +वने घोरे महाराज नाशयिष्यामि ते क्लमम् +न च भार्यासमं किंचिद्विद्यते भिषजां मतम् +औषधं सर्वदुःखेषु सत्यमेतद्ब्रवीमि ते +नल उवाच +एवमेतद्यथात्थ त्वं दमयन्ति सुमध्यमे +नास्ति भार्यासमं मित्रं नरस्यार्तस्य भेषजम् +न चाहं त्यक्तुकामस्त्वां किमर्थं भीरु शङ्कसे +त्यजेयमहमात्मानं न त्वेव त्वामनिन्दिते +दमयन्त्युवाच +यदि मां त्वं महाराज न विहातुमिहेच्छसि +तत्किमर्थं विदर्भाणां पन्थाः समुपदिश्यते +अवैमि चाहं नृपते न त्वं मां त्यक्तुमर्हसि +चेतसा त्वपकृष्टेन मां त्यजेथा महापते +पन्थानं हि ममाभीक्ष्णमाख्यासि नरसत्तम +अतोनिमित्तं शोकं मे वर्धयस्यमरप्रभ +यदि चायमभिप्रायस्तव राजन्व्रजेदिति +सहितावेव गच्छावो विदर्भान्यदि मन्यसे +विदर्भराजस्तत्र त्वां पूजयिष्यति मानद +तेन त्वं पूजितो राजन्सुखं वत्स्यसि नो गृहे +नल उवाच +यथा राज्यं पितुस्ते तत्तथा मम न संशयः +न तु तत्र गमिष्यामि विषमस्थः कथंचन +कथं समृद्धो गत्वाहं तव हर्षविवर्धनः +परिद्यूनो गमिष्यामि तव शोकविवर्धनः +बृहदश्व उवाच +इति ब्रुवन्नलो राजा दमयन्तीं पुनः पुनः +सान्त्वयामास कल्याणीं वाससोऽर्धेन संवृताम् +तावेकवस्त्रसंवीतावटमानावितस्ततः +क्षुत्पिपासापरिश्रान्तौ सभां कांचिदुपेयतुः +तां सभामुपसंप्राप्य तदा स निषधाधिपः +वैदर्भ्या सहितो राजा निषसाद महीतले +स वै विवस्त्रो मलिनो विकचः पांसुगुण्ठितः +दमयन्त्या सह श्रान्तः सुष्वाप धरणीतले +दमयन्त्यपि कल्याणी निद्रयापहृता ततः +सहसा दुःखमासाद्य सुकुमारी तपस्विनी +सुप्तायां दमयन्त्यां तु नलो राजा विशां पते +शोकोन्मथितचित्तात्मा न स्म शेते यथा पुरा +स तद्राज्यापहरणं सुहृत्त्यागं च सर्वशः +वने च तं परिध्वंसं प्रेक्ष्य चिन्तामुपेयिवान् +किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः +किं नु मे मरणं श्रेयः परित्यागो जनस्य वा +मामियं ह्यनुरक्तेदं दुःखमाप्नोति मत्कृते +मद्विहीना त्वियं गच्छेत्कदाचित्स्वजनं प्रति +मया निःसंशयं दुःखमियं प्राप्स्यत्यनुत्तमा +उत्सर्गे संशयः स्यात्तु विन्देतापि सुखं क्वचित् +स विनिश्चित्य बहुधा विचार्य च पुनः पुनः +उत्सर्गेऽमन्यत श्रेयो दमयन्त्या नराधिपः +सोऽवस्त्रतामात्मनश्च तस्याश्चाप्येकवस्त्रताम् +चिन्तयित्वाध्यगाद्राजा वस्त्रार्धस्यावकर्तनम् +कथं वासो विकर्तेयं न च बुध्येत मे प्रिया +चिन्त्यैवं नैषधो राजा सभां पर्यचरत्तदा +परिधावन्नथ नल इतश्चेतश्च भारत +आससाद सभोद्देशे विकोशं खड्गमुत्तमम् +तेनार्धं वाससश्छित्त्वा निवस्य च परंतपः +सुप्तामुत्सृज्य वैदर्भीं प्राद्रवद्गतचेतनः +ततो निबद्धहृदयः पुनरागम्य तां सभाम् +दमयन्तीं तथा दृष्ट्वा रुरोद निषधाधिपः +यां न वायुर्न चादित्यः पुरा पश्यति मे प्रियाम् +सेयमद्य सभामध्ये शेते भूमावनाथवत् +इयं वस्त्रावकर्तेन संवीता चारुहासिनी +उन्मत्तेव वरारोहा कथं बुद्ध्वा भविष्यति +कथमेका सती भैमी मया विरहिता शुभा +चरिष्यति वने घोरे मृगव्यालनिषेविते +गत्वा गत्वा नलो राजा पुनरेति सभां मुहुः +आकृष्यमाणः कलिना सौहृदेनापकृष्यते +द्विधेव हृदयं तस्य दुःखितस्याभवत्तदा +दोलेव मुहुरायाति याति चैव सभां मुहुः +सोऽपकृष्टस्तु कलिना मोहितः प्राद्रवन्नलः +सुप्तामुत्सृज्य तां भार्यां विलप्य करुणं बहु +नष्टात्मा कलिना स्पृष्टस्तत्तद्विगणयन्नृपः +जगामैव वने शून्ये भार्यामुत्सृज्य दुःखितः +बृहदश्व उवाच +अपक्रान्ते नले राजन्दमयन्ती गतक्लमा +अबुध्यत वरारोहा संत्रस्ता विजने वने +सापश्यमाना भर्तारं दुःखशोकसमन्विता +प्राक्रोशदुच्चैः संत्रस्ता महाराजेति नैषधम् +हा नाथ हा महाराज हा स्वामिन्किं जहासि माम् +हा हतास्मि विनष्टास्मि भीतास्मि विजने वने +ननु नाम महाराज धर्मज्ञः सत्यवागसि +कथमुक्त्वा तथासत्यं सुप्तामुत्सृज्य मां गतः +कथमुत्सृज्य गन्तासि वश्यां भार्यामनुव्रताम् +विशेषतोऽनपकृते परेणापकृते सति +शक्ष्यसे ता गिरः सत्याः कर्तुं मयि नरेश्वर +यास्त्वया लोकपालानां संनिधौ कथिताः पुरा +पर्याप्तः परिहासोऽयमेतावान्पुरुषर्षभ +भीताहमस्मि दुर्धर्ष दर्शयात्मानमीश्वर +दृश्यसे दृश्यसे राजन्नेष तिष्ठसि नैषध +आवार्य गुल्मैरात्मानं किं मां न प्रतिभाषसे +नृशंसं बत राजेन्द्र यन्मामेवंगतामिह +विलपन्तीं समालिङ्ग्य नाश्वासयसि पार्थिव +न शोचाम्यहमात्मानं न चान्यदपि किंचन +कथं नु भवितास्येक इति त्वां नृप शोचिमि +कथं नु राजंस्तृषितः क्षुधितः श्रमकर्शितः +साय��ह्ने वृक्षमूलेषु मामपश्यन्भविष्यसि +ततः सा तीव्रशोकार्ता प्रदीप्तेव च मन्युना +इतश्चेतश्च रुदती पर्यधावत दुःखिता +मुहुरुत्पतते बाला मुहुः पतति विह्वला +मुहुरालीयते भीता मुहुः क्रोशति रोदिति +सा तीव्रशोकसंतप्ता मुहुर्निःश्वस्य विह्वला +उवाच भैमी निष्क्रम्य रोदमाना पतिव्रता +यस्याभिशापाद्दुःखार्तो दुःखं विन्दति नैषधः +तस्य भूतस्य तद्दुःखाद्दुःखमभ्यधिकं भवेत् +अपापचेतसं पापो य एवं कृतवान्नलम् +तस्माद्दुःखतरं प्राप्य जीवत्वसुखजीविकाम् +एवं तु विलपन्ती सा राज्ञो भार्या महात्मनः +अन्वेषति स्म भर्तारं वने श्वापदसेविते +उन्मत्तवद्भीमसुता विलपन्ती ततस्ततः +हा हा राजन्निति मुहुरितश्चेतश्च धावति +तां शुष्यमाणामत्यर्थं कुररीमिव वाशतीम् +करुणं बहु शोचन्तीं विलपन्तीं मुहुर्मुहुः +सहसाभ्यागतां भैमीमभ्याशपरिवर्तिनीम् +जग्राहाजगरो ग्राहो महाकायः क्षुधान्वितः +सा ग्रस्यमाना ग्राहेण शोकेन च पराजिता +नात्मानं शोचति तथा यथा शोचति नैषधम् +हा नाथ मामिह वने ग्रस्यमानामनाथवत् +ग्राहेणानेन विपिने किमर्थं नाभिधावसि +कथं भविष्यसि पुनर्मामनुस्मृत्य नैषध +पापान्मुक्तः पुनर्लब्ध्वा बुद्धिं चेतो धनानि च +श्रान्तस्य ते क्षुधार्तस्य परिग्लानस्य नैषध +कः श्रमं राजशार्दूल नाशयिष्यति मानद +तामकस्मान्मृगव्याधो विचरन्गहने वने +आक्रन्दतीमुपश्रुत्य जवेनाभिससार ह +तां स दृष्ट्वा तथा ग्रस्तामुरगेणायतेक्षणाम् +त्वरमाणो मृगव्याधः समभिक्रम्य वेगितः +मुखतः पातयामास शस्त्रेण निशितेन ह +निर्विचेष्टं भुजंगं तं विशस्य मृगजीवनः +मोक्षयित्वा च तां व्याधः प्रक्षाल्य सलिलेन च +समाश्वास्य कृताहारामथ पप्रच्छ भारत +कस्य त्वं मृगशावाक्षि कथं चाभ्यागता वनम् +कथं चेदं महत्कृच्छ्रं प्राप्तवत्यसि भामिनि +दमयन्ती तथा तेन पृच्छ्यमाना विशां पते +सर्वमेतद्यथावृत्तमाचचक्षेऽस्य भारत +तामर्धवस्त्रसंवीतां पीनश्रोणिपयोधराम् +सुकुमारानवद्याङ्गीं पूर्णचन्द्रनिभाननाम् +अरालपक्ष्मनयनां तथा मधुरभाषिणीम् +लक्षयित्वा मृगव्याधः कामस्य वशमेयिवान् +तामथ श्लक्ष्णया वाचा लुब्धको मृदुपूर्वया +सान्त्वयामास कामार्तस्तदबुध्यत भामिनी +दमयन्ती तु तं दुष्टमुपलभ्य पतिव्रता +तीव्ररोषसमाविष्टा प्रजज्वालेव मन्युना +स तु प��पमतिः क्षुद्रः प्रधर्षयितुमातुरः +दुर्धर्षां तर्कयामास दीप्तामग्निशिखामिव +दमयन्ती तु दुःखार्ता पतिराज्यविनाकृता +अतीतवाक्पथे काले शशापैनं रुषा किल +यथाहं नैषधादन्यं मनसापि न चिन्तये +तथायं पततां क्षुद्रः परासुर्मृगजीवनः +उक्तमात्रे तु वचने तया स मृगजीवनः +व्यसुः पपात मेदिन्यामग्निदग्ध इव द्रुमः +बृहदश्व उवाच +सा निहत्य मृगव्याधं प्रतस्थे कमलेक्षणा +वनं प्रतिभयं शून्यं झिल्लिकागणनादितम् +सिंहव्याघ्रवराहर्क्षरुरुद्वीपिनिषेवितम् +नानापक्षिगणाकीर्णं म्लेच्छतस्करसेवितम् +शालवेणुधवाश्वत्थतिन्दुकेङ्गुदकिंशुकैः +अर्जुनारिष्टसंछन्नं चन्दनैश्च सशाल्मलैः +जम्ब्वाम्रलोध्रखदिरशाकवेत्रसमाकुलम् +काश्मर्यामलकप्लक्षकदम्बोदुम्बरावृतम् +बदरीबिल्वसंछन्नं न्यग्रोधैश्च समाकुलम् +प्रियालतालखर्जूरहरीतकबिभीतकैः +नानाधातुशतैर्नद्धान्विविधानपि चाचलान् +निकुञ्जान्पक्षिसंघुष्टान्दरीश्चाद्भुतदर्शनाः +नदीः सरांसि वापीश्च विविधांश्च मृगद्विजान् +सा बहून्भीमरूपांश्च पिशाचोरगराक्षसान् +पल्वलानि तडागानि गिरिकूटानि सर्वशः +सरितः सागरांश्चैव ददर्शाद्भुतदर्शनान् +यूथशो ददृशे चात्र विदर्भाधिपनन्दिनी +महिषान्वराहान्गोमायूनृक्षवानरपन्नगान् +तेजसा यशसा स्थित्या श्रिया च परया युता +वैदर्भी विचरत्येका नलमन्वेषती तदा +नाबिभ्यत्सा नृपसुता भैमी तत्राथ कस्यचित् +दारुणामटवीं प्राप्य भर्तृव्यसनकर्शिता +विदर्भतनया राजन्विललाप सुदुःखिता +भर्तृशोकपरीताङ्गी शिलातलसमाश्रिता +दमयन्त्युवाच +सिंहोरस्क महाबाहो निषधानां जनाधिप +क्व नु राजन्गतोऽसीह त्यक्त्वा मां निर्जने वने +अश्वमेधादिभिर्वीर क्रतुभिः स्वाप्तदक्षिणैः +कथमिष्ट्वा नरव्याघ्र मयि मिथ्या प्रवर्तसे +यत्त्वयोक्तं नरव्याघ्र मत्समक्षं महाद्युते +कर्तुमर्हसि कल्याण तदृतं पार्थिवर्षभ +यथोक्तं विहगैर्हंसैः समीपे तव भूमिप +मत्सकाशे च तैरुक्तं तदवेक्षितुमर्हसि +चत्वार एकतो वेदाः साङ्गोपाङ्गाः सविस्तराः +स्वधीता मानवश्रेष्ठ सत्यमेकं किलैकतः +तस्मादर्हसि शत्रुघ्न सत्यं कर्तुं नरेश्वर +उक्तवानसि यद्वीर मत्सकाशे पुरा वचः +हा वीर ननु नामाहमिष्टा किल तवानघ +अस्यामटव्यां घोरायां किं मां न प्रतिभाषसे +भर्त्सयत्येष मां रौद��रो व्यात्तास्यो दारुणाकृतिः +अरण्यराट्क्षुधाविष्टः किं मां न त्रातुमर्हसि +न मे त्वदन्या सुभगे प्रिया इत्यब्रवीस्तदा +तामृतां कुरु कल्याण पुरोक्तां भारतीं नृप +उन्मत्तां विलपन्तीं मां भार्यामिष्टां नराधिप +ईप्सितामीप्सितो नाथ किं मां न प्रतिभाषसे +कृशां दीनां विवर्णां च मलिनां वसुधाधिप +वस्त्रार्धप्रावृतामेकां विलपन्तीमनाथवत् +यूथभ्रष्टामिवैकां मां हरिणीं पृथुलोचन +न मानयसि मानार्ह रुदतीमरिकर्शन +महाराज महारण्ये मामिहैकाकिनीं सतीम् +आभाषमाणां स्वां पत्नीं किं मां न प्रतिभाषसे +कुलशीलोपसंपन्नं चारुसर्वाङ्गशोभनम् +नाद्य त्वामनुपश्यामि गिरावस्मिन्नरोत्तम +वने चास्मिन्महाघोरे सिंहव्याघ्रनिषेविते +शयानमुपविष्टं वा स्थितं वा निषधाधिप +प्रस्थितं वा नरश्रेष्ठ मम शोकविवर्धन +कं नु पृच्छामि दुःखार्ता त्वदर्थे शोककर्शिता +कच्चिद्दृष्टस्त्वयारण्ये संगत्येह नलो नृपः +को नु मे कथयेदद्य वनेऽस्मिन्विष्ठितं नलम् +अभिरूपं महात्मानं परव्यूहविनाशनम् +यमन्वेषसि राजानं नलं पद्मनिभेक्षणम् +अयं स इति कस्याद्य श्रोष्यामि मधुरां गिरम् +अरण्यराडयं श्रीमांश्चतुर्दंष्ट्रो महाहनुः +शार्दूलोऽभिमुखः प्रैति पृच्छाम्येनमशङ्किता +भवान्मृगाणामधिपस्त्वमस्मिन्कानने प्रभुः +विदर्भराजतनयां दमयन्तीति विद्धि माम् +निषधाधिपतेर्भार्यां नलस्यामित्रघातिनः +पतिमन्वेषतीमेकां कृपणां शोककर्शिताम् +आश्वासय मृगेन्द्रेह यदि दृष्टस्त्वया नलः +अथ वारण्यनृपते नलं यदि न शंससि +मामदस्व मृगश्रेष्ठ विशोकां कुरु दुःखिताम् +श्रुत्वारण्ये विलपितं ममैष मृगराट्स्वयम् +यात्येतां मृष्टसलिलामापगां सागरंगमाम् +इमं शिलोच्चयं पुण्यं शृङ्गैर्बहुभिरुच्छ्रितैः +विराजद्भिर्दिवस्पृग्भिर्नैकवर्णैर्मनोरमैः +नानाधातुसमाकीर्णं विविधोपलभूषितम् +अस्यारण्यस्य महतः केतुभूतमिवोच्छ्रितम् +सिंहशार्दूलमातङ्गवराहर्क्षमृगायुतम् +पतत्रिभिर्बहुविधैः समन्तादनुनादितम् +किंशुकाशोकबकुलपुंनागैरुपशोभितम् +सरिद्भिः सविहंगाभिः शिखरैश्चोपशोभितम् +गिरिराजमिमं तावत्पृच्छामि नृपतिं प्रति +भगवन्नचलश्रेष्ठ दिव्यदर्शन विश्रुत +शरण्य बहुकल्याण नमस्तेऽस्तु महीधर +प्रणमे त्वाभिगम्याहं राजपुत्रीं निबोध माम् +राज्ञः स्न��षां राजभार्यां दमयन्तीति विश्रुताम् +राजा विदर्भाधिपतिः पिता मम महारथः +भीमो नाम क्षितिपतिश्चातुर्वर्ण्यस्य रक्षिता +राजसूयाश्वमेधानां क्रतूनां दक्षिणावताम् +आहर्ता पार्थिवश्रेष्ठः पृथुचार्वञ्चितेक्षणः +ब्रह्मण्यः साधुवृत्तश्च सत्यवागनसूयकः +शीलवान्सुसमाचारः पृथुश्रीर्धर्मविच्छुचिः +सम्यग्गोप्ता विदर्भाणां निर्जितारिगणः प्रभुः +तस्य मां विद्धि तनयां भगवंस्त्वामुपस्थिताम् +निषधेषु महाशैल श्वशुरो मे नृपोत्तमः +सुगृहीतनामा विख्यातो वीरसेन इति स्म ह +तस्य राज्ञः सुतो वीरः श्रीमान्सत्यपराक्रमः +क्रमप्राप्तं पितुः स्वं यो राज्यं समनुशास्ति ह +नलो नामारिदमनः पुण्यश्लोक इति श्रुतः +ब्रह्मण्यो वेदविद्वाग्मी पुण्यकृत्सोमपोऽग्निचित् +यष्टा दाता च योद्धा च सम्यक्चैव प्रशासिता +तस्य मामचलश्रेष्ठ विद्धि भार्यामिहागताम् +त्यक्तश्रियं भर्तृहीनामनाथां व्यसनान्विताम् +अन्वेषमाणां भर्तारं तं वै नरवरोत्तमम् +खमुल्लिखद्भिरेतैर्हि त्वया शृङ्गशतैर्नृपः +कच्चिद्दृष्टोऽचलश्रेष्ठ वनेऽस्मिन्दारुणे नलः +गजेन्द्रविक्रमो धीमान्दीर्घबाहुरमर्षणः +विक्रान्तः सत्यवाग्धीरो भर्ता मम महायशाः +निषधानामधिपतिः कच्चिद्दृष्टस्त्वया नलः +किं मां विलपतीमेकां पर्वतश्रेष्ठ दुःखिताम् +गिरा नाश्वासयस्यद्य स्वां सुतामिव दुःखिताम् +वीर विक्रान्त धर्मज्ञ सत्यसंध महीपते +यद्यस्यस्मिन्वने राजन्दर्शयात्मानमात्मना +कदा नु स्निग्धगम्भीरां जीमूतस्वनसंनिभाम् +श्रोष्यामि नैषधस्याहं वाचं ताममृतोपमाम् +वैदर्भीत्येव कथितां शुभां राज्ञो महात्मनः +आम्नायसारिणीमृद्धां मम शोकनिबर्हिणीम् +इति सा तं गिरिश्रेष्ठमुक्त्वा पार्थिवनन्दिनी +दमयन्ती ततो भूयो जगाम दिशमुत्तराम् +सा गत्वा त्रीनहोरात्रान्ददर्श परमाङ्गना +तापसारण्यमतुलं दिव्यकाननदर्शनम् +वसिष्ठभृग्वत्रिसमैस्तापसैरुपशोभितम् +नियतैः संयताहारैर्दमशौचसमन्वितैः +अब्भक्षैर्वायुभक्षैश्च पत्राहारैस्तथैव च +जितेन्द्रियैर्महाभागैः स्वर्गमार्गदिदृक्षुभिः +वल्कलाजिनसंवीतैर्मुनिभिः संयतेन्द्रियैः +तापसाध्युषितं रम्यं ददर्शाश्रममण्डलम् +सा दृष्ट्वैवाश्रमपदं नानामृगनिषेवितम् +शाखामृगगणैश्चैव तापसैश्च समन्वितम् +सुभ्रूः सुकेशी सु��्रोणी सुकुचा सुद्विजानना +वर्चस्विनी सुप्रतिष्ठा स्वञ्चितोद्यतगामिनी +सा विवेशाश्रमपदं वीरसेनसुतप्रिया +योषिद्रत्नं महाभागा दमयन्ती मनस्विनी +साभिवाद्य तपोवृद्धान्विनयावनता स्थिता +स्वागतं त इति प्रोक्ता तैः सर्वैस्तापसैश्च सा +पूजां चास्या यथान्यायं कृत्वा तत्र तपोधनाः +आस्यतामित्यथोचुस्ते ब्रूहि किं करवामहे +तानुवाच वरारोहा कच्चिद्भगवतामिह +तपस्यग्निषु धर्मेषु मृगपक्षिषु चानघाः +कुशलं वो महाभागाः स्वधर्मचरणेषु च +तैरुक्ता कुशलं भद्रे सर्वत्रेति यशस्विनी +ब्रूहि सर्वानवद्याङ्गि का त्वं किं च चिकीर्षसि +दृष्ट्वैव ते परं रूपं द्युतिं च परमामिह +विस्मयो नः समुत्पन्नः समाश्वसिहि मा शुचः +अस्यारण्यस्य महती देवता वा महीभृतः +अस्या नु नद्याः कल्याणि वद सत्यमनिन्दिते +साब्रवीत्तानृषीन्नाहमरण्यस्यास्य देवता +न चाप्यस्य गिरेर्विप्रा न नद्या देवताप्यहम् +मानुषीं मां विजानीत यूयं सर्वे तपोधनाः +विस्तरेणाभिधास्यामि तन्मे शृणुत सर्वशः +विदर्भेषु महीपालो भीमो नाम महाद्युतिः +तस्य मां तनयां सर्वे जानीत द्विजसत्तमाः +निषधाधिपतिर्धीमान्नलो नाम महायशाः +वीरः संग्रामजिद्विद्वान्मम भर्ता विशां पतिः +देवताभ्यर्चनपरो द्विजातिजनवत्सलः +गोप्ता निषधवंशस्य महाभागो महाद्युतिः +सत्यवाग्धर्मवित्प्राज्ञः सत्यसंधोऽरिमर्दनः +ब्रह्मण्यो दैवतपरः श्रीमान्परपुरंजयः +नलो नाम नृपश्रेष्ठो देवराजसमद्युतिः +मम भर्ता विशालाक्षः पूर्णेन्दुवदनोऽरिहा +आहर्ता क्रतुमुख्यानां वेदवेदाङ्गपारगः +सपत्नानां मृधे हन्ता रविसोमसमप्रभः +स कैश्चिन्निकृतिप्रज्ञैरकल्याणैर्नराधमैः +आहूय पृथिवीपालः सत्यधर्मपरायणः +देवने कुशलैर्जिह्मैर्जितो राज्यं वसूनि च +तस्य मामवगच्छध्वं भार्यां राजर्षभस्य वै +दमयन्तीति विख्यातां भर्तृदर्शनलालसाम् +सा वनानि गिरींश्चैव सरांसि सरितस्तथा +पल्वलानि च रम्याणि तथारण्यानि सर्वशः +अन्वेषमाणा भर्तारं नलं रणविशारदम् +महात्मानं कृतास्त्रं च विचरामीह दुःखिता +कच्चिद्भगवतां पुण्यं तपोवनमिदं नृपः +भवेत्प्राप्तो नलो नाम निषधानां जनाधिपः +यत्कृतेऽहमिदं विप्राः प्रपन्ना भृशदारुणम् +वनं प्रतिभयं घोरं शार्दूलमृगसेवितम् +यदि कैश्चिदहोरात्रैर्न द्रक्ष्यामि नलं नृपम् +आत्म���नं श्रेयसा योक्ष्ये देहस्यास्य विमोचनात् +को नु मे जीवितेनार्थस्तमृते पुरुषर्षभम् +कथं भविष्याम्यद्याहं भर्तृशोकाभिपीडिता +एवं विलपतीमेकामरण्ये भीमनन्दिनीम् +दमयन्तीमथोचुस्ते तापसाः सत्यवादिनः +उदर्कस्तव कल्याणि कल्याणो भविता शुभे +वयं पश्याम तपसा क्षिप्रं द्रक्ष्यसि नैषधम् +निषधानामधिपतिं नलं रिपुनिघातिनम् +भैमि धर्मभृतां श्रेष्ठं द्रक्ष्यसे विगतज्वरम् +विमुक्तं सर्वपापेभ्यः सर्वरत्नसमन्वितम् +तदेव नगरश्रेष्ठं प्रशासन्तमरिंदमम् +द्विषतां भयकर्तारं सुहृदां शोकनाशनम् +पतिं द्रक्ष्यसि कल्याणि कल्याणाभिजनं नृपम् +एवमुक्त्वा नलस्येष्टां महिषीं पार्थिवात्मजाम् +अन्तर्हितास्तापसास्ते साग्निहोत्राश्रमास्तदा +सा दृष्ट्वा महदाश्चर्यं विस्मिता अभवत्तदा +दमयन्त्यनवद्याङ्गी वीरसेननृपस्नुषा +किं नु स्वप्नो मया दृष्टः कोऽयं विधिरिहाभवत् +क्व नु ते तापसाः सर्वे क्व तदाश्रममण्डलम् +क्व सा पुण्यजला रम्या नानाद्विजनिषेविता +नदी ते च नगा हृद्याः फलपुष्पोपशोभिताः +ध्यात्वा चिरं भीमसुता दमयन्ती शुचिस्मिता +भर्तृशोकपरा दीना विवर्णवदनाभवत् +सा गत्वाथापरां भूमिं बाष्पसंदिग्धया गिरा +विललापाश्रुपूर्णाक्षी दृष्ट्वाशोकतरुं ततः +उपगम्य तरुश्रेष्ठमशोकं पुष्पितं तदा +पल्लवापीडितं हृद्यं विहंगैरनुनादितम् +अहो बतायमगमः श्रीमानस्मिन्वनान्तरे +आपीडैर्बहुभिर्भाति श्रीमान्द्रमिडराडिव +विशोकां कुरु मां क्षिप्रमशोक प्रियदर्शन +वीतशोकभयाबाधं कच्चित्त्वं दृष्टवान्नृपम् +नलं नामारिदमनं दमयन्त्याः प्रियं पतिम् +निषधानामधिपतिं दृष्टवानसि मे प्रियम् +एकवस्त्रार्धसंवीतं सुकुमारतनुत्वचम् +व्यसनेनार्दितं वीरमरण्यमिदमागतम् +यथा विशोका गच्छेयमशोकनग तत्कुरु +सत्यनामा भवाशोक मम शोकविनाशनात् +एवं साशोकवृक्षं तमार्ता त्रिः परिगम्य ह +जगाम दारुणतरं देशं भैमी वराङ्गना +सा ददर्श नगान्नैकान्नैकाश्च सरितस्तथा +नैकांश्च पर्वतान्रम्यान्नैकांश्च मृगपक्षिणः +कन्दरांश्च नितम्बांश्च नदांश्चाद्भुतदर्शनान् +ददर्श सा भीमसुता पतिमन्वेषती तदा +गत्वा प्रकृष्टमध्वानं दमयन्ती शुचिस्मिता +ददर्शाथ महासार्थं हस्त्यश्वरथसंकुलम् +उत्तरन्तं नदीं रम्यां प्रसन्नसलिलां शुभाम् +सुशीततोयां विस्तीर्णां ह्रदिनीं वेतसैर्वृताम् +प्रोद्घुष्टां क्रौञ्चकुररैश्चक्रवाकोपकूजिताम् +कूर्मग्राहझषाकीर्णां पुलिनद्वीपशोभिताम् +सा दृष्ट्वैव महासार्थं नलपत्नी यशस्विनी +उपसर्प्य वरारोहा जनमध्यं विवेश ह +उन्मत्तरूपा शोकार्ता तथा वस्त्रार्धसंवृता +कृशा विवर्णा मलिना पांसुध्वस्तशिरोरुहा +तां दृष्ट्वा तत्र मनुजाः केचिद्भीताः प्रदुद्रुवुः +केचिच्चिन्तापरास्तस्थुः केचित्तत्र विचुक्रुशुः +प्रहसन्ति स्म तां केचिदभ्यसूयन्त चापरे +चक्रुस्तस्यां दयां केचित्पप्रच्छुश्चापि भारत +कासि कस्यासि कल्याणि किं वा मृगयसे वने +त्वां दृष्ट्वा व्यथिताः स्मेह कच्चित्त्वमसि मानुषी +वद सत्यं वनस्यास्य पर्वतस्याथ वा दिशः +देवता त्वं हि कल्याणि त्वां वयं शरणं गताः +यक्षी वा राक्षसी वा त्वमुताहोऽसि वराङ्गना +सर्वथा कुरु नः स्वस्ति रक्षस्वास्माननिन्दिते +यथायं सर्वथा सार्थः क्षेमी शीघ्रमितो व्रजेत् +तथा विधत्स्व कल्याणि त्वां वयं शरणं गताः +तथोक्ता तेन सार्थेन दमयन्ती नृपात्मजा +प्रत्युवाच ततः साध्वी भर्तृव्यसनदुःखिता +सार्थवाहं च सार्थं च जना ये चात्र केचन +यूनः स्थविरबालाश्च सार्थस्य च पुरोगमाः +मानुषीं मां विजानीत मनुजाधिपतेः सुताम् +नृपस्नुषां राजभार्यां भर्तृदर्शनलालसाम् +विदर्भराण्मम पिता भर्ता राजा च नैषधः +नलो नाम महाभागस्तं मार्गाम्यपराजितम् +यदि जानीत नृपतिं क्षिप्रं शंसत मे प्रियम् +नलं पार्थिवशार्दूलममित्रगणसूदनम् +तामुवाचानवद्याङ्गीं सार्थस्य महतः प्रभुः +सार्थवाहः शुचिर्नाम शृणु कल्याणि मद्वचः +अहं सार्थस्य नेता वै सार्थवाहः शुचिस्मिते +मनुष्यं नलनामानं न पश्यामि यशस्विनि +कुञ्जरद्वीपिमहिषशार्दूलर्क्षमृगानपि +पश्याम्यस्मिन्वने कष्टे अमनुष्यनिषेविते +तथा नो यक्षराडद्य मणिभद्रः प्रसीदतु +साब्रवीद्वणिजः सर्वान्सार्थवाहं च तं ततः +क्व नु यास्यसि सार्थोऽयमेतदाख्यातुमर्हथ +सार्थवाह उवाच +सार्थोऽयं चेदिराजस्य सुबाहोः सत्यवादिनः +क्षिप्रं जनपदं गन्ता लाभाय मनुजात्मजे +बृहदश्व उवाच +सा तच्छ्रुत्वानवद्याङ्गी सार्थवाहवचस्तदा +अगच्छत्तेन वै सार्धं भर्तृदर्शनलालसा +अथ काले बहुतिथे वने महति दारुणे +तडागं सर्वतोभद्रं पद्मसौगन्धिकं महत् +ददृशुर्वणिजो रम्यं प्रभूतयवसेन्धनम् +बहुमूलफलोपेतं नानापक्षिगणैर्वृतम् +तं दृष्ट्वा मृष्टसलिलं मनोहरसुखावहम् +सुपरिश्रान्तवाहास्ते निवेशाय मनो दधुः +संमते सार्थवाहस्य विविशुर्वनमुत्तमम् +उवास सार्थः सुमहान्वेलामासाद्य पश्चिमाम् +अथार्धरात्रसमये निःशब्दस्तिमिते तदा +सुप्ते सार्थे परिश्रान्ते हस्तियूथमुपागमत् +पानीयार्थं गिरिनदीं मदप्रस्रवणाविलाम् +मार्गं संरुध्य संसुप्तं पद्मिन्याः सार्थमुत्तमम् +सुप्तं ममर्द सहसा चेष्टमानं महीतले +हाहारवं प्रमुञ्चन्तः सार्थिकाः शरणार्थिनः +वनगुल्मांश्च धावन्तो निद्रान्धा महतो भयात् +केचिद्दन्तैः करैः केचित्केचित्पद्भ्यां हता नराः +गोखरोष्ट्राश्वबहुलं पदातिजनसंकुलम् +भयार्तं धावमानं तत्परस्परहतं तदा +घोरान्नादान्विमुञ्चन्तो निपेतुर्धरणीतले +वृक्षेष्वासज्य संभग्नाः पतिता विषमेषु च +तथा तन्निहतं सर्वं समृद्धं सार्थमण्डलम् +अथापरेद्युः संप्राप्ते हतशिष्टा जनास्तदा +वनगुल्माद्विनिष्क्रम्य शोचन्तो वैशसं कृतम् +भ्रातरं पितरं पुत्रं सखायं च जनाधिप +अशोचत्तत्र वैदर्भी किं नु मे दुष्कृतं कृतम् +योऽपि मे निर्जनेऽरण्ये संप्राप्तोऽयं जनार्णवः +हतोऽयं हस्तियूथेन मन्दभाग्यान्ममैव तु +प्राप्तव्यं सुचिरं दुःखं मया नूनमसंशयम् +नाप्राप्तकालो म्रियते श्रुतं वृद्धानुशासनम् +यन्नाहमद्य मृदिता हस्तियूथेन दुःखिता +न ह्यदैवकृतं किंचिन्नराणामिह विद्यते +न च मे बालभावेऽपि किंचिद्व्यपकृतं कृतम् +कर्मणा मनसा वाचा यदिदं दुःखमागतम् +मन्ये स्वयंवरकृते लोकपालाः समागताः +प्रत्याख्याता मया तत्र नलस्यार्थाय देवताः +नूनं तेषां प्रभावेन वियोगं प्राप्तवत्यहम् +एवमादीनि दुःखानि सा विलप्य वराङ्गना +हतशिष्टैः सह तदा ब्राह्मणैर्वेदपारगैः +अगच्छद्राजशार्दूल दुःखशोकपरायणा +गच्छन्ती सा चिरात्कालात्पुरमासादयन्महत् +सायाह्ने चेदिराजस्य सुबाहोः सत्यवादिनः +वस्त्रार्धकर्तसंवीता प्रविवेश पुरोत्तमम् +तां विवर्णां कृशां दीनां मुक्तकेशीममार्जनाम् +उन्मत्तामिव गच्छन्तीं ददृशुः पुरवासिनः +प्रविशन्तीं तु तां दृष्ट्वा चेदिराजपुरीं तदा +अनुजग्मुस्ततो बाला ग्रामिपुत्राः कुतूहलात् +सा तैः परिवृतागच्छत्समीपं राजवेश्मनः +तां प्रासादगतापश्यद्राजमाता जनैर्वृताम् +सा जनं वारयित्वा तं प्��ासादतलमुत्तमम् +आरोप्य विस्मिता राजन्दमयन्तीमपृच्छत +एवमप्यसुखाविष्टा बिभर्षि परमं वपुः +भासि विद्युदिवाभ्रेषु शंस मे कासि कस्य वा +न हि ते मानुषं रूपं भूषणैरपि वर्जितम् +असहाया नरेभ्यश्च नोद्विजस्यमरप्रभे +तच्छ्रुत्वा वचनं तस्या भैमी वचनमब्रवीत् +मानुषीं मां विजानीहि भर्तारं समनुव्रताम् +सैरन्ध्रीं जातिसंपन्नां भुजिष्यां कामवासिनीम् +फलमूलाशनामेकां यत्रसायंप्रतिश्रयाम् +असंख्येयगुणो भर्ता मां च नित्यमनुव्रतः +भर्तारमपि तं वीरं छायेवानपगा सदा +तस्य दैवात्प्रसङ्गोऽभूदतिमात्रं स्म देवने +द्यूते स निर्जितश्चैव वनमेकोऽभ्युपेयिवान् +तमेकवसनं वीरमुन्मत्तमिव विह्वलम् +आश्वासयन्ती भर्तारमहमन्वगमं वनम् +स कदाचिद्वने वीरः कस्मिंश्चित्कारणान्तरे +क्षुत्परीतः सुविमनास्तदप्येकं व्यसर्जयत् +तमेकवसनं नग्नमुन्मत्तं गतचेतसम् +अनुव्रजन्ती बहुला न स्वपामि निशाः सदा +ततो बहुतिथे काले सुप्तामुत्सृज्य मां क्वचित् +वाससोऽर्धं परिच्छिद्य त्यक्तवान्मामनागसम् +तं मार्गमाणा भर्तारं दह्यमाना दिनक्षपाः +न विन्दाम्यमरप्रख्यं प्रियं प्राणधनेश्वरम् +तामश्रुपरिपूर्णाक्षीं विलपन्तीं तथा बहु +राजमाताब्रवीदार्तां भैमीमार्ततरा स्वयम् +वसस्व मयि कल्याणि प्रीतिर्मे त्वयि वर्तते +मृगयिष्यन्ति ते भद्रे भर्तारं पुरुषा मम +अथ वा स्वयमागच्छेत्परिधावन्नितस्ततः +इहैव वसती भद्रे भर्तारमुपलप्स्यसे +राजमातुर्वचः श्रुत्वा दमयन्ती वचोऽब्रवीत् +समयेनोत्सहे वस्तुं त्वयि वीरप्रजायिनि +उच्छिष्टं नैव भुञ्जीयां न कुर्यां पादधावनम् +न चाहं पुरुषानन्यान्संभाषेयं कथंचन +प्रार्थयेद्यदि मां कश्चिद्दण्ड्यस्ते स पुमान्भवेत् +भर्तुरन्वेषणार्थं तु पश्येयं ब्राह्मणानहम् +यद्येवमिह कर्तव्यं वसाम्यहमसंशयम् +अतोऽन्यथा न मे वासो वर्तते हृदये क्वचित् +तां प्रहृष्टेन मनसा राजमातेदमब्रवीत् +सर्वमेतत्करिष्यामि दिष्ट्या ते व्रतमीदृशम् +एवमुक्त्वा ततो भैमीं राजमाता विशां पते +उवाचेदं दुहितरं सुनन्दां नाम भारत +सैरन्ध्रीमभिजानीष्व सुनन्दे देवरूपिणीम् +एतया सह मोदस्व निरुद्विग्नमनाः स्वयम् +बृहदश्व उवाच +उत्सृज्य दमयन्तीं तु नलो राजा विशां पते +ददर्श दावं दह्यन्तं महान्तं गहने वने +तत्र शुश्राव मध्येऽग्नौ शब्दं भूतस्य कस्यचित् +अभिधाव नलेत्युच्चैः पुण्यश्लोकेति चासकृत् +मा भैरिति नलश्चोक्त्वा मध्यमग्नेः प्रविश्य तम् +ददर्श नागराजानं शयानं कुण्डलीकृतम् +स नागः प्राञ्जलिर्भूत्वा वेपमानो नलं तदा +उवाच विद्धि मां राजन्नागं कर्कोटकं नृप +मया प्रलब्धो ब्रह्मर्षिरनागाः सुमहातपाः +तेन मन्युपरीतेन शप्तोऽस्मि मनुजाधिप +तस्य शापान्न शक्नोमि पदाद्विचलितुं पदम् +उपदेक्ष्यामि ते श्रेयस्त्रातुमर्हति मां भवान् +सखा च ते भविष्यामि मत्समो नास्ति पन्नगः +लघुश्च ते भविष्यामि शीघ्रमादाय गच्छ माम् +एवमुक्त्वा स नागेन्द्रो बभूवाङ्गुष्ठमात्रकः +तं गृहीत्वा नलः प्रायादुद्देशं दाववर्जितम् +आकाशदेशमासाद्य विमुक्तं कृष्णवर्त्मना +उत्स्रष्टुकामं तं नागः पुनः कर्कोटकोऽब्रवीत् +पदानि गणयन्गच्छ स्वानि नैषध कानिचित् +तत्र तेऽहं महाराज श्रेयो धास्यामि यत्परम् +ततः संख्यातुमारब्धमदशद्दशमे पदे +तस्य दष्टस्य तद्रूपं क्षिप्रमन्तरधीयत +स दृष्ट्वा विस्मितस्तस्थावात्मानं विकृतं नलः +स्वरूपधारिणं नागं ददर्श च महीपतिः +ततः कर्कोटको नागः सान्त्वयन्नलमब्रवीत् +मया तेऽन्तर्हितं रूपं न त्वा विद्युर्जना इति +यत्कृते चासि विकृतो दुःखेन महता नल +विषेण स मदीयेन त्वयि दुःखं निवत्स्यति +विषेण संवृतैर्गात्रैर्यावत्त्वां न विमोक्ष्यति +तावत्त्वयि महाराज दुःखं वै स निवत्स्यति +अनागा येन निकृतस्त्वमनर्हो जनाधिप +क्रोधादसूययित्वा तं रक्षा मे भवतः कृता +न ते भयं नरव्याघ्र दंष्ट्रिभ्यः शत्रुतोऽपि वा +ब्रह्मविद्भ्यश्च भविता मत्प्रसादान्नराधिप +राजन्विषनिमित्ता च न ते पीडा भविष्यति +संग्रामेषु च राजेन्द्र शश्वज्जयमवाप्स्यसि +गच्छ राजन्नितः सूतो बाहुकोऽहमिति ब्रुवन् +समीपमृतुपर्णस्य स हि वेदाक्षनैपुणम् +अयोध्यां नगरीं रम्यामद्यैव निषधेश्वर +स तेऽक्षहृदयं दाता राजाश्वहृदयेन वै +इक्ष्वाकुकुलजः श्रीमान्मित्रं चैव भविष्यति +भविष्यसि यदाक्षज्ञः श्रेयसा योक्ष्यसे तदा +समेष्यसि च दारैस्त्वं मा स्म शोके मनः कृथाः +राज्येन तनयाभ्यां च सत्यमेतद्ब्रवीमि ते +स्वरूपं च यदा द्रष्टुमिच्छेथास्त्वं नराधिप +संस्मर्तव्यस्तदा तेऽहं वासश्चेदं निवासयेः +अनेन वाससाच्छन्नः स्वरूपं प्रतिपत्स्यसे +इत्युक्त्वा प्रददावस्मै दिव्य��� वासोयुगं तदा +एवं नलं समादिश्य वासो दत्त्वा च कौरव +नागराजस्ततो राजंस्तत्रैवान्तरधीयत +बृहदश्व उवाच +तस्मिन्नन्तर्हिते नागे प्रययौ नैषधो नलः +ऋतुपर्णस्य नगरं प्राविशद्दशमेऽहनि +स राजानमुपातिष्ठद्बाहुकोऽहमिति ब्रुवन् +अश्वानां वाहने युक्तः पृथिव्यां नास्ति मत्समः +अर्थकृच्छ्रेषु चैवाहं प्रष्टव्यो नैपुणेषु च +अन्नसंस्कारमपि च जानाम्यन्यैर्विशेषतः +यानि शिल्पानि लोकेऽस्मिन्यच्चाप्यन्यत्सुदुष्करम् +सर्वं यतिष्ये तत्कर्तुमृतुपर्ण भरस्व माम् +ऋतुपर्ण उवाच +वस बाहुक भद्रं ते सर्वमेतत्करिष्यसि +शीघ्रयाने सदा बुद्धिर्धीयते मे विशेषतः +स त्वमातिष्ठ योगं तं येन शीघ्रा हया मम +भवेयुरश्वाध्यक्षोऽसि वेतनं ते शतं शताः +त्वामुपस्थास्यतश्चेमौ नित्यं वार्ष्णेयजीवलौ +एताभ्यां रंस्यसे सार्धं वस वै मयि बाहुक +बृहदश्व उवाच +एवमुक्तो नलस्तेन न्यवसत्तत्र पूजितः +ऋतुपर्णस्य नगरे सहवार्ष्णेयजीवलः +स तत्र निवसन्राजा वैदर्भीमनुचिन्तयन् +सायं सायं सदा चेमं श्लोकमेकं जगाद ह +क्व नु सा क्षुत्पिपासार्ता श्रान्ता शेते तपस्विनी +स्मरन्ती तस्य मन्दस्य कं वा साद्योपतिष्ठति +एवं ब्रुवन्तं राजानं निशायां जीवलोऽब्रवीत् +कामेनां शोचसे नित्यं श्रोतुमिच्छामि बाहुक +तमुवाच नलो राजा मन्दप्रज्ञस्य कस्यचित् +आसीद्बहुमता नारी तस्या दृढतरं च सः +स वै केनचिदर्थेन तया मन्दो व्ययुज्यत +विप्रयुक्तश्च मन्दात्मा भ्रमत्यसुखपीडितः +दह्यमानः स शोकेन दिवारात्रमतन्द्रितः +निशाकाले स्मरंस्तस्याः श्लोकमेकं स्म गायति +स वै भ्रमन्महीं सर्वां क्वचिदासाद्य किंचन +वसत्यनर्हस्तद्दुःखं भूय एवानुसंस्मरन् +सा तु तं पुरुषं नारी कृच्छ्रेऽप्यनुगता वने +त्यक्ता तेनाल्पपुण्येन दुष्करं यदि जीवति +एका बालानभिज्ञा च मार्गाणामतथोचिता +क्षुत्पिपासापरीता च दुष्करं यदि जीवति +श्वापदाचरिते नित्यं वने महति दारुणे +त्यक्ता तेनाल्पपुण्येन मन्दप्रज्ञेन मारिष +इत्येवं नैषधो राजा दमयन्तीमनुस्मरन् +अज्ञातवासमवसद्राज्ञस्तस्य निवेशने +बृहदश्व उवाच +हृतराज्ये नले भीमः सभार्ये प्रेष्यतां गते +द्विजान्प्रस्थापयामास नलदर्शनकाङ्क्षया +संदिदेश च तान्भीमो वसु दत्त्वा च पुष्कलम् +मृगयध्वं नलं चैव दमयन्तीं च मे सुताम् +अस्मिन्कर्मणि निष्��न्ने विज्ञाते निषधाधिपे +गवां सहस्रं दास्यामि यो वस्तावानयिष्यति +अग्रहारं च दास्यामि ग्रामं नगरसंमितम् +न चेच्छक्याविहानेतुं दमयन्ती नलोऽपि वा +ज्ञातमात्रेऽपि दास्यामि गवां दशशतं धनम् +इत्युक्तास्ते ययुर्हृष्टा ब्राह्मणाः सर्वतोदिशम् +पुरराष्ट्राणि चिन्वन्तो नैषधं सह भार्यया +ततश्चेदिपुरीं रम्यां सुदेवो नाम वै द्विजः +विचिन्वानोऽथ वैदर्भीमपश्यद्राजवेश्मनि +पुण्याहवाचने राज्ञः सुनन्दासहितां स्थिताम् +मन्दप्रख्यायमानेन रूपेणाप्रतिमेन ताम् +पिनद्धां धूमजालेन प्रभामिव विभावसोः +तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम् +तर्कयामास भैमीति कारणैरुपपादयन् +सुदेव उवाच +यथेयं मे पुरा दृष्टा तथारूपेयमङ्गना +कृतार्थोऽस्म्यद्य दृष्ट्वेमां लोककान्तामिव श्रियम् +पूर्णचन्द्राननां श्यामां चारुवृत्तपयोधराम् +कुर्वन्तीं प्रभया देवीं सर्वा वितिमिरा दिशः +चारुपद्मपलाशाक्षीं मन्मथस्य रतीमिव +इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभामिव +विदर्भसरसस्तस्माद्दैवदोषादिवोद्धृताम् +मलपङ्कानुलिप्ताङ्गीं मृणालीमिव तां भृशम् +पौर्णमासीमिव निशां राहुग्रस्तनिशाकराम् +पतिशोकाकुलां दीनां शुष्कस्रोतां नदीमिव +विध्वस्तपर्णकमलां वित्रासितविहंगमाम् +हस्तिहस्तपरिक्लिष्टां व्याकुलामिव पद्मिनीम् +सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहोचिताम् +दह्यमानामिवोष्णेन मृणालीमचिरोद्धृताम् +रूपौदार्यगुणोपेतां मण्डनार्हाममण्डिताम् +चन्द्रलेखामिव नवां व्योम्नि नीलाभ्रसंवृताम् +कामभोगैः प्रियैर्हीनां हीनां बन्धुजनेन च +देहं धारयतीं दीनां भर्तृदर्शनकाङ्क्षया +भर्ता नाम परं नार्या भूषणं भूषणैर्विना +एषा विरहिता तेन शोभनापि न शोभते +दुष्करं कुरुतेऽत्यर्थं हीनो यदनया नलः +धारयत्यात्मनो देहं न शोकेनावसीदति +इमामसितकेशान्तां शतपत्रायतेक्षणाम् +सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथते मनः +कदा नु खलु दुःखस्य पारं यास्यति वै शुभा +भर्तुः समागमात्साध्वी रोहिणी शशिनो यथा +अस्या नूनं पुनर्लाभान्नैषधः प्रीतिमेष्यति +राजा राज्यपरिभ्रष्टः पुनर्लब्ध्वेव मेदिनीम् +तुल्यशीलवयोयुक्तां तुल्याभिजनसंयुताम् +नैषधोऽर्हति वैदर्भीं तं चेयमसितेक्षणा +युक्तं तस्याप्रमेयस्य वीर्यसत्त्ववतो मया +समाश्वास��ितुं भार्यां पतिदर्शनलालसाम् +अयमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम् +अदृष्टपूर्वां दुःखस्य दुःखार्तां ध्यानतत्पराम् +बृहदश्व उवाच +एवं विमृश्य विविधैः कारणैर्लक्षणैश्च ताम् +उपगम्य ततो भैमीं सुदेवो ब्राह्मणोऽब्रवीत् +अहं सुदेवो वैदर्भि भ्रातुस्ते दयितः सखा +भीमस्य वचनाद्राज्ञस्त्वामन्वेष्टुमिहागतः +कुशली ते पिता राज्ञि जनित्री भ्रातरश्च ते +आयुष्मन्तौ कुशलिनौ तत्रस्थौ दारकौ च ते +त्वत्कृते बन्धुवर्गाश्च गतसत्त्वा इवासते +अभिज्ञाय सुदेवं तु दमयन्ती युधिष्ठिर +पर्यपृच्छत्ततः सर्वान्क्रमेण सुहृदः स्वकान् +रुरोद च भृशं राजन्वैदर्भी शोककर्शिता +दृष्ट्वा सुदेवं सहसा भ्रातुरिष्टं द्विजोत्तमम् +ततो रुदन्तीं तां दृष्ट्वा सुनन्दा शोककर्शिताम् +सुदेवेन सहैकान्ते कथयन्तीं च भारत +जनित्र्यै प्रेषयामास सैरन्ध्री रुदते भृशम् +ब्राह्मणेन समागम्य तां वेद यदि मन्यसे +अथ चेदिपतेर्माता राज्ञश्चान्तःपुरात्तदा +जगाम यत्र सा बाला ब्राह्मणेन सहाभवत् +ततः सुदेवमानाय्य राजमाता विशां पते +पप्रच्छ भार्या कस्येयं सुता वा कस्य भामिनी +कथं च नष्टा ज्ञातिभ्यो भर्तुर्वा वामलोचना +त्वया च विदिता विप्र कथमेवंगता सती +एतदिच्छाम्यहं त्वत्तो ज्ञातुं सर्वमशेषतः +तत्त्वेन हि ममाचक्ष्व पृच्छन्त्या देवरूपिणीम् +एवमुक्तस्तया राजन्सुदेवो द्विजसत्तमः +सुखोपविष्ट आचष्ट दमयन्त्या यथातथम् +सुदेव उवाच +विदर्भराजो धर्मात्मा भीमो भीमपराक्रमः +सुतेयं तस्य कल्याणी दमयन्तीति विश्रुता +राजा तु नैषधो नाम वीरसेनसुतो नलः +भार्येयं तस्य कल्याणी पुण्यश्लोकस्य धीमतः +स वै द्यूते जितो भ्रात्रा हृतराज्यो महीपतिः +दमयन्त्या गतः सार्धं न प्रज्ञायत कर्हिचित् +ते वयं दमयन्त्यर्थे चरामः पृथिवीमिमाम् +सेयमासादिता बाला तव पुत्रनिवेशने +अस्या रूपेण सदृशी मानुषी नेह विद्यते +अस्याश्चैव भ्रुवोर्मध्ये सहजः पिप्लुरुत्तमः +श्यामायाः पद्मसंकाशो लक्षितोऽन्तर्हितो मया +मलेन संवृतो ह्यस्यास्तन्वभ्रेणेव चन्द्रमाः +चिह्नभूतो विभूत्यर्थमयं धात्रा विनिर्मितः +प्रतिपत्कलुषेवेन्दोर्लेखा नाति विराजते +न चास्या नश्यते रूपं वपुर्मलसमाचितम् +असंस्कृतमपि व्यक्तं भाति काञ्चनसंनिभम् +अनेन वपुषा बाला पिप्लुनानेन चैव ह +लक्षिते��ं मया देवी पिहितोऽग्निरिवोष्मणा +बृहदश्व उवाच +तच्छ्रुत्वा वचनं तस्य सुदेवस्य विशां पते +सुनन्दा शोधयामास पिप्लुप्रच्छादनं मलम् +स मलेनापकृष्टेन पिप्लुस्तस्या व्यरोचत +दमयन्त्यास्तदा व्यभ्रे नभसीव निशाकरः +पिप्लुं दृष्ट्वा सुनन्दा च राजमाता च भारत +रुदन्त्यौ तां परिष्वज्य मुहूर्तमिव तस्थतुः +उत्सृज्य बाष्पं शनकै राजमातेदमब्रवीत् +भगिन्या दुहिता मेऽसि पिप्लुनानेन सूचिता +अहं च तव माता च राजन्यस्य महात्मनः +सुते दशार्णाधिपतेः सुदाम्नश्चारुदर्शने +भीमस्य राज्ञः सा दत्ता वीरबाहोरहं पुनः +त्वं तु जाता मया दृष्टा दशार्णेषु पितुर्गृहे +यथैव ते पितुर्गेहं तथेदमपि भामिनि +यथैव हि ममैश्वर्यं दमयन्ति तथा तव +तां प्रहृष्टेन मनसा दमयन्ती विशां पते +अभिवाद्य मातुर्भगिनीमिदं वचनमब्रवीत् +अज्ञायमानापि सती सुखमस्म्युषितेह वै +सर्वकामैः सुविहिता रक्ष्यमाणा सदा त्वया +सुखात्सुखतरो वासो भविष्यति न संशयः +चिरविप्रोषितां मातर्मामनुज्ञातुमर्हसि +दारकौ च हि मे नीतौ वसतस्तत्र बालकौ +पित्रा विहीनौ शोकार्तौ मया चैव कथं नु तौ +यदि चापि प्रियं किंचिन्मयि कर्तुमिहेच्छसि +विदर्भान्यातुमिच्छामि शीघ्रं मे यानमादिश +बाढमित्येव तामुक्त्वा हृष्टा मातृष्वसा नृप +गुप्तां बलेन महता पुत्रस्यानुमते ततः +प्रस्थापयद्राजमाता श्रीमता नरवाहिना +यानेन भरतश्रेष्ठ स्वन्नपानपरिच्छदाम् +ततः सा नचिरादेव विदर्भानगमच्छुभा +तां तु बन्धुजनः सर्वः प्रहृष्टः प्रत्यपूजयत् +सर्वान्कुशलिनो दृष्ट्वा बान्धवान्दारकौ च तौ +मातरं पितरं चैव सर्वं चैव सखीजनम् +देवताः पूजयामास ब्राह्मणांश्च यशस्विनी +विधिना परेण कल्याणी दमयन्ती विशां पते +अतर्पयत्सुदेवं च गोसहस्रेण पार्थिवः +प्रीतो दृष्ट्वैव तनयां ग्रामेण द्रविणेन च +सा व्युष्टा रजनीं तत्र पितुर्वेश्मनि भामिनी +विश्रान्ता मातरं राजन्निदं वचनमब्रवीत् +दमयन्त्युवाच +मां चेदिच्छसि जीवन्तीं मातः सत्यं ब्रवीमि ते +नरवीरस्य वै तस्य नलस्यानयने यत +बृहदश्व उवाच +दमयन्त्या तथोक्ता तु सा देवी भृशदुःखिता +बाष्पेण पिहिता राजन्नोत्तरं किंचिदब्रवीत् +तदवस्थां तु तां दृष्ट्वा सर्वमन्तःपुरं तदा +हाहाभूतमतीवासीद्भृशं च प्ररुरोद ह +ततो भीमं महाराज भार्या वचनमब्रवीत् +दमयन्ती तव सुता भ���्तारमनुशोचति +अपकृष्य च लज्जां मां स्वयमुक्तवती नृप +प्रयतन्तु तव प्रेष्याः पुण्यश्लोकस्य दर्शने +तया प्रचोदितो राजा ब्राह्मणान्वशवर्तिनः +प्रास्थापयद्दिशः सर्वा यतध्वं नलदर्शने +ततो विदर्भाधिपतेर्नियोगाद्ब्राह्मणर्षभाः +दमयन्तीमथो दृष्ट्वा प्रस्थिताः स्मेत्यथाब्रुवन् +अथ तानब्रवीद्भैमी सर्वराष्ट्रेष्विदं वचः +ब्रुवध्वं जनसंसत्सु तत्र तत्र पुनः पुनः +क्व नु त्वं कितव छित्त्वा वस्त्रार्धं प्रस्थितो मम +उत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय +सा वै यथा समादिष्टा तत्रास्ते त्वत्प्रतीक्षिणी +दह्यमाना भृशं बाला वस्त्रार्धेनाभिसंवृता +तस्या रुदन्त्याः सततं तेन शोकेन पार्थिव +प्रसादं कुरु वै वीर प्रतिवाक्यं ददस्व च +एतदन्यच्च वक्तव्यं कृपां कुर्याद्यथा मयि +वायुना धूयमानो हि वनं दहति पावकः +भर्तव्या रक्षणीया च पत्नी हि पतिना सदा +तन्नष्टमुभयं कस्माद्धर्मज्ञस्य सतस्तव +ख्यातः प्राज्ञः कुलीनश्च सानुक्रोशश्च त्वं सदा +संवृत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात् +स कुरुष्व महेष्वास दयां मयि नरर्षभ +आनृशंस्यं परो धर्मस्त्वत्त एव हि मे श्रुतम् +एवं ब्रुवाणान्यदि वः प्रतिब्रूयाद्धि कश्चन +स नरः सर्वथा ज्ञेयः कश्चासौ क्व च वर्तते +यच्च वो वचनं श्रुत्वा ब्रूयात्प्रतिवचो नरः +तदादाय वचः क्षिप्रं ममावेद्यं द्विजोत्तमाः +यथा च वो न जानीयाच्चरतो भीमशासनात् +पुनरागमनं चैव तथा कार्यमतन्द्रितैः +यदि वासौ समृद्धः स्याद्यदि वाप्यधनो भवेत् +यदि वाप्यर्थकामः स्याज्ज्ञेयमस्य चिकीर्षितम् +एवमुक्तास्त्वगच्छंस्ते ब्राह्मणाः सर्वतोदिशम् +नलं मृगयितुं राजंस्तथा व्यसनिनं तदा +ते पुराणि सराष्ट्राणि ग्रामान्घोषांस्तथाश्रमान् +अन्वेषन्तो नलं राजन्नाधिजग्मुर्द्विजातयः +तच्च वाक्यं तथा सर्वे तत्र तत्र विशां पते +श्रावयां चक्रिरे विप्रा दमयन्त्या यथेरितम् +बृहदश्व उवाच +अथ दीर्घस्य कालस्य पर्णादो नाम वै द्विजः +प्रत्येत्य नगरं भैमीमिदं वचनमब्रवीत् +नैषधं मृगयानेन दमयन्ति दिवानिशम् +अयोध्यां नगरीं गत्वा भाङ्गस्वरिरुपस्थितः +श्रावितश्च मया वाक्यं त्वदीयं स महाजने +ऋतुपर्णो महाभागो यथोक्तं वरवर्णिनि +तच्छ्रुत्वा नाब्रवीत्किंचिदृतुपर्णो नराधिपः +न च पारिषदः कश्चिद्भाष्यमाणो ��यासकृत् +अनुज्ञातं तु मां राज्ञा विजने कश्चिदब्रवीत् +ऋतुपर्णस्य पुरुषो बाहुको नाम नामतः +सूतस्तस्य नरेन्द्रस्य विरूपो ह्रस्वबाहुकः +शीघ्रयाने सुकुशलो मृष्टकर्ता च भोजने +स विनिःश्वस्य बहुशो रुदित्वा च मुहुर्मुहुः +कुशलं चैव मां पृष्ट्वा पश्चादिदमभाषत +वैषम्यमपि संप्राप्ता गोपायन्ति कुलस्त्रियः +आत्मानमात्मना सत्यो जितस्वर्गा न संशयः +रहिता भर्तृभिश्चैव न क्रुध्यन्ति कदाचन +विषमस्थेन मूढेन परिभ्रष्टसुखेन च +यत्सा तेन परित्यक्ता तत्र न क्रोद्धुमर्हति +प्राणयात्रां परिप्रेप्सोः शकुनैर्हृतवाससः +आधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति +सत्कृतासत्कृता वापि पतिं दृष्ट्वा तथागतम् +भ्रष्टराज्यं श्रिया हीनं श्यामा न क्रोद्धुमर्हति +तस्य तद्वचनं श्रुत्वा त्वरितोऽहमिहागतः +श्रुत्वा प्रमाणं भवती राज्ञश्चैव निवेदय +एतच्छ्रुत्वाश्रुपूर्णाक्षी पर्णादस्य विशां पते +दमयन्ती रहोऽभ्येत्य मातरं प्रत्यभाषत +अयमर्थो न संवेद्यो भीमे मातः कथंचन +त्वत्संनिधौ समादेक्ष्ये सुदेवं द्विजसत्तमम् +यथा न नृपतिर्भीमः प्रतिपद्येत मे मतम् +तथा त्वया प्रयत्तव्यं मम चेत्प्रियमिच्छसि +यथा चाहं समानीता सुदेवेनाशु बान्धवान् +तेनैव मङ्गलेनाशु सुदेवो यातु माचिरम् +समानेतुं नलं मातरयोध्यां नगरीमितः +विश्रान्तं च ततः पश्चात्पर्णादं द्विजसत्तमम् +अर्चयामास वैदर्भी धनेनातीव भामिनी +नले चेहागते विप्र भूयो दास्यामि ते वसु +त्वया हि मे बहु कृतं यथा नान्यः करिष्यति +यद्भर्त्राहं समेष्यामि शीघ्रमेव द्विजोत्तम +एवमुक्तोऽर्चयित्वा तामाशीर्वादैः सुमङ्गलैः +गृहानुपययौ चापि कृतार्थः स महामनाः +ततश्चानाय्य तं विप्रं दमयन्ती युधिष्ठिर +अब्रवीत्संनिधौ मातुर्दुःखशोकसमन्विता +गत्वा सुदेव नगरीमयोध्यावासिनं नृपम् +ऋतुपर्णं वचो ब्रूहि पतिमन्यं चिकीर्षती +आस्थास्यति पुनर्भैमी दमयन्ती स्वयंवरम् +तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः +यथा च गणितः कालः श्वोभूते स भविष्यति +यदि संभावनीयं ते गच्छ शीघ्रमरिंदम +सूर्योदये द्वितीयं सा भर्तारं वरयिष्यति +न हि स ज्ञायते वीरो नलो जीवन्मृतोऽपि वा +एवं तया यथोक्तं वै गत्वा राजानमब्रवीत् +ऋतुपर्णं महाराज सुदेवो ब्राह्मणस्तदा +बृहदश्व उवाच +श्रुत्वा वचः सुदेवस्य ऋतु���र्णो नराधिपः +सान्त्वयञ्श्लक्ष्णया वाचा बाहुकं प्रत्यभाषत +विदर्भान्यातुमिच्छामि दमदन्त्याः स्वयंवरम् +एकाह्ना हयतत्त्वज्ञ मन्यसे यदि बाहुक +एवमुक्तस्य कौन्तेय तेन राज्ञा नलस्य ह +व्यदीर्यत मनो दुःखात्प्रदध्यौ च महामनाः +दमयन्ती भवेदेतत्कुर्याद्दुःखेन मोहिता +अस्मदर्थे भवेद्वायमुपायश्चिन्तितो महान् +नृशंसं बत वैदर्भी कर्तुकामा तपस्विनी +मया क्षुद्रेण निकृता पापेनाकृतबुद्धिना +स्त्रीस्वभावश्चलो लोके मम दोषश्च दारुणः +स्यादेवमपि कुर्यात्सा विवशा गतसौहृदा +मम शोकेन संविग्ना नैराश्यात्तनुमध्यमा +न चैवं कर्हिचित्कुर्यात्सापत्या च विशेषतः +यदत्र तथ्यं पथ्यं च गत्वा वेत्स्यामि निश्चयम् +ऋतुपर्णस्य वै काममात्मार्थं च करोम्यहम् +इति निश्चित्य मनसा बाहुको दीनमानसः +कृताञ्जलिरुवाचेदमृतुपर्णं नराधिपम् +प्रतिजानामि ते सत्यं गमिष्यसि नराधिप +एकाह्ना पुरुषव्याघ्र विदर्भनगरीं नृप +ततः परीक्षामश्वानां चक्रे राजन्स बाहुकः +अश्वशालामुपागम्य भाङ्गस्वरिनृपाज्ञया +स त्वर्यमाणो बहुश ऋतुपर्णेन बाहुकः +अध्यगच्छत्कृशानश्वान्समर्थानध्वनि क्षमान् +तेजोबलसमायुक्तान्कुलशीलसमन्वितान् +वर्जिताँल्लक्षणैर्हीनैः पृथुप्रोथान्महाहनून् +शुद्धान्दशभिरावर्तैः सिन्धुजान्वातरंहसः +दृष्ट्वा तानब्रवीद्राजा किंचित्कोपसमन्वितः +किमिदं प्रार्थितं कर्तुं प्रलब्धव्या हि ते वयम् +कथमल्पबलप्राणा वक्ष्यन्तीमे हया मम +महानध्वा च तुरगैर्गन्तव्यः कथमीदृशैः +बाहुक उवाच +एते हया गमिष्यन्ति विदर्भान्नात्र संशयः +अथान्यान्मन्यसे राजन्ब्रूहि कान्योजयामि ते +ऋतुपर्ण उवाच +त्वमेव हयतत्त्वज्ञः कुशलश्चासि बाहुक +यान्मन्यसे समर्थांस्त्वं क्षिप्रं तानेव योजय +बृहदश्व उवाच +ततः सदश्वांश्चतुरः कुलशीलसमन्वितान् +योजयामास कुशलो जवयुक्तान्रथे नरः +ततो युक्तं रथं राजा समारोहत्त्वरान्वितः +अथ पर्यपतन्भूमौ जानुभिस्ते हयोत्तमाः +ततो नरवरः श्रीमान्नलो राजा विशां पते +सान्त्वयामास तानश्वांस्तेजोबलसमन्वितान् +रश्मिभिश्च समुद्यम्य नलो यातुमियेष सः +सूतमारोप्य वार्ष्णेयं जवमास्थाय वै परम् +ते चोद्यमाना विधिना बाहुकेन हयोत्तमाः +समुत्पेतुरिवाकाशं रथिनं मोहयन्निव +तथा तु दृष्ट्वा तानश्वान्वहतो वातरं��सः +अयोध्याधिपतिर्धीमान्विस्मयं परमं ययौ +रथघोषं तु तं श्रुत्वा हयसंग्रहणं च तत् +वार्ष्णेयश्चिन्तयामास बाहुकस्य हयज्ञताम् +किं नु स्यान्मातलिरयं देवराजस्य सारथिः +तथा हि लक्षणं वीरे बाहुके दृश्यते महत् +शालिहोत्रोऽथ किं नु स्याद्धयानां कुलतत्त्ववित् +मानुषं समनुप्राप्तो वपुः परमशोभनम् +उताहोस्विद्भवेद्राजा नलः परपुरंजयः +सोऽयं नृपतिरायात इत्येवं समचिन्तयत् +अथ वा यां नलो वेद विद्यां तामेव बाहुकः +तुल्यं हि लक्षये ज्ञानं बाहुकस्य नलस्य च +अपि चेदं वयस्तुल्यमस्य मन्ये नलस्य च +नायं नलो महावीर्यस्तद्विद्यस्तु भविष्यति +प्रच्छन्ना हि महात्मानश्चरन्ति पृथिवीमिमाम् +दैवेन विधिना युक्ताः शास्त्रोक्तैश्च विरूपणैः +भवेत्तु मतिभेदो मे गात्रवैरूप्यतां प्रति +प्रमाणात्परिहीनस्तु भवेदिति हि मे मतिः +वयःप्रमाणं तत्तुल्यं रूपेण तु विपर्ययः +नलं सर्वगुणैर्युक्तं मन्ये बाहुकमन्ततः +एवं विचार्य बहुशो वार्ष्णेयः पर्यचिन्तयत् +हृदयेन महाराज पुण्यश्लोकस्य सारथिः +ऋतुपर्णस्तु राजेन्द्र बाहुकस्य हयज्ञताम् +चिन्तयन्मुमुदे राजा सहवार्ष्णेयसारथिः +बलं वीर्यं तथोत्साहं हयसंग्रहणं च तत् +परं यत्नं च संप्रेक्ष्य परां मुदमवाप ह +बृहदश्व उवाच +स नदीः पर्वतांश्चैव वनानि च सरांसि च +अचिरेणातिचक्राम खेचरः खे चरन्निव +तथा प्रयाते तु रथे तदा भाङ्गस्वरिर्नृपः +उत्तरीयमथापश्यद्भ्रष्टं परपुरंजयः +ततः स त्वरमाणस्तु पटे निपतिते तदा +ग्रहीष्यामीति तं राजा नलमाह महामनाः +निगृह्णीष्व महाबुद्धे हयानेतान्महाजवान् +वार्ष्णेयो यावदेतं मे पटमानयतामिति +नलस्तं प्रत्युवाचाथ दूरे भ्रष्टः पटस्तव +योजनं समतिक्रान्तो न स शक्यस्त्वया पुनः +एवमुक्ते नलेनाथ तदा भाङ्गस्वरिर्नृपः +आससाद वने राजन्फलवन्तं बिभीतकम् +तं दृष्ट्वा बाहुकं राजा त्वरमाणोऽभ्यभाषत +ममापि सूत पश्य त्वं संख्याने परमं बलम् +सर्वः सर्वं न जानाति सर्वज्ञो नास्ति कश्चन +नैकत्र परिनिष्ठास्ति ज्ञानस्य पुरुषे क्वचित् +वृक्षेऽस्मिन्यानि पर्णानि फलान्यपि च बाहुक +पतितानि च यान्यत्र तत्रैकमधिकं शतम् +एकपत्राधिकं पत्रं फलमेकं च बाहुक +पञ्च कोट्योऽथ पत्राणां द्वयोरपि च शाखयोः +प्रचिनुह्यस्य शाखे द्वे याश्चाप्यन्याः प्रशाखिकाः +आभ्यां फलसहस्रे द्���े पञ्चोनं शतमेव च +ततो रथादवप्लुत्य राजानं बाहुकोऽब्रवीत् +परोक्षमिव मे राजन्कत्थसे शत्रुकर्शन +अथ ते गणिते राजन्विद्यते न परोक्षता +प्रत्यक्षं ते महाराज गणयिष्ये बिभीतकम् +अहं हि नाभिजानामि भवेदेवं न वेति च +संख्यास्यामि फलान्यस्य पश्यतस्ते जनाधिप +मुहूर्तमिव वार्ष्णेयो रश्मीन्यच्छतु वाजिनाम् +तमब्रवीन्नृपः सूतं नायं कालो विलम्बितुम् +बाहुकस्त्वब्रवीदेनं परं यत्नं समास्थितः +प्रतीक्षस्व मुहूर्तं त्वमथ वा त्वरते भवान् +एष याति शिवः पन्था याहि वार्ष्णेयसारथिः +अब्रवीदृतुपर्णस्तं सान्त्वयन्कुरुनन्दन +त्वमेव यन्ता नान्योऽस्ति पृथिव्यामपि बाहुक +त्वत्कृते यातुमिच्छामि विदर्भान्हयकोविद +शरणं त्वां प्रपन्नोऽस्मि न विघ्नं कर्तुमर्हसि +कामं च ते करिष्यामि यन्मां वक्ष्यसि बाहुक +विदर्भान्यदि यात्वाद्य सूर्यं दर्शयितासि मे +अथाब्रवीद्बाहुकस्तं संख्यायेमं बिभीतकम् +ततो विदर्भान्यास्यामि कुरुष्वेदं वचो मम +अकाम इव तं राजा गणयस्वेत्युवाच ह +सोऽवतीर्य रथात्तूर्णं शातयामास तं द्रुमम् +ततः स विस्मयाविष्टो राजानमिदमब्रवीत् +गणयित्वा यथोक्तानि तावन्त्येव फलानि च +अत्यद्भुतमिदं राजन्दृष्टवानस्मि ते बलम् +श्रोतुमिच्छामि तां विद्यां यथैतज्ज्ञायते नृप +तमुवाच ततो राजा त्वरितो गमने तदा +विद्ध्यक्षहृदयज्ञं मां संख्याने च विशारदम् +बाहुकस्तमुवाचाथ देहि विद्यामिमां मम +मत्तोऽपि चाश्वहृदयं गृहाण पुरुषर्षभ +ऋतुपर्णस्ततो राजा बाहुकं कार्यगौरवात् +हयज्ञानस्य लोभाच्च तथेत्येवाब्रवीद्वचः +यथेष्टं त्वं गृहाणेदमक्षाणां हृदयं परम् +निक्षेपो मेऽश्वहृदयं त्वयि तिष्ठतु बाहुक +एवमुक्त्वा ददौ विद्यामृतुपर्णो नलाय वै +तस्याक्षहृदयज्ञस्य शरीरान्निःसृतः कलिः +कर्कोटकविषं तीक्ष्णं मुखात्सततमुद्वमन् +कलेस्तस्य तदार्तस्य शापाग्निः स विनिःसृतः +स तेन कर्शितो राजा दीर्घकालमनात्मवान् +ततो विषविमुक्तात्मा स्वरूपमकरोत्कलिः +तं शप्तुमैच्छत्कुपितो निषधाधिपतिर्नलः +तमुवाच कलिर्भीतो वेपमानः कृताञ्जलिः +कोपं संयच्छ नृपते कीर्तिं दास्यामि ते पराम् +इन्द्रसेनस्य जननी कुपिता माशपत्पुरा +यदा त्वया परित्यक्ता ततोऽहं भृशपीडितः +अवसं त्वयि राजेन्द्र सुदुःखमपराजित +विषेण नागराजस्य दह्यमानो दिवानिशम् +ये च त्वां मनुजा लोके कीर्तयिष्यन्त्यतन्द्रिताः +मत्प्रसूतं भयं तेषां न कदाचिद्भविष्यति +एवमुक्तो नलो राजा न्ययच्छत्कोपमात्मनः +ततो भीतः कलिः क्षिप्रं प्रविवेश बिभीतकम् +कलिस्त्वन्येन नादृश्यत्कथयन्नैषधेन वै +ततो गतज्वरो राजा नैषधः परवीरहा +संप्रनष्टे कलौ राजन्संख्यायाथ फलान्युत +मुदा परमया युक्तस्तेजसा च परेण ह +रथमारुह्य तेजस्वी प्रययौ जवनैर्हयैः +बिभीतकश्चाप्रशस्तः संवृत्तः कलिसंश्रयात् +हयोत्तमानुत्पततो द्विजानिव पुनः पुनः +नलः संचोदयामास प्रहृष्टेनान्तरात्मना +विदर्भाभिमुखो राजा प्रययौ स महामनाः +नले तु समतिक्रान्ते कलिरप्यगमद्गृहान् +ततो गतज्वरो राजा नलोऽभूत्पृथिवीपते +विमुक्तः कलिना राजन्रूपमात्रवियोजितः +बृहदश्व उवाच +ततो विदर्भान्संप्राप्तं सायाह्ने सत्यविक्रमम् +ऋतुपर्णं जना राज्ञे भीमाय प्रत्यवेदयन् +स भीमवचनाद्राजा कुण्डिनं प्राविशत्पुरम् +नादयन्रथघोषेण सर्वाः सोपदिशो दश +ततस्तं रथनिर्घोषं नलाश्वास्तत्र शुश्रुवुः +श्रुत्वा च समहृष्यन्त पुरेव नलसंनिधौ +दमयन्ती च शुश्राव रथघोषं नलस्य तम् +यथा मेघस्य नदतो गम्भीरं जलदागमे +नलेन संगृहीतेषु पुरेव नलवाजिषु +सदृशं रथनिर्घोषं मेने भैमी तथा हयाः +प्रासादस्थाश्च शिखिनः शालास्थाश्चैव वारणाः +हयाश्च शुश्रुवुस्तत्र रथघोषं महीपतेः +ते श्रुत्वा रथनिर्घोषं वारणाः शिखिनस्तथा +प्रणेदुरुन्मुखा राजन्मेघोदयमिवेक्ष्य ह +दमयन्त्युवाच +यथासौ रथनिर्घोषः पूरयन्निव मेदिनीम् +मम ह्लादयते चेतो नल एष महीपतिः +अद्य चन्द्राभवक्त्रं तं न पश्यामि नलं यदि +असंख्येयगुणं वीरं विनशिष्याम्यसंशयम् +यदि वै तस्य वीरस्य बाह्वोर्नाद्याहमन्तरम् +प्रविशामि सुखस्पर्शं विनशिष्याम्यसंशयम् +यदि मां मेघनिर्घोषो नोपगच्छति नैषधः +अद्य चामीकरप्रख्यो विनशिष्याम्यसंशयम् +यदि मां सिंहविक्रान्तो मत्तवारणवारणः +नाभिगच्छति राजेन्द्रो विनशिष्याम्यसंशयम् +न स्मराम्यनृतं किंचिन्न स्मराम्यनुपाकृतम् +न च पर्युषितं वाक्यं स्वैरेष्वपि महात्मनः +प्रभुः क्षमावान्वीरश्च मृदुर्दान्तो जितेन्द्रियः +रहोऽनीचानुवर्ती च क्लीबवन्मम नैषधः +गुणांस्तस्य स्मरन्त्या मे तत्पराया दिवानिशम् +हृदयं दीर्यत इदं शोकात्प्रियविनाकृतम् +बृहदश्व उवाच +एवं विलपमाना सा नष्टसंज्ञेव भारत +आरुरोह महद्वेश्म पुण्यश्लोकदिदृक्षया +ततो मध्यमकक्षायां ददर्श रथमास्थितम् +ऋतुपर्णं महीपालं सहवार्ष्णेयबाहुकम् +ततोऽवतीर्य वार्ष्णेयो बाहुकश्च रथोत्तमात् +हयांस्तानवमुच्याथ स्थापयामासतू रथम् +सोऽवतीर्य रथोपस्थादृतुपर्णो नराधिपः +उपतस्थे महाराज भीमं भीमपराक्रमम् +तं भीमः प्रतिजग्राह पूजया परया ततः +अकस्मात्सहसा प्राप्तं स्त्रीमन्त्रं न स्म विन्दति +किं कार्यं स्वागतं तेऽस्तु राज्ञा पृष्टश्च भारत +नाभिजज्ञे स नृपतिर्दुहित्रर्थे समागतम् +ऋतुपर्णोऽपि राजा स धीमान्सत्यपराक्रमः +राजानं राजपुत्रं वा न स्म पश्यति कंचन +नैव स्वयंवरकथां न च विप्रसमागमम् +ततो विगणयन्राजा मनसा कोसलाधिपः +आगतोऽस्मीत्युवाचैनं भवन्तमभिवादकः +राजापि च स्मयन्भीमो मनसाभिविचिन्तयत् +अधिकं योजनशतं तस्यागमनकारणम् +ग्रामान्बहूनतिक्रम्य नाध्यगच्छद्यथातथम् +अल्पकार्यं विनिर्दिष्टं तस्यागमनकारणम् +नैतदेवं स नृपतिस्तं सत्कृत्य व्यसर्जयत् +विश्राम्यतामिति वदन्क्लान्तोऽसीति पुनः पुनः +स सत्कृतः प्रहृष्टात्मा प्रीतः प्रीतेन पार्थिवः +राजप्रेष्यैरनुगतो दिष्टं वेश्म समाविशत् +ऋतुपर्णे गते राजन्वार्ष्णेयसहिते नृपे +बाहुको रथमास्थाय रथशालामुपागमत् +स मोचयित्वा तानश्वान्परिचार्य च शास्त्रतः +स्वयं चैतान्समाश्वास्य रथोपस्थ उपाविशत् +दमयन्ती तु शोकार्ता दृष्ट्वा भाङ्गस्वरिं नृपम् +सूतपुत्रं च वार्ष्णेयं बाहुकं च तथाविधम् +चिन्तयामास वैदर्भी कस्यैष रथनिस्वनः +नलस्येव महानासीन्न च पश्यामि नैषधम् +वार्ष्णेयेन भवेन्नूनं विद्या सैवोपशिक्षिता +तेनास्य रथनिर्घोषो नलस्येव महानभूत् +आहोस्विदृतुपर्णोऽपि यथा राजा नलस्तथा +ततोऽयं रथनिर्घोषो नैषधस्येव लक्ष्यते +एवं वितर्कयित्वा तु दमयन्ती विशां पते +दूतीं प्रस्थापयामास नैषधान्वेषणे नृप +दमयन्त्युवाच +गच्छ केशिनि जानीहि क एष रथवाहकः +उपविष्टो रथोपस्थे विकृतो ह्रस्वबाहुकः +अभ्येत्य कुशलं भद्रे मृदुपूर्वं समाहिता +पृच्छेथाः पुरुषं ह्येनं यथातत्त्वमनिन्दिते +अत्र मे महती शङ्का भवेदेष नलो नृपः +तथा च मे मनस्तुष्टिर्हृदयस्य च निर्वृतिः +ब्रूयाश्चैनं कथान्ते त्वं पर्णादवचनं यथा +प्रतिवाक्यं च सुश्रोणि बुध्येथास्त्वमनिन्द��ते +बृहदश्व उवाच +एवं समाहिता गत्वा दूती बाहुकमब्रवीत् +दमयन्त्यपि कल्याणी प्रासादस्थान्ववैक्षत +केशिन्युवाच +स्वागतं ते मनुष्येन्द्र कुशलं ते ब्रवीम्यहम् +दमयन्त्या वचः साधु निबोध पुरुषर्षभ +कदा वै प्रस्थिता यूयं किमर्थमिह चागताः +तत्त्वं ब्रूहि यथान्यायं वैदर्भी श्रोतुमिच्छति +बाहुक उवाच +श्रुतः स्वयंवरो राज्ञा कौसल्येन यशस्विना +द्वितीयो दमयन्त्या वै श्वोभूत इति भामिनि +श्रुत्वा तं प्रस्थितो राजा शतयोजनयायिभिः +हयैर्वातजवैर्मुख्यैरहमस्य च सारथिः +केशिन्युवाच +अथ योऽसौ तृतीयो वः स कुतः कस्य वा पुनः +त्वं च कस्य कथं चेदं त्वयि कर्म समाहितम् +बाहुक उवाच +पुण्यश्लोकस्य वै सूतो वार्ष्णेय इति विश्रुतः +स नले विद्रुते भद्रे भाङ्गस्वरिमुपस्थितः +अहमप्यश्वकुशलः सूदत्वे च सुनिष्ठितः +ऋतुपर्णेन सारथ्ये भोजने च वृतः स्वयम् +केशिन्युवाच +अथ जानाति वार्ष्णेयः क्व नु राजा नलो गतः +कथंचित्त्वयि वैतेन कथितं स्यात्तु बाहुक +बाहुक उवाच +इहैव पुत्रौ निक्षिप्य नलस्याशुभकर्मणः +गतस्ततो यथाकामं नैष जानाति नैषधम् +न चान्यः पुरुषः कश्चिन्नलं वेत्ति यशस्विनि +गूढश्चरति लोकेऽस्मिन्नष्टरूपो महीपतिः +आत्मैव हि नलं वेत्ति या चास्य तदनन्तरा +न हि वै तानि लिङ्गानि नलं शंसन्ति कर्हिचित् +केशिन्युवाच +योऽसावयोध्यां प्रथमं गतवान्ब्राह्मणस्तदा +इमानि नारीवाक्यानि कथयानः पुनः पुनः +क्व नु त्वं कितव छित्त्वा वस्त्रार्धं प्रस्थितो मम +उत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय +सा वै यथा समादिष्टा तत्रास्ते त्वत्प्रतीक्षिणी +दह्यमाना दिवारात्रं वस्त्रार्धेनाभिसंवृता +तस्या रुदन्त्याः सततं तेन दुःखेन पार्थिव +प्रसादं कुरु वै वीर प्रतिवाक्यं प्रयच्छ च +तस्यास्तत्प्रियमाख्यानं प्रब्रवीहि महामते +तदेव वाक्यं वैदर्भी श्रोतुमिच्छत्यनिन्दिता +एतच्छ्रुत्वा प्रतिवचस्तस्य दत्तं त्वया किल +यत्पुरा तत्पुनस्त्वत्तो वैदर्भी श्रोतुमिच्छति +बृहदश्व उवाच +एवमुक्तस्य केशिन्या नलस्य कुरुनन्दन +हृदयं व्यथितं चासीदश्रुपूर्णे च लोचने +स निगृह्यात्मनो दुःखं दह्यमानो महीपतिः +बाष्पसंदिग्धया वाचा पुनरेवेदमब्रवीत् +वैषम्यमपि संप्राप्ता गोपायन्ति कुलस्त्रियः +आत्मानमात्मना सत्यो जितस्वर्गा न संशयः +रहिता भ��्तृभिश्चैव न क्रुध्यन्ति कदाचन +प्राणांश्चारित्रकवचा धारयन्तीह सत्स्त्रियः +प्राणयात्रां परिप्रेप्सोः शकुनैर्हृतवाससः +आधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति +सत्कृतासत्कृता वापि पतिं दृष्ट्वा तथागतम् +भ्रष्टराज्यं श्रिया हीनं क्षुधितं व्यसनाप्लुतम् +एवं ब्रुवाणस्तद्वाक्यं नलः परमदुःखितः +न बाष्पमशकत्सोढुं प्ररुरोद च भारत +ततः सा केशिनी गत्वा दमयन्त्यै न्यवेदयत् +तत्सर्वं कथितं चैव विकारं चैव तस्य तम् +बृहदश्व उवाच +दमयन्ती तु तच्छ्रुत्वा भृशं शोकपरायणा +शङ्कमाना नलं तं वै केशिनीमिदमब्रवीत् +गच्छ केशिनि भूयस्त्वं परीक्षां कुरु बाहुके +अब्रुवाणा समीपस्था चरितान्यस्य लक्षय +यदा च किंचित्कुर्यात्स कारणं तत्र भामिनि +तत्र संचेष्टमानस्य संलक्ष्यं ते विचेष्टितम् +न चास्य प्रतिबन्धेन देयोऽग्निरपि भामिनि +याचते न जलं देयं सम्यगत्वरमाणया +एतत्सर्वं समीक्ष्य त्वं चरितं मे निवेदय +यच्चान्यदपि पश्येथास्तच्चाख्येयं त्वया मम +दमयन्त्यैवमुक्ता सा जगामाथाशु केशिनी +निशाम्य च हयज्ञस्य लिङ्गानि पुनरागमत् +सा तत्सर्वं यथावृत्तं दमयन्त्यै न्यवेदयत् +निमित्तं यत्तदा दृष्टं बाहुके दिव्यमानुषम् +केशिन्युवाच +दृढं शुच्युपचारोऽसौ न मया मानुषः क्वचित् +दृष्टपूर्वः श्रुतो वापि दमयन्ति तथाविधः +ह्रस्वमासाद्य संचारं नासौ विनमते क्वचित् +तं तु दृष्ट्वा यथासङ्गमुत्सर्पति यथासुखम् +संकटेऽप्यस्य सुमहद्विवरं जायतेऽधिकम् +ऋतुपर्णस्य चार्थाय भोजनीयमनेकशः +प्रेषितं तत्र राज्ञा च मांसं सुबहु पाशवम् +तस्य प्रक्षालनार्थाय कुम्भस्तत्रोपकल्पितः +स तेनावेक्षितः कुम्भः पूर्ण एवाभवत्तदा +ततः प्रक्षालनं कृत्वा समधिश्रित्य बाहुकः +तृणमुष्टिं समादाय आविध्यैनं समादधत् +अथ प्रज्वलितस्तत्र सहसा हव्यवाहनः +तदद्भुततमं दृष्ट्वा विस्मिताहमिहागता +अन्यच्च तस्मिन्सुमहदाश्चर्यं लक्षितं मया +यदग्निमपि संस्पृश्य नैव दह्यत्यसौ शुभे +छन्देन चोदकं तस्य वहत्यावर्जितं द्रुतम् +अतीव चान्यत्सुमहदाश्चर्यं दृष्टवत्यहम् +यत्स पुष्पाण्युपादाय हस्ताभ्यां ममृदे शनैः +मृद्यमानानि पाणिभ्यां तेन पुष्पाणि तान्यथ +भूय एव सुगन्धीनि हृषितानि भवन्ति च +एतान्यद्भुतकल्पानि दृष्ट्वाहं द्रुतमागता +बृहदश्व उवाच +दम��न्ती तु तच्छ्रुत्वा पुण्यश्लोकस्य चेष्टितम् +अमन्यत नलं प्राप्तं कर्मचेष्टाभिसूचितम् +सा शङ्कमाना भर्तारं नलं बाहुकरूपिणम् +केशिनीं श्लक्ष्णया वाचा रुदती पुनरब्रवीत् +पुनर्गच्छ प्रमत्तस्य बाहुकस्योपसंस्कृतम् +महानसाच्छृतं मांसं समादायैहि भामिनि +सा गत्वा बाहुके व्यग्रे तन्मांसमपकृष्य च +अत्युष्णमेव त्वरिता तत्क्षणं प्रियकारिणी +दमयन्त्यै ततः प्रादात्केशिनी कुरुनन्दन +सोचिता नलसिद्धस्य मांसस्य बहुशः पुरा +प्राश्य मत्वा नलं सूदं प्राक्रोशद्भृशदुःखिता +वैक्लव्यं च परं गत्वा प्रक्षाल्य च मुखं ततः +मिथुनं प्रेषयामास केशिन्या सह भारत +इन्द्रसेनां सह भ्रात्रा समभिज्ञाय बाहुकः +अभिद्रुत्य ततो राजा परिष्वज्याङ्कमानयत् +बाहुकस्तु समासाद्य सुतौ सुरसुतोपमौ +भृशं दुःखपरीतात्मा सस्वरं प्ररुरोद ह +नैषधो दर्शयित्वा तु विकारमसकृत्तदा +उत्सृज्य सहसा पुत्रौ केशिनीमिदमब्रवीत् +इदं सुसदृशं भद्रे मिथुनं मम पुत्रयोः +ततो दृष्ट्वैव सहसा बाष्पमुत्सृष्टवानहम् +बहुशः संपतन्तीं त्वां जनः शङ्केत दोषतः +वयं च देशातिथयो गच्छ भद्रे नमोऽस्तु ते +बृहदश्व उवाच +सर्वं विकारं दृष्ट्वा तु पुण्यश्लोकस्य धीमतः +आगत्य केशिनी क्षिप्रं दमयन्त्यै न्यवेदयत् +दमयन्ती ततो भूयः प्रेषयामास केशिनीम् +मातुः सकाशं दुःखार्ता नलशङ्कासमुत्सुका +परीक्षितो मे बहुशो बाहुको नलशङ्कया +रूपे मे संशयस्त्वेकः स्वयमिच्छामि वेदितुम् +स वा प्रवेश्यतां मातर्मां वानुज्ञातुमर्हसि +विदितं वाथ वाज्ञातं पितुर्मे संविधीयताम् +एवमुक्ता तु वैदर्भ्या सा देवी भीममब्रवीत् +दुहितुस्तमभिप्रायमन्वजानाच्च पार्थिवः +सा वै पित्राभ्यनुज्ञाता मात्रा च भरतर्षभ +नलं प्रवेशयामास यत्र तस्याः प्रतिश्रयः +तं तु दृष्ट्वा तथायुक्तं दमयन्ती नलं तदा +तीव्रशोकसमाविष्टा बभूव वरवर्णिनी +ततः काषायवसना जटिला मलपङ्किनी +दमयन्ती महाराज बाहुकं वाक्यमब्रवीत् +दृष्टपूर्वस्त्वया कश्चिद्धर्मज्ञो नाम बाहुक +सुप्तामुत्सृज्य विपिने गतो यः पुरुषः स्त्रियम् +अनागसं प्रियां भार्यां विजने श्रममोहिताम् +अपहाय तु को गच्छेत्पुण्यश्लोकमृते नलम् +किं नु तस्य मया कार्यमपराद्धं महीपतेः +यो मामुत्सृज्य विपिने गतवान्निद्रया हृताम् +साक्षाद्देवानपाहाय वृतो यः स मय��� पुरा +अनुव्रतां साभिकामां पुत्रिणीं त्यक्तवान्कथम् +अग्नौ पाणिगृहीतां च हंसानां वचने स्थिताम् +भरिष्यामीति सत्यं च प्रतिश्रुत्य क्व तद्गतम् +दमयन्त्या ब्रुवन्त्यास्तु सर्वमेतदरिंदम +शोकजं वारि नेत्राभ्यामसुखं प्रास्रवद्बहु +अतीव कृष्णताराभ्यां रक्तान्ताभ्यां जलं तु तत् +परिस्रवन्नलो दृष्ट्वा शोकार्त इदमब्रवीत् +मम राज्यं प्रनष्टं यन्नाहं तत्कृतवान्स्वयम् +कलिना तत्कृतं भीरु यच्च त्वामहमत्यजम् +त्वया तु धर्मभृच्छ्रेष्ठे शापेनाभिहतः पुरा +वनस्थया दुःखितया शोचन्त्या मां विवाससम् +स मच्छरीरे त्वच्छापाद्दह्यमानोऽवसत्कलिः +त्वच्छापदग्धः सततं सोऽग्नाविव समाहितः +मम च व्यवसायेन तपसा चैव निर्जितः +दुःखस्यान्तेन चानेन भवितव्यं हि नौ शुभे +विमुच्य मां गतः पापः स ततोऽहमिहागतः +त्वदर्थं विपुलश्रोणि न हि मेऽन्यत्प्रयोजनम् +कथं नु नारी भर्तारमनुरक्तमनुव्रतम् +उत्सृज्य वरयेदन्यं यथा त्वं भीरु कर्हिचित् +दूताश्चरन्ति पृथिवीं कृत्स्नां नृपतिशासनात् +भैमी किल स्म भर्तारं द्वितीयं वरयिष्यति +स्वैरवृत्ता यथाकाममनुरूपमिवात्मनः +श्रुत्वैव चैवं त्वरितो भाङ्गस्वरिरुपस्थितः +दमयन्ती तु तच्छ्रुत्वा नलस्य परिदेवितम् +प्राञ्जलिर्वेपमाना च भीता वचनमब्रवीत् +दमयन्त्युवाच +न मामर्हसि कल्याण पापेन परिशङ्कितुम् +मया हि देवानुत्सृज्य वृतस्त्वं निषधाधिप +तवाभिगमनार्थं तु सर्वतो ब्राह्मणा गताः +वाक्यानि मम गाथाभिर्गायमाना दिशो दश +ततस्त्वां ब्राह्मणो विद्वान्पर्णादो नाम पार्थिव +अभ्यगच्छत्कोसलायामृतुपर्णनिवेशने +तेन वाक्ये हृते सम्यक्प्रतिवाक्ये तथाहृते +उपायोऽयं मया दृष्टो नैषधानयने तव +त्वामृते न हि लोकेऽन्य एकाह्ना पृथिवीपते +समर्थो योजनशतं गन्तुमश्वैर्नराधिप +तथा चेमौ महीपाल भजेऽहं चरणौ तव +यथा नासत्कृतं किंचिन्मनसापि चराम्यहम् +अयं चरति लोकेऽस्मिन्भूतसाक्षी सदागतिः +एष मुञ्चतु मे प्राणान्यदि पापं चराम्यहम् +तथा चरति तिग्मांशुः परेण भुवनं सदा +स विमुञ्चतु मे प्राणान्यदि पापं चराम्यहम् +चन्द्रमाः सर्वभूतानामन्तश्चरति साक्षिवत् +स विमुञ्चतु मे प्राणान्यदि पापं चराम्यहम् +एते देवास्त्रयः कृत्स्नं त्रैलोक्यं धारयन्ति वै +विब्रुवन्तु यथासत्यमेते वाद्य त्यजन्तु माम् +एवमुक्ते ततो वायुरन्तरिक्षादभाषत +नैषा कृतवती पापं नल सत्यं ब्रवीमि ते +राजञ्शीलनिधिः स्फीतो दमयन्त्या सुरक्षितः +साक्षिणो रक्षिणश्चास्या वयं त्रीन्परिवत्सरान् +उपायो विहितश्चायं त्वदर्थमतुलोऽनया +न ह्येकाह्ना शतं गन्ता त्वदृतेऽन्यः पुमानिह +उपपन्ना त्वया भैमी त्वं च भैम्या महीपते +नात्र शङ्का त्वया कार्या संगच्छ सह भार्यया +तथा ब्रुवति वायौ तु पुष्पवृष्टिः पपात ह +देवदुन्दुभयो नेदुर्ववौ च पवनः शिवः +तदद्भुततमं दृष्ट्वा नलो राजाथ भारत +दमयन्त्यां विशङ्कां तां व्यपाकर्षदरिंदमः +ततस्तद्वस्त्रमरजः प्रावृणोद्वसुधाधिपः +संस्मृत्य नागराजानं ततो लेभे वपुः स्वकम् +स्वरूपिणं तु भर्तारं दृष्ट्वा भीमसुता तदा +प्राक्रोशदुच्चैरालिङ्ग्य पुण्यश्लोकमनिन्दिता +भैमीमपि नलो राजा भ्राजमानो यथा पुरा +सस्वजे स्वसुतौ चापि यथावत्प्रत्यनन्दत +ततः स्वोरसि विन्यस्य वक्त्रं तस्य शुभानना +परीता तेन दुःखेन निशश्वासायतेक्षणा +तथैव मलदिग्धाङ्गी परिष्वज्य शुचिस्मिता +सुचिरं पुरुषव्याघ्रं तस्थौ साश्रुपरिप्लुता +ततः सर्वं यथावृत्तं दमयन्त्या नलस्य च +भीमायाकथयत्प्रीत्या वैदर्भ्या जननी नृप +ततोऽब्रवीन्महाराजः कृतशौचमहं नलम् +दमयन्त्या सहोपेतं काल्यं द्रष्टा सुखोषितम् +ततस्तौ सहितौ रात्रिं कथयन्तौ पुरातनम् +वने विचरितं सर्वमूषतुर्मुदितौ नृप +स चतुर्थे ततो वर्षे संगम्य सह भार्यया +सर्वकामैः सुसिद्धार्थो लब्धवान्परमां मुदम् +दमयन्त्यपि भर्तारमवाप्याप्यायिता भृशम् +अर्धसंजातसस्येव तोयं प्राप्य वसुंधरा +सैवं समेत्य व्यपनीततन्द्री; शान्तज्वरा हर्षविवृद्धसत्त्वा +रराज भैमी समवाप्तकामा; शीतांशुना रात्रिरिवोदितेन +बृहदश्व उवाच +अथ तां व्युषितो रात्रिं नलो राजा स्वलंकृतः +वैदर्भ्या सहितः काल्यं ददर्श वसुधाधिपम् +ततोऽभिवादयामास प्रयतः श्वशुरं नलः +तस्यानु दमयन्ती च ववन्दे पितरं शुभा +तं भीमः प्रतिजग्राह पुत्रवत्परया मुदा +यथार्हं पूजयित्वा तु समाश्वासयत प्रभुः +नलेन सहितां तत्र दमयन्तीं पतिव्रताम् +तामर्हणां नलो राजा प्रतिगृह्य यथाविधि +परिचर्यां स्वकां तस्मै यथावत्प्रत्यवेदयत् +ततो बभूव नगरे सुमहान्हर्षनिस्वनः +जनस्य संप्रहृष्टस्य नलं दृष्ट्वा तथागतम् +अशोभयच्च नगरं पताकाध्वजमालिनम् +सिक्तसंमृष्टपुष्पाढ्या राजमार्गाः कृतास्तदा +द्वारि द्वारि च पौराणां पुष्पभङ्गः प्रकल्पितः +अर्चितानि च सर्वाणि देवतायतनानि च +ऋतुपर्णोऽपि शुश्राव बाहुकच्छद्मिनं नलम् +दमयन्त्या समायुक्तं जहृषे च नराधिपः +तमानाय्य नलो राजा क्षमयामास पार्थिवम् +स च तं क्षमयामास हेतुभिर्बुद्धिसंमतः +स सत्कृतो महीपालो नैषधं विस्मयान्वितः +दिष्ट्या समेतो दारैः स्वैर्भवानित्यभ्यनन्दत +कच्चित्तु नापराधं ते कृतवानस्मि नैषध +अज्ञातवासं वसतो मद्गृहे निषधाधिप +यदि वा बुद्धिपूर्वाणि यद्यबुद्धानि कानिचित् +मया कृतान्यकार्याणि तानि मे क्षन्तुमर्हसि +नल उवाच +न मेऽपराधं कृतवांस्त्वं स्वल्पमपि पार्थिव +कृतेऽपि च न मे कोपः क्षन्तव्यं हि मया तव +पूर्वं ह्यसि सखा मेऽसि संबन्धी च नराधिप +अत ऊर्ध्वं तु भूयस्त्वं प्रीतिमाहर्तुमर्हसि +सर्वकामैः सुविहितः सुखमस्म्युषितस्त्वयि +न तथा स्वगृहे राजन्यथा तव गृहे सदा +इदं चैव हयज्ञानं त्वदीयं मयि तिष्ठति +तदुपाकर्तुमिच्छामि मन्यसे यदि पार्थिव +बृहदश्व उवाच +एवमुक्त्वा ददौ विद्यामृतुपर्णाय नैषधः +स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा +ततो गृह्याश्वहृदयं तदा भाङ्गस्वरिर्नृपः +सूतमन्यमुपादाय ययौ स्वपुरमेव हि +ऋतुपर्णे प्रतिगते नलो राजा विशां पते +नगरे कुण्डिने कालं नातिदीर्घमिवावसत् +बृहदश्व उवाच +स मासमुष्य कौन्तेय भीममामन्त्र्य नैषधः +पुरादल्पपरीवारो जगाम निषधान्प्रति +रथेनैकेन शुभ्रेण दन्तिभिः परिषोडशैः +पञ्चाशद्भिर्हयैश्चैव षट्शतैश्च पदातिभिः +स कम्पयन्निव महीं त्वरमाणो महीपतिः +प्रविवेशातिसंरब्धस्तरसैव महामनाः +ततः पुष्करमासाद्य वीरसेनसुतो नलः +उवाच दीव्याव पुनर्बहु वित्तं मयार्जितम् +दमयन्ती च यच्चान्यन्मया वसु समर्जितम् +एष वै मम संन्यासस्तव राज्यं तु पुष्कर +पुनः प्रवर्ततां द्यूतमिति मे निश्चिता मतिः +एकपाणेन भद्रं ते प्राणयोश्च पणावहे +जित्वा परस्वमाहृत्य राज्यं वा यदि वा वसु +प्रतिपाणः प्रदातव्यः परं हि धनमुच्यते +न चेद्वाञ्छसि तद्द्यूतं युद्धद्यूतं प्रवर्तताम् +द्वैरथेनास्तु वै शान्तिस्तव वा मम वा नृप +वंशभोज्यमिदं राज्यं मार्गितव्यं यथा तथा +येन तेनाप्युपायेन वृद्धानामिति शासनम् +द्वयोरेकतरे बुद्धिः क्रियतामद्य पुष्कर +कैतवेनाक्षवत्यां व��� युद्धे वा नम्यतां धनुः +नैषधेनैवमुक्तस्तु पुष्करः प्रहसन्निव +ध्रुवमात्मजयं मत्वा प्रत्याह पृथिवीपतिम् +दिष्ट्या त्वयार्जितं वित्तं प्रतिपाणाय नैषध +दिष्ट्या च दुष्कृतं कर्म दमयन्त्याः क्षयं गतम् +दिष्ट्या च ध्रियसे राजन्सदारोऽरिनिबर्हण +धनेनानेन वैदर्भी जितेन समलंकृता +मामुपस्थास्यति व्यक्तं दिवि शक्रमिवाप्सराः +नित्यशो हि स्मरामि त्वां प्रतीक्षामि च नैषध +देवने च मम प्रीतिर्न भवत्यसुहृद्गणैः +जित्वा त्वद्य वरारोहां दमयन्तीमनिन्दिताम् +कृतकृत्यो भविष्यामि सा हि मे नित्यशो हृदि +श्रुत्वा तु तस्य ता वाचो बह्वबद्धप्रलापिनः +इयेष स शिरश्छेत्तुं खड्गेन कुपितो नलः +स्मयंस्तु रोषताम्राक्षस्तमुवाच ततो नृपः +पणावः किं व्याहरसे जित्वा वै व्याहरिष्यसि +ततः प्रावर्तत द्यूतं पुष्करस्य नलस्य च +एकपाणेन भद्रं ते नलेन स पराजितः +सरत्नकोशनिचयः प्राणेन पणितोऽपि च +जित्वा च पुष्करं राजा प्रहसन्निदमब्रवीत् +मम सर्वमिदं राज्यमव्यग्रं हतकण्टकम् +वैदर्भी न त्वया शक्या राजापसद वीक्षितुम् +तस्यास्त्वं सपरीवारो मूढ दासत्वमागतः +न तत्त्वया कृतं कर्म येनाहं निर्जितः पुरा +कलिना तत्कृतं कर्म त्वं तु मूढ न बुध्यसे +नाहं परकृतं दोषं त्वय्याधास्ये कथंचन +यथासुखं त्वं जीवस्व प्राणानभ्युत्सृजामि ते +तथैव च मम प्रीतिस्त्वयि वीर न संशयः +सौभ्रात्रं चैव मे त्वत्तो न कदाचित्प्रहास्यति +पुष्कर त्वं हि मे भ्राता संजीवस्व शतं समाः +एवं नलः सान्त्वयित्वा भ्रातरं सत्यविक्रमः +स्वपुरं प्रेषयामास परिष्वज्य पुनः पुनः +सान्त्वितो नैषधेनैवं पुष्करः प्रत्युवाच तम् +पुण्यश्लोकं तदा राजन्नभिवाद्य कृताञ्जलिः +कीर्तिरस्तु तवाक्षय्या जीव वर्षायुतं सुखी +यो मे वितरसि प्राणानधिष्ठानं च पार्थिव +स तथा सत्कृतो राज्ञा मासमुष्य तदा नृपः +प्रययौ स्वपुरं हृष्टः पुष्करः स्वजनावृतः +महत्या सेनया राजन्विनीतैः परिचारकैः +भ्राजमान इवादित्यो वपुषा पुरुषर्षभ +प्रस्थाप्य पुष्करं राजा वित्तवन्तमनामयम् +प्रविवेश पुरं श्रीमानत्यर्थमुपशोभितम् +प्रविश्य सान्त्वयामास पौरांश्च निषधाधिपः +बृहदश्व उवाच +प्रशान्ते तु पुरे हृष्टे संप्रवृत्ते महोत्सवे +महत्या सेनया राजा दमयन्तीमुपानयत् +दमयन्तीमपि पिता सत्कृत्य परवीरहा +प्रस्थापयदमेयात्मा भीमो भीमपराक्रमः +आगतायां तु वैदर्भ्यां सपुत्रायां नलो नृपः +वर्तयामास मुदितो देवराडिव नन्दने +तथा प्रकाशतां यातो जम्बूद्वीपेऽथ राजसु +पुनः स्वे चावसद्राज्ये प्रत्याहृत्य महायशाः +ईजे च विविधैर्यज्ञैर्विधिवत्स्वाप्तदक्षिणैः +तथा त्वमपि राजेन्द्र ससुहृद्वक्ष्यसेऽचिरात् +दुःखमेतादृशं प्राप्तो नलः परपुरंजयः +देवनेन नरश्रेष्ठ सभार्यो भरतर्षभ +एकाकिनैव सुमहन्नलेन पृथिवीपते +दुःखमासादितं घोरं प्राप्तश्चाभ्युदयः पुनः +त्वं पुनर्भ्रातृसहितः कृष्णया चैव पाण्डव +रमसेऽस्मिन्महारण्ये धर्ममेवानुचिन्तयन् +ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः +नित्यमन्वास्यसे राजंस्तत्र का परिदेवना +इतिहासमिमं चापि कलिनाशनमुच्यते +शक्यमाश्वासितुं श्रुत्वा त्वद्विधेन विशां पते +अस्थिरत्वं च संचिन्त्य पुरुषार्थस्य नित्यदा +तस्याये च व्यये चैव समाश्वसिहि मा शुचः +ये चेदं कथयिष्यन्ति नलस्य चरितं महत् +श्रोष्यन्ति चाप्यभीक्ष्णं वै नालक्ष्मीस्तान्भजिष्यति +अर्थास्तस्योपपत्स्यन्ते धन्यतां च गमिष्यति +इतिहासमिमं श्रुत्वा पुराणं शश्वदुत्तमम् +पुत्रान्पौत्रान्पशूंश्चैव वेत्स्यते नृषु चाग्र्यताम् +अरोगः प्रीतिमांश्चैव भविष्यति न संशयः +भयं पश्यसि यच्च त्वमाह्वयिष्यति मां पुनः +अक्षज्ञ इति तत्तेऽहं नाशयिष्यामि पार्थिव +वेदाक्षहृदयं कृत्स्नमहं सत्यपराक्रम +उपपद्यस्व कौन्तेय प्रसन्नोऽहं ब्रवीमि ते +वैशंपायन उवाच +ततो हृष्टमना राजा बृहदश्वमुवाच ह +भगवन्नक्षहृदयं ज्ञातुमिच्छामि तत्त्वतः +ततोऽक्षहृदयं प्रादात्पाण्डवाय महात्मने +दत्त्वा चाश्वशिरोऽगच्छदुपस्प्रष्टुं महातपाः +बृहदश्वे गते पार्थमश्रौषीत्सव्यसाचिनम् +वर्तमानं तपस्युग्रे वायुभक्षं मनीषिणम् +ब्राह्मणेभ्यस्तपस्विभ्यः संपतद्भ्यस्ततस्ततः +तीर्थशैलवरेभ्यश्च समेतेभ्यो दृढव्रतः +इति पार्थो महाबाहुर्दुरापं तप आस्थितः +न तथा दृष्टपूर्वोऽन्यः कश्चिदुग्रतपा इति +यथा धनंजयः पार्थस्तपस्वी नियतव्रतः +मुनिरेकचरः श्रीमान्धर्मो विग्रहवानिव +तं श्रुत्वा पाण्डवो राजंस्तप्यमानं महावने +अन्वशोचत कौन्तेयः प्रियं वै भ्रातरं जयम् +दह्यमानेन तु हृदा शरणार्थी महावने +ब्राह्मणान्विविधज्ञानान्पर्यपृच्छद्युधिष्ठिरः +जनमेजय उवाच +भगवन्काम्यकात्पार्थे गते मे प्रपितामहे +पाण्डवाः किमकुर्वन्त तमृते सव्यसाचिनम् +स हि तेषां महेष्वासो गतिरासीदनीकजित् +आदित्यानां यथा विष्णुस्तथैव प्रतिभाति मे +तेनेन्द्रसमवीर्येण संग्रामेष्वनिवर्तिना +विनाभूता वने वीराः कथमासन्पितामहाः +वैशंपायन उवाच +गते तु काम्यकात्तात पाण्डवे सव्यसाचिनि +बभूवुः कौरवेयास्ते दुःखशोकपरायणाः +आक्षिप्तसूत्रा मणयश्छिन्नपक्षा इव द्विजाः +अप्रीतमनसः सर्वे बभूवुरथ पाण्डवाः +वनं च तदभूत्तेन हीनमक्लिष्टकर्मणा +कुबेरेण यथा हीनं वनं चैत्ररथं तथा +तमृते पुरुषव्याघ्रं पाण्डवा जनमेजय +मुदमप्राप्नुवन्तो वै काम्यके न्यवसंस्तदा +ब्राह्मणार्थे पराक्रान्ताः शुद्धैर्बाणैर्महारथाः +निघ्नन्तो भरतश्रेष्ठ मेध्यान्बहुविधान्मृगान् +नित्यं हि पुरुषव्याघ्रा वन्याहारमरिंदमाः +विप्रसृत्य समाहृत्य ब्राह्मणेभ्यो न्यवेदयन् +एवं ते न्यवसंस्तत्र सोत्कण्ठाः पुरुषर्षभाः +अहृष्टमनसः सर्वे गते राजन्धनंजये +अथ विप्रोषितं वीरं पाञ्चाली मध्यमं पतिम् +स्मरन्ती पाण्डवश्रेष्ठमिदं वचनमब्रवीत् +योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना +तमृते पाण्डवश्रेष्ठं वनं न प्रतिभाति मे +शून्यामिव च पश्यामि तत्र तत्र महीमिमाम् +बह्वाश्चर्यमिदं चापि वनं कुसुमितद्रुमम् +न तथा रमणीयं मे तमृते सव्यसाचिनम् +नीलाम्बुदसमप्रख्यं मत्तमातङ्गविक्रमम् +तमृते पुण्डरीकाक्षं काम्यकं नातिभाति मे +यस्य स्म धनुषो घोषः श्रूयतेऽशनिनिस्वनः +न लभे शर्म तं राजन्स्मरन्ती सव्यसाचिनम् +तथा लालप्यमानां तां निशम्य परवीरहा +भीमसेनो महाराज द्रौपदीमिदमब्रवीत् +मनःप्रीतिकरं भद्रे यद्ब्रवीषि सुमध्यमे +तन्मे प्रीणाति हृदयममृतप्राशनोपमम् +यस्य दीर्घौ समौ पीनौ भुजौ परिघसंनिभौ +मौर्वीकृतकिणौ वृत्तौ खड्गायुधगदाधरौ +निष्काङ्गदकृतापीडौ पञ्चशीर्षाविवोरगौ +तमृते पुरुषव्याघ्रं नष्टसूर्यमिदं वनम् +यमाश्रित्य महाबाहुं पाञ्चालाः कुरवस्तथा +सुराणामपि यत्तानां पृतनासु न बिभ्यति +यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः +मन्यामहे जितानाजौ परान्प्राप्तां च मेदिनीम् +तमृते फल्गुनं वीरं न लभे काम्यके धृतिम् +शून्यामिव च पश्यामि तत्र तत्र महीमिमाम् +नकुल उवाच +य उदीचीं दिशं गत्वा जित्वा युधि महाबलान् +गन्धर्वमुख्याञ्शतशो हयाँल्लेभे स वासविः +राजंस्तित्तिरिकल्माषाञ्श्रीमाननिलरंहसः +प्रादाद्भ्रात्रे प्रियः प्रेम्णा राजसूये महाक्रतौ +तमृते भीमधन्वानं भीमादवरजं वने +कामये काम्यके वासं नेदानीममरोपमम् +सहदेव उवाच +यो धनानि च कन्याश्च युधि जित्वा महारथान् +आजहार पुरा राज्ञे राजसूये महाक्रतौ +यः समेतान्मृधे जित्वा यादवानमितद्युतिः +सुभद्रामाजहारैको वासुदेवस्य संमते +तस्य जिष्णोर्बृसीं दृष्ट्वा शून्यामुपनिवेशने +हृदयं मे महाराज न शाम्यति कदाचन +वनादस्माद्विवासं तु रोचयेऽहमरिंदम +न हि नस्तमृते वीरं रमणीयमिदं वनम् +वैशंपायन उवाच +धनंजयोत्सुकास्ते तु वने तस्मिन्महारथाः +न्यवसन्त महाभागा द्रौपद्या सह पाण्डवाः +अथापश्यन्महात्मानं देवर्षिं तत्र नारदम् +दीप्यमानं श्रिया ब्राह्म्या दीप्ताग्निसमतेजसम् +स तैः परिवृतः श्रीमान्भ्रातृभिः कुरुसत्तमः +विबभावतिदीप्तौजा देवैरिव शतक्रतुः +यथा च वेदान्सावित्री याज्ञसेनी तथा सती +न जहौ धर्मतः पार्थान्मेरुमर्कप्रभा यथा +प्रतिगृह्य तु तां पूजां नारदो भगवानृषिः +आश्वासयद्धर्मसुतं युक्तरूपमिवानघ +उवाच च महात्मानं धर्मराजं युधिष्ठिरम् +ब्रूहि धर्मभृतां श्रेष्ठ केनार्थः किं ददामि ते +अथ धर्मसुतो राजा प्रणम्य भ्रातृभिः सह +उवाच प्राञ्जलिर्वाक्यं नारदं देवसंमितम् +त्वयि तुष्टे महाभाग सर्वलोकाभिपूजिते +कृतमित्येव मन्येऽहं प्रसादात्तव सुव्रत +यदि त्वहमनुग्राह्यो भ्रातृभिः सहितोऽनघ +संदेहं मे मुनिश्रेष्ठ हृदिस्थं छेत्तुमर्हसि +प्रदक्षिणं यः कुरुते पृथिवीं तीर्थतत्परः +किं फलं तस्य कार्त्स्न्येन तद्ब्रह्मन्वक्तुमर्हसि +नारद उवाच +शृणु राजन्नवहितो यथा भीष्मेण भारत +पुलस्त्यस्य सकाशाद्वै सर्वमेतदुपश्रुतम् +पुरा भागीरथीतीरे भीष्मो धर्मभृतां वरः +पित्र्यं व्रतं समास्थाय न्यवसन्मुनिवत्तदा +शुभे देशे महाराज पुण्ये देवर्षिसेविते +गङ्गाद्वारे महातेजा देवगन्धर्वसेविते +स पितॄंस्तर्पयामास देवांश्च परमद्युतिः +ऋषींश्च तोषयामास विधिदृष्टेन कर्मणा +कस्यचित्त्वथ कालस्य जपन्नेव महातपाः +ददर्शाद्भुतसंकाशं पुलस्त्यमृषिसत्तमम् +स तं दृष्ट्वोग्रतपसं दीप्यमानमिव श्रिया +प्रहर्षमतुलं लेभे विस्मयं च परं ययौ +उपस्थितं महाराज पू���यामास भारत +भीष्मो धर्मभृतां श्रेष्ठो विधिदृष्टेन कर्मणा +शिरसा चार्घ्यमादाय शुचिः प्रयतमानसः +नाम संकीर्तयामास तस्मिन्ब्रह्मर्षिसत्तमे +भीष्मोऽहमस्मि भद्रं ते दासोऽस्मि तव सुव्रत +तव संदर्शनादेव मुक्तोऽहं सर्वकिल्बिषैः +एवमुक्त्वा महाराज भीष्मो धर्मभृतां वरः +वाग्यतः प्राञ्जलिर्भूत्वा तूष्णीमासीद्युधिष्ठिर +तं दृष्ट्वा नियमेनाथ स्वाध्यायाम्नायकर्शितम् +भीष्मं कुरुकुलश्रेष्ठं मुनिः प्रीतमनाभवत् +पुलस्त्य उवाच +अनेन तव धर्मज्ञ प्रश्रयेण दमेन च +सत्येन च महाभाग तुष्टोऽस्मि तव सर्वशः +यस्येदृशस्ते धर्मोऽयं पितृभक्त्याश्रितोऽनघ +तेन पश्यसि मां पुत्र प्रीतिश्चापि मम त्वयि +अमोघदर्शी भीष्माहं ब्रूहि किं करवाणि ते +यद्वक्ष्यसि कुरुश्रेष्ठ तस्य दातास्मि तेऽनघ +भीष्म उवाच +प्रीते त्वयि महाभाग सर्वलोकाभिपूजिते +कृतमित्येव मन्येऽहं यदहं दृष्टवान्प्रभुम् +यदि त्वहमनुग्राह्यस्तव धर्मभृतां वर +वक्ष्यामि हृत्स्थं संदेहं तन्मे त्वं वक्तुमर्हसि +अस्ति मे भगवन्कश्चित्तीर्थेभ्यो धर्मसंशयः +तमहं श्रोतुमिच्छामि पृथक्संकीर्तितं त्वया +प्रदक्षिणं यः पृथिवीं करोत्यमितविक्रम +किं फलं तस्य विप्रर्षे तन्मे ब्रूहि तपोधन +पुलस्त्य उवाच +हन्त तेऽहं प्रवक्ष्यामि यदृषीणां परायणम् +तदेकाग्रमनास्तात शृणु तीर्थेषु यत्फलम् +यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् +विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते +प्रतिग्रहादुपावृत्तः संतुष्टो नियतः शुचिः +अहंकारनिवृत्तश्च स तीर्थफलमश्नुते +अकल्कको निरारम्भो लघ्वाहारो जितेन्द्रियः +विमुक्तः सर्वदोषैर्यः स तीर्थफलमश्नुते +अक्रोधनश्च राजेन्द्र सत्यशीलो दृढव्रतः +आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते +ऋषिभिः क्रतवः प्रोक्ता वेदेष्विह यथाक्रमम् +फलं चैव यथातत्त्वं प्रेत्य चेह च सर्वशः +न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपते +बहूपकरणा यज्ञा नानासंभारविस्तराः +प्राप्यन्ते पार्थिवैरेते समृद्धैर्वा नरैः क्वचित् +नार्थन्यूनोपकरणैरेकात्मभिरसंहतैः +यो दरिद्रैरपि विधिः शक्यः प्राप्तुं नरेश्वर +तुल्यो यज्ञफलैः पुण्यैस्तं निबोध युधां वर +ऋषीणां परमं गुह्यमिदं भरतसत्तम +तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते +अनुपोष्य त्रिरात्राणि तीर्थान्य��भिगम्य च +अदत्त्वा काञ्चनं गाश्च दरिद्रो नाम जायते +अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः +न तत्फलमवाप्नोति तीर्थाभिगमनेन यत् +नृलोके देवदेवस्य तीर्थं त्रैलोक्यविश्रुतम् +पुष्करं नाम विख्यातं महाभागः समाविशेत् +दश कोटिसहस्राणि तीर्थानां वै महीपते +सांनिध्यं पुष्करे येषां त्रिसंध्यं कुरुनन्दन +आदित्या वसवो रुद्राः साध्याश्च समरुद्गणाः +गन्धर्वाप्सरसश्चैव नित्यं संनिहिता विभो +यत्र देवास्तपस्तप्त्वा दैत्या ब्रह्मर्षयस्तथा +दिव्ययोगा महाराज पुण्येन महतान्विताः +मनसाप्यभिकामस्य पुष्कराणि मनस्विनः +पूयन्ते सर्वपापानि नाकपृष्ठे च पूज्यते +तस्मिंस्तीर्थे महाभाग नित्यमेव पितामहः +उवास परमप्रीतो देवदानवसंमतः +पुष्करेषु महाभाग देवाः सर्षिपुरोगमाः +सिद्धिं समभिसंप्राप्ताः पुण्येन महतान्विताः +तत्राभिषेकं यः कुर्यात्पितृदेवार्चने रतः +अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः +अप्येकं भोजयेद्विप्रं पुष्करारण्यमाश्रितः +तेनासौ कर्मणा भीष्म प्रेत्य चेह च मोदते +शाकमूलफलैर्वापि येन वर्तयते स्वयम् +तद्वै दद्याद्ब्राह्मणाय श्रद्धावाननसूयकः +तेनैव प्राप्नुयात्प्राज्ञो हयमेधफलं नरः +ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा राजसत्तम +न वियोनिं व्रजन्त्येते स्नातास्तीर्थे महात्मनः +कार्त्तिक्यां तु विशेषेण योऽभिगच्छेत पुष्करम् +फलं तत्राक्षयं तस्य वर्धते भरतर्षभ +सायं प्रातः स्मरेद्यस्तु पुष्कराणि कृताञ्जलिः +उपस्पृष्टं भवेत्तेन सर्वतीर्थेषु भारत +प्राप्नुयाच्च नरो लोकान्ब्रह्मणः सदनेऽक्षयान् +जन्मप्रभृति यत्पापं स्त्रियो वा पुरुषस्य वा +पुष्करे स्नातमात्रस्य सर्वमेव प्रणश्यति +यथा सुराणां सर्वेषामादिस्तु मधुसूदनः +तथैव पुष्करं राजंस्तीर्थानामादिरुच्यते +उष्य द्वादश वर्षाणि पुष्करे नियतः शुचिः +क्रतून्सर्वानवाप्नोति ब्रह्मलोकं च गच्छति +यस्तु वर्षशतं पूर्णमग्निहोत्रमुपासते +कार्त्तिकीं वा वसेदेकां पुष्करे सममेव तत् +दुष्करं पुष्करं गन्तुं दुष्करं पुष्करे तपः +दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करम् +उष्य द्वादशरात्रं तु नियतो नियताशनः +प्रदक्षिणमुपावृत्तो जम्बूमार्गं समाविशेत् +जम्बूमार्गं समाविश्य देवर्षिपितृसेवितम् +अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति +तत्रोष्य रजनीः पञ्च षष्ठकालक्षमी नरः +न दुर्गतिमवाप्नोति सिद्धिं प्राप्नोति चोत्तमाम् +जम्बूमार्गादुपावृत्तो गच्छेत्तण्डुलिकाश्रमम् +न दुर्गतिमवाप्नोति स्वर्गलोके च पूज्यते +अगस्त्यसर आसाद्य पितृदेवार्चने रतः +त्रिरात्रोपोषितो राजन्नग्निष्टोमफलं लभेत् +शाकवृत्तिः फलैर्वापि कौमारं विन्दते पदम् +कण्वाश्रमं समासाद्य श्रीजुष्टं लोकपूजितम् +धर्मारण्यं हि तत्पुण्यमाद्यं च भरतर्षभ +यत्र प्रविष्टमात्रो वै पापेभ्यो विप्रमुच्यते +अर्चयित्वा पितॄन्देवान्नियतो नियताशनः +सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते +प्रदक्षिणं ततः कृत्वा ययातिपतनं व्रजेत् +हयमेधस्य यज्ञस्य फलं प्राप्नोति तत्र वै +महाकालं ततो गच्छेन्नियतो नियताशनः +कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत् +ततो गच्छेत धर्मज्ञ पुण्यस्थानमुमापतेः +नाम्ना भद्रवटं नाम त्रिषु लोकेषु विश्रुतम् +तत्राभिगम्य चेशानं गोसहस्रफलं लभेत् +महादेवप्रसादाच्च गाणपत्यमवाप्नुयात् +नर्मदामथ चासाद्य नदीं त्रैलोक्यविश्रुताम् +तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत् +दक्षिणं सिन्धुमासाद्य ब्रह्मचारी जितेन्द्रियः +अग्निष्टोममवाप्नोति विमानं चाधिरोहति +चर्मण्वतीं समासाद्य नियतो नियताशनः +रन्तिदेवाभ्यनुज्ञातो अग्निष्टोमफलं लभेत् +ततो गच्छेत धर्मज्ञ हिमवत्सुतमर्बुदम् +पृथिव्यां यत्र वै छिद्रं पूर्वमासीद्युधिष्ठिर +तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः +तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् +पिङ्गातीर्थमुपस्पृश्य ब्रह्मचारी जितेन्द्रियः +कपिलानां नरव्याघ्र शतस्य फलमश्नुते +ततो गच्छेत धर्मज्ञ प्रभासं लोकविश्रुतम् +यत्र संनिहितो नित्यं स्वयमेव हुताशनः +देवतानां मुखं वीर अनलोऽनिलसारथिः +तस्मिंस्तीर्थवरे स्नात्वा शुचिः प्रयतमानसः +अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः +ततो गत्वा सरस्वत्याः सागरस्य च संगमे +गोसहस्रफलं प्राप्य स्वर्गलोके महीयते +दीप्यमानोऽग्निवन्नित्यं प्रभया भरतर्षभ +त्रिरात्रमुषितस्तत्र तर्पयेत्पितृदेवताः +प्रभासते यथा सोमो अश्वमेधं च विन्दति +वरदानं ततो गच्छेत्तीर्थं भरतसत्तम +विष्णोर्दुर्वाससा यत्र वरो दत्तो युधिष्ठिर +वरदाने नरः स्नात्वा गोसहस्रफलं लभेत् +ततो द्वारवती�� गच्छेन्नियतो नियताशनः +पिण्डारके नरः स्नात्वा लभेद्बहु सुवर्णकम् +तस्मिंस्तीर्थे महाभाग पद्मलक्षणलक्षिताः +अद्यापि मुद्रा दृश्यन्ते तदद्भुतमरिंदम +त्रिशूलाङ्कानि पद्मानि दृश्यन्ते कुरुनन्दन +महादेवस्य सांनिध्यं तत्रैव भरतर्षभ +सागरस्य च सिन्धोश्च संगमं प्राप्य भारत +तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः +तर्पयित्वा पितॄन्देवानृषींश्च भरतर्षभ +प्राप्नोति वारुणं लोकं दीप्यमानः स्वतेजसा +शङ्कुकर्णेश्वरं देवमर्चयित्वा युधिष्ठिर +अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः +प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ +तीर्थं कुरुवरश्रेष्ठ त्रिषु लोकेषु विश्रुतम् +दृमीति नाम्ना विख्यातं सर्वपापप्रमोचनम् +यत्र ब्रह्मादयो देवा उपासन्ते महेश्वरम् +तत्र स्नात्वार्चयित्वा च रुद्रं देवगणैर्वृतम् +जन्मप्रभृति पापानि कृतानि नुदते नरः +दृमी चात्र नरश्रेष्ठ सर्वदेवैरभिष्टुता +तत्र स्नात्वा नरव्याघ्र हयमेधमवाप्नुयात् +जित्वा यत्र महाप्राज्ञ विष्णुना प्रभविष्णुना +पुरा शौचं कृतं राजन्हत्वा दैवतकण्टकान् +ततो गच्छेत धर्मज्ञ वसोर्धारामभिष्टुताम् +गमनादेव तस्यां हि हयमेधमवाप्नुयात् +स्नात्वा कुरुवरश्रेष्ठ प्रयतात्मा तु मानवः +तर्प्य देवान्पितॄंश्चैव विष्णुलोके महीयते +तीर्थं चात्र परं पुण्यं वसूनां भरतर्षभ +तत्र स्नात्वा च पीत्वा च वसूनां संमतो भवेत् +सिन्धूत्तममिति ख्यातं सर्वपापप्रणाशनम् +तत्र स्नात्वा नरश्रेष्ठ लभेद्बहु सुवर्णकम् +ब्रह्मतुङ्गं समासाद्य शुचिः प्रयतमानसः +ब्रह्मलोकमवाप्नोति सुकृती विरजा नरः +कुमारिकाणां शक्रस्य तीर्थं सिद्धनिषेवितम् +तत्र स्नात्वा नरः क्षिप्रं शक्रलोकमवाप्नुयात् +रेणुकायाश्च तत्रैव तीर्थं देवनिषेवितम् +तत्र स्नात्वा भवेद्विप्रो विमलश्चन्द्रमा यथा +अथ पञ्चनदं गत्वा नियतो नियताशनः +पञ्च यज्ञानवाप्नोति क्रमशो येऽनुकीर्तिताः +ततो गच्छेत धर्मज्ञ भीमायाः स्थानमुत्तमम् +तत्र स्नात्वा तु योन्यां वै नरो भरतसत्तम +देव्याः पुत्रो भवेद्राजंस्तप्तकुण्डलविग्रहः +गवां शतसहस्रस्य फलं चैवाप्नुयान्महत् +गिरिमुञ्जं समासाद्य त्रिषु लोकेषु विश्रुतम् +पितामहं नमस्कृत्य गोसहस्रफलं लभेत् +ततो गच्छेत धर्मज्ञ विमलं तीर्थमुत्तमम् +अद्यापि यत्र दृश्यन्ते मत्��्याः सौवर्णराजताः +तत्र स्नात्वा नरश्रेष्ठ वाजपेयमवाप्नुयात् +सर्वपापविशुद्धात्मा गच्छेच्च परमां गतिम् +ततो गच्छेत मलदां त्रिषु लोकेषु विश्रुताम् +पश्चिमायां तु संध्यायामुपस्पृश्य यथाविधि +चरुं नरेन्द्र सप्तार्चेर्यथाशक्ति निवेदयेत् +पितॄणामक्षयं दानं प्रवदन्ति मनीषिणः +गवां शतसहस्रेण राजसूयशतेन च +अश्वमेधसहस्रेण श्रेयान्सप्तार्चिषश्चरुः +ततो निवृत्तो राजेन्द्र वस्त्रापदमथाविशेत् +अभिगम्य महादेवमश्वमेधफलं लभेत् +मणिमन्तं समासाद्य ब्रह्मचारी समाहितः +एकरात्रोषितो राजन्नग्निष्टोमफलं लभेत् +अथ गच्छेत राजेन्द्र देविकां लोकविश्रुताम् +प्रसूतिर्यत्र विप्राणां श्रूयते भरतर्षभ +त्रिशूलपाणेः स्थानं च त्रिषु लोकेषु विश्रुतम् +देविकायां नरः स्नात्वा समभ्यर्च्य महेश्वरम् +यथाशक्ति चरुं तत्र निवेद्य भरतर्षभ +सर्वकामसमृद्धस्य यज्ञस्य लभते फलम् +कामाख्यं तत्र रुद्रस्य तीर्थं देवर्षिसेवितम् +तत्र स्नात्वा नरः क्षिप्रं सिद्धिमाप्नोति भारत +यजनं याजनं गत्वा तथैव ब्रह्मवालुकाम् +पुष्पन्यास उपस्पृश्य न शोचेन्मरणं ततः +अर्धयोजनविस्तारां पञ्चयोजनमायताम् +एतावद्देविकामाहुः पुण्यां देवर्षिसेविताम् +ततो गच्छेत धर्मज्ञ दीर्घसत्रं यथाक्रमम् +यत्र ब्रह्मादयो देवाः सिद्धाश्च परमर्षयः +दीर्घसत्रमुपासन्ते दक्षिणाभिर्यतव्रताः +गमनादेव राजेन्द्र दीर्घसत्रमरिंदम +राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः +ततो विनशनं गच्छेन्नियतो नियताशनः +गच्छत्यन्तर्हिता यत्र मरुपृष्ठे सरस्वती +चमसे च शिवोद्भेदे नागोद्भेदे च दृश्यते +स्नात्वा च चमसोद्भेदे अग्निष्टोमफलं लभेत् +शिवोद्भेदे नरः स्नात्वा गोसहस्रफलं लभेत् +नागोद्भेदे नरः स्नात्वा नागलोकमवाप्नुयात् +शशयानं च राजेन्द्र तीर्थमासाद्य दुर्लभम् +शशरूपप्रतिच्छन्नाः पुष्करा यत्र भारत +सरस्वत्यां महाराज अनु संवत्सरं हि ते +स्नायन्ते भरतश्रेष्ठ वृत्तां वै कार्त्तिकीं सदा +तत्र स्नात्वा नरव्याघ्र द्योतते शशिवत्सदा +गोसहस्रफलं चैव प्राप्नुयाद्भरतर्षभ +कुमारकोटिमासाद्य नियतः कुरुनन्दन +तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः +गवामयमवाप्नोति कुलं चैव समुद्धरेत् +ततो गच्छेत धर्मज्ञ रुद्रकोटिं समाहितः +पुरा यत्र महाराज ऋषिकोटिः स���ाहिता +प्रहर्षेण च संविष्टा देवदर्शनकाङ्क्षया +अहं पूर्वमहं पूर्वं द्रक्ष्यामि वृषभध्वजम् +एवं संप्रस्थिता राजन्नृषयः किल भारत +ततो योगेश्वरेणापि योगमास्थाय भूपते +तेषां मन्युप्रणाशार्थमृषीणां भावितात्मनाम् +सृष्टा कोटिस्तु रुद्राणामृषीणामग्रतः स्थिता +मया पूर्वतरं दृष्ट इति ते मेनिरे पृथक् +तेषां तुष्टो महादेव ऋषीणामुग्रतेजसाम् +भक्त्या परमया राजन्वरं तेषां प्रदिष्टवान् +अद्य प्रभृति युष्माकं धर्मवृद्धिर्भविष्यति +तत्र स्नात्वा नरव्याघ्र रुद्रकोट्यां नरः शुचिः +अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् +ततो गच्छेत राजेन्द्र संगमं लोकविश्रुतम् +सरस्वत्या महापुण्यमुपासन्ते जनार्दनम् +यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः +अभिगच्छन्ति राजेन्द्र चैत्रशुक्लचतुर्दशीम् +तत्र स्नात्वा नरव्याघ्र विन्देद्बहु सुवर्णकम् +सर्वपापविशुद्धात्मा ब्रह्मलोकं च गच्छति +ऋषीणां यत्र सत्राणि समाप्तानि नराधिप +सत्रावसानमासाद्य गोसहस्रफलं लभेत् +पुलस्त्य उवाच +ततो गच्छेत राजेन्द्र कुरुक्षेत्रमभिष्टुतम् +पापेभ्यो विप्रमुच्यन्ते तद्गताः सर्वजन्तवः +कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् +य एवं सततं ब्रूयात्सोऽपि पापैः प्रमुच्यते +तत्र मासं वसेद्वीर सरस्वत्यां युधिष्ठिर +यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः +गन्धर्वाप्सरसो यक्षाः पन्नगाश्च महीपते +ब्रह्मक्षेत्रं महापुण्यमभिगच्छन्ति भारत +मनसाप्यभिकामस्य कुरुक्षेत्रं युधिष्ठिर +पापानि विप्रणश्यन्ति ब्रह्मलोकं च गच्छति +गत्वा हि श्रद्धया युक्तः कुरुक्षेत्रं कुरूद्वह +राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः +ततो मचक्रुकं राजन्द्वारपालं महाबलम् +यक्षं समभिवाद्यैव गोसहस्रफलं लभेत् +ततो गच्छेत धर्मज्ञ विष्णोः स्थानमनुत्तमम् +सततं नाम राजेन्द्र यत्र संनिहितो हरिः +तत्र स्नात्वार्चयित्वा च त्रिलोकप्रभवं हरिम् +अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति +ततः पारिप्लवं गच्छेत्तीर्थं त्रैलोक्यविश्रुतम् +अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः +पृथिव्यास्तीर्थमासाद्य गोसहस्रफलं लभेत् +ततः शालूकिनीं गत्वा तीर्थसेवी नराधिप +दशाश्वमेधिके स्नात्वा तदेव लभते फलम् +सर्पदर्वीं समासाद्य नागानां तीर्थमुत्तमम् +अग्��िष्टोममवाप्नोति नागलोकं च विन्दति +ततो गच्छेत धर्मज्ञ द्वारपालं तरन्तुकम् +तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् +ततः पञ्चनदं गत्वा नियतो नियताशनः +कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत् +अश्विनोस्तीर्थमासाद्य रूपवानभिजायते +ततो गच्छेत धर्मज्ञ वाराहं तीर्थमुत्तमम् +विष्णुर्वाराहरूपेण पूर्वं यत्र स्थितोऽभवत् +तत्र स्नात्वा नरव्याघ्र अग्निष्टोमफलं लभेत् +ततो जयन्त्या राजेन्द्र सोमतीर्थं समाविशेत् +स्नात्वा फलमवाप्नोति राजसूयस्य मानवः +एकहंसे नरः स्नात्वा गोसहस्रफलं लभेत् +कृतशौचं समासाद्य तीर्थसेवी कुरूद्वह +पुण्डरीकमवाप्नोति कृतशौचो भवेन्नरः +ततो मुञ्जवटं नाम महादेवस्य धीमतः +तत्रोष्य रजनीमेकां गाणपत्यमवाप्नुयात् +तत्रैव च महाराज यक्षी लोकपरिश्रुता +तां चाभिगम्य राजेन्द्र पुण्याँल्लोकानवाप्नुयात् +कुरुक्षेत्रस्य तद्द्वारं विश्रुतं भरतर्षभ +प्रदक्षिणमुपावृत्य तीर्थसेवी समाहितः +संमिते पुष्कराणां च स्नात्वार्च्य पितृदेवताः +जामदग्न्येन रामेण आहृते वै महात्मना +कृतकृत्यो भवेद्राजन्नश्वमेधं च विन्दति +ततो रामह्रदान्गच्छेत्तीर्थसेवी नराधिप +यत्र रामेण राजेन्द्र तरसा दीप्ततेजसा +क्षत्रमुत्साद्य वीर्येण ह्रदाः पञ्च निवेशिताः +पूरयित्वा नरव्याघ्र रुधिरेणेति नः श्रुतम् +पितरस्तर्पिताः सर्वे तथैव च पितामहाः +ततस्ते पितरः प्रीता राममूचुर्महीपते +राम राम महाभाग प्रीताः स्म तव भार्गव +अनया पितृभक्त्या च विक्रमेण च ते विभो +वरं वृणीष्व भद्रं ते किमिच्छसि महाद्युते +एवमुक्तः स राजेन्द्र रामः प्रहरतां वरः +अब्रवीत्प्राञ्जलिर्वाक्यं पितॄन्स गगने स्थितान् +भवन्तो यदि मे प्रीता यद्यनुग्राह्यता मयि +पितृप्रसादादिच्छेयं तपसाप्यायनं पुनः +यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया +ततश्च पापान्मुच्येयं युष्माकं तेजसा ह्यहम् +ह्रदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः +एतच्छ्रुत्वा शुभं वाक्यं रामस्य पितरस्तदा +प्रत्यूचुः परमप्रीता रामं हर्षसमन्विताः +तपस्ते वर्धतां भूयः पितृभक्त्या विशेषतः +यच्च रोषाभिभूतेन क्षत्रमुत्सादितं त्वया +ततश्च पापान्मुक्तस्त्वं कर्मभिस्ते च पातिताः +ह्रदाश्च तव तीर्थत्वं गमिष्यन्ति न संशयः +ह्रदेष्वेतेषु यः स्नात्वा पितॄन्संतर्पयिष्यति +पितरस्तस्य वै प्रीता दास्यन्ति भुवि दुर्लभम् +ईप्सितं मनसः कामं स्वर्गलोकं च शाश्वतम् +एवं दत्त्वा वरान्राजन्रामस्य पितरस्तदा +आमन्त्र्य भार्गवं प्रीतास्तत्रैवान्तर्दधुस्तदा +एवं रामह्रदाः पुण्या भार्गवस्य महात्मनः +स्नात्वा ह्रदेषु रामस्य ब्रह्मचारी शुभव्रतः +राममभ्यर्च्य राजेन्द्र लभेद्बहु सुवर्णकम् +वंशमूलकमासाद्य तीर्थसेवी कुरूद्वह +स्ववंशमुद्धरेद्राजन्स्नात्वा वै वंशमूलके +कायशोधनमासाद्य तीर्थं भरतसत्तम +शरीरशुद्धिः स्नातस्य तस्मिंस्तीर्थे न संशयः +शुद्धदेहश्च संयाति शुभाँल्लोकाननुत्तमान् +ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् +लोका यत्रोद्धृताः पूर्वं विष्णुना प्रभविष्णुना +लोकोद्धारं समासाद्य तीर्थं त्रैलोक्यविश्रुतम् +स्नात्वा तीर्थवरे राजँल्लोकानुद्धरते स्वकान् +श्रीतीर्थं च समासाद्य विन्दते श्रियमुत्तमाम् +कपिलातीर्थमासाद्य ब्रह्मचारी समाहितः +तत्र स्नात्वार्चयित्वा च दैवतानि पितॄंस्तथा +कपिलानां सहस्रस्य फलं विन्दति मानवः +सूर्यतीर्थं समासाद्य स्नात्वा नियतमानसः +अर्चयित्वा पितॄन्देवानुपवासपरायणः +अग्निष्टोममवाप्नोति सूर्यलोकं च गच्छति +गवांभवनमासाद्य तीर्थसेवी यथाक्रमम् +तत्राभिषेकं कुर्वाणो गोसहस्रफलं लभेत् +शङ्खिनीं तत्र आसाद्य तीर्थसेवी कुरूद्वह +देव्यास्तीर्थे नरः स्नात्वा लभते रूपमुत्तमम् +ततो गच्छेत राजेन्द्र द्वारपालमरन्तुकम् +तस्य तीर्थं सरस्वत्यां यक्षेन्द्रस्य महात्मनः +तत्र स्नात्वा नरो राजन्नग्निष्टोमफलं लभेत् +ततो गच्छेत धर्मज्ञ ब्रह्मावर्तं नराधिप +ब्रह्मावर्ते नरः स्नात्वा ब्रह्मलोकमवाप्नुयात् +ततो गच्छेत धर्मज्ञ सुतीर्थकमनुत्तमम् +यत्र संनिहिता नित्यं पितरो दैवतैः सह +तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः +अश्वमेधमवाप्नोति पितृलोकं च गच्छति +ततोऽम्बुवश्यं धर्मज्ञ समासाद्य यथाक्रमम् +कोशेश्वरस्य तीर्थेषु स्नात्वा भरतसत्तम +सर्वव्याधिविनिर्मुक्तो ब्रह्मलोके महीयते +मातृतीर्थं च तत्रैव यत्र स्नातस्य भारत +प्रजा विवर्धते राजन्ननन्तां चाश्नुते श्रियम् +ततः शीतवनं गच्छेन्नियतो नियताशनः +तीर्थं तत्र महाराज महदन्यत्र दुर्लभम् +पुनाति दर्शनादेव दण्डेनैकं नराधिप +केशानभ्युक्ष्य वै तस्मिन्��ूतो भवति भारत +तीर्थं तत्र महाराज श्वानलोमापहं स्मृतम् +यत्र विप्रा नरव्याघ्र विद्वांसस्तीर्थतत्पराः +श्वानलोमापनयने तीर्थे भरतसत्तम +प्राणायामैर्निर्हरन्ति श्वलोमानि द्विजोत्तमाः +पूतात्मानश्च राजेन्द्र प्रयान्ति परमां गतिम् +दशाश्वमेधिकं चैव तस्मिंस्तीर्थे महीपते +तत्र स्नात्वा नरव्याघ्र गच्छेत परमां गतिम् +ततो गच्छेत राजेन्द्र मानुषं लोकविश्रुतम् +यत्र कृष्णमृगा राजन्व्याधेन परिपीडिताः +अवगाह्य तस्मिन्सरसि मानुषत्वमुपागताः +तस्मिंस्तीर्थे नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः +सर्वपापविशुद्धात्मा स्वर्गलोके महीयते +मानुषस्य तु पूर्वेण क्रोशमात्रे महीपते +आपगा नाम विख्याता नदी सिद्धनिषेविता +श्यामाकभोजनं तत्र यः प्रयच्छति मानवः +देवान्पितॄंश्च उद्दिश्य तस्य धर्मफलं महत् +एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता +तत्र स्नात्वार्चयित्वा च दैवतानि पितॄंस्तथा +उषित्वा रजनीमेकामग्निष्टोमफलं लभेत् +ततो गच्छेत राजेन्द्र ब्रह्मणः स्थानमुत्तमम् +ब्रह्मोदुम्बरमित्येव प्रकाशं भुवि भारत +तत्र सप्तर्षिकुण्डेषु स्नातस्य कुरुपुंगव +केदारे चैव राजेन्द्र कपिष्ठलमहात्मनः +ब्रह्माणमभिगम्याथ शुचिः प्रयतमानसः +सर्वपापविशुद्धात्मा ब्रह्मलोकं प्रपद्यते +कपिष्ठलस्य केदारं समासाद्य सुदुर्लभम् +अन्तर्धानमवाप्नोति तपसा दग्धकिल्बिषः +ततो गच्छेत राजेन्द्र सरकं लोकविश्रुतम् +कृष्णपक्षे चतुर्दश्यामभिगम्य वृषध्वजम् +लभते सर्वकामान्हि स्वर्गलोकं च गच्छति +तिस्रः कोट्यस्तु तीर्थानां सरके कुरुनन्दन +रुद्रकोटिस्तथा कूपे ह्रदेषु च महीपते +इलास्पदं च तत्रैव तीर्थं भरतसत्तम +तत्र स्नात्वार्चयित्वा च पितॄन्देवांश्च भारत +न दुर्गतिमवाप्नोति वाजपेयं च विन्दति +किंदाने च नरः स्नात्वा किंजप्ये च महीपते +अप्रमेयमवाप्नोति दानं जप्यं च भारत +कलश्यां चाप्युपस्पृश्य श्रद्दधानो जितेन्द्रियः +अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः +सरकस्य तु पूर्वेण नारदस्य महात्मनः +तीर्थं कुरुवरश्रेष्ठ अनाजन्मेति विश्रुतम् +तत्र तीर्थे नरः स्नात्वा प्राणांश्चोत्सृज्य भारत +नारदेनाभ्यनुज्ञातो लोकान्प्राप्नोति दुर्लभान् +शुक्लपक्षे दशम्यां तु पुण्डरीकं समाविशेत् +तत्र स्नात्वा नरो राजन��पुण्डरीकफलं लभेत् +ततस्त्रिविष्टपं गच्छेत्त्रिषु लोकेषु विश्रुतम् +तत्र वैतरणी पुण्या नदी पापप्रमोचनी +तत्र स्नात्वार्चयित्वा च शूलपाणिं वृषध्वजम् +सर्वपापविशुद्धात्मा गच्छेत परमां गतिम् +ततो गच्छेत राजेन्द्र फलकीवनमुत्तमम् +यत्र देवाः सदा राजन्फलकीवनमाश्रिताः +तपश्चरन्ति विपुलं बहुवर्षसहस्रकम् +दृषद्वत्यां नरः स्नात्वा तर्पयित्वा च देवताः +अग्निष्टोमातिरात्राभ्यां फलं विन्दति भारत +तीर्थे च सर्वदेवानां स्नात्वा भरतसत्तम +गोसहस्रस्य राजेन्द्र फलं प्राप्नोति मानवः +पाणिखाते नरः स्नात्वा तर्पयित्वा च देवताः +राजसूयमवाप्नोति ऋषिलोकं च गच्छति +ततो गच्छेत राजेन्द्र मिश्रकं तीर्थमुत्तमम् +तत्र तीर्थानि राजेन्द्र मिश्रितानि महात्मना +व्यासेन नृपशार्दूल द्विजार्थमिति नः श्रुतम् +सर्वतीर्थेषु स स्नाति मिश्रके स्नाति यो नरः +ततो व्यासवनं गच्छेन्नियतो नियताशनः +मनोजवे नरः स्नात्वा गोसहस्रफलं लभेत् +गत्वा मधुवटीं चापि देव्यास्तीर्थं नरः शुचिः +तत्र स्नात्वार्चयेद्देवान्पितॄंश्च प्रयतः शुचिः +स देव्या समनुज्ञातो गोसहस्रफलं लभेत् +कौशिक्याः संगमे यस्तु दृषद्वत्याश्च भारत +स्नाति वै नियताहारः सर्वपापैः प्रमुच्यते +ततो व्यासस्थली नाम यत्र व्यासेन धीमता +पुत्रशोकाभितप्तेन देहत्यागार्थनिश्चयः +कृतो देवैश्च राजेन्द्र पुनरुत्थापितस्तदा +अभिगम्य स्थलीं तस्य गोसहस्रफलं लभेत् +किंदत्तं कूपमासाद्य तिलप्रस्थं प्रदाय च +गच्छेत परमां सिद्धिमृणैर्मुक्तः कुरूद्वह +अहश्च सुदिनं चैव द्वे तीर्थे च सुदुर्लभे +तयोः स्नात्वा नरव्याघ्र सूर्यलोकमवाप्नुयात् +मृगधूमं ततो गच्छेत्त्रिषु लोकेषु विश्रुतम् +तत्र गङ्गाह्रदे स्नात्वा समभ्यर्च्य च मानवः +शूलपाणिं महादेवमश्वमेधफलं लभेत् +देवतीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् +अथ वामनकं गच्छेत्त्रिषु लोकेषु विश्रुतम् +तत्र विष्णुपदे स्नात्वा अर्चयित्वा च वामनम् +सर्वपापविशुद्धात्मा विष्णुलोकमवाप्नुयात् +कुलंपुने नरः स्नात्वा पुनाति स्वकुलं नरः +पवनस्य ह्रदं गत्वा मरुतां तीर्थमुत्तमम् +तत्र स्नात्वा नरव्याघ्र वायुलोके महीयते +अमराणां ह्रदे स्नात्वा अमरेषु नराधिप +अमराणां प्रभावेन स्वर्गलोके महीयते +शालिहोत्रस्य राजेन्द्र शालिशूर���पे यथाविधि +स्नात्वा नरवरश्रेष्ठ गोसहस्रफलं लभेत् +श्रीकुञ्जं च सरस्वत्यां तीर्थं भरतसत्तम +तत्र स्नात्वा नरो राजन्नग्निष्टोमफलं लभेत् +ततो नैमिषकुञ्जं च समासाद्य कुरूद्वह +ऋषयः किल राजेन्द्र नैमिषेयास्तपोधनाः +तीर्थयात्रां पुरस्कृत्य कुरुक्षेत्रं गताः पुरा +ततः कुञ्जः सरस्वत्यां कृतो भरतसत्तम +ऋषीणामवकाशः स्याद्यथा तुष्टिकरो महान् +तस्मिन्कुञ्जे नरः स्नात्वा गोसहस्रफलं लभेत् +कन्यातीर्थे नरः स्नात्वा अग्निष्टोमफलं लभेत् +ततो गच्छेन्नरव्याघ्र ब्रह्मणः स्थानमुत्तमम् +तत्र वर्णावरः स्नात्वा ब्राह्मण्यं लभते नरः +ब्राह्मणश्च विशुद्धात्मा गच्छेत परमां गतिम् +ततो गच्छेन्नरश्रेष्ठ सोमतीर्थमनुत्तमम् +तत्र स्नात्वा नरो राजन्सोमलोकमवाप्नुयात् +सप्तसारस्वतं तीर्थं ततो गच्छेन्नराधिप +यत्र मङ्कणकः सिद्धो महर्षिर्लोकविश्रुतः +पुरा मङ्कणको राजन्कुशाग्रेणेति नः श्रुतम् +क्षतः किल करे राजंस्तस्य शाकरसोऽस्रवत् +स वै शाकरसं दृष्ट्वा हर्षाविष्टो महातपाः +प्रनृत्तः किल विप्रर्षिर्विस्मयोत्फुल्ललोचनः +ततस्तस्मिन्प्रनृत्ते वै स्थावरं जङ्गमं च यत् +प्रनृत्तमुभयं वीर तेजसा तस्य मोहितम् +ब्रह्मादिभिः सुरै राजन्नृषिभिश्च तपोधनैः +विज्ञप्तो वै महादेव ऋषेरर्थे नराधिप +नायं नृत्येद्यथा देव तथा त्वं कर्तुमर्हसि +ततः प्रनृत्तमासाद्य हर्षाविष्टेन चेतसा +सुराणां हितकामार्थमृषिं देवोऽभ्यभाषत +अहो महर्षे धर्मज्ञ किमर्थं नृत्यते भवान् +हर्षस्थानं किमर्थं वा तवाद्य मुनिपुंगव +ऋषिरुवाच +किं न पश्यसि मे देव कराच्छाकरसं स्रुतम् +यं दृष्ट्वाहं प्रनृत्तो वै हर्षेण महतान्वितः +पुलस्त्य उवाच +तं प्रहस्याब्रवीद्देवो मुनिं रागेण मोहितम् +अहं वै विस्मयं विप्र न गच्छामीति पश्य माम् +एवमुक्त्वा नरश्रेष्ठ महादेवेन धीमता +अङ्गुल्यग्रेण राजेन्द्र स्वाङ्गुष्ठस्ताडितोऽनघ +ततो भस्म क्षताद्राजन्निर्गतं हिमसंनिभम् +तद्दृष्ट्वा व्रीडितो राजन्स मुनिः पादयोर्गतः +नान्यं देवमहं मन्ये रुद्रात्परतरं महत् +सुरासुरस्य जगतो गतिस्त्वमसि शूलधृक् +त्वया सृष्टमिदं विश्वं त्रैलोक्यं सचराचरम् +त्वामेव भगवन्सर्वे प्रविशन्ति युगक्षये +देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया +त्वयि सर्वे च दृश्यन्ते सुरा ब���रह्मादयोऽनघ +सर्वस्त्वमसि लोकानां कर्ता कारयिता च ह +त्वत्प्रसादात्सुराः सर्वे मोदन्तीहाकुतोभयाः +एवं स्तुत्वा महादेवं स ऋषिः प्रणतोऽभवत् +ऋषिरुवाच +त्वत्प्रसादान्महादेव तपो मे न क्षरेत वै +पुलस्त्य उवाच +ततो देवः प्रहृष्टात्मा ब्रह्मर्षिमिदमब्रवीत् +तपस्ते वर्धतां विप्र मत्प्रसादात्सहस्रधा +आश्रमे चेह वत्स्यामि त्वया सार्धं महामुने +सप्तसारस्वते स्नात्वा अर्चयिष्यन्ति ये तु माम् +न तेषां दुर्लभं किंचिदिह लोके परत्र च +सारस्वतं च ते लोकं गमिष्यन्ति न संशयः +ततस्त्वौशनसं गच्छेत्त्रिषु लोकेषु विश्रुतम् +यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः +कार्त्तिकेयश्च भगवांस्त्रिसंध्यं किल भारत +सांनिध्यमकरोत्तत्र भार्गवप्रियकाम्यया +कपालमोचनं तीर्थं सर्वपापप्रमोचनम् +तत्र स्नात्वा नरव्याघ्र सर्वपापैः प्रमुच्यते +अग्नितीर्थं ततो गच्छेत्तत्र स्नात्वा नरर्षभ +अग्निलोकमवाप्नोति कुलं चैव समुद्धरेत् +विश्वामित्रस्य तत्रैव तीर्थं भरतसत्तम +तत्र स्नात्वा महाराज ब्राह्मण्यमभिजायते +ब्रह्मयोनिं समासाद्य शुचिः प्रयतमानसः +तत्र स्नात्वा नरव्याघ्र ब्रह्मलोकं प्रपद्यते +पुनात्यासप्तमं चैव कुलं नास्त्यत्र संशयः +ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् +पृथूदकमिति ख्यातं कार्त्तिकेयस्य वै नृप +तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः +अज्ञानाज्ज्ञानतो वापि स्त्रिया वा पुरुषेण वा +यत्किंचिदशुभं कर्म कृतं मानुषबुद्धिना +तत्सर्वं नश्यते तस्य स्नातमात्रस्य भारत +अश्वमेधफलं चापि स्वर्गलोकं च गच्छति +पुण्यमाहुः कुरुक्षेत्रं कुरुक्षेत्रात्सरस्वतीम् +सरस्वत्याश्च तीर्थानि तीर्थेभ्यश्च पृथूदकम् +उत्तमे सर्वतीर्थानां यस्त्यजेदात्मनस्तनुम् +पृथूदके जप्यपरो नैनं श्वोमरणं तपेत् +गीतं सनत्कुमारेण व्यासेन च महात्मना +वेदे च नियतं राजनभिगच्छेत्पृथूदकम् +पृथूदकात्पुण्यतमं नान्यत्तीर्थं नरोत्तम +एतन्मेध्यं पवित्रं च पावनं च न संशयः +तत्र स्नात्वा दिवं यान्ति अपि पापकृतो जनाः +पृथूदके नरश्रेष्ठ प्राहुरेवं मनीषिणः +मधुस्रवं च तत्रैव तीर्थं भरतसत्तम +तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् +ततो गच्छेन्नरश्रेष्ठ तीर्थं देव्या यथाक्रमम् +सरस्वत्यारुणायाश्च संगमं लोकविश्रुतम् +त्��िरात्रोपोषितः स्नात्वा मुच्यते ब्रह्महत्यया +अग्निष्टोमातिरात्राभ्यां फलं विन्दति मानवः +आसप्तमं कुलं चैव पुनाति भरतर्षभ +अवतीर्णं च तत्रैव तीर्थं कुरुकुलोद्वह +विप्राणामनुकम्पार्थं दर्भिणा निर्मितं पुरा +व्रतोपनयनाभ्यां वा उपवासेन वा द्विजः +क्रियामन्त्रैश्च संयुक्तो ब्राह्मणः स्यान्न संशयः +क्रियामन्त्रविहीनोऽपि तत्र स्नात्वा नरर्षभ +चीर्णव्रतो भवेद्विप्रो दृष्टमेतत्पुरातने +समुद्राश्चापि चत्वारः समानीताश्च दर्भिणा +येषु स्नातो नरव्याघ्र न दुर्गतिमवाप्नुयात् +फलानि गोसहस्राणां चतुर्णां विन्दते च सः +ततो गच्छेत राजेन्द्र तीर्थं शतसहस्रकम् +साहस्रकं च तत्रैव द्वे तीर्थे लोकविश्रुते +उभयोर्हि नरः स्नात्वा गोसहस्रफलं लभेत् +दानं वाप्युपवासो वा सहस्रगुणितं भवेत् +ततो गच्छेत राजेन्द्र रेणुकातीर्थमुत्तमम् +तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः +सर्वपापविशुद्धात्मा अग्निष्टोमफलं लभेत् +विमोचनमुपस्पृश्य जितमन्युर्जितेन्द्रियः +प्रतिग्रहकृतैर्दोषैः सर्वैः स परिमुच्यते +ततः पञ्चवटं गत्वा ब्रह्मचारी जितेन्द्रियः +पुण्येन महता युक्तः सतां लोके महीयते +यत्र योगेश्वरः स्थाणुः स्वयमेव वृषध्वजः +तमर्चयित्वा देवेशं गमनादेव सिध्यति +औजसं वरुणं तीर्थं दीप्यते स्वेन तेजसा +यत्र ब्रह्मादिभिर्देवैरृषिभिश्च तपोधनैः +सेनापत्येन देवानामभिषिक्तो गुहस्तदा +औजसस्य तु पूर्वेण कुरुतीर्थं कुरूद्वह +कुरुतीर्थे नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः +सर्वपापविशुद्धात्मा कुरुलोकं प्रपद्यते +स्वर्गद्वारं ततो गच्छेन्नियतो नियताशनः +स्वर्गलोकमवाप्नोति ब्रह्मलोकं च गच्छति +ततो गच्छेदनरकं तीर्थसेवी नराधिप +तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात् +तत्र ब्रह्मा स्वयं नित्यं देवैः सह महीपते +अन्वास्यते नरश्रेष्ठ नारायणपुरोगमैः +सांनिध्यं चैव राजेन्द्र रुद्रपत्न्याः कुरूद्वह +अभिगम्य च तां देवीं न दुर्गतिमवाप्नुयात् +तत्रैव च महाराज विश्वेश्वरमुमापतिम् +अभिगम्य महादेवं मुच्यते सर्वकिल्बिषैः +नारायणं चाभिगम्य पद्मनाभमरिंदमम् +शोभमानो महाराज विष्णुलोकं प्रपद्यते +तीर्थे तु सर्वदेवानां स्नातः स पुरुषर्षभ +सर्वदुःखैः परित्यक्तो द्योतते शशिवत्सदा +ततः स्वस्तिपुरं गच्छेत्तीर्थसेवी नराधिप +पावनं तीर्थमासाद्य तर्पयेत्पितृदेवताः +अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः +गङ्गाह्रदश्च तत्रैव कूपश्च भरतर्षभ +तिस्रः कोट्यस्तु तीर्थानां तस्मिन्कूपे महीपते +तत्र स्नात्वा नरो राजन्स्वर्गलोकं प्रपद्यते +आपगायां नरः स्नात्वा अर्चयित्वा महेश्वरम् +गाणपत्यमवाप्नोति कुलं चोद्धरते स्वकम् +ततः स्थाणुवटं गच्छेत्त्रिषु लोकेषु विश्रुतम् +तत्र स्नात्वा स्थितो रात्रिं रुद्रलोकमवाप्नुयात् +बदरीपाचनं गच्छेद्वसिष्ठस्याश्रमं ततः +बदरं भक्षयेत्तत्र त्रिरात्रोपोषितो नरः +सम्यग्द्वादश वर्षाणि बदरान्भक्षयेत्तु यः +त्रिरात्रोपोषितश्चैव भवेत्तुल्यो नराधिप +इन्द्रमार्गं समासाद्य तीर्थसेवी नराधिप +अहोरात्रोपवासेन शक्रलोके महीयते +एकरात्रं समासाद्य एकरात्रोषितो नरः +नियतः सत्यवादी च ब्रह्मलोके महीयते +ततो गच्छेत धर्मज्ञ तीर्थं त्रैलोक्यविश्रुतम् +आदित्यस्याश्रमो यत्र तेजोराशेर्महात्मनः +तस्मिंस्तीर्थे नरः स्नात्वा पूजयित्वा विभावसुम् +आदित्यलोकं व्रजति कुलं चैव समुद्धरेत् +सोमतीर्थे नरः स्नात्वा तीर्थसेवी कुरूद्वह +सोमलोकमवाप्नोति नरो नास्त्यत्र संशयः +ततो गच्छेत धर्मज्ञ दधीचस्य महात्मनः +तीर्थं पुण्यतमं राजन्पावनं लोकविश्रुतम् +यत्र सारस्वतो राजन्सोऽङ्गिरास्तपसो निधिः +तस्मिंस्तीर्थे नरः स्नात्वा वाजपेयफलं लभेत् +सारस्वतीं गतिं चैव लभते नात्र संशयः +ततः कन्याश्रमं गच्छेन्नियतो ब्रह्मचर्यवान् +त्रिरात्रोपोषितो राजन्नुपवासपरायणः +लभेत्कन्याशतं दिव्यं ब्रह्मलोकं च गच्छति +ततो गच्छेत धर्मज्ञ तीर्थं संनिहितीमपि +यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः +मासि मासि समायान्ति पुण्येन महतान्विताः +संनिहित्यामुपस्पृश्य राहुग्रस्ते दिवाकरे +अश्वमेधशतं तेन इष्टं भवति शाश्वतम् +पृथिव्यां यानि तीर्थानि अन्तरिक्षचराणि च +नद्यो नदास्तडागाश्च सर्वप्रस्रवणानि च +उदपानाश्च वप्राश्च पुण्यान्यायतनानि च +मासि मासि समायान्ति संनिहित्यां न संशयः +यत्किंचिद्दुष्कृतं कर्म स्त्रिया वा पुरुषस्य वा +स्नातमात्रस्य तत्सर्वं नश्यते नात्र संशयः +पद्मवर्णेन यानेन ब्रह्मलोकं स गच्छति +अभिवाद्य ततो यक्षं द्वारपालमरन्तुकम् +कोटिरूपमुपस्पृश्य लभेद्बहु सुवर्णकम��� +गङ्गाह्रदश्च तत्रैव तीर्थं भरतसत्तम +तत्र स्नातस्तु धर्मज्ञ ब्रह्मचारी समाहितः +राजसूयाश्वमेधाभ्यां फलं विन्दति शाश्वतम् +पृथिव्यां नैमिषं पुण्यमन्तरिक्षे च पुष्करम् +त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते +पांसवोऽपि कुरुक्षेत्रे वायुना समुदीरिताः +अपि दुष्कृतकर्माणं नयन्ति परमां गतिम् +दक्षिणेन सरस्वत्या उत्तरेण दृषद्वतीम् +ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिविष्टपे +कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् +अप्येकां वाचमुत्सृज्य सर्वपापैः प्रमुच्यते +ब्रह्मवेदी कुरुक्षेत्रं पुण्यं ब्रह्मर्षिसेवितम् +तदावसन्ति ये राजन्न ते शोच्याः कथंचन +तरन्तुकारन्तुकयोर्यदन्तरं; रामह्रदानां च मचक्रुकस्य +एतत्कुरुक्षेत्रसमन्तपञ्चकं; पितामहस्योत्तरवेदिरुच्यते +पुलस्त्य उवाच +ततो गच्छेत धर्मज्ञ धर्मतीर्थं पुरातनम् +तत्र स्नात्वा नरो राजन्धर्मशीलः समाहितः +आसप्तमं कुलं राजन्पुनीते नात्र संशयः +ततो गच्छेत धर्मज्ञ कारापतनमुत्तमम् +अग्निष्टोममवाप्नोति मुनिलोकं च गच्छति +सौगन्धिकं वनं राजंस्ततो गच्छेत मानवः +यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः +सिद्धचारणगन्धर्वाः किंनराः समहोरगाः +तद्वनं प्रविशन्नेव सर्वपापैः प्रमुच्यते +ततो हि सा सरिच्छ्रेष्ठा नदीनामुत्तमा नदी +प्लक्षाद्देवी स्रुता राजन्महापुण्या सरस्वती +तत्राभिषेकं कुर्वीत वल्मीकान्निःसृते जले +अर्चयित्वा पितॄन्देवानश्वमेधफलं लभेत् +ईशानाध्युषितं नाम तत्र तीर्थं सुदुर्लभम् +षट्सु शम्यानिपातेषु वल्मीकादिति निश्चयः +कपिलानां सहस्रं च वाजिमेधं च विन्दति +तत्र स्नात्वा नरव्याघ्र दृष्टमेतत्पुरातने +सुगन्धां शतकुम्भां च पञ्चयज्ञां च भारत +अभिगम्य नरश्रेष्ठ स्वर्गलोके महीयते +त्रिशूलखातं तत्रैव तीर्थमासाद्य भारत +तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः +गाणपत्यं स लभते देहं त्यक्त्वा न संशयः +ततो गच्छेत राजेन्द्र देव्याः स्थानं सुदुर्लभम् +शाकंभरीति विख्याता त्रिषु लोकेषु विश्रुता +दिव्यं वर्षसहस्रं हि शाकेन किल सुव्रत +आहारं सा कृतवती मासि मासि नराधिप +ऋषयोऽभ्यागतास्तत्र देव्या भक्त्या तपोधनाः +आतिथ्यं च कृतं तेषां शाकेन किल भारत +ततः शाकम्भरीत्येव नाम तस्याः प्रतिष्ठितम् +शाकंभरीं समासाद्य ब्रह��मचारी समाहितः +त्रिरात्रमुषितः शाकं भक्षयेन्नियतः शुचिः +शाकाहारस्य यत्सम्यग्वर्षैर्द्वादशभिः फलम् +तत्फलं तस्य भवति देव्याश्छन्देन भारत +ततो गच्छेत्सुवर्णाक्षं त्रिषु लोकेषु विश्रुतम् +यत्र विष्णुः प्रसादार्थं रुद्रमाराधयत्पुरा +वरांश्च सुबहूँल्लेभे दैवतेषु सुदुर्लभान् +उक्तश्च त्रिपुरघ्नेन परितुष्टेन भारत +अपि चास्मत्प्रियतरो लोके कृष्ण भविष्यसि +त्वन्मुखं च जगत्कृत्स्नं भविष्यति न संशयः +तत्राभिगम्य राजेन्द्र पूजयित्वा वृषध्वजम् +अश्वमेधमवाप्नोति गाणपत्यं च विन्दति +धूमावतीं ततो गच्छेत्त्रिरत्रोपोषितो नरः +मनसा प्रार्थितान्कामाँल्लभते नात्र संशयः +देव्यास्तु दक्षिणार्धेन रथावर्तो नराधिप +तत्रारोहेत धर्मज्ञ श्रद्दधानो जितेन्द्रियः +महादेवप्रसादाद्धि गच्छेत परमां गतिम् +प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ +धारां नाम महाप्राज्ञ सर्वपापप्रणाशिनीम् +तत्र स्नात्वा नरव्याघ्र न शोचति नराधिप +ततो गच्छेत धर्मज्ञ नमस्कृत्य महागिरिम् +स्वर्गद्वारेण यत्तुल्यं गङ्गाद्वारं न संशयः +तत्राभिषेकं कुर्वीत कोटितीर्थे समाहितः +पुण्डरीकमवाप्नोति कुलं चैव समुद्धरेत् +सप्तगङ्गे त्रिगङ्गे च शक्रावर्ते च तर्पयन् +देवान्पितॄंश्च विधिवत्पुण्यलोके महीयते +ततः कनखले स्नात्वा त्रिरात्रोपोषितो नरः +अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति +कपिलावटं च गच्छेत तीर्थसेवी नराधिप +उष्यैकां रजनीं तत्र गोसहस्रफलं लभेत् +नागराजस्य राजेन्द्र कपिलस्य महात्मनाः +तीर्थं कुरुवरश्रेष्ठ सर्वलोकेषु विश्रुतम् +तत्राभिषेकं कुर्वीत नागतीर्थे नराधिप +कपिलानां सहस्रस्य फलं प्राप्नोति मानवः +ततो ललितिकां गच्छेच्छंतनोस्तीर्थमुत्तमम् +तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात् +गङ्गासंगमयोश्चैव स्नाति यः संगमे नरः +दशाश्वमेधानाप्नोति कुलं चैव समुद्धरेत् +ततो गच्छेत राजेन्द्र सुगन्धां लोकविश्रुताम् +सर्वपापविशुद्धात्मा ब्रह्मलोके महीयते +रुद्रावर्तं ततो गच्छेत्तीर्थसेवी नराधिप +तत्र स्नात्वा नरो राजन्स्वर्गलोके महीयते +गङ्गायाश्च नरश्रेष्ठ सरस्वत्याश्च संगमे +स्नातोऽश्वमेधमाप्नोति स्वर्गलोकं च गच्छति +भद्रकर्णेश्वरं गत्वा देवमर्च्य यथाविधि +न दुर्गतिमवाप्नोति स्वर्गलोकं च गच्छति +ततः कुब्जाम्रकं गच्छेत्तीर्थसेवी यथाक्रमम् +गोसहस्रमवाप्नोति स्वर्गलोकं च गच्छति +अरुन्धतीवटं गच्छेत्तीर्थसेवी नराधिप +सामुद्रकमुपस्पृश्य त्रिरात्रोपोषितो नरः +गोसहस्रफलं विन्देत्कुलं चैव समुद्धरेत् +ब्रह्मावर्तं ततो गच्छेद्ब्रह्मचारी समाहितः +अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति +यमुनाप्रभवं गत्वा उपस्पृश्य च यामुने +अश्वमेधफलं लब्ध्वा स्वर्गलोके महीयते +दर्वीसंक्रमणं प्राप्य तीर्थं त्रैलोक्यविश्रुतम् +अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति +सिन्धोश्च प्रभवं गत्वा सिद्धगन्धर्वसेवितम् +तत्रोष्य रजनीः पञ्च विन्द्याद्बहु सुवर्णकम् +अथ वेदीं समासाद्य नरः परमदुर्गमाम् +अश्वमेधमवाप्नोति गच्छेच्चौशनसीं गतिम् +ऋषिकुल्यां समासाद्य वासिष्ठं चैव भारत +वासिष्ठं समतिक्रम्य सर्वे वर्णा द्विजातयः +ऋषिकुल्यां नरः स्नात्वा ऋषिलोकं प्रपद्यते +यदि तत्र वसेन्मासं शाकाहारो नराधिप +भृगुतुङ्गं समासाद्य वाजिमेधफलं लभेत् +गत्वा वीरप्रमोक्षं च सर्वपापैः प्रमुच्यते +कृत्तिकामघयोश्चैव तीर्थमासाद्य भारत +अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति पुण्यकृत् +ततः संध्यां समासाद्य विद्यातीर्थमनुत्तमम् +उपस्पृश्य च विद्यानां सर्वासां पारगो भवेत् +महाश्रमे वसेद्रात्रिं सर्वपापप्रमोचने +एककालं निराहारो लोकानावसते शुभान् +षष्ठकालोपवासेन मासमुष्य महालये +सर्वपापविशुद्धात्मा विन्द्याद्बहु सुवर्णकम् +अथ वेतसिकां गत्वा पितामहनिषेविताम् +अश्वमेधमवाप्नोति गच्छेच्चौशनसीं गतिम् +अथ सुन्दरिकातीर्थं प्राप्य सिद्धनिषेवितम् +रूपस्य भागी भवति दृष्टमेतत्पुरातने +ततो वै ब्राह्मणीं गत्वा ब्रह्मचारी जितेन्द्रियः +पद्मवर्णेन यानेन ब्रह्मलोकं प्रपद्यते +ततश्च नैमिषं गच्छेत्पुण्यं सिद्धनिषेवितम् +तत्र नित्यं निवसति ब्रह्मा देवगणैर्वृतः +नैमिषं प्रार्थयानस्य पापस्यार्धं प्रणश्यति +प्रविष्टमात्रस्तु नरः सर्वपापैः प्रमुच्यते +तत्र मासं वसेद्धीरो नैमिषे तीर्थतत्परः +पृथिव्यां यानि तीर्थानि नैमिषे तानि भारत +अभिषेककृतस्तत्र नियतो नियताशनः +गवामयस्य यज्ञस्य फलं प्राप्नोति भारत +पुनात्यासप्तमं चैव कुलं भरतसत्तम +यस्त्यजेन्नैमिषे प्राणानुपवासपरायणः +स मोदेत्स्वर्गलोकस्थ एवमाहुर्मनीषिणः +नित्यं पुण्यं च मेध्यं च नैमिषं नृपसत्तम +गङ्गोद्भेदं समासाद्य त्रिरात्रोपोषितो नरः +वाजपेयमवाप्नोति ब्रह्मभूतश्च जायते +सरस्वतीं समासाद्य तर्पयेत्पितृदेवताः +सारस्वतेषु लोकेषु मोदते नात्र संशयः +ततश्च बाहुदां गच्छेद्ब्रह्मचारी समाहितः +देवसत्रस्य यज्ञस्य फलं प्राप्नोति मानवः +ततश्चीरवतीं गच्छेत्पुण्यां पुण्यतमैर्वृताम् +पितृदेवार्चनरतो वाजपेयमवाप्नुयात् +विमलाशोकमासाद्य विराजति यथा शशी +तत्रोष्य रजनीमेकां स्वर्गलोके महीयते +गोप्रतारं ततो गच्छेत्सरय्वास्तीर्थमुत्तमम् +यत्र रामो गतः स्वर्गं सभृत्यबलवाहनः +देहं त्यक्त्वा दिवं यातस्तस्य तीर्थस्य तेजसा +रामस्य च प्रसादेन व्यवसायाच्च भारत +तस्मिंस्तीर्थे नरः स्नात्वा गोप्रतारे नराधिप +सर्वपापविशुद्धात्मा स्वर्गलोके महीयते +रामतीर्थे नरः स्नात्वा गोमत्यां कुरुनन्दन +अश्वमेधमवाप्नोति पुनाति च कुलं नरः +शतसाहस्रिकं तत्र तीर्थं भरतसत्तम +तत्रोपस्पर्शनं कृत्वा नियतो नियताशनः +गोसहस्रफलं पुण्यं प्राप्नोति भरतर्षभ +ततो गच्छेत राजेन्द्र भर्तृस्थानमनुत्तमम् +कोटितीर्थे नरः स्नात्वा अर्चयित्वा गुहं नृप +गोसहस्रफलं विन्देत्तेजस्वी च भवेन्नरः +ततो वाराणसीं गत्वा अर्चयित्वा वृषध्वजम् +कपिलाह्रदे नरः स्नात्वा राजसूयफलं लभेत् +मार्कण्डेयस्य राजेन्द्र तीर्थमासाद्य दुर्लभम् +गोमतीगङ्गयोश्चैव संगमे लोकविश्रुते +अग्निष्टोममवाप्नोति कुलं चैव समुद्धरेत् +ततो गयां समासाद्य ब्रह्मचारी जितेन्द्रियः +अश्वमेधमवाप्नोति गमनादेव भारत +तत्राक्षयवटो नाम त्रिषु लोकेषु विश्रुतः +पितॄणां तत्र वै दत्तमक्षयं भवति प्रभो +महानद्यामुपस्पृश्य तर्पयेत्पितृदेवताः +अक्षयान्प्राप्नुयाल्लोकान्कुलं चैव समुद्धरेत् +ततो ब्रह्मसरो गच्छेद्धर्मारण्योपशोभितम् +पौण्डरीकमवाप्नोति प्रभातामेव शर्वरीम् +तस्मिन्सरसि राजेन्द्र ब्रह्मणो यूप उच्छ्रितः +यूपं प्रदक्षिणं कृत्वा वाजपेयफलं लभेत् +ततो गच्छेत राजेन्द्र धेनुकां लोकविश्रुताम् +एकरात्रोषितो राजन्प्रयच्छेत्तिलधेनुकाम् +सर्वपापविशुद्धात्मा सोमलोकं व्रजेद्ध्रुवम् +तत्र चिह्नं महाराज अद्यापि हि न संशयः +कपिला सह वत्सेन पर्वते विचरत्युत +सवत्सायाः पदानि स्म दृश्यन्तेऽद्यापि भारत +तेषूपस्पृश्य राजेन्द्र पदेषु नृपसत्तम +यत्किंचिदशुभं कर्म तत्प्रणश्यति भारत +ततो गृध्रवटं गच्छेत्स्थानं देवस्य धीमतः +स्नायीत भस्मना तत्र अभिगम्य वृषध्वजम् +ब्राह्मणेन भवेच्चीर्णं व्रतं द्वादशवार्षिकम् +इतरेषां तु वर्णानां सर्वपापं प्रणश्यति +गच्छेत तत उद्यन्तं पर्वतं गीतनादितम् +सावित्रं तु पदं तत्र दृश्यते भरतर्षभ +तत्र संध्यामुपासीत ब्राह्मणः संशितव्रतः +उपास्ता च भवेत्संध्या तेन द्वादशवार्षिकी +योनिद्वारं च तत्रैव विश्रुतं भरतर्षभ +तत्राभिगम्य मुच्येत पुरुषो योनिसंकरात् +कृष्णशुक्लावुभौ पक्षौ गयायां यो वसेन्नरः +पुनात्यासप्तमं राजन्कुलं नास्त्यत्र संशयः +एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् +यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् +ततः फल्गुं व्रजेद्राजंस्तीर्थसेवी नराधिप +अश्वमेधमवाप्नोति सिद्धिं च महतीं व्रजेत् +ततो गच्छेत राजेन्द्र धर्मपृष्ठं समाहितः +यत्र धर्मो महाराज नित्यमास्ते युधिष्ठिर +अभिगम्य ततस्तत्र वाजिमेधफलं लभेत् +ततो गच्छेत राजेन्द्र ब्रह्मणस्तीर्थमुत्तमम् +तत्रार्चयित्वा राजेन्द्र ब्रह्माणममितौजसम् +राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः +ततो राजगृहं गच्छेत्तीर्थसेवी नराधिप +उपस्पृश्य तपोदेषु काक्षीवानिव मोदते +यक्षिण्या नैत्यकं तत्र प्राश्नीत पुरुषः शुचिः +यक्षिण्यास्तु प्रसादेन मुच्यते भ्रूणहत्यया +मणिनागं ततो गत्वा गोसहस्रफलं लभेत् +नैत्यकं भुञ्जते यस्तु मणिनागस्य मानवः +दष्टस्याशीविषेणापि न तस्य क्रमते विषम् +तत्रोष्य रजनीमेकां सर्वपापैः प्रमुच्यते +ततो गच्छेत ब्रह्मर्षेर्गौतमस्य वनं नृप +अहल्याया ह्रदे स्नात्वा व्रजेत परमां गतिम् +अभिगम्य श्रियं राजन्विन्दते श्रियमुत्तमाम् +तत्रोदपानो धर्मज्ञ त्रिषु लोकेषु विश्रुतः +तत्राभिषेकं कृत्वा तु वाजिमेधमवाप्नुयात् +जनकस्य तु राजर्षेः कूपस्त्रिदशपूजितः +तत्राभिषेकं कृत्वा तु विष्णुलोकमवाप्नुयात् +ततो विनशनं गच्छेत्सर्वपापप्रमोचनम् +वाजपेयमवाप्नोति सोमलोकं च गच्छति +गण्डकीं तु समासाद्य सर्वतीर्थजलोद्भवाम् +वाजपेयमवाप्नोति सूर्यलोकं च गच्छति +ततोऽधिवंश्यं धर्मज्ञ समाविश्य तपोवनम् +गुह्यकेषु महाराज मोदते नात्र संशयः +कम्पनां तु समासाद्य नदीं सिद्धनिषेविता��् +पुण्डरीकमवाप्नोति सूर्यलोकं च गच्छति +ततो विशालामासाद्य नदीं त्रैलोक्यविश्रुताम् +अग्निष्टोममवाप्नोति स्वर्गलोकं च गच्छति +अथ माहेश्वरीं धारां समासाद्य नराधिप +अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् +दिवौकसां पुष्करिणीं समासाद्य नरः शुचिः +न दुर्गतिमवाप्नोति वाजपेयं च विन्दति +महेश्वरपदं गच्छेद्ब्रह्मचारी समाहितः +महेश्वरपदे स्नात्वा वाजिमेधफलं लभेत् +तत्र कोटिस्तु तीर्थानां विश्रुता भरतर्षभ +कूर्मरूपेण राजेन्द्र असुरेण दुरात्मना +ह्रियमाणाहृता राजन्विष्णुना प्रभविष्णुना +तत्राभिषेकं कुर्वाणस्तीर्थकोट्यां युधिष्ठिर +पुण्डरीकमवाप्नोति विष्णुलोकं च गच्छति +ततो गच्छेत राजेन्द्र स्थानं नारायणस्य तु +सदा संनिहितो यत्र हरिर्वसति भारत +शालग्राम इति ख्यातो विष्णोरद्भुतकर्मणः +अभिगम्य त्रिलोकेशं वरदं विष्णुमव्ययम् +अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति +तत्रोदपानो धर्मज्ञ सर्वपापप्रमोचनः +समुद्रास्तत्र चत्वारः कूपे संनिहिताः सदा +तत्रोपस्पृश्य राजेन्द्र न दुर्गतिमवाप्नुयात् +अभिगम्य महादेवं वरदं विष्णुमव्ययम् +विराजति यथा सोम ऋणैर्मुक्तो युधिष्ठिर +जातिस्मर उपस्पृश्य शुचिः प्रयतमानसः +जातिस्मरत्वं प्राप्नोति स्नात्वा तत्र न संशयः +वटेश्वरपुरं गत्वा अर्चयित्वा तु केशवम् +ईप्सिताँल्लभते कामानुपवासान्न संशयः +ततस्तु वामनं गत्वा सर्वपापप्रमोचनम् +अभिवाद्य हरिं देवं न दुर्गतिमवाप्नुयात् +भरतस्याश्रमं गत्वा सर्वपापप्रमोचनम् +कौशिकीं तत्र सेवेत महापातकनाशिनीम् +राजसूयस्य यज्ञस्य फलं प्राप्नोति मानवः +ततो गच्छेत धर्मज्ञ चम्पकारण्यमुत्तमम् +तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् +अथ ज्येष्ठिलमासाद्य तीर्थं परमसंमतम् +उपोष्य रजनीमेकामग्निष्टोमफलं लभेत् +तत्र विश्वेश्वरं दृष्ट्वा देव्या सह महाद्युतिम् +मित्रावरुणयोर्लोकानाप्नोति पुरुषर्षभ +कन्यासंवेद्यमासाद्य नियतो नियताशनः +मनोः प्रजापतेर्लोकानाप्नोति भरतर्षभ +कन्यायां ये प्रयच्छन्ति पानमन्नं च भारत +तदक्षयमिति प्राहुरृषयः संशितव्रताः +निश्चीरां च समासाद्य त्रिषु लोकेषु विश्रुताम् +अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति +ये तु दानं प्रयच्छन्ति निश्चीरासंगमे नराः +ते यान्ति नरशार्दूल ब्रह्मलोकं न स���शयः +तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः +तत्राभिषेकं कुर्वाणो वाजपेयमवाप्नुयात् +देवकूटं समासाद्य ब्रह्मर्षिगणसेवितम् +अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् +ततो गच्छेत राजेन्द्र कौशिकस्य मुनेर्ह्रदम् +यत्र सिद्धिं परां प्राप्तो विश्वामित्रोऽथ कौशिकः +तत्र मासं वसेद्वीर कौशिक्यां भरतर्षभ +अश्वमेधस्य यत्पुण्यं तन्मासेनाधिगच्छति +सर्वतीर्थवरे चैव यो वसेत महाह्रदे +न दुर्गतिमवाप्नोति विन्देद्बहु सुवर्णकम् +कुमारमभिगत्वा च वीराश्रमनिवासिनम् +अश्वमेधमवाप्नोति नरो नास्त्यत्र संशयः +अग्निधारां समासाद्य त्रिषु लोकेषु विश्रुताम् +अग्निष्टोममवाप्नोति न च स्वर्गान्निवर्तते +पितामहसरो गत्वा शैलराजप्रतिष्ठितम् +तत्राभिषेकं कुर्वाणो अग्निष्टोमफलं लभेत् +पितामहस्य सरसः प्रस्रुता लोकपावनी +कुमारधारा तत्रैव त्रिषु लोकेषु विश्रुता +यत्र स्नात्वा कृतार्थोऽस्मीत्यात्मानमवगच्छति +षष्ठकालोपवासेन मुच्यते ब्रह्महत्यया +शिखरं वै महादेव्या गौर्यास्त्रैलोक्यविश्रुतम् +समारुह्य नरः श्राद्धः स्तनकुण्डेषु संविशेत् +तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः +हयमेधमवाप्नोति शक्रलोकं च गच्छति +ताम्रारुणं समासाद्य ब्रह्मचारी समाहितः +अश्वमेधमवाप्नोति शक्रलोकं च गच्छति +नन्दिन्यां च समासाद्य कूपं त्रिदशसेवितम् +नरमेधस्य यत्पुण्यं तत्प्राप्नोति कुरूद्वह +कालिकासंगमे स्नात्वा कौशिक्यारुणयोर्यतः +त्रिरात्रोपोषितो विद्वान्सर्वपापैः प्रमुच्यते +उर्वशीतीर्थमासाद्य ततः सोमाश्रमं बुधः +कुम्भकर्णाश्रमे स्नात्वा पूज्यते भुवि मानवः +स्नात्वा कोकामुखे पुण्ये ब्रह्मचारी यतव्रतः +जातिस्मरत्वं प्राप्नोति दृष्टमेतत्पुरातने +सकृन्नन्दां समासाद्य कृतात्मा भवति द्विजः +सर्वपापविशुद्धात्मा शक्रलोकं च गच्छति +ऋषभद्वीपमासाद्य सेव्यं क्रौञ्चनिषूदनम् +सरस्वत्यामुपस्पृश्य विमानस्थो विराजते +औद्दालकं महाराज तीर्थं मुनिनिषेवितम् +तत्राभिषेकं कुर्वीत सर्वपापैः प्रमुच्यते +धर्मतीर्थं समासाद्य पुण्यं ब्रह्मर्षिसेवितम् +वाजपेयमवाप्नोति नरो नास्त्यत्र संशयः +तथा चम्पां समासाद्य भागीरथ्यां कृतोदकः +दण्डार्कमभिगम्यैव गोसहस्रफलं लभेत् +लवेडिकां ततो गच्छेत्पुण्यां पुण्योपसेव��ताम् +वाजपेयमवाप्नोति विमानस्थश्च पूज्यते +पुलस्त्य उवाच +अथ संध्यां समासाद्य संवेद्यं तीर्थमुत्तमम् +उपस्पृश्य नरो विद्वान्भवेन्नास्त्यत्र संशयः +रामस्य च प्रसादेन तीर्थं राजन्कृतं पुरा +तल्लोहित्यं समासाद्य विन्द्याद्बहु सुवर्णकम् +करतोयां समासाद्य त्रिरात्रोपोषितो नरः +अश्वमेधमवाप्नोति कृते पैतामहे विधौ +गङ्गायास्त्वथ राजेन्द्र सागरस्य च संगमे +अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः +गङ्गायास्त्वपरं द्वीपं प्राप्य यः स्नाति भारत +त्रिरात्रोपोषितो राजन्सर्वकामानवाप्नुयात् +ततो वैतरणीं गत्वा नदीं पापप्रमोचनीम् +विरजं तीर्थमासाद्य विराजति यथा शशी +प्रभवेच्च कुले पुण्ये सर्वपापं व्यपोहति +गोसहस्रफलं लब्ध्वा पुनाति च कुलं नरः +शोणस्य ज्योतिरथ्याश्च संगमे निवसञ्शुचिः +तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत् +शोणस्य नर्मदायाश्च प्रभवे कुरुनन्दन +वंशगुल्म उपस्पृश्य वाजिमेधफलं लभेत् +ऋषभं तीर्थमासाद्य कोशलायां नराधिप +वाजपेयमवाप्नोति त्रिरात्रोपोषितो नरः +कोशलायां समासाद्य कालतीर्थ उपस्पृशेत् +वृषभैकादशफलं लभते नात्र संशयः +पुष्पवत्यामुपस्पृश्य त्रिरात्रोपोषितो नरः +गोसहस्रफलं विन्द्यात्कुलं चैव समुद्धरेत् +ततो बदरिकातीर्थे स्नात्वा प्रयतमानसः +दीर्घमायुरवाप्नोति स्वर्गलोकं च गच्छति +ततो महेन्द्रमासाद्य जामदग्न्यनिषेवितम् +रामतीर्थे नरः स्नात्वा वाजिमेधफलं लभेत् +मतङ्गस्य तु केदारस्तत्रैव कुरुनन्दन +तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् +श्रीपर्वतं समासाद्य नदीतीर उपस्पृशेत् +अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति +श्रीपर्वते महादेवो देव्या सह महाद्युतिः +न्यवसत्परमप्रीतो ब्रह्मा च त्रिदशैर्वृतः +तत्र देवह्रदे स्नात्वा शुचिः प्रयतमानसः +अश्वमेधमवाप्नोति परां सिद्धिं च गच्छति +ऋषभं पर्वतं गत्वा पाण्ड्येषु सुरपूजितम् +वाजपेयमवाप्नोति नाकपृष्ठे च मोदते +ततो गच्छेत कावेरीं वृतामप्सरसां गणैः +तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् +ततस्तीरे समुद्रस्य कन्यातीर्थ उपस्पृशेत् +तत्रोपस्पृश्य राजेन्द्र सर्वपापैः प्रमुच्यते +अथ गोकर्णमासाद्य त्रिषु लोकेषु विश्रुतम् +समुद्रमध्ये राजेन्द्र सर्वलोकनमस्कृतम् +यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः +भू��यक्षपिशाचाश्च किंनराः समहोरगाः +सिद्धचारणगन्धर्वा मानुषाः पन्नगास्तथा +सरितः सागराः शैला उपासन्त उमापतिम् +तत्रेशानं समभ्यर्च्य त्रिरात्रोपोषितो नरः +दशाश्वमेधमाप्नोति गाणपत्यं च विन्दति +उष्य द्वादशरात्रं तु कृतात्मा भवते नरः +तत एव तु गायत्र्याः स्थानं त्रैलोक्यविश्रुतम् +त्रिरात्रमुषितस्तत्र गोसहस्रफलं लभेत् +निदर्शनं च प्रत्यक्षं ब्राह्मणानां नराधिप +गायत्रीं पठते यस्तु योनिसंकरजस्तथा +गाथा वा गीतिका वापि तस्य संपद्यते नृप +संवर्तस्य तु विप्रर्षेर्वापीमासाद्य दुर्लभाम् +रूपस्य भागी भवति सुभगश्चैव जायते +ततो वेण्णां समासाद्य तर्पयेत्पितृदेवताः +मयूरहंससंयुक्तं विमानं लभते नरः +ततो गोदावरीं प्राप्य नित्यं सिद्धनिषेविताम् +गवामयमवाप्नोति वासुकेर्लोकमाप्नुयात् +वेण्णायाः संगमे स्नात्वा वाजपेयफलं लभेत् +वरदासंगमे स्नात्वा गोसहस्रफलं लभेत् +ब्रह्मस्थानं समासाद्य त्रिरात्रमुषितो नरः +गोसहस्रफलं विन्देत्स्वर्गलोकं च गच्छति +कुशप्लवनमासाद्य ब्रह्मचारी समाहितः +त्रिरात्रमुषितः स्नात्वा अश्वमेधफलं लभेत् +ततो देवह्रदे रम्ये कृष्णवेण्णाजलोद्भवे +जातिमात्रह्रदे चैव तथा कन्याश्रमे नृप +यत्र क्रतुशतैरिष्ट्वा देवराजो दिवं गतः +अग्निष्टोमशतं विन्देद्गमनादेव भारत +सर्वदेवह्रदे स्नात्वा गोसहस्रफलं लभेत् +जातिमात्रह्रदे स्नात्वा भवेज्जातिस्मरो नरः +ततोऽवाप्य महापुण्यां पयोष्णीं सरितां वराम् +पितृदेवार्चनरतो गोसहस्रफलं लभेत् +दण्डकारण्यमासाद्य महाराज उपस्पृशेत् +गोसहस्रफलं तत्र स्नातमात्रस्य भारत +शरभङ्गाश्रमं गत्वा शुकस्य च महात्मनः +न दुर्गतिमवाप्नोति पुनाति च कुलं नरः +ततः शूर्पारकं गच्छेज्जामदग्न्यनिषेवितम् +रामतीर्थे नरः स्नात्वा विन्द्याद्बहु सुवर्णकम् +सप्तगोदावरे स्नात्वा नियतो नियताशनः +महत्पुण्यमवाप्नोति देवलोकं च गच्छति +ततो देवपथं गच्छेन्नियतो नियताशनः +देवसत्रस्य यत्पुण्यं तदवाप्नोति मानवः +तुङ्गकारण्यमासाद्य ब्रह्मचारी जितेन्द्रियः +वेदानध्यापयत्तत्र ऋषिः सारस्वतः पुरा +तत्र वेदान्प्रनष्टांस्तु मुनेरङ्गिरसः सुतः +उपविष्टो महर्षीणामुत्तरीयेषु भारत +ओंकारेण यथान्यायं सम्यगुच्चारितेन च +येन यत्पूर्वमभ्यस्तं तत्तस्य समुपस्थितम् +ऋषयस्तत्र देवाश्च वरुणोऽग्निः प्रजापतिः +हरिर्नारायणो देवो महादेवस्तथैव च +पितामहश्च भगवान्देवैः सह महाद्युतिः +भृगुं नियोजयामास याजनार्थे महाद्युतिम् +ततः स चक्रे भगवानृषीणां विधिवत्तदा +सर्वेषां पुनराधानं विधिदृष्टेन कर्मणा +आज्यभागेन वै तत्र तर्पितास्तु यथाविधि +देवास्त्रिभुवणं याता ऋषयश्च यथासुखम् +तदरण्यं प्रविष्टस्य तुङ्गकं राजसत्तम +पापं प्रणश्यते सर्वं स्त्रियो वा पुरुषस्य वा +तत्र मासं वसेद्धीरो नियतो नियताशनः +ब्रह्मलोकं व्रजेद्राजन्पुनीते च कुलं नरः +मेधाविकं समासाद्य पितॄन्देवांश्च तर्पयेत् +अग्निष्टोममवाप्नोति स्मृतिं मेधां च विन्दति +ततः कालंजरं गत्वा पर्वतं लोकविश्रुतम् +तत्र देवह्रदे स्नात्वा गोसहस्रफलं लभेत् +आत्मानं साधयेत्तत्र गिरौ कालंजरे नृप +स्वर्गलोके महीयेत नरो नास्त्यत्र संशयः +ततो गिरिवरश्रेष्ठे चित्रकूटे विशां पते +मन्दाकिनीं समासाद्य नदीं पापप्रमोचनीम् +तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः +अश्वमेधमवाप्नोति गतिं च परमां व्रजेत् +ततो गच्छेत राजेन्द्र भर्तृस्थानमनुत्तमम् +यत्र देवो महासेनो नित्यं संनिहितो नृपः +पुमांस्तत्र नरश्रेष्ठ गमनादेव सिध्यति +कोटितीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् +प्रदक्षिणमुपावृत्य ज्येष्ठस्थानं व्रजेन्नरः +अभिगम्य महादेवं विराजति यथा शशी +तत्र कूपो महाराज विश्रुतो भरतर्षभ +समुद्रास्तत्र चत्वारो निवसन्ति युधिष्ठिर +तत्रोपस्पृश्य राजेन्द्र कृत्वा चापि प्रदक्षिणम् +नियतात्मा नरः पूतो गच्छेत परमां गतिम् +ततो गच्छेत्कुरुश्रेष्ठ शृङ्गवेरपुरं महत् +यत्र तीर्णो महाराज रामो दाशरथिः पुरा +गङ्गायां तु नरः स्नात्वा ब्रह्मचारी समाहितः +विधूतपाप्मा भवति वाजपेयं च विन्दति +अभिगम्य महादेवमभ्यर्च्य च नराधिप +प्रदक्षिणमुपावृत्य गाणपत्यमवाप्नुयात् +ततो गच्छेत राजेन्द्र प्रयागमृषिसंस्तुतम् +यत्र ब्रह्मादयो देवा दिशश्च सदिगीश्वराः +लोकपालाश्च साध्याश्च नैरृताः पितरस्तथा +सनत्कुमारप्रमुखास्तथैव परमर्षयः +अङ्गिरःप्रमुखाश्चैव तथा ब्रह्मर्षयोऽपरे +तथा नागाः सुपर्णाश्च सिद्धाश्चक्रचरास्तथा +सरितः सागराश्चैव गन्धर्वाप्सरसस्तथा +हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः +तत्र त्रीण्यग्निकुण्डानि येषां मध्ये च जाह्नवी +प्रयागादभिनिष्क्रान्ता सर्वतीर्थपुरस्कृता +तपनस्य सुता तत्र त्रिषु लोकेषु विश्रुता +यमुना गङ्गया सार्धं संगता लोकपावनी +गङ्गायमुनयोर्मध्यं पृथिव्या जघनं स्मृतम् +प्रयागं जघनस्यान्तमुपस्थमृषयो विदुः +प्रयागं सप्रतिष्ठानं कम्बलाश्वतरौ तथा +तीर्थं भोगवती चैव वेदी प्रोक्ता प्रजापतेः +तत्र वेदाश्च यज्ञाश्च मूर्तिमन्तो युधिष्ठिर +प्रजापतिमुपासन्ते ऋषयश्च महाव्रताः +यजन्ते क्रतुभिर्देवास्तथा चक्रचरा नृप +ततः पुण्यतमं नास्ति त्रिषु लोकेषु भारत +प्रयागः सर्वतीर्थेभ्यः प्रभवत्यधिकं विभो +श्रवणात्तस्य तीर्थस्य नामसंकीर्तनादपि +मृत्तिकालम्भनाद्वापि नरः पापात्प्रमुच्यते +तत्राभिषेकं यः कुर्यात्संगमे संशितव्रतः +पुण्यं स फलमाप्नोति राजसूयाश्वमेधयोः +एषा यजनभूमिर्हि देवानामपि सत्कृता +तत्र दत्तं सूक्ष्ममपि महद्भवति भारत +न वेदवचनात्तात न लोकवचनादपि +मतिरुत्क्रमणीया ते प्रयागमरणं प्रति +दश तीर्थसहस्राणि षष्टिकोट्यस्तथापराः +येषां सांनिध्यमत्रैव कीर्तितं कुरुनन्दन +चातुर्वेदे च यत्पुण्यं सत्यवादिषु चैव यत् +स्नात एव तदाप्नोति गङ्गायमुनसंगमे +तत्र भोगवती नाम वासुकेस्तीर्थमुत्तमम् +तत्राभिषेकं यः कुर्यात्सोऽश्वमेधमवाप्नुयात् +तत्र हंसप्रपतनं तीर्थं त्रैलोक्यविश्रुतम् +दशाश्वमेधिकं चैव गङ्गायां कुरुनन्दन +यत्र गङ्गा महाराज स देशस्तत्तपोवनम् +सिद्धक्षेत्रं तु तज्ज्ञेयं गङ्गातीरसमाश्रितम् +इदं सत्यं द्विजातीनां साधूनामात्मजस्य च +सुहृदां च जपेत्कर्णे शिष्यस्यानुगतस्य च +इदं धर्म्यमिदं पुण्यमिदं मेध्यमिदं सुखम् +इदं स्वर्ग्यमिदं रम्यमिदं पावनमुत्तमम् +महर्षीणामिदं गुह्यं सर्वपापप्रमोचनम् +अधीत्य द्विजमध्ये च निर्मलत्वमवाप्नुयात् +यश्चेदं शृणुयान्नित्यं तीर्थपुण्यं सदा शुचिः +जातीः स स्मरते बह्वीर्नाकपृष्ठे च मोदते +गम्यान्यपि च तीर्थानि कीर्तितान्यगमानि च +मनसा तानि गच्छेत सर्वतीर्थसमीक्षया +एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिः +ऋषिभिर्देवकल्पैश्च श्रितानि सुकृतैषिभिः +एवं त्वमपि कौरव्य विधिनानेन सुव्रत +व्रज तीर्थानि नियतः पुण्यं पुण्येन वर्धते +भावितैः कारणैः पूर्वमास्तिक्याच्छ्रुतिदर्शनात् +प्राप्यन्ते तानि तीर्थानि सद्भिः ���िष्टानुदर्शिभिः +नाव्रतो नाकृतात्मा च नाशुचिर्न च तस्करः +स्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः +त्वया तु सम्यग्वृत्तेन नित्यं धर्मार्थदर्शिना +पितरस्तारितास्तात सर्वे च प्रपितामहाः +पितामहपुरोगाश्च देवाः सर्षिगणा नृप +तव धर्मेण धर्मज्ञ नित्यमेवाभितोषिताः +अवाप्स्यसि च लोकान्वै वसूनां वासवोपम +कीर्तिं च महतीं भीष्म प्राप्स्यसे भुवि शाश्वतीम् +नारद उवाच +एवमुक्त्वाभ्यनुज्ञाप्य पुलस्त्यो भगवानृषिः +प्रीतः प्रीतेन मनसा तत्रैवान्तरधीयत +भीष्मश्च कुरुशार्दूल शास्त्रतत्त्वार्थदर्शिवान् +पुलस्त्यवचनाच्चैव पृथिवीमनुचक्रमे +अनेन विधिना यस्तु पृथिवीं संचरिष्यति +अश्वमेधशतस्याग्र्यं फलं प्रेत्य स भोक्ष्यते +अतश्चाष्टगुणं पार्थ प्राप्स्यसे धर्ममुत्तमम् +नेता च त्वमृषीन्यस्मात्तेन तेऽष्टगुणं फलम् +रक्षोगणावकीर्णानि तीर्थान्येतानि भारत +न गतिर्विद्यतेऽन्यस्य त्वामृते कुरुनन्दन +इदं देवर्षिचरितं सर्वतीर्थार्थसंश्रितम् +यः पठेत्कल्यमुत्थाय सर्वपापैः प्रमुच्यते +ऋषिमुख्याः सदा यत्र वाल्मीकिस्त्वथ काश्यपः +आत्रेयस्त्वथ कौण्डिन्यो विश्वामित्रोऽथ गौतमः +असितो देवलश्चैव मार्कण्डेयोऽथ गालवः +भरद्वाजो वसिष्ठश्च मुनिरुद्दालकस्तथा +शौनकः सह पुत्रेण व्यासश्च जपतां वरः +दुर्वासाश्च मुनिश्रेष्ठो गालवश्च महातपाः +एते ऋषिवराः सर्वे त्वत्प्रतीक्षास्तपोधनाः +एभिः सह महाराज तीर्थान्येतान्यनुव्रज +एष वै लोमशो नाम देवर्षिरमितद्युतिः +समेष्यति त्वया चैव तेन सार्धमनुव्रज +मया च सह धर्मज्ञ तीर्थान्येतान्यनुव्रज +प्राप्स्यसे महतीं कीर्तिं यथा राजा महाभिषः +यथा ययातिर्धर्मात्मा यथा राजा पुरूरवाः +तथा त्वं कुरुशार्दूल स्वेन धर्मेण शोभसे +यथा भगीरथो राजा यथा रामश्च विश्रुतः +तथा त्वं सर्वराजभ्यो भ्राजसे रश्मिवानिव +यथा मनुर्यथेक्ष्वाकुर्यथा पूरुर्महायशाः +यथा वैन्यो महातेजास्तथा त्वमपि विश्रुतः +यथा च वृत्रहा सर्वान्सपत्नान्निर्दहत्पुरा +तथा शत्रुक्षयं कृत्वा प्रजास्त्वं पालयिष्यसि +स्वधर्मविजितामुर्वीं प्राप्य राजीवलोचन +ख्यातिं यास्यसि धर्मेण कार्तवीर्यार्जुनो यथा +वैशंपायन उवाच +एवमाश्वास्य राजानं नारदो भगवानृषिः +अनुज्ञाप्य महात्मानं तत्रैवान्तरधीयत +युधिष्ठिरोऽपि धर्मात्मा तमेवार्थं विचिन्तयन् +तीर्थयात्राश्रयं पुण्यमृषीणां प्रत्यवेदयत् +वैशंपायन उवाच +भ्रातॄणां मतमाज्ञाय नारदस्य च धीमतः +पितामहसमं धौम्यं प्राह राजा युधिष्ठिरः +मया स पुरुषव्याघ्रो जिष्णुः सत्यपराक्रमः +अस्त्रहेतोर्महाबाहुरमितात्मा विवासितः +स हि वीरोऽनुरक्तश्च समर्थश्च तपोधन +कृती च भृशमप्यस्त्रे वासुदेव इव प्रभुः +अहं ह्येतावुभौ ब्रह्मन्कृष्णावरिनिघातिनौ +अभिजानामि विक्रान्तौ तथा व्यासः प्रतापवान् +त्रियुगौ पुण्डरीकाक्षौ वासुदेवधनंजयौ +नारदोऽपि तथा वेद सोऽप्यशंसत्सदा मम +तथाहमपि जानामि नरनारायणावृषी +शक्तोऽयमित्यतो मत्वा मया संप्रेषितोऽर्जुनः +इन्द्रादनवरः शक्तः सुरसूनुः सुराधिपम् +द्रष्टुमस्त्राणि चादातुमिन्द्रादिति विवासितः +भीष्मद्रोणावतिरथौ कृपो द्रौणिश्च दुर्जयः +धृतराष्ट्रस्य पुत्रेण वृता युधि महाबलाः +सर्वे वेदविदः शूराः सर्वेऽस्त्रकुशलास्तथा +योद्धुकामश्च पार्थेन सततं यो महाबलः +स च दिव्यास्त्रवित्कर्णः सूतपुत्रो महारथः +सोऽश्ववेगानिलबलः शरार्चिस्तलनिस्वनः +रजोधूमोऽस्त्रसंतापो धार्तराष्ट्रानिलोद्धतः +निसृष्ट इव कालेन युगान्तज्वलनो यथा +मम सैन्यमयं कक्षं प्रधक्ष्यति न संशयः +तं स कृष्णानिलोद्धूतो दिव्यास्त्रजलदो महान् +श्वेतवाजिबलाकाभृद्गाण्डीवेन्द्रायुधोज्ज्वलः +सततं शरधाराभिः प्रदीप्तं कर्णपावकम् +उदीर्णोऽर्जुनमेघोऽयं शमयिष्यति संयुगे +स साक्षादेव सर्वाणि शक्रात्परपुरंजयः +दिव्यान्यस्त्राणि बीभत्सुस्तत्त्वतः प्रतिपत्स्यते +अलं स तेषां सर्वेषामिति मे धीयते मतिः +नास्ति त्वतिक्रिया तस्य रणेऽरीणां प्रतिक्रिया +तं वयं पाण्डवं सर्वे गृहीतास्त्रं धनंजयम् +द्रष्टारो न हि बीभत्सुर्भारमुद्यम्य सीदति +वयं तु तमृते वीरं वनेऽस्मिन्द्विपदां वर +अवधानं न गच्छामः काम्यके सह कृष्णया +भवानन्यद्वनं साधु बह्वन्नं फलवच्छुचि +आख्यातु रमणीयं च सेवितं पुण्यकर्मभिः +यत्र कंचिद्वयं कालं वसन्तः सत्यविक्रमम् +प्रतीक्षामोऽर्जुनं वीरं वर्षकामा इवाम्बुदम् +विविधानाश्रमान्कांश्चिद्द्विजातिभ्यः परिश्रुतान् +सरांसि सरितश्चैव रमणीयांश्च पर्वतान् +आचक्ष्व न हि नो ब्रह्मन्रोचते तमृतेऽर्जुनम् +वनेऽस्मिन्काम्यके वासो गच्छामोऽन्यां द���शं प्रति +वैशंपायन उवाच +तान्सर्वानुत्सुकान्दृष्ट्वा पाण्डवान्दीनचेतसः +आश्वासयंस्तदा धौम्यो बृहस्पतिसमोऽब्रवीत् +ब्राह्मणानुमतान्पुण्यानाश्रमान्भरतर्षभ +दिशस्तीर्थानि शैलांश्च शृणु मे गदतो नृप +पूर्वं प्राचीं दिशं राजन्राजर्षिगणसेविताम् +रम्यां ते कीर्तयिष्यामि युधिष्ठिर यथास्मृति +तस्यां देवर्षिजुष्टायां नैमिषं नाम भारत +यत्र तीर्थानि देवानां सुपुण्यानि पृथक्पृथक् +यत्र सा गोमती पुण्या रम्या देवर्षिसेविता +यज्ञभूमिश्च देवानां शामित्रं च विवस्वतः +तस्यां गिरिवरः पुण्यो गयो राजर्षिसत्कृतः +शिवं ब्रह्मसरो यत्र सेवितं त्रिदशर्षिभिः +यदर्थं पुरुषव्याघ्र कीर्तयन्ति पुरातनाः +एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् +महानदी च तत्रैव तथा गयशिरोऽनघ +यत्रासौ कीर्त्यते विप्रैरक्षय्यकरणो वटः +यत्र दत्तं पितृभ्योऽन्नमक्षय्यं भवति प्रभो +सा च पुण्यजला यत्र फल्गुनामा महानदी +बहुमूलफला चापि कौशिकी भरतर्षभ +विश्वामित्रोऽभ्यगाद्यत्र ब्राह्मणत्वं तपोधनः +गङ्गा यत्र नदी पुण्या यस्यास्तीरे भगीरथः +अयजत्तात बहुभिः क्रतुभिर्भूरिदक्षिणैः +पाञ्चालेषु च कौरव्य कथयन्त्युत्पलावतम् +विश्वामित्रोऽयजद्यत्र शक्रेण सह कौशिकः +यत्रानुवंशं भगवाञ्जामदग्न्यस्तथा जगौ +विश्वामित्रस्य तां दृष्ट्वा विभूतिमतिमानुषीम् +कन्यकुब्जेऽपिबत्सोममिन्द्रेण सह कौशिकः +ततः क्षत्रादपाक्रामद्ब्राह्मणोऽस्मीति चाब्रवीत् +पवित्रमृषिभिर्जुष्टं पुण्यं पावनमुत्तमम् +गङ्गायमुनयोर्वीर संगमं लोकविश्रुतम् +यत्रायजत भूतात्मा पूर्वमेव पितामहः +प्रयागमिति विख्यातं तस्माद्भरतसत्तम +अगस्त्यस्य च राजेन्द्र तत्राश्रमवरो महान् +हिरण्यबिन्दुः कथितो गिरौ कालंजरे नृप +अत्यन्यान्पर्वतान्राजन्पुण्यो गिरिवरः शिवः +महेन्द्रो नाम कौरव्य भार्गवस्य महात्मनः +अयजद्यत्र कौन्तेय पूर्वमेव पितामहः +यत्र भागीरथी पुण्या सदस्यासीद्युधिष्ठिर +यत्रासौ ब्रह्मशालेति पुण्या ख्याता विशां पते +धूतपाप्मभिराकीर्णा पुण्यं तस्याश्च दर्शनम् +पवित्रो मङ्गलीयश्च ख्यातो लोके सनातनः +केदारश्च मतङ्गस्य महानाश्रम उत्तमः +कुण्डोदः पर्वतो रम्यो बहुमूलफलोदकः +नैषधस्तृषितो यत्र जलं शर्म च लब्धवान् +यत्र देववनं रम्यं तापसैरुप��ोभितम् +बाहुदा च नदी यत्र नन्दा च गिरिमूर्धनि +तीर्थानि सरितः शैलाः पुण्यान्यायतनानि च +प्राच्यां दिशि महाराज कीर्तितानि मया तव +तिसृष्वन्यासु पुण्यानि दिक्षु तीर्थानि मे शृणु +सरितः पर्वतांश्चैव पुण्यान्यायतनानि च +धौम्य उवाच +दक्षिणस्यां तु पुण्यानि शृणु तीर्थानि भारत +विस्तरेण यथाबुद्धि कीर्त्यमानानि भारत +यस्यामाख्यायते पुण्या दिशि गोदावरी नदी +बह्वारामा बहुजला तापसाचरिता शुभा +वेण्णा भीमरथी चोभे नद्यौ पापभयापहे +मृगद्विजसमाकीर्णे तापसालयभूषिते +राजर्षेस्तत्र च सरिन्नृगस्य भरतर्षभ +रम्यतीर्था बहुजला पयोष्णी द्विजसेविता +अपि चात्र महायोगी मार्कण्डेयो महातपाः +अनुवंश्यां जगौ गाथां नृगस्य धरणीपतेः +नृगस्य यजमानस्य प्रत्यक्षमिति नः श्रुतम् +अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः +माठरस्य वनं पुण्यं बहुमूलफलं शिवम् +यूपश्च भरतश्रेष्ठ वरुणस्रोतसे गिरौ +प्रवेण्युत्तरपार्श्वे तु पुण्ये कण्वाश्रमे तथा +तापसानामरण्यानि कीर्तितानि यथाश्रुति +वेदी शूर्पारके तात जमदग्नेर्महात्मनः +रम्या पाषाणतीर्था च पुरश्चन्द्रा च भारत +अशोकतीर्थं मर्त्येषु कौन्तेय बहुलाश्रमम् +अगस्त्यतीर्थं पाण्ड्येषु वारुणं च युधिष्ठिर +कुमार्यः कथिताः पुण्याः पाण्ड्येष्वेव नरर्षभ +ताम्रपर्णीं तु कौन्तेय कीर्तयिष्यामि तां शृणु +यत्र देवैस्तपस्तप्तं महदिच्छद्भिराश्रमे +गोकर्णमिति विख्यातं त्रिषु लोकेषु भारत +शीततोयो बहुजलः पुण्यस्तात शिवश्च सः +ह्रदः परमदुष्प्रापो मानुषैरकृतात्मभिः +तत्रैव तृणसोमाग्नेः संपन्नफलमूलवान् +आश्रमोऽगस्त्यशिष्यस्य पुण्यो देवसभे गिरौ +वैडूर्यपर्वतस्तत्र श्रीमान्मणिमयः शिवः +अगस्त्यस्याश्रमश्चैव बहुमूलफलोदकः +सुराष्ट्रेष्वपि वक्ष्यामि पुण्यान्यायतनानि च +आश्रमान्सरितः शैलान्सरांसि च नराधिप +चमसोन्मज्जनं विप्रास्तत्रापि कथयन्त्युत +प्रभासं चोदधौ तीर्थं त्रिदशानां युधिष्ठिर +तत्र पिण्डारकं नाम तापसाचरितं शुभम् +उज्जयन्तश्च शिखरी क्षिप्रं सिद्धिकरो महान् +तत्र देवर्षिवर्येण नारदेनानुकीर्तितः +पुराणः श्रूयते श्लोकस्तं निबोध युधिष्ठिर +पुण्ये गिरौ सुराष्ट्रेषु मृगपक्षिनिषेविते +उज्जयन्ते स्म तप्ताङ्गो नाकपृष्ठे महीयते +पुण्या द्वारवती तत्र यत्रास्ते मधुसूदनः +साक्षाद्देवः पुराणोऽसौ स हि धर्मः सनातनः +ये च वेदविदो विप्रा ये चाध्यात्मविदो जनाः +ते वदन्ति महात्मानं कृष्णं धर्मं सनातनम् +पवित्राणां हि गोविन्दः पवित्रं परमुच्यते +पुण्यानामपि पुण्योऽसौ मङ्गलानां च मङ्गलम् +त्रैलोक्यं पुण्डरीकाक्षो देवदेवः सनातनः +आस्ते हरिरचिन्त्यात्मा तत्रैव मधुसूदनः +धौम्य उवाच +अवन्तिषु प्रतीच्यां वै कीर्तयिष्यामि ते दिशि +यानि तत्र पवित्राणि पुण्यान्यायतनानि च +प्रियङ्ग्वाम्रवनोपेता वानीरवनमालिनी +प्रत्यक्स्रोता नदी पुण्या नर्मदा तत्र भारत +निकेतः ख्यायते पुण्यो यत्र विश्रवसो मुनेः +जज्ञे धनपतिर्यत्र कुबेरो नरवाहनः +वैडूर्यशिखरो नाम पुण्यो गिरिवरः शुभः +दिव्यपुष्पफलास्तत्र पादपा हरितच्छदाः +तस्य शैलस्य शिखरे सरस्तत्र च धीमतः +प्रफुल्लनलिनं राजन्देवगन्धर्वसेवितम् +बह्वाश्चर्यं महाराज दृश्यते तत्र पर्वते +पुण्ये स्वर्गोपमे दिव्ये नित्यं देवर्षिसेविते +ह्रदिनी पुण्यतीर्था च राजर्षेस्तत्र वै सरित् +विश्वामित्रनदी पारा पुण्या परपुरंजय +यस्यास्तीरे सतां मध्ये ययातिर्नहुषात्मजः +पपात स पुनर्लोकाँल्लेभे धर्मान्सनातनान् +तत्र पुण्यह्रदस्तात मैनाकश्चैव पर्वतः +बहुमूलफलो वीर असितो नाम पर्वतः +आश्रमः कक्षसेनस्य पुण्यस्तत्र युधिष्ठिर +च्यवनस्याश्रमश्चैव ख्यातः सर्वत्र पाण्डव +तत्राल्पेनैव सिध्यन्ति मानवास्तपसा विभो +जम्बूमार्गो महाराज ऋषीणां भावितात्मनाम् +आश्रमः शाम्यतां श्रेष्ठ मृगद्विजगणायुतः +ततः पुण्यतमा राजन्सततं तापसायुता +केतुमाला च मेध्या च गङ्गारण्यं च भूमिप +ख्यातं च सैन्धवारण्यं पुण्यं द्विजनिषेवितम् +पितामहसरः पुण्यं पुष्करं नाम भारत +वैखानसानां सिद्धानामृषीणामाश्रमः प्रियः +अप्यत्र संस्तवार्थाय प्रजापतिरथो जगौ +पुष्करेषु कुरुश्रेष्ठ गाथां सुकृतिनां वर +मनसाप्यभिकामस्य पुष्कराणि मनस्विनः +पापाणि विप्रणश्यन्ति नाकपृष्ठे च मोदते +धौम्य उवाच +उदीच्यां राजशार्दूल दिशि पुण्यानि यानि वै +तानि ते कीर्तयिष्यामि पुण्यान्यायतनानि च +सरस्वती पुण्यवहा ह्रदिनी वनमालिनी +समुद्रगा महावेगा यमुना यत्र पाण्डव +तत्र पुण्यतमं तीर्थं प्लक्षावतरणं शिवम् +यत्र सारस्वतैरिष्ट्वा गच्छन्त्यवभृथं द्विजाः +पुण्यं चाख्याय��े दिव्यं शिवमग्निशिरोऽनघ +सहदेवोऽयजद्यत्र शम्याक्षेपेण भारत +एतस्मिन्नेव चार्थेयमिन्द्रगीता युधिष्ठिर +गाथा चरति लोकेऽस्मिन्गीयमाना द्विजातिभिः +अग्नयः सहदेवेन ये चिता यमुनामनु +शतं शतसहस्राणि सहस्रशतदक्षिणाः +तत्रैव भरतो राजा चक्रवर्ती महायशाः +विंशतिं सप्त चाष्टौ च हयमेधानुपाहरत् +कामकृद्यो द्विजातीनां श्रुतस्तात मया पुरा +अत्यन्तमाश्रमः पुण्यः सरकस्तस्य विश्रुतः +सरस्वती नदी सद्भिः सततं पार्थ पूजिता +वालखिल्यैर्महाराज यत्रेष्टमृषिभिः पुरा +दृषद्वती पुण्यतमा तत्र ख्याता युधिष्ठिर +तत्र वैवर्ण्यवर्णौ च सुपुण्यौ मनुजाधिप +वेदज्ञौ वेदविदितौ विद्यावेदविदावुभौ +यजन्तौ क्रतुभिर्नित्यं पुण्यैर्भरतसत्तम +समेत्य बहुशो देवाः सेन्द्राः सवरुणाः पुरा +विशाखयूपेऽतप्यन्त तस्मात्पुण्यतमः स वै +ऋषिर्महान्महाभागो जमदग्निर्महायशाः +पलाशकेषु पुण्येषु रम्येष्वयजताभिभूः +यत्र सर्वाः सरिच्छ्रेष्ठाः साक्षात्तमृषिसत्तमम् +स्वं स्वं तोयमुपादाय परिवार्योपतस्थिरे +अपि चात्र महाराज स्वयं विश्वावसुर्जगौ +इमं श्लोकं तदा वीर प्रेक्ष्य वीर्यं महात्मनः +यजमानस्य वै देवाञ्जमदग्नेर्महात्मनः +आगम्य सरितः सर्वा मधुना समतर्पयन् +गन्धर्वयक्षरक्षोभिरप्सरोभिश्च शोभितम् +किरातकिंनरावासं शैलं शिखरिणां वरम् +बिभेद तरसा गङ्गा गङ्गाद्वारे युधिष्ठिर +पुण्यं तत्ख्यायते राजन्ब्रह्मर्षिगणसेवितम् +सनत्कुमारः कौरव्य पुण्यं कनखलं तथा +पर्वतश्च पुरुर्नाम यत्र जातः पुरूरवाः +भृगुर्यत्र तपस्तेपे महर्षिगणसेवितः +स राजन्नाश्रमः ख्यातो भृगुतुङ्गो महागिरिः +यच्च भूतं भविष्यच्च भवच्च पुरुषर्षभ +नारायणः प्रभुर्विष्णुः शाश्वतः पुरुषोत्तमः +तस्यातियशसः पुण्यां विशालां बदरीमनु +आश्रमः ख्यायते पुण्यस्त्रिषु लोकेषु विश्रुतः +उष्णतोयवहा गङ्गा शीततोयवहापरा +सुवर्णसिकता राजन्विशालां बदरीमनु +ऋषयो यत्र देवाश्च महाभागा महौजसः +प्राप्य नित्यं नमस्यन्ति देवं नारायणं विभुम् +यत्र नारायणो देवः परमात्मा सनातनः +तत्र कृत्स्नं जगत्पार्थ तीर्थान्यायतनानि च +तत्पुण्यं तत्परं ब्रह्म तत्तीर्थं तत्तपोवनम् +तत्र देवर्षयः सिद्धाः सर्वे चैव तपोधनाः +आदिदेवो महायोगी यत्रास्ते मधुसूदनः +पुण्यानामपि तत्पुण्यं तत��र ते संशयोऽस्तु मा +एतानि राजन्पुण्यानि पृथिव्यां पृथिवीपते +कीर्तितानि नरश्रेष्ठ तीर्थान्यायतनानि च +एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिः +ऋषिभिर्ब्रह्मकल्पैश्च सेवितानि महात्मभिः +चरनेतानि कौन्तेय सहितो ब्राह्मणर्षभैः +भ्रातृभिश्च महाभागैरुत्कण्ठां विजहिष्यसि +वैशंपायन उवाच +एवं संभाषमाणे तु धौम्ये कौरवनन्दन +लोमशः सुमहातेजा ऋषिस्तत्राजगाम ह +तं पाण्डवाग्रजो राजा सगणो ब्राह्मणाश्च ते +उदतिष्ठन्महाभागं दिवि शक्रमिवामराः +तमभ्यर्च्य यथान्यायं धर्मराजो युधिष्ठिरः +पप्रच्छागमने हेतुमटने च प्रयोजनम् +स पृष्टः पाण्डुपुत्रेण प्रीयमाणो महामनाः +उवाच श्लक्ष्णया वाचा हर्षयन्निव पाण्डवान् +संचरन्नस्मि कौन्तेय सर्वलोकान्यदृच्छया +गतः शक्रस्य सदनं तत्रापश्यं सुरेश्वरम् +तव च भ्रातरं वीरमपश्यं सव्यसाचिनम् +शक्रस्यार्धासनगतं तत्र मे विस्मयो महान् +आसीत्पुरुषशार्दूल दृष्ट्वा पार्थं तथागतम् +आह मां तत्र देवेशो गच्छ पाण्डुसुतानिति +सोऽहमभ्यागतः क्षिप्रं दिदृक्षुस्त्वां सहानुजम् +वचनात्पुरुहूतस्य पार्थस्य च महात्मनः +आख्यास्ये ते प्रियं तात महत्पाण्डवनन्दन +भ्रातृभिः सहितो राजन्कृष्णया चैव तच्छृणु +यत्त्वयोक्तो महाबाहुरस्त्रार्थं पाण्डवर्षभ +तदस्त्रमाप्तं पार्थेन रुद्रादप्रतिमं महत् +यत्तद्ब्रह्मशिरो नाम तपसा रुद्रमागतम् +अमृतादुत्थितं रौद्रं तल्लब्धं सव्यसाचिना +तत्समन्त्रं ससंहारं सप्रायश्चित्तमङ्गलम् +वज्रं चान्यानि चास्त्राणि दण्डादीनि युधिष्ठिर +यमात्कुबेराद्वरुणादिन्द्राच्च कुरुनन्दन +अस्त्राण्यधीतवान्पार्थो दिव्यान्यमितविक्रमः +विश्वावसोश्च तनयाद्गीतं नृत्तं च साम च +वादित्रं च यथान्यायं प्रत्यविन्दद्यथाविधि +एवं कृतास्त्रः कौन्तेयो गान्धर्वं वेदमाप्तवान् +सुखं वसति बीभत्सुरनुजस्यानुजस्तव +यदर्थं मां सुरश्रेष्ठ इदं वचनमब्रवीत् +तच्च ते कथयिष्यामि युधिष्ठिर निबोध मे +भवान्मनुष्यलोकाय गमिष्यति न संशयः +ब्रूयाद्युधिष्ठिरं तत्र वचनान्मे द्विजोत्तम +आगमिष्यति ते भ्राता कृतास्त्रः क्षिप्रमर्जुनः +सुरकार्यं महत्कृत्वा यदाशक्यं दिवौकसैः +तपसा तु त्वमात्मानं भ्रातृभिः सह योजय +तपसो हि परं नास्ति तपसा विन्दते महत् +अहं च कर्णं जानामि यथाव���्भरतर्षभ +न स पार्थस्य संग्रामे कलामर्हति षोडशीम् +यच्चापि ते भयं तस्मान्मनसिस्थमरिंदम +तच्चाप्यपहरिष्यामि सव्यसाचाविहागते +यच्च ते मानसं वीर तीर्थयात्रामिमां प्रति +तच्च ते लोमशः सर्वं कथयिष्यत्यसंशयम् +यच्च किंचित्तपोयुक्तं फलं तीर्थेषु भारत +महर्षिरेष यद्ब्रूयात्तच्छ्रद्धेयमनन्यथा +लोमश उवाच +धनंजयेन चाप्युक्तं यत्तच्छृणु युधिष्ठिर +युधिष्ठिरं भ्रातरं मे योजयेर्धर्म्यया श्रिया +त्वं हि धर्मान्परान्वेत्थ तपांसि च तपोधन +श्रीमतां चापि जानासि राज्ञां धर्मं सनातनम् +स भवान्यत्परं वेद पावनं पुरुषान्प्रति +तेन संयोजयेथास्त्वं तीर्थपुण्येन पाण्डवम् +यथा तीर्थानि गच्छेत गाश्च दद्यात्स पार्थिवः +तथा सर्वात्मना कार्यमिति मां विजयोऽब्रवीत् +भवता चानुगुप्तोऽसौ चरेत्तीर्थानि सर्वशः +रक्षोभ्यो रक्षितव्यश्च दुर्गेषु विषमेषु च +दधीच इव देवेन्द्रं यथा चाप्यङ्गिरा रविम् +तथा रक्षस्व कौन्तेयं राक्षसेभ्यो द्विजोत्तम +यातुधाना हि बहवो राक्षसाः पर्वतोपमाः +त्वयाभिगुप्तान्कौन्तेयान्नातिवर्तेयुरन्तिकात् +सोऽहमिन्द्रस्य वचनान्नियोगादर्जुनस्य च +रक्षमाणो भयेभ्यस्त्वां चरिष्यामि त्वया सह +द्विस्तीर्थानि मया पूर्वं दृष्टानि कुरुनन्दन +इदं तृतीयं द्रक्ष्यामि तान्येव भवता सह +इयं राजर्षिभिर्याता पुण्यकृद्भिर्युधिष्ठिर +मन्वादिभिर्महाराज तीर्थयात्रा भयापहा +नानृजुर्नाकृतात्मा च नावैद्यो न च पापकृत् +स्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः +त्वं तु धर्ममतिर्नित्यं धर्मज्ञः सत्यसंगरः +विमुक्तः सर्वपापेभ्यो भूय एव भविष्यसि +यथा भगीरथो राजा राजानश्च गयादयः +यथा ययातिः कौन्तेय तथा त्वमपि पाण्डव +युधिष्ठिर उवाच +न हर्षात्संप्रपश्यामि वाक्यस्यास्योत्तरं क्वचित् +स्मरेद्धि देवराजो यं किं नामाभ्यधिकं ततः +भवता संगमो यस्य भ्राता यस्य धनंजयः +वासवः स्मरते यस्य को नामाभ्यधिकस्ततः +यच्च मां भगवानाह तीर्थानां दर्शनं प्रति +धौम्यस्य वचनादेषा बुद्धिः पूर्वं कृतैव मे +तद्यदा मन्यसे ब्रह्मन्गमनं तीर्थदर्शने +तदैव गन्तास्मि दृढमेष मे निश्चयः परः +वैशंपायन उवाच +गमने कृतबुद्धिं तं पाण्डवं लोमशोऽब्रवीत् +लघुर्भव महाराज लघुः स्वैरं गमिष्यसि +युधिष्ठिर उवाच +बिक्षाभुजो निवर्तन्तां ब्राह्मणा यतयश्च ये +ये चाप्यनुगताः पौरा राजभक्तिपुरस्कृताः +धृतराष्ट्रं महाराजमभिगच्छन्तु चैव ते +स दास्यति यथाकालमुचिता यस्य या भृतिः +स चेद्यथोचितां वृत्तिं न दद्यान्मनुजेश्वरः +अस्मत्प्रियहितार्थाय पाञ्चाल्यो वः प्रदास्यति +वैशंपायन उवाच +ततो भूयिष्ठशः पौरा गुरुभारसमाहिताः +विप्राश्च यतयो युक्ता जग्मुर्नागपुरं प्रति +तान्सर्वान्धर्मराजस्य प्रेम्णा राजाम्बिकासुतः +प्रतिजग्राह विधिवद्धनैश्च समतर्पयत् +ततः कुन्तीसुतो राजा लघुभिर्ब्राह्मणैः सह +लोमशेन च सुप्रीतस्त्रिरात्रं काम्यकेऽवसत् +वैशंपायन उवाच +ततः प्रयान्तं कौन्तेयं ब्राह्मणा वनवासिनः +अभिगम्य तदा राजन्निदं वचनमब्रुवन् +राजंस्तीर्थानि गन्तासि पुण्यानि भ्रातृभिः सह +देवर्षिणा च सहितो लोमशेन महात्मना +अस्मानपि महाराज नेतुमर्हसि पाण्डव +अस्माभिर्हि न शक्यानि त्वदृते तानि कौरव +श्वापदैरुपसृष्टानि दुर्गाणि विषमाणि च +अगम्यानि नरैरल्पैस्तीर्थानि मनुजेश्वर +भवन्तो भ्रातरः शूरा धनुर्धरवराः सदा +भवद्भिः पालिताः शूरैर्गच्छेम वयमप्युत +भवत्प्रसादाद्धि वयं प्राप्नुयाम फलं शुभम् +तीर्थानां पृथिवीपाल व्रतानां च विशां पते +तव वीर्यपरित्राताः शुद्धास्तीर्थपरिप्लुताः +भवेम धूतपाप्मानस्तीर्थसंदर्शनान्नृप +भवानपि नरेन्द्रस्य कार्तवीर्यस्य भारत +अष्टकस्य च राजर्षेर्लोमपादस्य चैव ह +भरतस्य च वीरस्य सार्वभौमस्य पार्थिव +ध्रुवं प्राप्स्यसि दुष्प्रापाँल्लोकांस्तीर्थपरिप्लुतः +प्रभासादीनि तीर्थानि महेन्द्रादींश्च पर्वतान् +गङ्गाद्याः सरितश्चैव प्लक्षादींश्च वनस्पतीन् +त्वया सह महीपाल द्रष्टुमिच्छामहे वयम् +यदि ते ब्राह्मणेष्वस्ति काचित्प्रीतिर्जनाधिप +कुरु क्षिप्रं वचोऽस्माकं ततः श्रेयोऽभिपत्स्यसे +तीर्थानि हि महाबाहो तपोविघ्नकरैः सदा +अनुकीर्णानि रक्षोभिस्तेभ्यो नस्त्रातुमर्हसि +तीर्थान्युक्तानि धौम्येन नारदेन च धीमता +यान्युवाच च देवर्षिर्लोमशः सुमहातपाः +विधिवत्तानि सर्वाणि पर्यटस्व नराधिप +धूतपाप्मा सहास्माभिर्लोमशेन च पालितः +स तथा पूज्यमानस्तैर्हर्षादश्रुपरिप्लुतः +भीमसेनादिभिर्वीरैर्भ्रातृभिः परिवारितः +बाढमित्यब्रवीत्सर्वांस्तानृषीन्पाण्डवर्षभः +लोमशं समनुज्ञाप्य धौम्यं चैव पुरोहितम् +ततः स पाण्डवश्रेष्ठो भ्रातृभिः सहितो वशी +द्रौपद्या चानवद्याङ्ग्या गमनाय मनो दधे +अथ व्यासो महाभागस्तथा नारदपर्वतौ +काम्यके पाण्डवं द्रष्टुं समाजग्मुर्मनीषिणः +तेषां युधिष्ठिरो राजा पूजां चक्रे यथाविधि +सत्कृतास्ते महाभागा युधिष्ठिरमथाब्रुवन् +युधिष्ठिर यमौ भीम मनसा कुरुतार्जवम् +मनसा कृतशौचा वै शुद्धास्तीर्थानि गच्छत +शरीरनियमं ह्याहुर्ब्राह्मणा मानुषं व्रतम् +मनोविशुद्धां बुद्धिं च दैवमाहुर्व्रतं द्विजाः +मनो ह्यदुष्टं शूराणां पर्याप्तं वै नराधिप +मैत्रीं बुद्धिं समास्थाय शुद्धास्तीर्थानि गच्छत +ते यूयं मानसैः शुद्धाः शरीरनियमव्रतैः +दैवं व्रतं समास्थाय यथोक्तं फलमाप्स्यथ +ते तथेति प्रतिज्ञाय कृष्णया सह पाण्डवाः +कृतस्वस्त्ययनाः सर्वे मुनिभिर्दिव्यमानुषैः +लोमशस्योपसंगृह्य पादौ द्वैपायनस्य च +नारदस्य च राजेन्द्र देवर्षेः पर्वतस्य च +धौम्येन सहिता वीरास्तथान्यैर्वनवासिभिः +मार्गशीर्ष्यामतीतायां पुष्येण प्रययुस्ततः +कठिनानि समादाय चीराजिनजटाधराः +अभेद्यैः कवचैर्युक्तास्तीर्थान्यन्वचरंस्तदा +इन्द्रसेनादिभिर्भृत्यै रथैः परिचतुर्दशैः +महानसव्यापृतैश्च तथान्यैः परिचारकैः +सायुधा बद्धनिस्त्रिंशास्तूणवन्तः समार्गणाः +प्राङ्मुखाः प्रययुर्वीराः पाण्डवा जनमेजय +युधिष्ठिर उवाच +न वै निर्गुणमात्मानं मन्ये देवर्षिसत्तम +तथास्मि दुःखसंतप्तो यथा नान्यो महीपतिः +परांश्च निर्गुणान्मन्ये न च धर्मरतानपि +ते च लोमश लोकेऽस्मिन्नृध्यन्ते केन केतुना +लोमश उवाच +नात्र दुःखं त्वया राजन्कार्यं पार्थ कथंचन +यदधर्मेण वर्धेरन्नधर्मरुचयो जनाः +वर्धत्यधर्मेण नरस्ततो भद्राणि पश्यति +ततः सपत्नाञ्जयति समूलस्तु विनश्यति +मया हि दृष्टा दैतेया दानवाश्च महीपते +वर्धमाना ह्यधर्मेण क्षयं चोपगताः पुनः +पुरा देवयुगे चैव दृष्टं सर्वं मया विभो +अरोचयन्सुरा धर्मं धर्मं तत्यजिरेऽसुराः +तीर्थानि देवा विविशुर्नाविशन्भारतासुराः +तानधर्मकृतो दर्पः पूर्वमेव समाविशत् +दर्पान्मानः समभवन्मानात्क्रोधो व्यजायत +क्रोधादह्रीस्ततोऽलज्जा वृत्तं तेषां ततोऽनशत् +तानलज्जान्गतह्रीकान्हीनवृत्तान्वृथाव्रतान् +क्षमा लक्ष्मीश्च धर्मश्च नचिरात्प्रजहुस्ततः +लक्ष्मीस्तु देवानगमदलक्ष्मीरसुरान्नृप +तानलक्ष्मीसमाविष्टान्दर्पोपहतचेतसः +दैतेयान्दानवांश्चैव कलिरप्याविशत्ततः +तानलक्ष्मीसमाविष्टान्दानवान्कलिना तथा +दर्पाभिभूतान्कौन्तेय क्रियाहीनानचेतसः +मानाभिभूतानचिराद्विनाशः प्रत्यपद्यत +निर्यशस्यास्ततो दैत्याः कृत्स्नशो विलयं गताः +देवास्तु सागरांश्चैव सरितश्च सरांसि च +अभ्यगच्छन्धर्मशीलाः पुण्यान्यायतनानि च +तपोभिः क्रतुभिर्दानैराशीर्वादैश्च पाण्डव +प्रजहुः सर्वपापानि श्रेयश्च प्रतिपेदिरे +एवं हि दानवन्तश्च क्रियावन्तश्च सर्वशः +तीर्थान्यगच्छन्विबुधास्तेनापुर्भूतिमुत्तमाम् +तथा त्वमपि राजेन्द्र स्नात्वा तीर्थेषु सानुजः +पुनर्वेत्स्यसि तां लक्ष्मीमेष पन्थाः सनातनः +यथैव हि नृगो राजा शिबिरौशीनरो यथा +भगीरथो वसुमना गयः पूरुः पुरूरवाः +चरमाणास्तपो नित्यं स्पर्शनादम्भसश्च ते +तीर्थाभिगमनात्पूता दर्शनाच्च महात्मनाम् +अलभन्त यशः पुण्यं धनानि च विशां पते +तथा त्वमपि राजेन्द्र लब्धासि विपुलां श्रियम् +यथा चेक्ष्वाकुरचरत्सपुत्रजनबान्धवः +मुचुकुन्दोऽथ मान्धाता मरुत्तश्च महीपतिः +कीर्तिं पुण्यामविन्दन्त यथा देवास्तपोबलात् +देवर्षयश्च कार्त्स्न्येन तथा त्वमपि वेत्स्यसे +धार्तराष्ट्रास्तु दर्पेण मोहेन च वशीकृताः +नचिराद्विनशिष्यन्ति दैत्या इव न संशयः +वैशंपायन उवाच +ते तथा सहिता वीरा वसन्तस्तत्र तत्र ह +क्रमेण पृथिवीपाल नैमिषारण्यमागताः +ततस्तीर्थेषु पुण्येषु गोमत्याः पाण्डवा नृप +कृताभिषेकाः प्रददुर्गाश्च वित्तं च भारत +तत्र देवान्पितॄन्विप्रांस्तर्पयित्वा पुनः पुनः +कन्यातीर्थेऽश्वतीर्थे च गवां तीर्थे च कौरवाः +वालकोट्यां वृषप्रस्थे गिरावुष्य च पाण्डवाः +बाहुदायां महीपाल चक्रुः सर्वेऽभिषेचनम् +प्रयागे देवयजने देवानां पृथिवीपते +ऊषुराप्लुत्य गात्राणि तपश्चातस्थुरुत्तमम् +गङ्गायमुनयोश्चैव संगमे सत्यसंगराः +विपाप्मानो महात्मानो विप्रेभ्यः प्रददुर्वसु +तपस्विजनजुष्टां च ततो वेदीं प्रजापतेः +जग्मुः पाण्डुसुता राजन्ब्राह्मणैः सह भारत +तत्र ते न्यवसन्वीरास्तपश्चातस्थुरुत्तमम् +संतर्पयन्तः सततं वन्येन हविषा द्विजान् +ततो महीधरं जग्मुर्धर्मज्ञेनाभिसत्कृतम् +राजर्षिणा पुण्यकृता गयेनानुपमद्युते +सरो गयशिरो यत्र पुण्या चैव महानदी +ऋषिजुष्टं सुपुण्यं तत्तीर्थं ब्रह्मसरोत्तमम् +अगस्त्यो भगवान्यत्र गतो वैवस्वतं प्रति +उवास च स्वयं यत्र धर्मो राजन्सनातनः +सर्वासां सरितां चैव समुद्भेदो विशां पते +यत्र संनिहितो नित्यं महादेवः पिनाकधृक् +तत्र ते पाण्डवा वीराश्चातुर्मास्यैस्तदेजिरे +ऋषियज्ञेन महता यत्राक्षयवटो महान् +ब्राह्मणास्तत्र शतशः समाजग्मुस्तपोधनाः +चातुर्मास्येनायजन्त आर्षेण विधिना तदा +तत्र विद्यातपोनित्या ब्राह्मणा वेदपारगाः +कथाः प्रचक्रिरे पुण्याः सदसिस्था महात्मनाम् +तत्र विद्याव्रतस्नातः कौमारं व्रतमास्थितः +शमठोऽकथयद्राजन्नामूर्तरयसं गयम् +अमूर्तरयसः पुत्रो गयो राजर्षिसत्तमः +पुण्यानि यस्य कर्माणि तानि मे शृणु भारत +यस्य यज्ञो बभूवेह बह्वन्नो बहुदक्षिणः +यत्रान्नपर्वता राजञ्शतशोऽथ सहस्रशः +घृतकुल्याश्च दध्नश्च नद्यो बहुशतास्तथा +व्यञ्जनानां प्रवाहाश्च महार्हाणां सहस्रशः +अहन्यहनि चाप्येतद्याचतां संप्रदीयते +अन्यत्तु ब्राह्मणा राजन्भुञ्जतेऽन्नं सुसंस्कृतम् +तत्र वै दक्षिणाकाले ब्रह्मघोषो दिवं गतः +न स्म प्रज्ञायते किंचिद्ब्रह्मशब्देन भारत +पुण्येन चरता राजन्भूर्दिशः खं नभस्तथा +आपूर्णमासीच्छब्देन तदप्यासीन्महाद्भुतम् +तत्र स्म गाथा गायन्ति मनुष्या भरतर्षभ +अन्नपानैः शुभैस्तृप्ता देशे देशे सुवर्चसः +गयस्य यज्ञे के त्वद्य प्राणिनो भोक्तुमीप्सवः +यत्र भोजनशिष्टस्य पर्वताः पञ्चविंशतिः +न स्म पूर्वे जनाश्चक्रुर्न करिष्यन्ति चापरे +गयो यदकरोद्यज्ञे राजर्षिरमितद्युतिः +कथं नु देवा हविषा गयेन परितर्पिताः +पुनः शक्ष्यन्त्युपादातुमन्यैर्दत्तानि कानिचित् +एवंविधाः सुबहवस्तस्य यज्ञे महात्मनः +बभूवुरस्य सरसः समीपे कुरुनन्दन +वैशंपायन उवाच +ततः संप्रस्थितो राजा कौन्तेयो भूरिदक्षिणः +अगस्त्याश्रममासाद्य दुर्जयायामुवास ह +तत्र वै लोमशं राजा पप्रच्छ वदतां वरः +अगस्त्येनेह वातापिः किमर्थमुपशामितः +आसीद्वा किंप्रभावश्च स दैत्यो मानवान्तकः +किमर्थं चोद्गतो मन्युरगस्त्यस्य महात्मनः +लोमश उवाच +इल्वलो नाम दैतेय आसीत्कौरवनन्दन +मणिमत्यां पुरि पुरा वातापिस्तस्य चानुजः +स ब्राह्मणं तपोयुक्तमुवाच दितिनन्दनः +पुत्रं मे भगवानेकमिन्द्रतुल्यं प्रयच्छतु +तस्मै स ब्राह्मण�� नादात्पुत्रं वासवसंमितम् +चुक्रोध सोऽसुरस्तस्य ब्राह्मणस्य ततो भृशम् +समाह्वयति यं वाचा गतं वैवस्वतक्षयम् +स पुनर्देहमास्थाय जीवन्स्म प्रतिदृश्यते +ततो वातापिमसुरं छागं कृत्वा सुसंस्कृतम् +तं ब्राह्मणं भोजयित्वा पुनरेव समाह्वयत् +तस्य पार्श्वं विनिर्भिद्य ब्राह्मणस्य महासुरः +वातापिः प्रहसन्राजन्निश्चक्राम विशां पते +एवं स ब्राह्मणान्राजन्भोजयित्वा पुनः पुनः +हिंसयामास दैतेय इल्वलो दुष्टचेतनः +अगस्त्यश्चापि भगवानेतस्मिन्काल एव तु +पितॄन्ददर्श गर्ते वै लम्बमानानधोमुखान् +सोऽपृच्छल्लम्बमानांस्तान्भवन्त इह किंपराः +संतानहेतोरिति ते तमूचुर्ब्रह्मवादिनः +ते तस्मै कथयामासुर्वयं ते पितरः स्वकाः +गर्तमेतमनुप्राप्ता लम्बामः प्रसवार्थिनः +यदि नो जनयेथास्त्वमगस्त्यापत्यमुत्तमम् +स्यान्नोऽस्मान्निरयान्मोक्षस्त्वं च पुत्राप्नुया गतिम् +स तानुवाच तेजस्वी सत्यधर्मपरायणः +करिष्ये पितरः कामं व्येतु वो मानसो ज्वरः +ततः प्रसवसंतानं चिन्तयन्भगवानृषिः +आत्मनः प्रसवस्यार्थे नापश्यत्सदृशीं स्त्रियम् +स तस्य तस्य सत्त्वस्य तत्तदङ्गमनुत्तमम् +संभृत्य तत्समैरङ्गैर्निर्ममे स्त्रियमुत्तमाम् +स तां विदर्भराजाय पुत्रकामाय ताम्यते +निर्मितामात्मनोऽर्थाय मुनिः प्रादान्महातपाः +सा तत्र जज्ञे सुभगा विद्युत्सौदामिनी यथा +विभ्राजमाना वपुसा व्यवर्धत शुभानना +जातमात्रां च तां दृष्ट्वा वैदर्भः पृथिवीपतिः +प्रहर्षेण द्विजातिभ्यो न्यवेदयत भारत +अभ्यनन्दन्त तां सर्वे ब्राह्मणा वसुधाधिप +लोपामुद्रेति तस्याश्च चक्रिरे नाम ते द्विजाः +ववृधे सा महाराज बिभ्रती रूपमुत्तमम् +अप्स्विवोत्पलिनी शीघ्रमग्नेरिव शिखा शुभा +तां यौवनस्थां राजेन्द्र शतं कन्याः स्वलंकृताः +दाशीशतं च कल्याणीमुपतस्थुर्वशानुगाः +सा स्म दासीशतवृता मध्ये कन्याशतस्य च +आस्ते तेजस्विनी कन्या रोहिणीव दिवि प्रभो +यौवनस्थामपि च तां शीलाचारसमन्विताम् +न वव्रे पुरुषः कश्चिद्भयात्तस्य महात्मनः +सा तु सत्यवती कन्या रूपेणाप्सरसोऽप्यति +तोषयामास पितरं शीलेन स्वजनं तथा +वैदर्भीं तु तथायुक्तां युवतीं प्रेक्ष्य वै पिता +मनसा चिन्तयामास कस्मै दद्यां सुतामिति +लोमश उवाच +यदा त्वमन्यतागस्त्यो गार्हस्थ्ये तां क्षमामिति +तदाभि���म्य प्रोवाच वैदर्भं पृथिवीपतिम् +राजन्निवेशे बुद्धिर्मे वर्तते पुत्रकारणात् +वरये त्वां महीपाल लोपामुद्रां प्रयच्छ मे +एवमुक्तः स मुनिना महीपालो विचेतनः +प्रत्याख्यानाय चाशक्तः प्रदातुमपि नैच्छत +ततः स भार्यामभ्येत्य प्रोवाच पृथिवीपतिः +महर्षिर्वीर्यवानेष क्रुद्धः शापाग्निना दहेत् +तं तथा दुःखितं दृष्ट्वा सभार्यं पृथिवीपतिम् +लोपामुद्राभिगम्येदं काले वचनमब्रवीत् +न मत्कृते महीपाल पीडामभ्येतुमर्हसि +प्रयच्छ मामगस्त्याय त्राह्यात्मानं मया पितः +दुहितुर्वचनाद्राजा सोऽगस्त्याय महात्मने +लोपामुद्रां ततः प्रादाद्विधिपूर्वं विशां पते +प्राप्य भार्यामगस्त्यस्तु लोपामुद्रामभाषत +महार्हाण्युत्सृजैतानि वासांस्याभरणानि च +ततः सा दर्शनीयानि महार्हाणि तनूनि च +समुत्ससर्ज रम्भोरूर्वसनान्यायतेक्षणा +ततश्चीराणि जग्राह वल्कलान्यजिनानि च +समानव्रतचर्या च बभूवायतलोचना +गङ्गाद्वारमथागम्य भगवानृषिसत्तमः +उग्रमातिष्ठत तपः सह पत्न्यानुकूलया +सा प्रीत्या बहुमानाच्च पतिं पर्यचरत्तदा +अगस्त्यश्च परां प्रीतिं भार्यायामकरोत्प्रभुः +ततो बहुतिथे काले लोपामुद्रां विशां पते +तपसा द्योतितां स्नातां ददर्श भगवानृषिः +स तस्याः परिचारेण शौचेन च दमेन च +श्रिया रूपेण च प्रीतो मैथुनायाजुहाव ताम् +ततः सा प्राञ्जलिर्भूत्वा लज्जमानेव भामिनी +तदा सप्रणयं वाक्यं भगवन्तमथाब्रवीत् +असंशयं प्रजाहेतोर्भार्यां पतिरविन्दत +या तु त्वयि मम प्रीतिस्तामृषे कर्तुमर्हसि +यथा पितुर्गृहे विप्र प्रासादे शयनं मम +तथाविधे त्वं शयने मामुपैतुमिहार्हसि +इच्छामि त्वां स्रग्विणं च भूषणैश्च विभूषितम् +उपसर्तुं यथाकामं दिव्याभरणभूषिता +अगस्त्य उवाच +न वै धनानि विद्यन्ते लोपामुद्रे तथा मम +यथाविधानि कल्याणि पितुस्तव सुमध्यमे +लोपामुद्रोवाच +ईशोऽसि तपसा सर्वं समाहर्तुमिहेश्वर +क्षणेन जीवलोके यद्वसु किंचन विद्यते +अगस्त्य उवाच +एवमेतद्यथात्थ त्वं तपोव्ययकरं तु मे +यथा तु मे न नश्येत तपस्तन्मां प्रचोदय +लोपामुद्रोवाच +अल्पावशिष्टः कालोऽयमृतौ मम तपोधन +न चान्यथाहमिच्छामि त्वामुपैतुं कथंचन +न चापि धर्ममिच्छामि विलोप्तुं ते तपोधन +एतत्तु मे यथाकामं संपादयितुमर्हसि +अगस्त्य उवाच +यद्येष कामः सुभगे तव बुद्ध्या विनिश्चितः +हन्त गच्छाम्यहं भद्रे चर काममिह स्थिता +लोमश उवाच +ततो जगाम कौरव्य सोऽगस्त्यो भिक्षितुं वसु +श्रुतर्वाणं महीपालं यं वेदाभ्यधिकं नृपैः +स विदित्वा तु नृपतिः कुम्भयोनिमुपागमत् +विषयान्ते सहामात्यः प्रत्यगृह्णात्सुसत्कृतम् +तस्मै चार्घ्यं यथान्यायमानीय पृथिवीपतिः +प्राञ्जलिः प्रयतो भूत्वा पप्रच्छागमनेऽर्थिताम् +अगस्त्य उवाच +वित्तार्थिनमनुप्राप्तं विद्धि मां पृथिवीपते +यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ मे +लोमश उवाच +तत आयव्ययौ पूर्णौ तस्मै राजा न्यवेदयत् +अतो विद्वन्नुपादत्स्व यदत्र वसु मन्यसे +तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः +सर्वथा प्राणिनां पीडामुपादानादमन्यत +स श्रुतर्वाणमादाय वध्र्यश्वमगमत्ततः +स च तौ विषयस्यान्ते प्रत्यगृह्णाद्यथाविधि +तयोरर्घ्यं च पाद्यं च वध्र्यश्वः प्रत्यवेदयत् +अनुज्ञाप्य च पप्रच्छ प्रयोजनमुपक्रमे +अगस्त्य उवाच +वित्तकामाविह प्राप्तौ विद्ध्यावां पृथिवीपते +यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नौ +लोमश उवाच +तत आयव्ययौ पूर्णौ ताभ्यां राजा न्यवेदयत् +ततो ज्ञात्वा समादत्तां यदत्र व्यतिरिच्यते +तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः +सर्वथा प्राणिनां पीडामुपादानादमन्यत +पौरुकुत्सं ततो जग्मुस्त्रसदस्युं महाधनम् +अगस्त्यश्च श्रुतर्वा च वध्र्यश्वश्च महीपतिः +त्रसदस्युश्च तान्सर्वान्प्रत्यगृह्णाद्यथाविधि +अभिगम्य महाराज विषयान्ते सवाहनः +अर्चयित्वा यथान्यायमिक्ष्वाकू राजसत्तमः +समाश्वस्तांस्ततोऽपृच्छत्प्रयोजनमुपक्रमे +अगस्त्य उवाच +वित्तकामानिह प्राप्तान्विद्धि नः पृथिवीपते +यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नः +लोमश उवाच +तत आयव्ययौ पूर्णौ तेषां राजा न्यवेदयत् +अतो ज्ञात्वा समादद्ध्वं यदत्र व्यतिरिच्यते +तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः +सर्वथा प्राणिनां पीडामुपादानादमन्यत +ततः सर्वे समेत्याथ ते नृपास्तं महामुनिम् +इदमूचुर्महाराज समवेक्ष्य परस्परम् +अयं वै दानवो ब्रह्मन्निल्वलो वसुमान्भुवि +तमभिक्रम्य सर्वेऽद्य वयं याचामहे वसु +तेषां तदासीद्रुचितमिल्वलस्योपभिक्षणम् +ततस्ते सहिता राजन्निल्वलं समुपाद्रवन् +लोमश उवाच +इल्वलस्तान्विदित्वा तु महर्षिसहितान्नृपान् +उपस्थिता���्सहामात्यो विषयान्तेऽभ्यपूजयत् +तेषां ततोऽसुरश्रेष्ठ आतिथ्यमकरोत्तदा +स संस्कृतेन कौरव्य भ्रात्रा वातापिना किल +ततो राजर्षयः सर्वे विषण्णा गतचेतसः +वातापिं संस्कृतं दृष्ट्वा मेषभूतं महासुरम् +अथाब्रवीदगस्त्यस्तान्राजर्षीनृषिसत्तमः +विषादो वो न कर्तव्यो अहं भोक्ष्ये महासुरम् +धुर्यासनमथासाद्य निषसाद महामुनिः +तं पर्यवेषद्दैत्येन्द्र इल्वलः प्रहसन्निव +अगस्त्य एव कृत्स्नं तु वातापिं बुभुजे ततः +भुक्तवत्यसुरोऽऽह्वानमकरोत्तस्य इल्वलः +ततो वायुः प्रादुरभूदगस्त्यस्य महात्मनः +इल्वलश्च विषण्णोऽभूद्दृष्ट्वा जीर्णं महासुरम् +प्राञ्जलिश्च सहामात्यैरिदं वचनमब्रवीत् +किमर्थमुपयाताः स्थ ब्रूत किं करवाणि वः +प्रत्युवाच ततोऽगस्त्यः प्रहसन्निल्वलं तदा +ईशं ह्यसुर विद्मस्त्वां वयं सर्वे धनेश्वरम् +इमे च नातिधनिनो धनार्थश्च महान्मम +यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नः +ततोऽभिवाद्य तमृषिमिल्वलो वाक्यमब्रवीत् +दित्सितं यदि वेत्सि त्वं ततो दास्यामि ते वसु +अगस्त्य उवाच +गवां दश सहस्राणि राज्ञामेकैकशोऽसुर +तावदेव सुवर्णस्य दित्सितं ते महासुर +मह्यं ततो वै द्विगुणं रथश्चैव हिरण्मयः +मनोजवौ वाजिनौ च दित्सितं ते महासुर +जिज्ञास्यतां रथः सद्यो व्यक्तमेष हिरण्मयः +लोमश उवाच +जिज्ञास्यमानः स रथः कौन्तेयासीद्धिरण्मयः +ततः प्रव्यथितो दैत्यो ददावभ्यधिकं वसु +विवाजश्च सुवाजश्च तस्मिन्युक्तौ रथे हयौ +ऊहतुस्तौ वसून्याशु तान्यगस्त्याश्रमं प्रति +सर्वान्राज्ञः सहागस्त्यान्निमेषादिव भारत +अगस्त्येनाभ्यनुज्ञाता जग्मू राजर्षयस्तदा +कृतवांश्च मुनिः सर्वं लोपामुद्राचिकीर्षितम् +लोपामुद्रोवाच +कृतवानसि तत्सर्वं भगवन्मम काङ्क्षितम् +उत्पादय सकृन्मह्यमपत्यं वीर्यवत्तरम् +अगस्त्य उवाच +तुष्टोऽहमस्मि कल्याणि तव वृत्तेन शोभने +विचारणामपत्ये तु तव वक्ष्यामि तां शृणु +सहस्रं तेऽस्तु पुत्राणां शतं वा दशसंमितम् +दश वा शततुल्याः स्युरेको वापि सहस्रवत् +लोपामुद्रोवाच +सहस्रसंमितः पुत्र एको मेऽस्तु तपोधन +एको हि बहुभिः श्रेयान्विद्वान्साधुरसाधुभिः +लोमश उवाच +स तथेति प्रतिज्ञाय तया समभवन्मुनिः +समये समशीलिन्या श्रद्धावाञ्श्रद्दधानया +तत आधाय गर्भं तमगमद्वनमेव सः +तस्मिन्वनग��े गर्भो ववृधे सप्त शारदान् +सप्तमेऽब्दे गते चापि प्राच्यवत्स महाकविः +ज्वलन्निव प्रभावेन दृढस्युर्नाम भारत +साङ्गोपनिषदान्वेदाञ्जपन्नेव महायशाः +तस्य पुत्रोऽभवदृषेः स तेजस्वी महानृषिः +स बाल एव तेजस्वी पितुस्तस्य निवेशने +इध्मानां भारमाजह्रे इध्मवाहस्ततोऽभवत् +तथायुक्तं च तं दृष्ट्वा मुमुदे स मुनिस्तदा +लेभिरे पितरश्चास्य लोकान्राजन्यथेप्सितान् +अगस्त्यस्याश्रमः ख्यातः सर्वर्तुकुसुमान्वितः +प्राह्रादिरेवं वातापिरगस्त्येन विनाशितः +तस्यायमाश्रमो राजन्रमणीयो गुणैर्युतः +एषा भागीरथी पुण्या यथेष्टमवगाह्यताम् +युधिष्ठिर उवाच +भूय एवाहमिच्छामि महर्षेस्तस्य धीमतः +कर्मणां विस्तरं श्रोतुमगस्त्यस्य द्विजोत्तम +लोमश उवाच +शृणु राजन्कथां दिव्यामद्भुतामतिमानुषीम् +अगस्त्यस्य महाराज प्रभावममितात्मनः +आसन्कृतयुगे घोरा दानवा युद्धदुर्मदाः +कालेया इति विख्याता गणाः परमदारुणाः +ते तु वृत्रं समाश्रित्य नानाप्रहरणोद्यताः +समन्तात्पर्यधावन्त महेन्द्रप्रमुखान्सुरान् +ततो वृत्रवधे यत्नमकुर्वंस्त्रिदशाः पुरा +पुरंदरं पुरस्कृत्य ब्रह्माणमुपतस्थिरे +कृताञ्जलींस्तु तान्सर्वान्परमेष्ठी उवाच ह +विदितं मे सुराः सर्वं यद्वः कार्यं चिकीर्षितम् +तमुपायं प्रवक्ष्यामि यथा वृत्रं वधिष्यथ +दधीच इति विख्यातो महानृषिरुदारधीः +तं गत्वा सहिताः सर्वे वरं वै संप्रयाचत +स वो दास्यति धर्मात्मा सुप्रीतेनान्तरात्मना +स वाच्यः सहितैः सर्वैर्भवद्भिर्जयकाङ्क्षिभिः +स्वान्यस्थीनि प्रयच्छेति त्रैलोक्यस्य हिताय वै +स शरीरं समुत्सृज्य स्वान्यस्थीनि प्रदास्यति +तस्यास्थिभिर्महाघोरं वज्रं संभ्रियतां दृढम् +महच्छत्रुहणं तीक्ष्णं षडश्रं भीमनिस्वनम् +तेन वज्रेण वै वृत्रं वधिष्यति शतक्रतुः +एतद्वः सर्वमाख्यातं तस्माच्छीघ्रं विधीयताम् +एवमुक्तास्ततो देवा अनुज्ञाप्य पितामहम् +नारायणं पुरस्कृत्य दधीचस्याश्रमं ययुः +सरस्वत्याः परे पारे नानाद्रुमलतावृतम् +षट्पदोद्गीतनिनदैर्विघुष्टं सामगैरिव +पुंस्कोकिलरवोन्मिश्रं जीवंजीवकनादितम् +महिषैश्च वराहैश्च सृमरैश्चमरैरपि +तत्र तत्रानुचरितं शार्दूलभयवर्जितैः +करेणुभिर्वारणैश्च प्रभिन्नकरटामुखैः +सरोऽवगाढैः क्रीडद्भिः समन्तादनुनादितम् +स���ंहव्याघ्रैर्महानादान्नदद्भिरनुनादितम् +अपरैश्चापि संलीनैर्गुहाकन्दरवासिभिः +तेषु तेष्ववकाशेषु शोभितं सुमनोरमम् +त्रिविष्टपसमप्रख्यं दधीचाश्रममागमन् +तत्रापश्यन्दधीचं ते दिवाकरसमद्युतिम् +जाज्वल्यमानं वपुषा यथा लक्ष्म्या पितामहम् +तस्य पादौ सुरा राजन्नभिवाद्य प्रणम्य च +अयाचन्त वरं सर्वे यथोक्तं परमेष्ठिना +ततो दधीचः परमप्रतीतः; सुरोत्तमांस्तानिदमभ्युवाच +करोमि यद्वो हितमद्य देवाः; स्वं चापि देहं त्वहमुत्सृजामि +स एवमुक्त्वा द्विपदां वरिष्ठः; प्राणान्वशी स्वान्सहसोत्ससर्ज +ततः सुरास्ते जगृहुः परासो;रस्थीनि तस्याथ यथोपदेशम् +प्रहृष्टरूपाश्च जयाय देवा;स्त्वष्टारमागम्य तमर्थमूचुः +त्वष्टा तु तेषां वचनं निशम्य; प्रहृष्टरूपः प्रयतः प्रयत्नात् +चकार वज्रं भृशमुग्ररूपं; कृत्वा च शक्रं स उवाच हृष्टः +अनेन वज्रप्रवरेण देव; भस्मीकुरुष्वाद्य सुरारिमुग्रम् +ततो हतारिः सगणः सुखं वै; प्रशाधि कृत्स्नं त्रिदिवं दिविष्ठः +त्वष्ट्रा तथोक्तः स पुरंदरस्तु; वज्रं प्रहृष्टः प्रयतोऽभ्यगृह्णात् +लोमश उवाच +ततः स वज्री बलिभिर्दैवतैरभिरक्षितः +आससाद ततो वृत्रं स्थितमावृत्य रोदसी +कालकेयैर्महाकायैः समन्तादभिरक्षितम् +समुद्यतप्रहरणैः सशृङ्गैरिव पर्वतैः +ततो युद्धं समभवद्देवानां सह दानवैः +मुहूर्तं भरतश्रेष्ठ लोकत्रासकरं महत् +उद्यतप्रतिपिष्टानां खड्गानां वीरबाहुभिः +आसीत्सुतुमुलः शब्दः शरीरेष्वभिपात्यताम् +शिरोभिः प्रपतद्भिश्च अन्तरिक्षान्महीतलम् +तालैरिव महीपाल वृन्ताद्भ्रष्टैरदृश्यत +ते हेमकवचा भूत्वा कालेयाः परिघायुधाः +त्रिदशानभ्यवर्तन्त दावदग्धा इवाद्रयः +तेषां वेगवतां वेगं सहितानां प्रधावताम् +न शेकुस्त्रिदशाः सोढुं ते भग्नाः प्राद्रवन्भयात् +तान्दृष्ट्वा द्रवतो भीतान्सहस्राक्षः पुरंदरः +वृत्रे विवर्धमाने च कश्मलं महदाविशत् +तं शक्रं कश्मलाविष्टं दृष्ट्वा विष्णुः सनातनः +स्वतेजो व्यदधाच्छक्रे बलमस्य विवर्धयन् +विष्णुनाप्यायितं शक्रं दृष्ट्वा देवगणास्ततः +स्वं स्वं तेजः समादध्युस्तथा ब्रह्मर्षयोऽमलाः +स समाप्यायितः शक्रो विष्णुना दैवतैः सह +ऋषिभिश्च महाभागैर्बलवान्समपद्यत +ज्ञात्वा बलस्थं त्रिदशाधिपं तु; ननाद वृत्रो महतो निनादान् +तस्य प्रणादेन धरा द��शश्च; खं द्यौर्नगाश्चापि चचाल सर्वम् +ततो महेन्द्रः परमाभितप्तः; श्रुत्वा रवं घोररूपं महान्तम् +भये निमग्नस्त्वरितं मुमोच; वज्रं महत्तस्य वधाय राजन् +स शक्रवज्राभिहतः पपात; महासुरः काञ्चनमाल्यधारी +यथा महाञ्शैलवरः पुरस्ता;त्स मन्दरो विष्णुकरात्प्रमुक्तः +तस्मिन्हते दैत्यवरे भयार्तः; शक्रः प्रदुद्राव सरः प्रवेष्टुम् +वज्रं न मेने स्वकरात्प्रमुक्तं; वृत्रं हतं चापि भयान्न मेने +सर्वे च देवा मुदिताः प्रहृष्टा; महर्षयश्चेन्द्रमभिष्टुवन्तः +सर्वांश्च दैत्यांस्त्वरिताः समेत्य; जघ्नुः सुरा वृत्रवधाभितप्तान् +ते वध्यमानास्त्रिदशैस्तदानीं; समुद्रमेवाविविशुर्भयार्ताः +प्रविश्य चैवोदधिमप्रमेयं; झषाकुलं रत्नसमाकुलं च +तदा स्म मन्त्रं सहिताः प्रचक्रु;स्त्रैलोक्यनाशार्थमभिस्मयन्तः +तत्र स्म केचिन्मतिनिश्चयज्ञा;स्तांस्तानुपायाननुवर्णयन्ति +तेषां तु तत्र क्रमकालयोगा;द्घोरा मतिश्चिन्तयतां बभूव +ये सन्ति विद्यातपसोपपन्ना;स्तेषां विनाशः प्रथमं तु कार्यः +लोका हि सर्वे तपसा ध्रियन्ते; तस्मात्त्वरध्वं तपसः क्षयाय +ये सन्ति केचिद्धि वसुंधरायां; तपस्विनो धर्मविदश्च तज्ज्ञाः +तेषां वधः क्रियतां क्षिप्रमेव; तेषु प्रनष्टेषु जगत्प्रनष्टम् +एवं हि सर्वे गतबुद्धिभावा; जगद्विनाशे परमप्रहृष्टाः +दुर्गं समाश्रित्य महोर्मिमन्तं; रत्नाकरं वरुणस्यालयं स्म +लोमश उवाच +समुद्रं ते समाश्रित्य वारुणं निधिमम्भसाम् +कालेयाः संप्रवर्तन्त त्रैलोक्यस्य विनाशने +ते रात्रौ समभिक्रुद्धा भक्षयन्ति सदा मुनीन् +आश्रमेषु च ये सन्ति पुन्येष्वायतनेषु च +वसिष्ठस्याश्रमे विप्रा भक्षितास्तैर्दुरात्मभिः +अशीतिशतमष्टौ च नव चान्ये तपस्विनः +च्यवनस्याश्रमं गत्वा पुण्यं द्विजनिषेवितम् +फलमूलाशनानां हि मुनीनां भक्षितं शतम् +एवं रात्रौ स्म कुर्वन्ति विविशुश्चार्णवं दिवा +भरद्वाजाश्रमे चैव नियता ब्रह्मचारिणः +वाय्वाहाराम्बुभक्षाश्च विंशतिः संनिपातिताः +एवं क्रमेण सर्वांस्तानाश्रमान्दानवास्तदा +निशायां परिधावन्ति मत्ता भुजबलाश्रयात् +कालोपसृष्टाः कालेया घ्नन्तो द्विजगणान्बहून् +न चैनानन्वबुध्यन्त मनुजा मनुजोत्तम +एवं प्रवृत्तान्दैत्यांस्तांस्तापसेषु तपस्विषु +प्रभाते समदृश्यन्त नियताहारकर्शिता�� +महीतलस्था मुनयः शरीरैर्गतजीवितैः +क्षीणमांसैर्विरुधिरैर्विमज्जान्त्रैर्विसंधिभिः +आकीर्णैराचिता भूमिः शङ्खानामिव राशिभिः +कलशैर्विप्रविद्धैश्च स्रुवैर्भग्नैस्तथैव च +विकीर्णैरग्निहोत्रैश्च भूर्बभूव समावृता +निःस्वाध्यायवषट्कारं नष्टयज्ञोत्सवक्रियम् +जगदासीन्निरुत्साहं कालेयभयपीडितम् +एवं प्रक्षीयमाणाश्च मानवा मनुजेश्वर +आत्मत्राणपरा भीताः प्राद्रवन्त दिशो भयात् +केचिद्गुहाः प्रविविशुर्निर्झरांश्चापरे श्रिताः +अपरे मरणोद्विग्ना भयात्प्रानान्समुत्सृजन् +केचिदत्र महेष्वासाः शूराः परमदर्पिताः +मार्गमाणाः परं यत्नं दानवानां प्रचक्रिरे +न चैतानधिजग्मुस्ते समुद्रं समुपाश्रितान् +श्रमं जग्मुश्च परममाजग्मुः क्षयमेव च +जगत्युपशमं याते नष्टयज्ञोत्सवक्रिये +आजग्मुः परमामार्तिं त्रिदशा मनुजेश्वर +समेत्य समहेन्द्राश्च भयान्मन्त्रं प्रचक्रिरे +नारायणं पुरस्कृत्य वैकुण्ठमपराजितम् +ततो देवाः समेतास्ते तदोचुर्मधुसूदनम् +त्वं नः स्रष्टा च पाता च भर्ता च जगतः प्रभो +त्वया सृष्टमिदं सर्वं यच्चेङ्गं यच्च नेङ्गति +त्वया भूमिः पुरा नष्टा समुद्रात्पुष्करेक्षण +वाराहं रूपमास्थाय जगदर्थे समुद्धृता +आदिदैत्यो महावीर्यो हिरण्यकशिपुस्त्वया +नारसिंहं वपुः कृत्वा सूदितः पुरुषोत्तम +अवध्यः सर्वभूतानां बलिश्चापि महासुरः +वामनं वपुराश्रित्य त्रैलोक्याद्भ्रंशितस्त्वया +असुरश्च महेष्वासो जम्भ इत्यभिविश्रुतः +यज्ञक्षोभकरः क्रूरस्त्वयैव विनिपातितः +एवमादीनि कर्माणि येषां संख्या न विद्यते +अस्माकं भयभीतानां त्वं गतिर्मधुसूदन +तस्मात्त्वां देव देवेश लोकार्थं ज्ञापयामहे +रक्ष लोकांश्च देवांश्च शक्रं च महतो भयात् +देवा ऊचुः +इतः प्रदानाद्वर्तन्ते प्रजाः सर्वाश्चतुर्विधाः +ता भाविता भावयन्ति हव्यकव्यैर्दिवौकसः +लोका ह्येवं वर्तयन्ति अन्योन्यं समुपाश्रिताः +त्वत्प्रसादान्निरुद्विग्नास्त्वयैव परिरक्षिताः +इदं च समनुप्राप्तं लोकानां भयमुत्तमम् +न च जानीम केनेमे रात्रौ वध्यन्ति ब्राह्मणाः +क्षीणेषु च ब्राह्मणेषु पृथिवी क्षयमेष्यति +ततः पृथिव्यां क्षीणायां त्रिदिवं क्षयमेष्यति +त्वत्प्रसादान्महाबाहो लोकाः सर्वे जगत्पते +विनाशं नाधिगच्छेयुस्त्वया वै परिरक्षिता�� +विष्णुरुवाच +विदितं मे सुराः सर्वं प्रजानां क्षयकारणम् +भवतां चापि वक्ष्यामि शृणुध्वं विगतज्वराः +कालेय इति विख्यातो गणः परमदारुणः +तैश्च वृत्रं समाश्रित्य जगत्सर्वं प्रबाधितम् +ते वृत्रं निहतं दृष्ट्वा सहस्राक्षेण धीमता +जीवितं परिरक्षन्तः प्रविष्टा वरुणालयम् +ते प्रविश्योदधिं घोरं नक्रग्राहसमाकुलम् +उत्सादनार्थं लोकानां रात्रौ घ्नन्ति मुनीनिह +न तु शक्याः क्षयं नेतुं समुद्राश्रयगा हि ते +समुद्रस्य क्षये बुद्धिर्भवद्भिः संप्रधार्यताम् +अगस्त्येन विना को हि शक्तोऽन्योऽर्णवशोषणे +एतच्छ्रुत्वा वचो देवा विष्णुना समुदाहृतम् +परमेष्ठिनमाज्ञाप्य अगस्त्यस्याश्रमं ययुः +तत्रापश्यन्महात्मानं वारुणिं दीप्ततेजसम् +उपास्यमानमृषिभिर्देवैरिव पितामहम् +तेऽभिगम्य महात्मानं मैत्रावरुणिमच्युतम् +आश्रमस्थं तपोराशिं कर्मभिः स्वैरभिष्टुवन् +देवा ऊचुः +नहुषेणाभितप्तानां त्वं लोकानां गतिः पुरा +भ्रंशितश्च सुरैश्वर्याल्लोकार्थं लोककण्टकः +क्रोधात्प्रवृद्धः सहसा भास्करस्य नगोत्तमः +वचस्तवानतिक्रामन्विन्ध्यः शैलो न वर्धते +तमसा चावृते लोके मृत्युनाभ्यर्दिताः प्रजाः +त्वामेव नाथमासाद्य निर्वृतिं परमां गताः +अस्माकं भयभीतानां नित्यशो भगवान्गतिः +ततस्त्वार्ताः प्रयाचामस्त्वां वरं वरदो ह्यसि +युधिष्ठिर उवाच +किमर्थं सहसा विन्ध्यः प्रवृद्धः क्रोधमूर्छितः +एतदिच्छाम्यहं श्रोतुं विस्तरेण महामुने +लोमश उवाच +अद्रिराजं महाशैलं मरुं कनकपर्वतम् +उदयास्तमये भानुः प्रदक्षिणमवर्तत +तं तु दृष्ट्वा तथा विन्ध्यः शैलः सूर्यमथाब्रवीत् +यथा हि मेरुर्भवता नित्यशः परिगम्यते +प्रदक्षिणं च क्रियते मामेवं कुरु भास्कर +एवमुक्तस्ततः सूर्यः शैलेन्द्रं प्रत्यभाषत +नाहमात्मेच्छया शैल करोम्येनं प्रदक्षिणम् +एष मार्गः प्रदिष्टो मे येनेदं निर्मितं जगत् +एवमुक्तस्ततः क्रोधात्प्रवृद्धः सहसाचलः +सूर्याचन्द्रमसोर्मार्गं रोद्धुमिच्छन्परंतप +ततो देवाः सहिताः सर्व एव; सेन्द्राः समागम्य महाद्रिराजम् +निवारयामासुरुपायतस्तं; न च स्म तेषां वचनं चकार +अथाभिजग्मुर्मुनिमाश्रमस्थं; तपस्विनं धर्मभृतां वरिष्ठम् +अगस्त्यमत्यद्भुतवीर्यदीप्तं; तं चार्थमूचुः सहिताः सुरास्ते +देवा ऊचुः +सूर्याचन्द्रमसोर्मार्गं नक्षत्राणां गतिं तथा +शैलराजो वृणोत्येष विन्ध्यः क्रोधवशानुगः +तं निवारयितुं शक्तो नान्यः कश्चिद्द्विजोत्तम +ऋते त्वां हि महाभाग तस्मादेनं निवारय +लोमश उवाच +तच्छ्रुत्वा वचनं विप्रः सुराणां शैलमभ्यगात् +सोऽभिगम्याब्रवीद्विन्ध्यं सदारः समुपस्थितः +मार्गमिच्छाम्यहं दत्तं भवता पर्वतोत्तम +दक्षिणामभिगन्तास्मि दिशं कार्येण केनचित् +यावदागमनं मह्यं तावत्त्वं प्रतिपालय +निवृत्ते मयि शैलेन्द्र ततो वर्धस्व कामतः +एवं स समयं कृत्वा विन्ध्येनामित्रकर्शन +अद्यापि दक्षिणाद्देशाद्वारुणिर्न निवर्तते +एतत्ते सर्वमाख्यातं यथा विन्ध्यो न वर्धते +अगस्त्यस्य प्रभावेन यन्मां त्वं परिपृच्छसि +कालेयास्तु यथा राजन्सुरैः सर्वैर्निषूदिताः +अगस्त्याद्वरमासाद्य तन्मे निगदतः शृणु +त्रिदशानां वचः श्रुत्वा मैत्रावरुणिरब्रवीत् +किमर्थमभियाताः स्थ वरं मत्तः किमिच्छथ +एवमुक्तास्ततस्तेन देवास्तं मुनिमब्रुवन् +एवं त्वयेच्छाम कृतं महर्षे; महार्णवं पीयमानं महात्मन् +ततो वधिष्याम सहानुबन्धा;न्कालेयसंज्ञान्सुरविद्विषस्तान् +त्रिदशानां वचः श्रुत्वा तथेति मुनिरब्रवीत् +करिष्ये भवतां कामं लोकानां च महत्सुखम् +एवमुक्त्वा ततोऽगच्छत्समुद्रं सरितां पतिम् +ऋषिभिश्च तपःसिद्धैः सार्धं देवैश्च सुव्रतः +मनुष्योरगगन्धर्वयक्षकिंपुरुषास्तथा +अनुजग्मुर्महात्मानं द्रष्टुकामास्तदद्भुतम् +ततोऽभ्यगच्छन्सहिताः समुद्रं भीमनिस्वनम् +नृत्यन्तमिव चोर्मीभिर्वल्गन्तमिव वायुना +हसन्तमिव फेनौघैः स्खलन्तं कन्दरेषु च +नानाग्राहसमाकीर्णं नानाद्विजगणायुतम् +अगस्त्यसहिता देवाः सगन्धर्वमहोरगाः +ऋषयश्च महाभागाः समासेदुर्महोदधिम् +लोमश उवाच +समुद्रं स समासाद्य वारुणिर्भगवानृषिः +उवाच सहितान्देवानृषींश्चैव समागतान् +एष लोकहितार्थं वै पिबामि वरुणालयम् +भवद्भिर्यदनुष्ठेयं तच्छीघ्रं संविधीयताम् +एतावदुक्त्वा वचनं मैत्रावरुणिरच्युतः +समुद्रमपिबत्क्रुद्धः सर्वलोकस्य पश्यतः +पीयमानं समुद्रं तु दृष्ट्वा देवाः सवासवाः +विस्मयं परमं जग्मुः स्तुतिभिश्चाप्यपूजयन् +त्वं नस्त्राता विधाता च लोकानां लोकभावनः +त्वत्प्रसादात्समुच्छेदं न गच्छेत्सामरं जगत् +संपूज्यमानस्त्रिदशैर्महात्मा; गन्धर्वतूर्येषु नदत्सु सर्वशः +दिव्यैश्च पुष्पैरवकीर्यमाणो; महार्णवं निःसलिलं चकार +दृष्ट्वा कृतं निःसलिलं महार्णवं; सुराः समस्ताः परमप्रहृष्टाः +प्रगृह्य दिव्यानि वरायुधानि; तान्दानवाञ्जघ्नुरदीनसत्त्वाः +ते वध्यमानास्त्रिदशैर्महात्मभि;र्महाबलैर्वेगिभिरुन्नदद्भिः +न सेहिरे वेगवतां महात्मनां; वेगं तदा धारयितुं दिवौकसाम् +ते वध्यमानास्त्रिदशैर्दानवा भीमनिस्वनाः +चक्रुः सुतुमुलं युद्धं मुहूर्तमिव भारत +ते पूर्वं तपसा दग्धा मुनिभिर्भावितात्मभिः +यतमानाः परं शक्त्या त्रिदशैर्विनिषूदिताः +ते हेमनिष्काभरणाः कुण्डलाङ्गदधारिणः +निहत्य बह्वशोभन्त पुष्पिता इव किंशुकाः +हतशेषास्ततः केचित्कालेया मनुजोत्तम +विदार्य वसुधां देवीं पातालतलमाश्रिताः +निहतान्दानवान्दृष्ट्वा त्रिदशा मुनिपुंगवम् +तुष्टुवुर्विविधैर्वाक्यैरिदं चैवाब्रुवन्वचः +त्वत्प्रसादान्महाभाग लोकैः प्राप्तं महत्सुखम् +त्वत्तेजसा च निहताः कालेयाः क्रूरविक्रमाः +पूरयस्व महाबाहो समुद्रं लोकभावन +यत्त्वया सलिलं पीतं तदस्मिन्पुनरुत्सृज +एवमुक्तः प्रत्युवाच भगवान्मुनिपुंगवः +जीर्णं तद्धि मया तोयमुपायोऽन्यः प्रचिन्त्यताम् +पूरणार्थं समुद्रस्य भवद्भिर्यत्नमास्थितैः +एतच्छ्रुत्वा तु वचनं महर्षेर्भावितात्मनः +विस्मिताश्च विषण्णाश्च बभूवुः सहिताः सुराः +परस्परमनुज्ञाप्य प्रणम्य मुनिपुंगवम् +प्रजाः सर्वा महाराज विप्रजग्मुर्यथागतम् +त्रिदशा विष्णुना सार्धमुपजग्मुः पितामहम् +पूरणार्थं समुद्रस्य मन्त्रयित्वा पुनः पुनः +ऊचुः प्राञ्जलयः सर्वे सागरस्याभिपूरणम् +लोमश उवाच +तानुवाच समेतांस्तु ब्रह्मा लोकपितामहः +गच्छध्वं विबुधाः सर्वे यथाकामं यथेप्सितम् +महता कालयोगेन प्रकृतिं यास्यतेऽर्णवः +ज्ञातीन्वै कारणं कृत्वा महाराज्ञो भगीरथात् +युधिष्ठिर उवाच +कथं वै ज्ञातयो ब्रह्मन्कारणं चात्र किं मुने +कथं समुद्रः पूर्णश्च भगीरथपरिश्रमात् +एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन +कथ्यमानं त्वया विप्र राज्ञां चरितमुत्तमम् +वैशंपायन उवाच +एवमुक्तस्तु विप्रेन्द्रो धर्मराज्ञा महात्मना +कथयामास माहात्म्यं सगरस्य महात्मनः +लोमश उवाच +इक्ष्वाकूणां कुले जातः सगरो नाम पार्थिवः +रूपसत्त्वबलोपेतः स चापुत्रः प्रतापवान् +स हैहयान��समुत्साद्य तालजङ्घांश्च भारत +वशे च कृत्वा राज्ञोऽन्यान्स्वराज्यमन्वशासत +तस्य भार्ये त्वभवतां रूपयौवनदर्पिते +वैदर्भी भरतश्रेष्ठ शैब्या च भरतर्षभ +स पुत्रकामो नृपतिस्तताप सुमहत्तपः +पत्नीभ्यां सह राजेन्द्र कैलासं गिरिमाश्रितः +स तप्यमानः सुमहत्तपो योगसमन्वितः +आससाद महात्मानं त्र्यक्षं त्रिपुरमर्दनम् +शंकरं भवमीशानं शूलपानिं पिनाकिनम् +त्र्यम्बकं शिवमुग्रेशं बहुरूपमुमापतिम् +स तं दृष्ट्वैव वरदं पत्नीभ्यां सहितो नृपः +प्रणिपत्य महाबाहुः पुत्रार्थं समयाचत +तं प्रीतिमान्हरः प्राह सभार्यं नृपसत्तमम् +यस्मिन्वृतो मुहूर्तेऽहं त्वयेह नृपते वरम् +षष्टिः पुत्रसहस्राणि शूराः समरदर्पिताः +एकस्यां संभविष्यन्ति पत्न्यां तव नरोत्तम +ते चैव सर्वे सहिताः क्षयं यास्यन्ति पार्थिव +एको वंशधरः शूर एकस्यां संभविष्यति +एवमुक्त्वा तु तं रुद्रस्तत्रैवान्तरधीयत +स चापि सगरो राजा जगाम स्वं निवेशनम् +पत्नीभ्यां सहितस्तात सोऽतिहृष्टमनास्तदा +तस्याथ मनुजश्रेष्ठ ते भार्ये कमलेक्षणे +वैदर्भी चैव शैब्या च गर्भिण्यौ संबभूवतुः +ततः कालेन वैदर्भी गर्भालाबुं व्यजायत +शैब्या च सुषुवे पुत्रं कुमारं देवरूपिणम् +तदालाबुं समुत्स्रष्टुं मनश्चक्रे स पार्थिवः +अथान्तरिक्षाच्छुश्राव वाचं गम्भीरनिस्वनाम् +राजन्मा साहसं कार्षीः पुत्रान्न त्यक्तुमर्हसि +अलाबुमध्यान्निष्कृष्य बीजं यत्नेन गोप्यताम् +सोपस्वेदेषु पात्रेषु घृतपूर्णेषु भागशः +ततः पुत्रसहस्राणि षष्टिं प्राप्स्यसि पार्थिव +महादेवेन दिष्टं ते पुत्रजन्म नराधिप +अनेन क्रमयोगेन मा ते बुद्धिरतोऽन्यथा +लोमश उवाच +एतच्छ्रुत्वान्तरिक्षाच्च स राजा राजसत्तम +यथोक्तं तच्चकाराथ श्रद्दधद्भरतर्षभ +षष्टिः पुत्रसहस्राणि तस्याप्रतिमतेजसः +रुद्रप्रसादाद्राजर्षेः समजायन्त पार्थिव +ते घोराः क्रूरकर्माण आकाशपरिसर्पिणः +बहुत्वाच्चावजानन्तः सर्वाँल्लोकान्सहामरान् +त्रिदशांश्चाप्यबाधन्त तथा गन्धर्वराक्षसान् +सर्वाणि चैव भूतानि शूराः समरशालिनः +वध्यमानास्ततो लोकाः सागरैर्मन्दबुद्धिभिः +ब्रह्माणं शरणं जग्मुः सहिताः सर्वदैवतैः +तानुवाच महाभागः सर्वलोकपितामहः +गच्छध्वं त्रिदशाः सर्वे लोकैः सार्धं यथागतम् +नातिदीर्घेण कालेन सागराणां क्षयो मह��न् +भविष्यति महाघोरः स्वकृतैः कर्मभिः सुराः +एवमुक्तास्ततो देवा लोकाश्च मनुजेश्वर +पितामहमनुज्ञाप्य विप्रजग्मुर्यथागतम् +ततः काले बहुतिथे व्यतीते भरतर्षभ +दीक्षितः सगरो राजा हयमेधेन वीर्यवान् +तस्याश्वो व्यचरद्भूमिं पुत्रैः सुपरिरक्षितः +समुद्रं स समासाद्य निस्तोयं भीमदर्शनम् +रक्ष्यमाणः प्रयत्नेन तत्रैवान्तरधीयत +ततस्ते सागरास्तात हृतं मत्वा हयोत्तमम् +आगम्य पितुराचख्युरदृश्यं तुरगं हृतम् +तेनोक्ता दिक्षु सर्वासु सर्वे मार्गत वाजिनम् +ततस्ते पितुराज्ञाय दिक्षु सर्वासु तं हयम् +अमार्गन्त महाराज सर्वं च पृथिवीतलम् +ततस्ते सागराः सर्वे समुपेत्य परस्परम् +नाध्यगच्छन्त तुरगमश्वहर्तारमेव च +आगम्य पितरं चोचुस्ततः प्राञ्जलयोऽग्रतः +ससमुद्रवनद्वीपा सनदीनदकन्दरा +सपर्वतवनोद्देशा निखिलेन मही नृप +अस्माभिर्विचिता राजञ्शासनात्तव पार्थिव +न चाश्वमधिगच्छामो नाश्वहर्तारमेव च +श्रुत्वा तु वचनं तेषां स राजा क्रोधमूर्छितः +उवाच वचनं सर्वांस्तदा दैववशान्नृप +अनागमाय गच्छध्वं भूयो मार्गत वाजिनम् +यज्ञियं तं विना ह्यश्वं नागन्तव्यं हि पुत्रकाः +प्रतिगृह्य तु संदेशं ततस्ते सगरात्मजाः +भूय एव महीं कृत्स्नां विचेतुमुपचक्रमुः +अथापश्यन्त ते वीराः पृथिवीमवदारिताम् +समासाद्य बिलं तच्च खनन्तः सगरात्मजाः +कुद्दालैर्ह्रेषुकैश्चैव समुद्रमखनंस्तदा +स खन्यमानः सहितैः सागरैर्वरुणालयः +अगच्छत्परमामार्तिं दार्यमाणः समन्ततः +असुरोरगरक्षांसि सत्त्वानि विविधानि च +आर्तनादमकुर्वन्त वध्यमानानि सागरैः +छिन्नशीर्षा विदेहाश्च भिन्नजान्वस्थिमस्तकाः +प्राणिनः समदृश्यन्त शतशोऽथ सहस्रशः +एवं हि खनतां तेषां समुद्रं मकरालयम् +व्यतीतः सुमहान्कालो न चाश्वः समदृश्यत +ततः पूर्वोत्तरे देशे समुद्रस्य महीपते +विदार्य पातालमथ संक्रुद्धाः सगरात्मजाः +अपश्यन्त हयं तत्र विचरन्तं महीतले +कपिलं च महात्मानं तेजोराशिमनुत्तमम् +तपसा दीप्यमानं तं ज्वालाभिरिव पावकम् +लोमश उवाच +ते तं दृष्ट्वा हयं राजन्संप्रहृष्टतनूरुहाः +अनादृत्य महात्मानं कपिलं कालचोदिताः +संक्रुद्धाः समधावन्त अश्वग्रहणकाङ्क्षिणः +ततः क्रुद्धो महाराज कपिलो मुनिसत्तमः +वासुदेवेति यं प्राहुः कपिलं मुनिसत्तमम् +स चक्षुर्विवृतं कृत्व�� तेजस्तेषु समुत्सृजन् +ददाह सुमहातेजा मन्दबुद्धीन्स सागरान् +तान्दृष्ट्वा भस्मसाद्भूतान्नारदः सुमहातपाः +सगरान्तिकमागच्छत्तच्च तस्मै न्यवेदयत् +स तच्छ्रुत्वा वचो घोरं राजा मुनिमुखोद्गतम् +मुहूर्तं विमना भूत्वा स्थाणोर्वाक्यमचिन्तयत् +आत्मानमात्मनाश्वास्य हयमेवान्वचिन्तयत् +अंशुमन्तं समाहूय असमञ्जःसुतं तदा +पौत्रं भरतशार्दूल इदं वचनमब्रवीत् +षष्टिस्तानि सहस्राणि पुत्राणाममितौजसाम् +कापिलं तेज आसाद्य मत्कृते निधनं गताः +तव चापि पिता तात परित्यक्तो मयानघ +धर्मं संरक्षमाणेन पौराणां हितमिच्छता +युधिष्ठिर उवाच +किमर्थं राजशार्दूलः सगरः पुत्रमात्मजम् +त्यक्तवान्दुस्त्यजं वीरं तन्मे ब्रूहि तपोधन +लोमश उवाच +असमञ्जा इति ख्यातः सगरस्य सुतो ह्यभूत् +यं शैब्या जनयामास पौराणां स हि दारकान् +खुरेषु क्रोशतो गृह्य नद्यां चिक्षेप दुर्बलान् +ततः पौराः समाजग्मुर्भयशोकपरिप्लुताः +सगरं चाभ्ययाचन्त सर्वे प्राञ्जलयः स्थिताः +त्वं नस्त्राता महाराज परचक्रादिभिर्भयैः +असमञ्जोभयाद्घोरात्ततो नस्त्रातुमर्हसि +पौराणां वचनं श्रुत्वा घोरं नृपतिसत्तमः +मुहूर्तं विमना भूत्वा सचिवानिदमब्रवीत् +असमञ्जाः पुरादद्य सुतो मे विप्रवास्यताम् +यदि वो मत्प्रियं कार्यमेतच्छीघ्रं विधीयताम् +एवमुक्ता नरेन्द्रेण सचिवास्ते नराधिप +यथोक्तं त्वरिताश्चक्रुर्यथाज्ञापितवान्नृपः +एतत्ते सर्वमाख्यातं यथा पुत्रो महात्मना +पौराणां हितकामेन सगरेण विवासितः +अंशुमांस्तु महेष्वासो यदुक्तः सगरेण ह +तत्ते सर्वं प्रवक्ष्यामि कीर्त्यमानं निबोध मे +सगर उवाच +पितुश्च तेऽहं त्यागेन पुत्राणां निधनेन च +अलाभेन तथाश्वस्य परितप्यामि पुत्रक +तस्माद्दुःखाभिसंतप्तं यज्ञविघ्नाच्च मोहितम् +हयस्यानयनात्पौत्र नरकान्मां समुद्धर +लोमश उवाच +अंशुमानेवमुक्तस्तु सगरेण महात्मना +जगाम दुःखात्तं देशं यत्र वै दारिता मही +स तु तेनैव मार्गेण समुद्रं प्रविवेश ह +अपश्यच्च महात्मानं कपिलं तुरगं च तम् +स दृष्ट्वा तेजसो राशिं पुराणमृषिसत्तमम् +प्रणम्य शिरसा भूमौ कार्यमस्मै न्यवेदयत् +ततः प्रीतो महातेजाः कलिपोंऽशुमतोऽभवत् +उवाच चैनं धर्मात्मा वरदोऽस्मीति भारत +स वव्रे तुरगं तत्र प्रथमं यज्ञकारणात् +द्वितीयमुदकं वव्रे पितॄणां पावन���प्सया +तमुवाच महातेजाः कपिलो मुनिपुंगवः +ददानि तव भद्रं ते यद्यत्प्रार्थयसेऽनघ +त्वयि क्षमा च धर्मश्च सत्यं चापि प्रतिष्ठितम् +त्वया कृतार्थः सगरः पुत्रवांश्च त्वया पिता +तव चैव प्रभावेन स्वर्गं यास्यन्ति सागराः +पौत्रश्च ते त्रिपथगां त्रिदिवादानयिष्यति +पावनार्थं सागराणां तोषयित्वा महेश्वरम् +हयं नयस्व भद्रं ते यज्ञियं नरपुंगव +यज्ञः समाप्यतां तात सगरस्य महात्मनः +अंशुमानेवमुक्तस्तु कपिलेन महात्मना +आजगाम हयं गृह्य यज्ञवाटं महात्मनः +सोऽभिवाद्य ततः पादौ सगरस्य महात्मनः +मूर्ध्नि तेनाप्युपाघ्रातस्तस्मै सर्वं न्यवेदयत् +यथा दृष्टं श्रुतं चापि सागराणां क्षयं तथा +तं चास्मै हयमाचष्ट यज्ञवाटमुपागतम् +तच्छ्रुत्वा सगरो राजा पुत्रजं दुःखमत्यजत् +अंशुमन्तं च संपूज्य समापयत तं क्रतुम् +समाप्तयज्ञः सगरो देवैः सर्वैः सभाजितः +पुत्रत्वे कल्पयामास समुद्रं वरुणालयम् +प्रशास्य सुचिरं कालं राज्यं राजीवलोचनः +पौत्रे भारं समावेश्य जगाम त्रिदिवं तदा +अंशुमानपि धर्मात्मा महीं सागरमेखलाम् +प्रशशास महाराज यथैवास्य पितामहः +तस्य पुत्रः समभवद्दिलीपो नाम धर्मवित् +तस्मै राज्यं समाधाय अंशुमानपि संस्थितः +दिलीपस्तु ततः श्रुत्वा पितॄणां निधनं महत् +पर्यतप्यत दुःखेन तेषां गतिमचिन्तयत् +गङ्गावतरणे यत्नं सुमहच्चाकरोन्नृपः +न चावतारयामास चेष्टमानो यथाबलम् +तस्य पुत्रः समभवच्छ्रीमान्धर्मपरायणः +भगीरथ इति ख्यातः सत्यवागनसूयकः +अभिषिच्य तु तं राज्ये दिलीपो वनमाश्रितः +तपःसिद्धिसमायोगात्स राजा भरतर्षभ +वनाज्जगाम त्रिदिवं कालयोगेन भारत +लोमश उवाच +स तु राजा महेष्वासश्चक्रवर्ती महारथः +बभूव सर्वलोकस्य मनोनयननन्दनः +स शुश्राव महाबाहुः कपिलेन महात्मना +पितॄणां निधनं घोरमप्राप्तिं त्रिदिवस्य च +स राज्यं सचिवे न्यस्य हृदयेन विदूयता +जगाम हिमवत्पार्श्वं तपस्तप्तुं नरेश्वरः +आरिराधयिषुर्गङ्गां तपसा दग्धकिल्बिषः +सोऽपश्यत नरश्रेष्ठ हिमवन्तं नगोत्तमम् +शृङ्गैर्बहुविधाकारैर्धातुमद्भिरलंकृतम् +पवनालम्बिभिर्मेघैः परिष्वक्तं समन्ततः +नदीकुञ्जनितम्बैश्च सोदकैरुपशोभितम् +गुहाकन्दरसंलीनैः सिंहव्याघ्रैर्निषेवितम् +शकुनैश्च विचित्राङ्गैः कूजद्भिर्विविधा गिरः +भृङ्गराजैस्तथा हंसैर्दात्य��हैर्जलकुक्कुटैः +मयूरैः शतपत्रैश्च कोकिलैर्जीवजीवकैः +चकोरैरसितापाङ्गैस्तथा पुत्रप्रियैरपि +जलस्थानेषु रम्येषु पद्मिनीभिश्च संकुलम् +सारसानां च मधुरैर्व्याहृतैः समलंकृतम् +किंनरैरप्सरोभिश्च निषेवितशिलातलम् +दिशागजविषाणाग्रैः समन्ताद्घृष्टपादपम् +विद्याधरानुचरितं नानारत्नसमाकुलम् +विषोल्बणैर्भुजंगैश्च दीप्तजिह्वैर्निषेवितम् +क्वचित्कनकसंकाशं क्वचिद्रजतसंनिभम् +क्वचिदञ्जनपुञ्जाभं हिमवन्तमुपागमत् +स तु तत्र नरश्रेष्ठस्तपो घोरं समाश्रितः +फलमूलाम्बुभक्षोऽभूत्सहस्रं परिवत्सरान् +संवत्सरसहस्रे तु गते दिव्ये महानदी +दर्शयामास तं गङ्गा तदा मूर्तिमती स्वयम् +गङ्गोवाच +किमिच्छसि महाराज मत्तः किं च ददानि ते +तद्ब्रवीहि नरश्रेष्ठ करिष्यामि वचस्तव +लोमश उवाच +एवमुक्तः प्रत्युवाच राजा हैमवतीं तदा +पितामहा मे वरदे कपिलेन महानदि +अन्वेषमाणास्तुरगं नीता वैवस्वतक्षयम् +षष्टिस्तानि सहस्राणि सागराणां महात्मनाम् +कापिलं तेज आसाद्य क्षणेन निधनं गताः +तेषामेवं विनष्टानां स्वर्गे वासो न विद्यते +यावत्तानि शरीराणि त्वं जलैर्नाभिषिञ्चसि +स्वर्गं नय महाभागे मत्पितॄन्सगरात्मजान् +तेषामर्थेऽभियाचामि त्वामहं वै महानदि +एतच्छ्रुत्वा वचो राज्ञो गङ्गा लोकनमस्कृता +भगीरथमिदं वाक्यं सुप्रीता समभाषत +करिष्यामि महाराज वचस्ते नात्र संशयः +वेगं तु मम दुर्धार्यं पतन्त्या गगनाच्च्युतम् +न शक्तस्त्रिषु लोकेषु कश्चिद्धारयितुं नृप +अन्यत्र विबुधश्रेष्ठान्नीलकण्ठान्महेश्वरात् +तं तोषय महाबाहो तपसा वरदं हरम् +स तु मां प्रच्युतां देवः शिरसा धारयिष्यति +करिष्यति च ते कामं पितॄणां हितकाम्यया +एतच्छ्रुत्वा वचो राजन्महाराजो भगीरथः +कैलासं पर्वतं गत्वा तोषयामास शंकरम् +ततस्तेन समागम्य कालयोगेन केनचित् +अगृह्णाच्च वरं तस्माद्गङ्गाया धारणं नृप +स्वर्गवासं समुद्दिश्य पितॄणां स नरोत्तमः +लोमश उवाच +भगीरथवचः श्रुत्वा प्रियार्थं च दिवौकसाम् +एवमस्त्विति राजानं भगवान्प्रत्यभाषत +धारयिष्ये महाबाहो गगनात्प्रच्युतां शिवाम् +दिव्यां देवनदीं पुण्यां त्वत्कृते नृपसत्तम +एवमुक्त्वा महाबाहो हिमवन्तमुपागमत् +संवृतः पार्षदैर्घोरैर्नानाप्रहरणोद्यतैः +ततः स्थित्वा नरश्रेष्ठं भगीरथमुवाच ह +प्रयाचस्व महाबाहो शैलराजसुतां नदीम् +पतमानां सरिच्छ्रेष्ठां धारयिष्ये त्रिविष्टपात् +एतच्छ्रुत्वा वचो राजा शर्वेण समुदाहृतम् +प्रयतः प्रणतो भूत्वा गङ्गां समनुचिन्तयत् +ततः पुण्यजला रम्या राज्ञा समनुचिन्तिता +ईशानं च स्थितं दृष्ट्वा गगनात्सहसा च्युता +तां प्रच्युतां ततो दृष्ट्वा देवाः सार्धं महर्षिभिः +गन्धर्वोरगरक्षांसि समाजग्मुर्दिदृक्षया +ततः पपात गगनाद्गङ्गा हिमवतः सुता +समुद्भ्रान्तमहावर्ता मीनग्राहसमाकुला +तां दधार हरो राजन्गङ्गां गगनमेखलाम् +ललाटदेशे पतितां मालां मुक्तामयीमिव +सा बभूव विसर्पन्ती त्रिधा राजन्समुद्रगा +फेनपुञ्जाकुलजला हंसानामिव पङ्क्तयः +क्वचिदाभोगकुटिला प्रस्खलन्ती क्वचित्क्वचित् +स्वफेनपटसंवीता मत्तेव प्रमदाव्रजत् +क्वचित्सा तोयनिनदैर्नदन्ती नादमुत्तमम् +एवं प्रकारान्सुबहून्कुर्वन्ती गगनाच्च्युता +पृथिवीतलमासाद्य भगीरथमथाब्रवीत् +दर्शयस्व महाराज मार्गं केन व्रजाम्यहम् +त्वदर्थमवतीर्णास्मि पृथिवीं पृथिवीपते +एतच्छ्रुत्वा वचो राजा प्रातिष्ठत भगीरथः +यत्र तानि शरीराणि सागराणां महात्मनाम् +पावनार्थं नरश्रेष्ठ पुण्येन सलिलेन ह +गङ्गाया धारणं कृत्वा हरो लोकनमस्कृतः +कैलासं पर्वतश्रेष्ठं जगाम त्रिदशैः सह +समुद्रं च समासाद्य गङ्गया सहितो नृपः +पूरयामास वेगेन समुद्रं वरुणालयम् +दुहितृत्वे च नृपतिर्गङ्गां समनुकल्पयत् +पितॄणां चोदकं तत्र ददौ पूर्णमनोरथः +एतत्ते सर्वमाख्यातं गङ्गा त्रिपथगा यथा +पूरणार्थं समुद्रस्य पृथिवीमवतारिता +समुद्रश्च यथा पीतः कारणार्थे महात्मना +वातापिश्च यथा नीतः क्षयं स ब्रह्महा प्रभो +अगस्त्येन महाराज यन्मां त्वं परिपृच्छसि +वैशंपायन उवाच +ततः प्रयातः कौन्तेयः क्रमेण भरतर्षभ +नन्दामपरनन्दां च नद्यौ पापभयापहे +स पर्वतं समासाद्य हेमकूटमनामयम् +अचिन्त्यानद्भुतान्भावान्ददर्श सुबहून्नृपः +वाचो यत्राभवन्मेघा उपलाश्च सहस्रशः +नाशक्नुवंस्तमारोढुं विषण्णमनसो जनाः +वायुर्नित्यं ववौ यत्र नित्यं देवश्च वर्षति +सायं प्रातश्च भगवान्दृश्यते हव्यवाहनः +एवं बहुविधान्भावानद्भुतान्वीक्ष्य पाण्डवः +लोमशं पुनरेव स्म पर्यपृच्छत्तदद्भुतम् +लोमश उवाच +यथाश्रुतमिदं पूर्वमस्माभिररिकर्शन +तदेकाग्रमना राजन्निबोध गदतो मम +अस्मिन्नृषभकूटेऽभूदृषभो नाम तापसः +अनेकशतवर्षायुस्तपस्वी कोपनो भृशम् +स वै संभाष्यमाणोऽन्यैः कोपाद्गिरिमुवाच ह +य इह व्याहरेत्कश्चिदुपलानुत्सृजेस्तदा +वातं चाहूय मा शब्दमित्युवाच स तापसः +व्याहरंश्चैव पुरुषो मेघेन विनिवार्यते +एवमेतानि कर्माणि राजंस्तेन महर्षिणा +कृतानि कानिचित्कोपात्प्रतिषिद्धानि कानिचित् +नन्दामभिगतान्देवान्पुरा राजन्निति श्रुतिः +अन्वपद्यन्त सहसा पुरुषा देवदर्शिनः +ते दर्शनमनिच्छन्तो देवाः शक्रपुरोगमाः +दुर्गं चक्रुरिमं देशं गिरिप्रत्यूहरूपकम् +तदा प्रभृति कौन्तेय नरा गिरिमिमं सदा +नाशक्नुवनभिद्रष्टुं कुत एवाधिरोहितुम् +नातप्ततपसा शक्यो द्रष्टुमेष महागिरिः +आरोढुं वापि कौन्तेय तस्मान्नियतवाग्भव +इह देवाः सदा सर्वे यज्ञानाजह्रुरुत्तमान् +तेषामेतानि लिङ्गानि दृश्यन्तेऽद्यापि भारत +कुशाकारेव दूर्वेयं संस्तीर्णेव च भूरियम् +यूपप्रकारा बहवो वृक्षाश्चेमे विशां पते +देवाश्च ऋषयश्चैव वसन्त्यद्यापि भारत +तेषां सायं तथा प्रातर्दृश्यते हव्यवाहनः +इहाप्लुतानां कौन्तेय सद्यः पाप्मा विहन्यते +कुरुश्रेष्ठाभिषेकं वै तस्मात्कुरु सहानुजः +ततो नन्दाप्लुताङ्गस्त्वं कौशिकीमभियास्यसि +विश्वामित्रेण यत्रोग्रं तपस्तप्तमनुत्तमम् +वैशंपायन उवाच +ततस्तत्र समाप्लुत्य गात्राणि सगणो नृपः +जगाम कौशिकीं पुण्यां रम्यां शिवजलां नदीम् +लोमश उवाच +एषा देवनदी पुण्या कौशिकी भरतर्षभ +विश्वामित्राश्रमो रम्य एष चात्र प्रकाशते +आश्रमश्चैव पुण्याख्यः काश्यपस्य महात्मनः +ऋश्यशृङ्गः सुतो यस्य तपस्वी संयतेन्द्रियः +तपसो यः प्रभावेन वर्षयामास वासवम् +अनावृष्ट्यां भयाद्यस्य ववर्ष बलवृत्रहा +मृग्यां जातः स तेजस्वी काश्यपस्य सुतः प्रभुः +विषये लोमपादस्य यश्चकाराद्भुतं महत् +निवर्तितेषु सस्येषु यस्मै शान्तां ददौ नृपः +लोमपादो दुहितरं सावित्रीं सविता यथा +युधिष्ठिर उवाच +ऋश्यशृङ्गः कथं मृग्यामुत्पन्नः काश्यपात्मजः +विरुद्धे योनिसंसर्गे कथं च तपसा युतः +किमर्थं च भयाच्छक्रस्तस्य बालस्य धीमतः +अनावृष्ट्यां प्रवृत्तायां ववर्ष बलवृत्रहा +कथंरूपा च शान्ताभूद्राजपुत्री यतव्रता +लोभयामास या चेतो मृगभूतस्य तस्य वै +लोमपादश्च राजर्षिर्यदाश्रूयत धार्मिकः +कथं वै विषये तस्य नावर्षत्पाकशासनः +एतन्मे भगवन्सर्वं विस्तरेण यथातथम् +वक्तुमर्हसि शुश्रूषोरृश्यशृङ्गस्य चेष्टितम् +लोमश उवाच +विभाण्डकस्य ब्रह्मर्षेस्तपसा भावितात्मनः +अमोघवीर्यस्य सतः प्रजापतिसमद्युतेः +शृणु पुत्रो यथा जात ऋश्यशृङ्गः प्रतापवान् +महाह्रदे महातेजा बालः स्थविरसंमतः +महाह्रदं समासाद्य काश्यपस्तपसि स्थितः +दीर्घकालं परिश्रान्त ऋषिर्देवर्षिसंमतः +तस्य रेतः प्रचस्कन्द दृष्ट्वाप्सरसमुर्वशीम् +अप्सूपस्पृशतो राजन्मृगी तच्चापिबत्तदा +सह तोयेन तृषिता सा गर्भिण्यभवन्नृप +अमोघत्वाद्विधेश्चैव भावित्वाद्दैवनिर्मितात् +तस्यां मृग्यां समभवत्तस्य पुत्रो महानृषिः +ऋश्यशृङ्गस्तपोनित्यो वन एव व्यवर्धत +तस्यर्श्यशृङ्गं शिरसि राजन्नासीन्महात्मनः +तेनर्श्यशृङ्ग इत्येवं तदा स प्रथितोऽभवत् +न तेन दृष्टपूर्वोऽन्यः पितुरन्यत्र मानुषः +तस्मात्तस्य मनो नित्यं ब्रह्मचर्येऽभवन्नृप +एतस्मिन्नेव काले तु सखा दशरथस्य वै +लोमपाद इति ख्यातो अङ्गानामीश्वरोऽभवत् +तेन कामः कृतो मिथ्या ब्राह्मणेभ्य इति श्रुतिः +स ब्राह्मणैः परित्यक्तस्तदा वै जगतीपतिः +पुरोहितापचाराच्च तस्य राज्ञो यदृच्छया +न ववर्ष सहस्राक्षस्ततोऽपीड्यन्त वै प्रजाः +स ब्राह्मणान्पर्यपृच्छत्तपोयुक्तान्मनीषिणः +प्रवर्षणे सुरेन्द्रस्य समर्थान्पृथिवीपतिः +कथं प्रवर्षेत्पर्जन्य उपायः परिदृश्यताम् +तमूचुश्चोदितास्तेन स्वमतानि मनीषिणः +तत्र त्वेको मुनिवरस्तं राजानमुवाच ह +कुपितास्तव राजेन्द्र ब्राह्मणा निष्कृतिं चर +ऋश्यशृङ्गं मुनिसुतमानयस्व च पार्थिव +वानेयमनभिज्ञं च नारीणामार्जवे रतम् +स चेदवतरेद्राजन्विषयं ते महातपाः +सद्यः प्रवर्षेत्पर्जन्य इति मे नात्र संशयः +एतच्छ्रुत्वा वचो राजन्कृत्वा निष्कृतिमात्मनः +स गत्वा पुनरागच्छत्प्रसन्नेषु द्विजातिषु +राजानमागतं दृष्ट्वा प्रतिसंजगृहुः प्रजाः +ततोऽङ्गपतिराहूय सचिवान्मन्त्रकोविदान् +ऋश्यशृङ्गागमे यत्नमकरोन्मन्त्रनिश्चये +सोऽध्यगच्छदुपायं तु तैरमात्यैः सहाच्युतः +शास्त्रज्ञैरलमर्थज्ञैर्नीत्यां च परिनिष्ठितैः +तत आनाययामास वारमुख्या महीपतिः +वेश्याः सर्वत्र निष्णातास्ता उवाच स पार्थिवः +ऋश्यशृङ्गमृषेः पुत्रमानयध्वमुपायतः +लोभयित्वाभिविश्वास्य व��षयं मम शोभनाः +ता राजभयभीताश्च शापभीताश्च योषितः +अशक्यमूचुस्तत्कार्यं विवर्णा गतचेतसः +तत्र त्वेका जरद्योषा राजानमिदमब्रवीत् +प्रयतिष्ये महाराज तमानेतुं तपोधनम् +अभिप्रेतांस्तु मे कामान्समनुज्ञातुमर्हसि +ततः शक्ष्ये लोभयितुमृश्यशृङ्गमृषेः सुतम् +तस्याः सर्वमभिप्रायमन्वजानात्स पार्थिवः +धनं च प्रददौ भूरि रत्नानि विविधानि च +ततो रूपेण संपन्ना वयसा च महीपते +स्त्रिय आदाय काश्चित्सा जगाम वनमञ्जसा +लोमश उवाच +सा तु नाव्याश्रमं चक्रे राजकार्यार्थसिद्धये +संदेशाच्चैव नृपतेः स्वबुद्ध्या चैव भारत +नानापुष्पफलैर्वृक्षैः कृत्रिमैरुपशोभितम् +नानागुल्मलतोपेतैः स्वादुकामफलप्रदैः +अतीव रमणीयं तदतीव च मनोहरम् +चक्रे नाव्याश्रमं रम्यमद्भुतोपमदर्शनम् +ततो निबध्य तां नावमदूरे काश्यपाश्रमात् +चारयामास पुरुषैर्विहारं तस्य वै मुनेः +ततो दुहितरं वेश्या समाधायेतिकृत्यताम् +दृष्ट्वान्तरं काश्यपस्य प्राहिणोद्बुद्धिसंमताम् +सा तत्र गत्वा कुशला तपोनित्यस्य संनिधौ +आश्रमं तं समासाद्य ददर्श तमृषेः सुतम् +वेश्योवाच +कच्चिन्मुने कुशलं तापसानां; कच्चिच्च वो मूलफलं प्रभूतम् +कच्चिद्भवान्रमते चाश्रमेऽस्मिं;स्त्वां वै द्रष्टुं सांप्रतमागतोऽस्मि +कच्चित्तपो वर्धते तापसानां; पिता च ते कच्चिदहीनतेजाः +कच्चित्त्वया प्रीयते चैव विप्र; कच्चित्स्वाध्यायः क्रियते ऋश्यशृङ्ग +ऋश्यशृङ्ग उवाच +ऋद्धो भवाञ्ज्योतिरिव प्रकाशते; मन्ये चाहं त्वामभिवादनीयम् +पाद्यं वै ते संप्रदास्यामि कामा;द्यथाधर्मं फलमूलानि चैव +कौश्यां बृस्यामास्स्व यथोपजोषं; कृष्णाजिनेनावृतायां सुखायाम् +क्व चाश्रमस्तव किं नाम चेदं; व्रतं ब्रह्मंश्चरसि हि देववत्त्वम् +वेश्योवाच +ममाश्रमः काश्यपपुत्र रम्य;स्त्रियोजनं शैलमिमं परेण +तत्र स्वधर्मोऽनभिवादनं नो; न चोदकं पाद्यमुपस्पृशामः +ऋश्यशृङ्ग उवाच +फलानि पक्वानि ददानि तेऽहं; भल्लातकान्यामलकानि चैव +परूषकानीङ्गुदधन्वनानि; प्रियालानां कामकारं कुरुष्व +लोमश उवाच +सा तानि सर्वाणि विसर्जयित्वा; भक्षान्महार्हान्प्रददौ ततोऽस्मै +तान्यृश्यशृङ्गस्य महारसानि; भृशं सुरूपाणि रुचिं ददुर्हि +ददौ च माल्यानि सुगन्धवन्ति; चित्राणि वासांसि च भानुमन्ति +पानानि चाग्र्याणि ततो मुमोद; चिक्री��� चैव प्रजहास चैव +सा कन्दुकेनारमतास्य मूले; विभज्यमाना फलिता लतेव +गात्रैश्च गात्राणि निषेवमाणा; समाश्लिषच्चासकृदृश्यशृङ्गम् +सर्जानशोकांस्तिलकांश्च वृक्षा;न्प्रपुष्पितानवनाम्यावभज्य +विलज्जमानेव मदाभिभूता; प्रलोभयामास सुतं महर्षेः +अथर्श्यशृङ्गं विकृतं समीक्ष्य; पुनः पुनः पीड्य च कायमस्य +अवेक्षमाणा शनकैर्जगाम; कृत्वाग्निहोत्रस्य तदापदेशम् +तस्यां गतायां मदनेन मत्तो; विचेतनश्चाभवदृश्यशृङ्गः +तामेव भावेन गतेन शून्यो; विनिःश्वसन्नार्तरूपो बभूव +ततो मुहूर्ताद्धरिपिङ्गलाक्षः; प्रवेष्टितो रोमभिरा नखाग्रात् +स्वाध्यायवान्वृत्तसमाधियुक्तो; विभाण्डकः काश्यपः प्रादुरासीत् +सोऽपश्यदासीनमुपेत्य पुत्रं; ध्यायन्तमेकं विपरीतचित्तम् +विनिःश्वसन्तं मुहुरूर्ध्वदृष्टिं; विभाण्डकः पुत्रमुवाच दीनम् +न कल्प्यन्ते समिधः किं नु तात; कच्चिद्धुतं चाग्निहोत्रं त्वयाद्य +सुनिर्णिक्तं स्रुक्स्रुवं होमधेनुः; कच्चित्सवत्सा च कृता त्वयाद्य +न वै यथापूर्वमिवासि पुत्र; चिन्तापरश्चासि विचेतनश्च +दीनोऽतिमात्रं त्वमिहाद्य किं नु; पृच्छामि त्वां क इहाद्यागतोऽभूत् +ऋश्यशृङ्ग उवाच +इहागतो जटिलो ब्रह्मचारी; न वै ह्रस्वो नातिदीर्घो मनस्वी +सुवर्णवर्णः कमलायताक्षः; सुतः सुराणामिव शोभमानः +समृद्धरूपः सवितेव दीप्तः; सुशुक्लकृष्णाक्षतरश्चकोरैः +नीलाः प्रसन्नाश्च जटाः सुगन्धा; हिरण्यरज्जुग्रथिताः सुदीर्घाः +आधाररूपा पुनरस्य कण्ठे; विभ्राजते विद्युदिवान्तरिक्षे +द्वौ चास्य पिण्डावधरेण कण्ठ;मजातरोमौ सुमनोहरौ च +विलग्नमध्यश्च स नाभिदेशे; कटिश्च तस्यातिकृतप्रमाणा +तथास्य चीरान्तरिता प्रभाति; हिरण्मयी मेखला मे यथेयम् +अन्यच्च तस्याद्भुतदर्शनीयं; विकूजितं पादयोः संप्रभाति +पाण्योश्च तद्वत्स्वनवन्निबद्धौ; कलापकावक्षमाला यथेयम् +विचेष्टमानस्य च तस्य तानि; कूजन्ति हंसा सरसीव मत्ताः +चीराणि तस्याद्भुतदर्शनानि; नेमानि तद्वन्मम रूपवन्ति +वक्त्रं च तस्याद्भुतदर्शनीयं; प्रव्याहृतं ह्लादयतीव चेतः +पुंस्कोकिलस्येव च तस्य वाणी; तां शृण्वतो मे व्यथितोऽन्तरात्मा +यथा वनं माधवमासि मध्ये; समीरितं श्वसनेनाभिवाति +तथा स वात्युत्तमपुण्यगन्धी; निषेव्यमाणः पवनेन तात +सुसंयताश्चापि जटा विभक्ता; द्वैधीकृता ���ान्ति समा ललाटे +कर्णौ च चित्रैरिव चक्रवालैः; समावृतौ तस्य सुरूपवद्भिः +तथा फलं वृत्तमथो विचित्रं; समाहनत्पाणिना दक्षिणेन +तद्भूमिमासाद्य पुनः पुनश्च; समुत्पतत्यद्भुतरूपमुच्चैः +तच्चापि हत्वा परिवर्ततेऽसौ; वातेरितो वृक्ष इवावघूर्णः +तं प्रेक्ष्य मे पुत्रमिवामराणां; प्रीतिः परा तात रतिश्च जाता +स मे समाश्लिष्य पुनः शरीरं; जटासु गृह्याभ्यवनाम्य वक्त्रम् +वक्त्रेण वक्त्रं प्रणिधाय शब्दं; चकार तन्मेऽजनयत्प्रहर्षम् +न चापि पाद्यं बहु मन्यतेऽसौ; फलानि चेमानि मयाहृतानि +एवंव्रतोऽस्मीति च मामवोच;त्फलानि चान्यानि नवान्यदान्मे +मयोपयुक्तानि फलानि तानि; नेमानि तुल्यानि रसेन तेषाम् +न चापि तेषां त्वगियं यथैषां; साराणि नैषामिव सन्ति तेषाम् +तोयानि चैवातिरसानि मह्यं; प्रादात्स वै पातुमुदाररूपः +पीत्वैव यान्यभ्यधिकः प्रहर्षो; ममाभवद्भूश्चलितेव चासीत् +इमानि चित्राणि च गन्धवन्ति; माल्यानि तस्योद्ग्रथितानि पट्टैः +यानि प्रकीर्येह गतः स्वमेव; स आश्रमं तपसा द्योतमानः +गतेन तेनास्मि कृतो विचेता; गात्रं च मे संपरितप्यतीव +इच्छामि तस्यान्तिकमाशु गन्तुं; तं चेह नित्यं परिवर्तमानम् +गच्छामि तस्यान्तिकमेव तात; का नाम सा व्रतचर्या च तस्य +इच्छाम्यहं चरितुं तेन सार्धं; यथा तपः स चरत्युग्रकर्मा +विभाण्डक उवाच +रक्षांसि चैतानि चरन्ति पुत्र; रूपेण तेनाद्भुतदर्शनेन +अतुल्यरूपाण्यतिघोरवन्ति; विघ्नं सदा तपसश्चिन्तयन्ति +सुरूपरूपाणि च तानि तात; प्रलोभयन्ते विविधैरुपायैः +सुखाच्च लोकाच्च निपातयन्ति; तान्युग्रकर्माणि मुनीन्वनेषु +न तानि सेवेत मुनिर्यतात्मा; सतां लोकान्प्रार्थयानः कथंचित् +कृत्वा विघ्नं तापसानां रमन्ते; पापाचारास्तपसस्तान्यपाप +असज्जनेनाचरितानि पुत्र; पापान्यपेयानि मधूनि तानि +माल्यानि चैतानि न वै मुनीनां; स्मृतानि चित्रोज्ज्वलगन्धवन्ति +लोमश उवाच +रक्षांसि तानीति निवार्य पुत्रं; विभाण्डकस्तां मृगयां बभूव +नासादयामास यदा त्र्यहेण; तदा स पर्याववृतेऽऽश्रमाय +यदा पुनः काश्यपो वै जगाम; फलान्याहर्तुं विधिना श्रामणेन +तदा पुनर्लोभयितुं जगाम; सा वेशयोषा मुनिमृश्यशृङ्गम् +दृष्ट्वैव तामृश्यशृङ्गः प्रहृष्टः; संभ्रान्तरूपोऽभ्यपतत्तदानीम् +प्रोवाच चैनां भवतोऽऽश्रमाय; गच्छाव यावन्न पिता ��मैति +ततो राजन्काश्यपस्यैकपुत्रं; प्रवेश्य योगेन विमुच्य नावम् +प्रलोभयन्त्यो विविधैरुपायै;राजग्मुरङ्गाधिपतेः समीपम् +संस्थाप्य तामाश्रमदर्शने तु; संतारितां नावमतीव शुभ्राम् +तीरादुपादाय तथैव चक्रे; राजाश्रमं नाम वनं विचित्रम् +अन्तःपुरे तं तु निवेश्य राजा; विभाण्डकस्यात्मजमेकपुत्रम् +ददर्श देवं सहसा प्रवृष्ट;मापूर्यमाणं च जगज्जलेन +स लोमपादः परिपूर्णकामः; सुतां ददावृश्यशृङ्गाय शान्ताम् +क्रोधप्रतीकारकरं च चक्रे; गोभिश्च मार्गेष्वभिकर्षणं च +विभाण्डकस्याव्रजतः स राजा; पशून्प्रभूतान्पशुपांश्च वीरान् +समादिशत्पुत्रगृद्धी महर्षि;र्विभाण्डकः परिपृच्छेद्यदा वः +स वक्तव्यः प्राञ्जलिभिर्भवद्भिः; पुत्रस्य ते पशवः कर्षणं च +किं ते प्रियं वै क्रियतां महर्षे; दासाः स्म सर्वे तव वाचि बद्धाः +अथोपायात्स मुनिश्चण्डकोपः; स्वमाश्रमं मूलफलानि गृह्य +अन्वेषमाणश्च न तत्र पुत्रं; ददर्श चुक्रोध ततो भृशं सः +ततः स कोपेन विदीर्यमाण; आशङ्कमानो नृपतेर्विधानम् +जगाम चम्पां प्रदिधक्षमाण;स्तमङ्गराजं विषयं च तस्य +स वै श्रान्तः क्षुधितः काश्यपस्ता;न्घोषान्समासादितवान्समृद्धान् +गोपैश्च तैर्विधिवत्पूज्यमानो; राजेव तां रात्रिमुवास तत्र +संप्राप्य सत्कारमतीव तेभ्यः; प्रोवाच कस्य प्रथिताः स्थ सौम्याः +ऊचुस्ततस्तेऽभ्युपगम्य सर्वे; धनं तवेदं विहितं सुतस्य +देशे तु देशे तु स पूज्यमान;स्तांश्चैव शृण्वन्मधुरान्प्रलापान् +प्रशान्तभूयिष्ठरजाः प्रहृष्टः; समाससादाङ्गपतिं पुरस्थम् +संपूजितस्तेन नरर्षभेण; ददर्श पुत्रं दिवि देवं यथेन्द्रम् +शान्तां स्नुषां चैव ददर्श तत्र; सौदामिनीमुच्चरन्तीं यथैव +ग्रामांश्च घोषांश्च सुतं च दृष्ट्वा; शान्तां च शान्तोऽस्य परः स कोपः +चकार तस्मै परमं प्रसादं; विभाण्डको भूमिपतेर्नरेन्द्र +स तत्र निक्षिप्य सुतं महर्षि;रुवाच सूर्याग्निसमप्रभावम् +जाते पुत्रे वनमेवाव्रजेथा; राज्ञः प्रियाण्यस्य सर्वाणि कृत्वा +स तद्वचः कृतवानृश्यशृङ्गो; ययौ च यत्रास्य पिता बभूव +शान्ता चैनं पर्यचरद्यथाव;त्खे रोहिणी सोममिवानुकूला +अरुन्धती वा सुभगा वसिष्ठं; लोपामुद्रा वापि यथा ह्यगस्त्यम् +नलस्य वा दमयन्ती यथाभू;द्यथा शची वज्रधरस्य चैव +नाडायनी चेन्द्रसेना यथैव; वश्या नित्यं मुद्गलस्या��मीढ +तथा शान्ता ऋश्यशृङ्गं वनस्थं; प्रीत्या युक्ता पर्यचरन्नरेन्द्र +तस्याश्रमः पुण्य एषो विभाति; महाह्रदं शोभयन्पुण्यकीर्तेः +अत्र स्नातः कृतकृत्यो विशुद्ध;स्तीर्थान्यन्यान्यनुसंयाहि राजन् +वैशंपायन उवाच +ततः प्रयातः कौशिक्याः पाण्डवो जनमेजय +आनुपूर्व्येण सर्वाणि जगामायतनान्युत +स सागरं समासाद्य गङ्गायाः संगमे नृप +नदीशतानां पञ्चानां मध्ये चक्रे समाप्लवम् +ततः समुद्रतीरेण जगाम वसुधाधिपः +भ्रातृभिः सहितो वीरः कलिङ्गान्प्रति भारत +लोमश उवाच +एते कलिङ्गाः कौन्तेय यत्र वैतरणी नदी +यत्रायजत धर्मोऽपि देवाञ्शरणमेत्य वै +ऋषिभिः समुपायुक्तं यज्ञियं गिरिशोभितम् +उत्तरं तीरमेतद्धि सततं द्विजसेवितम् +समेन देवयानेन पथा स्वर्गमुपेयुषः +अत्र वै ऋषयोऽन्येऽपि पुरा क्रतुभिरीजिरे +अत्रैव रुद्रो राजेन्द्र पशुमादत्तवान्मखे +रुद्रः पशुं मानवेन्द्र भागोऽयमिति चाब्रवीत् +हृते पशौ तदा देवास्तमूचुर्भरतर्षभ +मा परस्वमभिद्रोग्धा मा धर्मान्सकलान्नशीः +ततः कल्याणरूपाभिर्वाग्भिस्ते रुद्रमस्तुवन् +इष्ट्या चैनं तर्पयित्वा मानयां चक्रिरे तदा +ततः स पशुमुत्सृज्य देवयानेन जग्मिवान् +अत्रानुवंशो रुद्रस्य तं निबोध युधिष्ठिर +अयातयामं सर्वेभ्यो भागेभ्यो भागमुत्तमम् +देवाः संकल्पयामासुर्भयाद्रुद्रस्य शाश्वतम् +इमां गाथामत्र गायन्नपः स्पृशति यो नरः +देवयानस्तस्य पन्थाश्चक्षुश्चैव प्रकाशते +वैशंपायन उवाच +ततो वैतरणीं सर्वे पाण्डवा द्रौपदी तथा +अवतीर्य महाभागा तर्पयां चक्रिरे पितॄन् +युधिष्ठिर उवाच +उपस्पृश्यैव भगवन्नस्यां नद्यां तपोधन +मानुषादस्मि विषयादपेतः पश्य लोमश +सर्वाँल्लोकान्प्रपश्यामि प्रसादात्तव सुव्रत +वैखानसानां जपतामेष शब्दो महात्मनाम् +लोमश उवाच +त्रिशतं वै सहस्राणि योजनानां युधिष्ठिर +यत्र ध्वनिं शृणोष्येनं तूष्णीमास्स्व विशां पते +एतत्स्वयंभुवो राजन्वनं रम्यं प्रकाशते +यत्रायजत कौन्तेय विश्वकर्मा प्रतापवान् +यस्मिन्यज्ञे हि भूर्दत्ता कश्यपाय महात्मने +सपर्वतवनोद्देशा दक्षिणा वै स्वयंभुवा +अवासीदच्च कौन्तेय दत्तमात्रा मही तदा +उवाच चापि कुपिता लोकेश्वरमिदं प्रभुम् +न मां मर्त्याय भगवन्कस्मैचिद्दातुमर्हसि +प्रदानं मोघमेतत्ते यास्याम्येषा रसातलम् +विषीदन्तीं तु तां दृष्ट्वा कश्यपो भगवानृषिः +प्रसादयां बभूवाथ ततो भूमिं विशां पते +ततः प्रसन्ना पृथिवी तपसा तस्य पाण्डव +पुनरुन्मज्ज्य सलिलाद्वेदीरूपा स्थिता बभौ +सैषा प्रकाशते राजन्वेदी संस्थानलक्षणा +आरुह्यात्र महाराज वीर्यवान्वै भविष्यसि +अहं च ते स्वस्त्ययनं प्रयोक्ष्ये; यथा त्वमेनामधिरोक्ष्यसेऽद्य +स्पृष्टा हि मर्त्येन ततः समुद्र;मेषा वेदी प्रविशत्याजमीढ +अग्निर्मित्रो योनिरापोऽथ देव्यो; विष्णो रेतस्त्वममृतस्य नाभिः +एवं ब्रुवन्पाण्डव सत्यवाक्यं; वेदीमिमां त्वं तरसाधिरोह +वैशंपायन उवाच +ततः कृतस्वस्त्ययनो महात्मा; युधिष्ठिरः सागरगामगच्छत् +कृत्वा च तच्छासनमस्य सर्वं; महेन्द्रमासाद्य निशामुवास +वैशंपायन उवाच +स तत्र तामुषित्वैकां रजनीं पृथिवीपतिः +तापसानां परं चक्रे सत्कारं भ्रातृभिः सह +लोमशश्चास्य तान्सर्वानाचख्यौ तत्र तापसान् +भृगूनङ्गिरसश्चैव वासिष्ठानथ काश्यपान् +तान्समेत्य स राजर्षिरभिवाद्य कृताञ्जलिः +रामस्यानुचरं वीरमपृच्छदकृतव्रणम् +कदा नु रामो भगवांस्तापसान्दर्शयिष्यति +तेनैवाहं प्रसङ्गेन द्रष्टुमिच्छामि भार्गवम् +अकृतव्रण उवाच +आयानेवासि विदितो रामस्य विदितात्मनः +प्रीतिस्त्वयि च रामस्य क्षिप्रं त्वां दर्शयिष्यति +चतुर्दशीमष्टमीं च रामं पश्यन्ति तापसाः +अस्यां रात्र्यां व्यतीतायां भवित्री च चतुर्दशी +युधिष्ठिर उवाच +भवाननुगतो वीरं जामदग्न्यं महाबलम् +प्रत्यक्षदर्शी सर्वस्य पूर्ववृत्तस्य कर्मणः +स भवान्कथयत्वेतद्यथा रामेण निर्जिताः +आहवे क्षत्रियाः सर्वे कथं केन च हेतुना +अकृतव्रण उवाच +कन्यकुब्जे महानासीत्पार्थिवः सुमहाबलः +गाधीति विश्रुतो लोके वनवासं जगाम सः +वने तु तस्य वसतः कन्या जज्ञेऽप्सरःसमा +ऋचीको भार्गवस्तां च वरयामास भारत +तमुवाच ततो राजा ब्राह्मणं संशितव्रतम् +उचितं नः कुले किंचित्पूर्वैर्यत्संप्रवर्तितम् +एकतःश्यामकर्णानां पाण्डुराणां तरस्विनाम् +सहस्रं वाजिनां शुल्कमिति विद्धि द्विजोत्तम +न चापि भगवान्वाच्यो दीयतामिति भार्गव +देया मे दुहिता चेयं त्वद्विधाय महात्मने +ऋचीक उवाच +एकतःश्यामकर्णानां पाण्डुराणां तरस्विनाम् +दास्याम्यश्वसहस्रं ते मम भार्या सुतास्तु ते +अकृतव्रण उवाच +स तथेति प्रतिज्ञाय राजन्वरुणमब्रवीत् +एकतःश्य��मकर्णानां पाण्डुराणां तरस्विनाम् +सहस्रं वाजिनामेकं शुल्कार्थं मे प्रदीयताम् +तस्मै प्रादात्सहस्रं वै वाजिनां वरुणस्तदा +तदश्वतीर्थं विख्यातमुत्थिता यत्र ते हयाः +गङ्गायां कन्यकुब्जे वै ददौ सत्यवतीं तदा +ततो गाधिः सुतां तस्मै जन्याश्चासन्सुरास्तदा +लब्ध्वा हयसहस्रं तु तांश्च दृष्ट्वा दिवौकसः +धर्मेण लब्ध्वा तां भार्यामृचीको द्विजसत्तमः +यथाकामं यथाजोषं तया रेमे सुमध्यया +तं विवाहे कृते राजन्सभार्यमवलोककः +आजगाम भृगुश्रेष्ठः पुत्रं दृष्ट्वा ननन्द च +भार्यापती तमासीनं गुरुं सुरगणार्चितम् +अर्चित्वा पर्युपासीनौ प्राञ्जली तस्थतुस्तदा +ततः स्नुषां स भगवान्प्रहृष्टो भृगुरब्रवीत् +वरं वृणीष्व सुभगे दाता ह्यस्मि तवेप्सितम् +सा वै प्रसादयामास तं गुरुं पुत्रकारणात् +आत्मनश्चैव मातुश्च प्रसादं च चकार सः +भृगुरुवाच +ऋतौ त्वं चैव माता च स्नाते पुंसवनाय वै +आलिङ्गेतां पृथग्वृक्षौ साश्वत्थं त्वमुदुम्बरम् +आलिङ्गने तु ते राजंश्चक्रतुः स्म विपर्ययम् +कदाचिद्भृगुरागच्छत्तं च वेद विपर्ययम् +अथोवाच महातेजा भृगुः सत्यवतीं स्नुषाम् +ब्राह्मणः क्षत्रवृत्तिर्वै तव पुत्रो भविष्यति +क्षत्रियो ब्राह्मणाचारो मातुस्तव सुतो महान् +भविष्यति महावीर्यः साधूनां मार्गमास्थितः +ततः प्रसादयामास श्वशुरं सा पुनः पुनः +न मे पुत्रो भवेदीदृक्कामं पौत्रो भवेदिति +एवमस्त्विति सा तेन पाण्डव प्रतिनन्दिता +जमदग्निं ततः पुत्रं सा जज्ञे काल आगते +तेजसा वर्चसा चैव युक्तं भार्गवनन्दनम् +स वर्धमानस्तेजस्वी वेदस्याध्ययनेन वै +बहूनृषीन्महातेजाः पाण्डवेयात्यवर्तत +तं तु कृत्स्नो धनुर्वेदः प्रत्यभाद्भरतर्षभ +चतुर्विधानि चास्त्राणि भास्करोपमवर्चसम् +अकृतव्रण उवाच +स वेदाध्ययने युक्तो जमदग्निर्महातपाः +तपस्तेपे ततो देवान्नियमाद्वशमानयत् +स प्रसेनजितं राजन्नधिगम्य नराधिपम् +रेणुकां वरयामास स च तस्मै ददौ नृपः +रेणुकां त्वथ संप्राप्य भार्यां भार्गवनन्दनः +आश्रमस्थस्तया सार्धं तपस्तेपेऽनुकूलया +तस्याः कुमाराश्चत्वारो जज्ञिरे रामपञ्चमाः +सर्वेषामजघन्यस्तु राम आसीज्जघन्यजः +फलाहारेषु सर्वेषु गतेष्वथ सुतेषु वै +रेणुका स्नातुमगमत्कदाचिन्नियतव्रता +सा तु चित्ररथं नाम मार्त्तिकावतकं नृपम् +ददर्श रेणुका र���जन्नागच्छन्ती यदृच्छया +क्रीडन्तं सलिले दृष्ट्वा सभार्यं पद्ममालिनम् +ऋद्धिमन्तं ततस्तस्य स्पृहयामास रेणुका +व्यभिचारात्तु सा तस्मात्क्लिन्नाम्भसि विचेतना +प्रविवेशाश्रमं त्रस्ता तां वै भर्तान्वबुध्यत +स तां दृष्ट्वा च्युतां धैर्याद्ब्राह्म्या लक्ष्म्या विवर्जिताम् +धिक्शब्देन महातेजा गर्हयामास वीर्यवान् +ततो ज्येष्ठो जामदग्न्यो रुमण्वान्नाम नामतः +आजगाम सुषेणश्च वसुर्विश्वावसुस्तथा +तानानुपूर्व्याद्भगवान्वधे मातुरचोदयत् +न च ते जातसंमोहाः किंचिदूचुर्विचेतसः +ततः शशाप तान्कोपात्ते शप्ताश्चेतनां जहुः +मृगपक्षिसधर्माणः क्षिप्रमासञ्जडोपमाः +ततो रामोऽभ्यगात्पश्चादाश्रमं परवीरहा +तमुवाच महामन्युर्जमदग्निर्महातपाः +जहीमां मातरं पापां मा च पुत्र व्यथां कृथाः +तत आदाय परशुं रामो मातुः शिरोऽहरत् +ततस्तस्य महाराज जमदग्नेर्महात्मनः +कोपो अगच्छत्सहसा प्रसन्नश्चाब्रवीदिदम् +ममेदं वचनात्तात कृतं ते कर्म दुष्करम् +वृणीष्व कामान्धर्मज्ञ यावतो वाञ्छसे हृदा +स वव्रे मातुरुत्थानमस्मृतिं च वधस्य वै +पापेन तेन चास्पर्शं भ्रातॄणां प्रकृतिं तथा +अप्रतिद्वन्द्वतां युद्धे दीर्घमायुश्च भारत +ददौ च सर्वान्कामांस्ताञ्जमदग्निर्महातपाः +कदाचित्तु तथैवास्य विनिष्क्रान्ताः सुताः प्रभो +अथानूपपतिर्वीरः कार्तवीर्योऽभ्यवर्तत +तमाश्रमपदं प्राप्तमृषेर्भार्या समर्चयत् +स युद्धमदसंमत्तो नाभ्यनन्दत्तथार्चनम् +प्रमथ्य चाश्रमात्तस्माद्धोमधेन्वास्तदा बलात् +जहार वत्सं क्रोशन्त्या बभञ्ज च महाद्रुमान् +आगताय च रामाय तदाचष्ट पिता स्वयम् +गां च रोरूयतीं दृष्ट्वा कोपो रामं समाविशत् +स मन्युवशमापन्नः कार्तवीर्यमुपाद्रवत् +तस्याथ युधि विक्रम्य भार्गवः परवीरहा +चिच्छेद निशितैर्भल्लैर्बाहून्परिघसंनिभान् +सहस्रसंमितान्राजन्प्रगृह्य रुचिरं धनुः +अर्जुनस्याथ दायादा रामेण कृतमन्यवः +आश्रमस्थं विना रामं जमदग्निमुपाद्रवन् +ते तं जघ्नुर्महावीर्यमयुध्यन्तं तपस्विनम् +असकृद्राम रामेति विक्रोशन्तमनाथवत् +कार्तवीर्यस्य पुत्रास्तु जमदग्निं युधिष्ठिर +घातयित्वा शरैर्जग्मुर्यथागतमरिंदमाः +अपक्रान्तेषु चैतेषु जमदग्नौ तथागते +समित्पाणिरुपागच्छदाश्रमं भृगुनन्दनः +स दृष्ट्वा पितरं वीरस्तथा मृत्युवशं गतम् +अनर्हन्तं तथाभूतं विललाप सुदुःखितः +राम उवाच +ममापराधात्तैः क्षुद्रैर्हतस्त्वं तात बालिशैः +कार्तवीर्यस्य दायादैर्वने मृग इवेषुभिः +धर्मज्ञस्य कथं तात वर्तमानस्य सत्पथे +मृत्युरेवंविधो युक्तः सर्वभूतेष्वनागसः +किं नु तैर्न कृतं पापं यैर्भवांस्तपसि स्थितः +अयुध्यमानो वृद्धः सन्हतः शरशतैः शितैः +किं नु ते तत्र वक्ष्यन्ति सचिवेषु सुहृत्सु च +अयुध्यमानं धर्मज्ञमेकं हत्वानपत्रपाः +अकृतव्रण उवाच +विलप्यैवं स करुणं बहु नानाविधं नृप +प्रेतकार्याणि सर्वाणि पितुश्चक्रे महातपाः +ददाह पितरं चाग्नौ रामः परपुरंजयः +प्रतिजज्ञे वधं चापि सर्वक्षत्रस्य भारत +संक्रुद्धोऽतिबलः शूरः शस्त्रमादाय वीर्यवान् +जघ्निवान्कार्तवीर्यस्य सुतानेकोऽन्तकोपमः +तेषां चानुगता ये च क्षत्रियाः क्षत्रियर्षभ +तांश्च सर्वानवामृद्नाद्रामः प्रहरतां वरः +त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः +समन्तपञ्चके पञ्च चकार रुधिरह्रदान् +स तेषु तर्पयामास पितॄन्भृगुकुलोद्वहः +साक्षाद्ददर्श चर्चीकं स च रामं न्यवारयत् +ततो यज्ञेन महता जामदग्न्यः प्रतापवान् +तर्पयामास देवेन्द्रमृत्विग्भ्यश्च महीं ददौ +वेदीं चाप्यददद्धैमीं कश्यपाय महात्मने +दशव्यामायतां कृत्वा नवोत्सेधां विशां पते +तां कश्यपस्यानुमते ब्राह्मणाः खण्डशस्तदा +व्यभजंस्तेन ते राजन्प्रख्याताः खाण्डवायनाः +स प्रदाय महीं तस्मै कश्यपाय महात्मने +अस्मिन्महेन्द्रे शैलेन्द्रे वसत्यमितविक्रमः +एवं वैरमभूत्तस्य क्षत्रियैर्लोकवासिभिः +पृथिवी चापि विजिता रामेणामिततेजसा +वैशंपायन उवाच +ततश्चतुर्दशीं रामः समयेन महामनाः +दर्शयामास तान्विप्रान्धर्मराजं च सानुजम् +स तमानर्च राजेन्द्रो भ्रातृभिः सहितः प्रभुः +द्विजानां च परां पूजां चक्रे नृपतिसत्तमः +अर्चयित्वा जामदग्न्यं पूजितस्तेन चाभिभूः +महेन्द्र उष्य तां रात्रिं प्रययौ दक्षिणामुखः +वैशंपायन उवाच +गच्छन्स तीर्थानि महानुभावः; पुण्यानि रम्याणि ददर्श राजा +सर्वाणि विप्रैरुपशोभितानि; क्वचित्क्वचिद्भारत सागरस्य +स वृत्तवांस्तेषु कृताभिषेकः; सहानुजः पार्थिवपुत्रपौत्रः +समुद्रगां पुण्यतमां प्रशस्तां; जगाम पारिक्षित पाण्डुपुत्रः +तत्रापि चाप्लुत्य महानुभावः; सं��र्पयामास पितॄन्सुरांश्च +द्विजातिमुख्येषु धनं विसृज्य; गोदावरीं सागरगामगच्छत् +ततो विपाप्मा द्रविडेषु राज;न्समुद्रमासाद्य च लोकपुण्यम् +अगस्त्यतीर्थं च पवित्रपुण्यं; नारीतीर्थान्यथ वीरो ददर्श +तत्रार्जुनस्याग्र्यधनुर्धरस्य; निशम्य तत्कर्म परैरसह्यम् +संपूज्यमानः परमर्षिसंघैः; परां मुदं पाण्डुसुतः स लेभे +स तेषु तीर्थेष्वभिषिक्तगात्रः; कृष्णासहायः सहितोऽनुजैश्च +संपूजयन्विक्रममर्जुनस्य; रेमे महीपालपतिः पृथिव्याम् +ततः सहस्राणि गवां प्रदाय; तीर्थेषु तेष्वम्बुधरोत्तमस्य +हृष्टः सह भ्रातृभिरर्जुनस्य; संकीर्तयामास गवां प्रदानम् +स तानि तीर्थानि च सागरस्य; पुण्यानि चान्यानि बहूनि राजन् +क्रमेण गच्छन्परिपूर्णकामः; शूर्पारकं पुण्यतमं ददर्श +तत्रोदधेः कंचिदतीत्य देशं; ख्यातं पृथिव्यां वनमाससाद +तप्तं सुरैर्यत्र तपः पुरस्ता;दिष्टं तथा पुण्यतमैर्नरेन्द्रैः +स तत्र तामग्र्यधनुर्धरस्य; वेदीं ददर्शायतपीनबाहुः +ऋचीकपुत्रस्य तपस्विसंघैः; समावृतां पुण्यकृदर्चनीयाम् +ततो वसूनां वसुधाधिपः स; मरुद्गणानां च तथाश्विनोश्च +वैवस्वतादित्यधनेश्वराणा;मिन्द्रस्य विष्णोः सवितुर्विभोश्च +भगस्य चन्द्रस्य दिवाकरस्य; पतेरपां साध्यगणस्य चैव +धातुः पितॄणां च तथा महात्मा; रुद्रस्य राजन्सगणस्य चैव +सरस्वत्याः सिद्धगणस्य चैव; पूष्णश्च ये चाप्यमरास्तथान्ये +पुण्यानि चाप्यायतनानि तेषां; ददर्श राजा सुमनोहराणि +तेषूपवासान्विविधानुपोष्य; दत्त्वा च रत्नानि महाधनानि +तीर्थेषु सर्वेषु परिप्लुताङ्गः; पुनः स शूर्पारकमाजगाम +स तेन तीर्थेन तु सागरस्य; पुनः प्रयातः सह सोदरीयैः +द्विजैः पृथिव्यां प्रथितं महद्भि;स्तीर्थं प्रभासं समुपाजगाम +तत्राभिषिक्तः पृथुलोहिताक्षः; सहानुजैर्देवगणान्पितॄंश्च +संतर्पयामास तथैव कृष्णा; ते चापि विप्राः सह लोमशेन +स द्वादशाहं जलवायुभक्षः; कुर्वन्क्षपाहःसु तदाभिषेकम् +समन्ततोऽग्नीनुपदीपयित्वा; तेपे तपो धर्मभृतां वरिष्ठः +तमुग्रमास्थाय तपश्चरन्तं; शुश्राव रामश्च जनार्दनश्च +तौ सर्ववृष्णिप्रवरौ ससैन्यौ; युधिष्ठिरं जग्मतुराजमीढम् +ते वृष्णयः पाण्डुसुतान्समीक्ष्य; भूमौ शयानान्मलदिग्धगात्रान् +अनर्हतीं द्रौपदीं चापि दृष्ट्वा; सुदुःखिताश्चुक्रुशुरार्तनादम् +तत�� स रामं च जनार्दनं च; कार्ष्णिं च साम्बं च शिनेश्च पौत्रम् +अन्यांश्च वृष्णीनुपगम्य पूजां; चक्रे यथाधर्ममदीनसत्त्वः +ते चापि सर्वान्प्रतिपूज्य पार्थां;स्तैः सत्कृताः पाण्डुसुतैस्तथैव +युधिष्ठिरं संपरिवार्य राज;न्नुपाविशन्देवगणा यथेन्द्रम् +तेषां स सर्वं चरितं परेषां; वने च वासं परमप्रतीतः +अस्त्रार्थमिन्द्रस्य गतं च पार्थं; कृष्णे शशंसामरराजपुत्रम् +श्रुत्वा तु ते तस्य वचः प्रतीता;स्तांश्चापि दृष्ट्वा सुकृशानतीव +नेत्रोद्भवं संमुमुचुर्दशार्हा; दुःखार्तिजं वारि महानुभावाः +जनमेजय उवाच +प्रभासतीर्थं संप्राप्य वृष्णयः पाण्डवास्तथा +किमकुर्वन्कथाश्चैषां कास्तत्रासंस्तपोधन +ते हि सर्वे महात्मानः सर्वशास्त्रविशारदाः +वृष्णयः पाण्डवाश्चैव सुहृदश्च परस्परम् +वैशंपायन उवाच +प्रभासतीर्थं संप्राप्य पुण्यं तीर्थं महोदधेः +वृष्णयः पाण्डवान्वीरान्परिवार्योपतस्थिरे +ततो गोक्षीरकुन्देन्दुमृणालरजतप्रभः +वनमाली हली रामो बभाषे पुष्करेक्षणम् +न कृष्ण धर्मश्चरितो भवाय; जन्तोरधर्मश्च पराभवाय +युधिष्ठिरो यत्र जटी महात्मा; वनाश्रयः क्लिश्यति चीरवासाः +दुर्योधनश्चापि महीं प्रशास्ति; न चास्य भूमिर्विवरं ददाति +धर्मादधर्मश्चरितो गरीया;नितीव मन्येत नरोऽल्पबुद्धिः +दुर्योधने चापि विवर्धमाने; युधिष्ठिरे चासुख आत्तराज्ये +किं न्वद्य कर्तव्यमिति प्रजाभिः; शङ्का मिथः संजनिता नराणाम् +अयं हि धर्मप्रभवो नरेन्द्रो; धर्मे रतः सत्यधृतिः प्रदाता +चलेद्धि राज्याच्च सुखाच्च पार्थो; धर्मादपेतश्च कथं विवर्धेत् +कथं नु भीष्मश्च कृपश्च विप्रो; द्रोणश्च राजा च कुलस्य वृद्धः +प्रव्राज्य पार्थान्सुखमाप्नुवन्ति; धिक्पापबुद्धीन्भरतप्रधानान् +किं नाम वक्ष्यत्यवनिप्रधानः; पितॄन्समागम्य परत्र पापः +पुत्रेषु सम्यक्चरितं मयेति; पुत्रानपापानवरोप्य राज्यात् +नासौ धिया संप्रतिपश्यति स्म; किं नाम कृत्वाहमचक्षुरेवम् +जातः पृथिव्यामिति पार्थिवेषु; प्रव्राज्य कौन्तेयमथापि राज्यात् +नूनं समृद्धान्पितृलोकभूमौ; चामीकराभान्क्षितिजान्प्रफुल्लान् +विचित्रवीर्यस्य सुतः सपुत्रः; कृत्वा नृशंसं बत पश्यति स्म +व्यूढोत्तरांसान्पृथुलोहिताक्षा;न्नेमान्स्म पृच्छन्स शृणोति नूनम् +प्रस्थापयद्यत्स वनं ह्यशङ्को; युधिष्ठिरं सानुजमात्तशस्त्रम् +योऽयं परेषां पृतनां समृद्धां; निरायुधो दीर्घभुजो निहन्यात् +श्रुत्वैव शब्दं हि वृकोदरस्य; मुञ्चन्ति सैन्यानि शकृत्समूत्रम् +स क्षुत्पिपासाध्वकृशस्तरस्वी; समेत्य नानायुधबाणपाणिः +वने स्मरन्वासमिमं सुघोरं; शेषं न कुर्यादिति निश्चितं मे +न ह्यस्य वीर्येण बलेन कश्चि;त्समः पृथिव्यां भविता नरेषु +शीतोष्णवातातपकर्शिताङ्गो; न शेषमाजावसुहृत्सु कुर्यात् +प्राच्यां नृपानेकरथेन जित्वा; वृकोदरः सानुचरान्रणेषु +स्वस्त्यागमद्योऽतिरथस्तरस्वी; सोऽयं वने क्लिश्यति चीरवासाः +यो दन्तकूरे व्यजयन्नृदेवा;न्समागतान्दाक्षिणात्यान्महीपान् +तं पश्यतेमं सहदेवमद्य; तपस्विनं तापसवेषरूपम् +यः पार्थिवानेकरथेन वीरो; दिशं प्रतीचीं प्रति युद्धशौण्डः +सोऽयं वने मूलफलेन जीव;ञ्जटी चरत्यद्य मलाचिताङ्गः +सत्रे समृद्धेऽति रथस्य राज्ञो; वेदीतलादुत्पतिता सुता या +सेयं वने वासमिमं सुदुःखं; कथं सहत्यद्य सती सुखार्हा +त्रिवर्गमुख्यस्य समीरणस्य; देवेश्वरस्याप्यथ वाश्विनोश्च +एषां सुराणां तनयाः कथं नु; वने चरन्त्यल्पसुखाः सुखार्हाः +जिते हि धर्मस्य सुते सभार्ये; सभ्रातृके सानुचरे निरस्ते +दुर्योधने चापि विवर्धमाने; कथं न सीदत्यवनिः सशैला +सात्यकिरुवाच +न राम कालः परिदेवनाय; यदुत्तरं तत्र तदेव सर्वे +समाचरामो ह्यनतीतकालं; युधिष्ठिरो यद्यपि नाह किंचित् +ये नाथवन्तो हि भवन्ति लोके; ते नात्मना कर्म समारभन्ते +तेषां तु कार्येषु भवन्ति नाथाः; शैब्यादयो राम यथा ययातेः +येषां तथा राम समारभन्ते; कार्याणि नाथाः स्वमतेन लोके +ते नाथवन्तः पुरुषप्रवीरा; नानाथवत्कृच्छ्रमवाप्नुवन्ति +कस्मादयं रामजनार्दनौ च; प्रद्युम्नसाम्बौ च मया समेतौ +वसत्यरण्ये सह सोदरीयै;स्त्रैलोक्यनाथानधिगम्य नाथान् +निर्यातु साध्वद्य दशार्हसेना; प्रभूतनानायुधचित्रवर्मा +यमक्षयं गच्छतु धार्तराष्ट्रः; सबान्धवो वृष्णिबलाभिभूतः +त्वं ह्येव कोपात्पृथिवीमपीमां; संवेष्टयेस्तिष्ठतु शार्ङ्गधन्वा +स धार्तराष्ट्रं जहि सानुबन्धं; वृत्रं यथा देवपतिर्महेन्द्रः +भ्राता च मे यश्च सखा गुरुश्च; जनार्दनस्यात्मसमश्च पार्थः +यदर्थमभ्युद्यतमुत्तमं त;त्करोति कर्माग्र्यमपारणीयम् +तस्यास्त्रवर्षाण्यहमुत्तमास्त्रै;र्विहत्य सर्व��णि रणेऽभिभूय +कायाच्छिरः सर्पविषाग्निकल्पैः; शरोत्तमैरुन्मथितास्मि राम +खड्गेन चाहं निशितेन संख्ये; कायाच्छिरस्तस्य बलात्प्रमथ्य +ततोऽस्य सर्वाननुगान्हनिष्ये; दुर्योधनं चापि कुरूंश्च सर्वान् +आत्तायुधं मामिह रौहिणेय; पश्यन्तु भौमा युधि जातहर्षाः +निघ्नन्तमेकं कुरुयोधमुख्या;न्काले महाकक्षमिवान्तकाग्निः +प्रद्युम्नमुक्तान्निशितान्न शक्ताः; सोढुं कृपद्रोणविकर्णकर्णाः +जानामि वीर्यं च तवात्मजस्य; कार्ष्णिर्भवत्येष यथा रणस्थः +साम्बः ससूतं सरथं भुजाभ्यां; दुःशासनं शास्तु बलात्प्रमथ्य +न विद्यते जाम्बवतीसुतस्य; रणेऽविषह्यं हि रणोत्कटस्य +एतेन बालेन हि शम्बरस्य; दैत्यस्य सैन्यं सहसा प्रणुन्नम् +वृत्तोरुरत्यायतपीनबाहु;रेतेन संख्ये निहतोऽश्वचक्रः +को नाम साम्बस्य रणे मनुष्यो; गत्वान्तरं वै भुजयोर्धरेत +यथा प्रविश्यान्तरमन्तकस्य; काले मनुष्यो न विनिष्क्रमेत +तथा प्रविश्यान्तरमस्य संख्ये; को नाम जीवन्पुनराव्रजेत +द्रोणं च भीष्मं च महारथौ तौ; सुतैर्वृतं चाप्यथ सोमदत्तम् +सर्वाणि सैन्यानि च वासुदेवः; प्रधक्ष्यते सायकवह्निजालैः +किं नाम लोकेष्वविषह्यमस्ति; कृष्णस्य सर्वेषु सदैवतेषु +आत्तायुधस्योत्तमबाणपाणे;श्चक्रायुधस्याप्रतिमस्य युद्धे +ततोऽनिरुद्धोऽप्यसिचर्मपाणि;र्महीमिमां धार्तराष्ट्रैर्विसंज्ञैः +हृतोत्तमाङ्गैर्निहतैः करोतु; कीर्णां कुशैर्वेदिमिवाध्वरेषु +गदोल्मुकौ बाहुकभानुनीथाः; शूरश्च संख्ये निशठः कुमारः +रणोत्कटौ सारणचारुदेष्णौ; कुलोचितं विप्रथयन्तु कर्म +सवृष्णिभोजान्धकयोधमुख्या; समागता क्षत्रियशूरसेना +हत्वा रणे तान्धृतराष्ट्रपुत्राँ;ल्लोके यशः स्फीतमुपाकरोतु +ततोऽभिमन्युः पृथिवीं प्रशास्तु; यावद्व्रतं धर्मभृतां वरिष्ठः +युधिष्ठिरः पारयते महात्मा; द्यूते यथोक्तं कुरुसत्तमेन +अस्मत्प्रमुक्तैर्विशिखैर्जितारि;स्ततो महीं भोक्ष्यति धर्मराजः +निर्धार्तराष्ट्रां हतसूतपुत्रा;मेतद्धि नः कृत्यतमं यशस्यम् +वासुदेव उवाच +असंशयं माधव सत्यमेत;द्गृह्णीम ते वाक्यमदीनसत्त्व +स्वाभ्यां भुजाभ्यामजितां तु भूमिं; नेच्छेत्कुरूणामृषभः कथंचित् +न ह्येष कामान्न भयान्न लोभा;द्युधिष्ठिरो जातु जह्यात्स्वधर्मम् +भीमार्जुनौ चातिरथौ यमौ वा; तथैव कृष्णा द्रुपदा���्मजेयम् +उभौ हि युद्धेऽप्रतिमौ पृथिव्यां; वृकोदरश्चैव धनंजयश्च +कस्मान्न कृत्स्नां पृथिवीं प्रशासे;न्माद्रीसुताभ्यां च पुरस्कृतोऽयम् +यदा तु पाञ्चालपतिर्महात्मा; सकेकयश्चेदिपतिर्वयं च +योत्स्याम विक्रम्य परांस्तदा वै; सुयोधनस्त्यक्ष्यति जीवलोकम् +युधिष्ठिर उवाच +नैतच्चित्रं माधव यद्ब्रवीषि; सत्यं तु मे रक्ष्यतमं न राज्यम् +कृष्णस्तु मां वेद यथावदेकः; कृष्णं च वेदाहमथो यथावत् +यदैव कालं पुरुषप्रवीरो; वेत्स्यत्ययं माधव विक्रमस्य +तदा रणे त्वं च शिनिप्रवीर; सुयोधनं जेष्यसि केशवश्च +प्रतिप्रयान्त्वद्य दशार्हवीरा; दृढोऽस्मि नाथैर्नरलोकनाथैः +धर्मेऽप्रमादं कुरुताप्रमेया; द्रष्टास्मि भूयः सुखिनः समेतान् +वैशंपायन उवाच +तेऽन्योन्यमामन्त्र्य तथाभिवाद्य; वृद्धान्परिष्वज्य शिशूंश्च सर्वान् +यदुप्रवीराः स्वगृहाणि जग्मू; राजापि तीर्थान्यनुसंचचार +विसृज्य कृष्णं त्वथ धर्मराजो; विदर्भराजोपचितां सुतीर्थाम् +सुतेन सोमेन विमिश्रितोदां; ततः पयोष्णीं प्रति स ह्युवास +लोमश उवाच +नृगेण यजमानेन सोमेनेह पुरंदरः +तर्पितः श्रूयते राजन्स तृप्तो मदमभ्यगात् +इह देवैः सहेन्द्रैर्हि प्रजापतिभिरेव च +इष्टं बहुविधैर्यज्ञैर्महद्भिर्भूरिदक्षिणैः +आमूर्तरयसश्चेह राजा वज्रधरं प्रभुम् +तर्पयामास सोमेन हयमेधेषु सप्तसु +तस्य सप्तसु यज्ञेषु सर्वमासीद्धिरण्मयम् +वानस्पत्यं च भौमं च यद्द्रव्यं नियतं मखे +तेष्वेव चास्य यज्ञेषु प्रयोगाः सप्त विश्रुताः +सप्तैकैकस्य यूपस्य चषालाश्चोपरि स्थिताः +तस्य स्म यूपान्यज्ञेषु भ्राजमानान्हिरण्मयान् +स्वयमुत्थापयामासुर्देवाः सेन्द्रा युधिष्ठिर +तेषु तस्य मखाग्र्येषु गयस्य पृथिवीपतेः +अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः +सिकता वा यथा लोके यथा वा दिवि तारकाः +यथा वा वर्षतो धारा असंख्येयाश्च केनचित् +तथैव तदसंख्येयं धनं यत्प्रददौ गयः +सदस्येभ्यो महाराज तेषु यज्ञेषु सप्तसु +भवेत्संख्येयमेतद्वै यदेतत्परिकीर्तितम् +न सा शक्या तु संख्यातुं दक्षिणा दक्षिणावतः +हिरण्मयीभिर्गोभिश्च कृताभिर्विश्वकर्मणा +ब्राह्मणांस्तर्पयामास नानादिग्भ्यः समागतान् +अल्पावशेषा पृथिवी चैत्यैरासीन्महात्मनः +गयस्य यजमानस्य तत्र तत्र विशां पते +स लोकान्प्राप्तवानैन्द��रान्कर्मणा तेन भारत +सलोकतां तस्य गच्छेत्पयोष्ण्यां य उपस्पृशेत् +तस्मात्त्वमत्र राजेन्द्र भ्रातृभिः सहितोऽनघ +उपस्पृश्य महीपाल धूतपाप्मा भविष्यसि +वैशंपायन उवाच +स पयोष्ण्यां नरश्रेष्ठः स्नात्वा वै भ्रातृभिः सह +वैडूर्यपर्वतं चैव नर्मदां च महानदीम् +समाजगाम तेजस्वी भ्रातृभिः सहितोऽनघः +ततोऽस्य सर्वाण्याचख्यौ लोमशो भगवानृषिः +तीर्थानि रमणीयानि तत्र तत्र विशां पते +यथायोगं यथाप्रीति प्रययौ भ्रातृभिः सह +ददमानोऽसकृद्वित्तं ब्राह्मणेभ्यः सहस्रशः +लोमश उवाच +देवानामेति कौन्तेय तथा राज्ञां सलोकताम् +वैडूर्यपर्वतं दृष्ट्वा नर्मदामवतीर्य च +संधिरेष नरश्रेष्ठ त्रेताया द्वापरस्य च +एतमासाद्य कौन्तेय सर्वपापैः प्रमुच्यते +एष शर्यातियज्ञस्य देशस्तात प्रकाशते +साक्षाद्यत्रापिबत्सोममश्विभ्यां सह कौशिकः +चुकोप भार्गवश्चापि महेन्द्रस्य महातपाः +संस्तम्भयामास च तं वासवं च्यवनः प्रभुः +सुकन्यां चापि भार्यां स राजपुत्रीमिवाप्तवान् +युधिष्ठिर उवाच +कथं विष्टम्भितस्तेन भगवान्पाकशासनः +किमर्थं भार्गवश्चापि कोपं चक्रे महातपाः +नासत्यौ च कथं ब्रह्मन्कृतवान्सोमपीथिनौ +एतत्सर्वं यथावृत्तमाख्यातु भगवान्मम +लोमश उवाच +भृगोर्महर्षेः पुत्रोऽभूच्च्यवनो नाम भार्गवः +समीपे सरसः सोऽस्य तपस्तेपे महाद्युतिः +स्थाणुभूतो महातेजा वीरस्थानेन पाण्डव +अतिष्ठत्सुबहून्कालानेकदेशे विशां पते +स वल्मीकोऽभवदृषिर्लताभिरभिसंवृतः +कालेन महता राजन्समाकीर्णः पिपीलिकैः +तथा स संवृतो धीमान्मृत्पिण्ड इव सर्वशः +तप्यति स्म तपो राजन्वल्मीकेन समावृतः +अथ दीर्घस्य कालस्य शर्यातिर्नाम पार्थिवः +आजगाम सरो रम्यं विहर्तुमिदमुत्तमम् +तस्य स्त्रीणां सहस्राणि चत्वार्यासन्परिग्रहः +एकैव च सुता शुभ्रा सुकन्या नाम भारत +सा सखीभिः परिवृता सर्वाभरणभूषिता +चङ्क्रम्यमाणा वल्मीकं भार्गवस्य समासदत् +सा चैव सुदती तत्र पश्यमाना मनोरमान् +वनस्पतीन्विचिन्वन्ती विजहार सखीवृता +रूपेण वयसा चैव मदनेन मदेन च +बभञ्ज वनवृक्षाणां शाखाः परमपुष्पिताः +तां सखीरहितामेकामेकवस्त्रामलंकृताम् +ददर्श भार्गवो धीमांश्चरन्तीमिव विद्युतम् +तां पश्यमानो विजने स रेमे परमद्युतिः +क्षामकण्ठश्च ब्रह्मर्षिस्तपोबलसमन्वितः +तामाबभाषे क��्याणीं सा चास्य न शृणोति वै +ततः सुकन्या वल्मीके दृष्ट्वा भार्गवचक्षुषी +कौतूहलात्कण्टकेन बुद्धिमोहबलात्कृता +किं नु खल्विदमित्युक्त्वा निर्बिभेदास्य लोचने +अक्रुध्यत्स तया विद्धे नेत्रे परममन्युमान् +ततः शर्यातिसैन्यस्य शकृन्मूत्रं समावृणोत् +ततो रुद्धे शकृन्मूत्रे सैन्यमानाहदुःखितम् +तथागतमभिप्रेक्ष्य पर्यपृच्छत्स पार्थिवः +तपोनित्यस्य वृद्धस्य रोषणस्य विशेषतः +केनापकृतमद्येह भार्गवस्य महात्मनः +ज्ञातं वा यदि वाज्ञातं तदृतं ब्रूत माचिरम् +तमूचुः सैनिकाः सर्वे न विद्मोऽपकृतं वयम् +सर्वोपायैर्यथाकामं भवांस्तदधिगच्छतु +ततः स पृथिवीपालः साम्ना चोग्रेण च स्वयम् +पर्यपृच्छत्सुहृद्वर्गं प्रत्यजानन्न चैव ते +आनाहार्तं ततो दृष्ट्वा तत्सैन्यमसुखार्दितम् +पितरं दुःखितं चापि सुकन्येदमथाब्रवीत् +मयाटन्त्येह वल्मीके दृष्टं सत्त्वमभिज्वलत् +खद्योतवदभिज्ञातं तन्मया विद्धमन्तिकात् +एतच्छ्रुत्वा तु शर्यातिर्वल्मीकं तूर्णमाद्रवत् +तत्रापश्यत्तपोवृद्धं वयोवृद्धं च भार्गवम् +अयाचदथ सैन्यार्थं प्राञ्जलिः पृथिवीपतिः +अज्ञानाद्बालया यत्ते कृतं तत्क्षन्तुमर्हसि +ततोऽब्रवीन्महीपालं च्यवनो भार्गवस्तदा +रूपौदार्यसमायुक्तां लोभमोहबलात्कृताम् +तामेव प्रतिगृह्याहं राजन्दुहितरं तव +क्षमिष्यामि महीपाल सत्यमेतद्ब्रवीमि ते +ऋषेर्वचनमाज्ञाय शर्यातिरविचारयन् +ददौ दुहितरं तस्मै च्यवनाय महात्मने +प्रतिगृह्य च तां कन्यां च्यवनः प्रससाद ह +प्राप्तप्रसादो राजा स ससैन्यः पुनराव्रजत् +सुकन्यापि पतिं लब्ध्वा तपस्विनमनिन्दिता +नित्यं पर्यचरत्प्रीत्या तपसा नियमेन च +अग्नीनामतिथीनां च शुश्रूषुरनसूयिका +समाराधयत क्षिप्रं च्यवनं सा शुभानना +लोमश उवाच +कस्यचित्त्वथ कालस्य सुराणामश्विनौ नृप +कृताभिषेकां विवृतां सुकन्यां तामपश्यताम् +तां दृष्ट्वा दर्शनीयाङ्गीं देवराजसुतामिव +ऊचतुः समभिद्रुत्य नासत्यावश्विनाविदम् +कस्य त्वमसि वामोरु किं वने वै करोषि च +इच्छाव भद्रे ज्ञातुं त्वां तत्त्वमाख्याहि शोभने +ततः सुकन्या संवीता तावुवाच सुरोत्तमौ +शर्यातितनयां वित्तं भार्यां च च्यवनस्य माम् +अथाश्विनौ प्रहस्यैतामब्रूतां पुनरेव तु +कथं त्वमसि कल्याणि पित्रा दत्ता गताध्वने +भ्राजसे वनमध्ये त्वं विद्युत्सौदामिनी यथा +न देवेष्वपि तुल्यां हि त्वया पश्याव भामिनि +सर्वाभरणसंपन्ना परमाम्बरधारिणी +शोभेथास्त्वनवद्याङ्गि न त्वेवं मलपङ्किनी +कस्मादेवंविधा भूत्वा जराजर्जरितं पतिम् +त्वमुपास्से ह कल्याणि कामभोगबहिष्कृतम् +असमर्थं परित्राणे पोषणे च शुचिस्मिते +साधु च्यवनमुत्सृज्य वरयस्वैकमावयोः +पत्यर्थं देवगर्भाभे मा वृथा यौवनं कृथाः +एवमुक्ता सुकन्या तु सुरौ ताविदमब्रवीत् +रताहं च्यवने पत्यौ मैवं मा पर्यशङ्किथाः +तावब्रूतां पुनस्त्वेनामावां देवभिषग्वरौ +युवानं रूपसंपन्नं करिष्यावः पतिं तव +ततस्तस्यावयोश्चैव पतिमेकतमं वृणु +एतेन समयेनैनमामन्त्रय वरानने +सा तयोर्वचनाद्राजन्नुपसंगम्य भार्गवम् +उवाच वाक्यं यत्ताभ्यामुक्तं भृगुसुतं प्रति +तच्छ्रुत्वा च्यवनो भार्यामुवाच क्रियतामिति +भर्त्रा सा समनुज्ञाता क्रियतामित्यथाब्रवीत् +श्रुत्वा तदश्विनौ वाक्यं तत्तस्याः क्रियतामिति +ऊचतू राजपुत्रीं तां पतिस्तव विशत्वपः +ततोऽम्भश्च्यवनः शीघ्रं रूपार्थी प्रविवेश ह +अश्विनावपि तद्राजन्सरः प्रविशतां प्रभो +ततो मुहूर्तादुत्तीर्णाः सर्वे ते सरसस्ततः +दिव्यरूपधराः सर्वे युवानो मृष्टकुण्डलाः +तुल्यरूपधराश्चैव मनसः प्रीतिवर्धनाः +तेऽब्रुवन्सहिताः सर्वे वृणीष्वान्यतमं शुभे +अस्माकमीप्सितं भद्रे पतित्वे वरवर्णिनि +यत्र वाप्यभिकामासि तं वृणीष्व सुशोभने +सा समीक्ष्य तु तान्सर्वांस्तुल्यरूपधरान्स्थितान् +निश्चित्य मनसा बुद्ध्या देवी वव्रे स्वकं पतिम् +लब्ध्वा तु च्यवनो भार्यां वयोरूपं च वाञ्छितम् +हृष्टोऽब्रवीन्महातेजास्तौ नासत्याविदं वचः +यथाहं रूपसंपन्नो वयसा च समन्वितः +कृतो भवद्भ्यां वृद्धः सन्भार्यां च प्राप्तवानिमाम् +तस्माद्युवां करिष्यामि प्रीत्याहं सोमपीथिनौ +मिषतो देवराजस्य सत्यमेतद्ब्रवीमि वाम् +तच्छ्रुत्वा हृष्टमनसौ दिवं तौ प्रतिजग्मतुः +च्यवनोऽपि सुकन्या च सुराविव विजह्रतुः +लोमश उवाच +ततः श्रुत्वा तु शर्यातिर्वयःस्थं च्यवनं कृतम् +संहृष्टः सेनया सार्धमुपायाद्भार्गवाश्रमम् +च्यवनं च सुकन्यां च दृष्ट्वा देवसुताविव +रेमे महीपः शर्यातिः कृत्स्नां प्राप्य महीमिव +ऋषिणा सत्कृतस्तेन सभार्यः पृथिवीपतिः +उपोपविष्टः कल्याणीः कथाश्चक्रे महामना�� +अथैनं भार्गवो राजन्नुवाच परिसान्त्वयन् +याजयिष्यामि राजंस्त्वां संभारानुपकल्पय +ततः परमसंहृष्टः शर्यातिः पृथिवीपतिः +च्यवनस्य महाराज तद्वाक्यं प्रत्यपूजयत् +प्रशस्तेऽहनि यज्ञीये सर्वकामसमृद्धिमत् +कारयामास शर्यातिर्यज्ञायतनमुत्तमम् +तत्रैनं च्यवनो राजन्याजयामास भार्गवः +अद्भुतानि च तत्रासन्यानि तानि निबोध मे +अगृह्णाच्च्यवनः सोममश्विनोर्देवयोस्तदा +तमिन्द्रो वारयामास गृह्यमाणं तयोर्ग्रहम् +इन्द्र उवाच +उभावेतौ न सोमार्हौ नासत्याविति मे मतिः +भिषजौ देवपुत्राणां कर्मणा नैवमर्हतः +च्यवन उवाच +मावमंस्था महात्मानौ रूपद्रविणवत्तरौ +यौ चक्रतुर्मां मघवन्वृन्दारकमिवाजरम् +ऋते त्वां विबुधांश्चान्यान्कथं वै नार्हतः सवम् +अश्विनावपि देवेन्द्र देवौ विद्धि पुरंदर +इन्द्र उवाच +चिकित्सकौ कर्मकरौ कामरूपसमन्वितौ +लोके चरन्तौ मर्त्यानां कथं सोममिहार्हतः +लोमश उवाच +एतदेव यदा वाक्यमाम्रेडयति वासवः +अनादृत्य ततः शक्रं ग्रहं जग्राह भार्गवः +ग्रहीष्यन्तं तु तं सोममश्विनोरुत्तमं तदा +समीक्ष्य बलभिद्देव इदं वचनमब्रवीत् +आभ्यामर्थाय सोमं त्वं ग्रहीष्यसि यदि स्वयम् +वज्रं ते प्रहरिष्यामि घोररूपमनुत्तमम् +एवमुक्तः स्मयन्निन्द्रमभिवीक्ष्य स भार्गवः +जग्राह विधिवत्सोममश्विभ्यामुत्तमं ग्रहम् +ततोऽस्मै प्राहरद्वज्रं घोररूपं शचीपतिः +तस्य प्रहरतो बाहुं स्तम्भयामास भार्गवः +संस्तम्भयित्वा च्यवनो जुहुवे मन्त्रतोऽनलम् +कृत्यार्थी सुमहातेजा देवं हिंसितुमुद्यतः +ततः कृत्या समभवदृषेस्तस्य तपोबलात् +मदो नाम महावीर्यो बृहत्कायो महासुरः +शरीरं यस्य निर्देष्टुमशक्यं तु सुरासुरैः +तस्यास्यमभवद्घोरं तीक्ष्णाग्रदशनं महत् +हनुरेका स्थिता तस्य भूमावेका दिवं गता +चतस्र आयता दंष्ट्रा योजनानां शतं शतम् +इतरे त्वस्य दशना बभूवुर्दशयोजनाः +प्राकारसदृशाकाराः शूलाग्रसमदर्शनाः +बाहू पर्वतसंकाशावायतावयुतं समौ +नेत्रे रविशशिप्रख्ये वक्त्रमन्तकसंनिभम् +लेलिहञ्जिह्वया वक्त्रं विद्युच्चपललोलया +व्यात्ताननो घोरदृष्टिर्ग्रसन्निव जगद्बलात् +स भक्षयिष्यन्संक्रुद्धः शतक्रतुमुपाद्रवत् +महता घोररूपेण लोकाञ्शब्देन नादयन् +लोमश उवाच +तं दृष्ट्वा घोरवदनं मदं देवः शतक्रतुः +आयान्तं भक्षयिष्यन्तं व्यात्ताननमिवान्तकम् +भयात्संस्तम्भितभुजः सृक्किणी लेलिहन्मुहुः +ततोऽब्रवीद्देवराजश्च्यवनं भयपीडितः +सोमार्हावश्विनावेतावद्य प्रभृति भार्गव +भविष्यतः सत्यमेतद्वचो ब्रह्मन्ब्रवीमि ते +न ते मिथ्या समारम्भो भवत्वेष परो विधिः +जानामि चाहं विप्रर्षे न मिथ्या त्वं करिष्यसि +सोमार्हावश्विनावेतौ यथैवाद्य कृतौ त्वया +भूय एव तु ते वीर्यं प्रकाशेदिति भार्गव +सुकन्यायाः पितुश्चास्य लोके कीर्तिः प्रथेदिति +अतो मयैतद्विहितं तव वीर्यप्रकाशनम् +तस्मात्प्रसादं कुरु मे भवत्वेतद्यथेच्छसि +एवमुक्तस्य शक्रेण च्यवनस्य महात्मनः +स मन्युर्व्यगमच्छीघ्रं मुमोच च पुरंदरम् +मदं च व्यभजद्राजन्पाने स्त्रीषु च वीर्यवान् +अक्षेषु मृगयायां च पूर्वसृष्टं पुनः पुनः +तथा मदं विनिक्षिप्य शक्रं संतर्प्य चेन्दुना +अश्विभ्यां सहितान्देवान्याजयित्वा च तं नृपम् +विख्याप्य वीर्यं सर्वेषु लोकेषु वदतां वरः +सुकन्यया सहारण्ये विजहारानुरक्तया +तस्यैतद्द्विजसंघुष्टं सरो राजन्प्रकाशते +अत्र त्वं सह सोदर्यैः पितॄन्देवांश्च तर्पय +एतद्दृष्ट्वा महीपाल सिकताक्षं च भारत +सैन्धवारण्यमासाद्य कुल्यानां कुरु दर्शनम् +पुष्करेषु महाराज सर्वेषु च जलं स्पृश +आर्चीकपर्वतश्चैव निवासो वै मनीषिणाम् +सदाफलः सदास्रोतो मरुतां स्थानमुत्तमम् +चैत्याश्चैते बहुशतास्त्रिदशानां युधिष्ठिर +एतच्चन्द्रमसस्तीर्थमृषयः पर्युपासते +वैखानसाश्च ऋषयो वालखिल्यास्तथैव च +शृङ्गाणि त्रीणि पुण्याणि त्रीणि प्रस्रवणानि च +सर्वाण्यनुपरिक्रम्य यथाकाममुपस्पृश +शंतनुश्चात्र कौन्तेय शुनकश्च नराधिप +नरनारायणौ चोभौ स्थानं प्राप्ताः सनातनम् +इह नित्यशया देवाः पितरश्च महर्षिभिः +आर्चीकपर्वते तेपुस्तान्यजस्व युधिष्ठिर +इह ते वै चरून्प्राश्नन्नृषयश्च विशां पते +यमुना चाक्षयस्रोताः कृष्णश्चेह तपोरतः +यमौ च भीमसेनश्च कृष्णा चामित्रकर्शन +सर्वे चात्र गमिष्यामः सुकृशाः सुतपस्विनः +एतत्प्रस्रवणं पुण्यमिन्द्रस्य मनुजाधिप +यत्र धाता विधाता च वरुणश्चोर्ध्वमागताः +इह ते न्यवसन्राजन्क्षान्ताः परमधर्मिणः +मैत्राणामृजुबुद्धीनामयं गिरिवरः शुभः +एषा सा यमुना राजन्राजर्षिगणसेविता +नानायज्ञचिता राजन्पुण्या पापभयापहा +अत्र राजा महेष्वासो मान्धातायजत स्वयम् +सहदेवश्च कौन्तेय सोमको ददतां वरः +युधिष्ठिर उवाच +मान्धाता राजशार्दूलस्त्रिषु लोकेषु विश्रुतः +कथं जातो महाब्रह्मन्यौवनाश्वो नृपोत्तमः +कथं चैतां परां काष्ठां प्राप्तवानमितद्युतिः +यस्य लोकास्त्रयो वश्या विष्णोरिव महात्मनः +एतदिच्छाम्यहं श्रोतुं चरितं तस्य धीमतः +यथा मान्धातृशब्दश्च तस्य शक्रसमद्युतेः +जन्म चाप्रतिवीर्यस्य कुशलो ह्यसि भाषितुम् +लोमश उवाच +शृणुष्वावहितो राजन्राज्ञस्तस्य महात्मनः +यथा मान्धातृशब्दो वै लोकेषु परिगीयते +इक्ष्वाकुवंशप्रभवो युवनाश्वो महीपतिः +सोऽयजत्पृथिवीपाल क्रतुभिर्भूरिदक्षिणैः +अश्वमेधसहस्रं च प्राप्य धर्मभृतां वरः +अन्यैश्च क्रतुभिर्मुख्यैर्विविधैराप्तदक्षिणैः +अनपत्यस्तु राजर्षिः स महात्मा दृढव्रतः +मन्त्रिष्वाधाय तद्राज्यं वननित्यो बभूव ह +शास्त्रदृष्टेन विधिना संयोज्यात्मानमात्मना +पिपासाशुष्कहृदयः प्रविवेशाश्रमं भृगोः +तामेव रात्रिं राजेन्द्र महात्मा भृगुनन्दनः +इष्टिं चकार सौद्युम्नेर्महर्षिः पुत्रकारणात् +संभृतो मन्त्रपूतेन वारिणा कलशो महान् +तत्रातिष्ठत राजेन्द्र पूर्वमेव समाहितः +यत्प्राश्य प्रसवेत्तस्य पत्नी शक्रसमं सुतम् +तं न्यस्य वेद्यां कलशं सुषुपुस्ते महर्षयः +रात्रिजागरणश्रान्ताः सौद्युम्निः समतीत्य तान् +शुष्ककण्ठः पिपासार्तः पानीयार्थी भृशं नृपः +तं प्रविश्याश्रमं श्रान्तः पानीयं सोऽभ्ययाचत +तस्य श्रान्तस्य शुष्केण कण्ठेन क्रोशतस्तदा +नाश्रौषीत्कश्चन तदा शकुनेरिव वाशितम् +ततस्तं कलशं दृष्ट्वा जलपूर्णं स पार्थिवः +अभ्यद्रवत वेगेन पीत्वा चाम्भो व्यवासृजत् +स पीत्वा शीतलं तोयं पिपासार्तो महीपतिः +निर्वाणमगमद्धीमान्सुसुखी चाभवत्तदा +ततस्ते प्रत्यबुध्यन्त ऋषयः सनराधिपाः +निस्तोयं तं च कलशं ददृशुः सर्व एव ते +कस्य कर्मेदमिति च पर्यपृच्छन्समागताः +युवनाश्वो मयेत्येव सत्यं समभिपद्यत +न युक्तमिति तं प्राह भगवान्भार्गवस्तदा +सुतार्थं स्थापिता ह्यापस्तपसा चैव संभृताः +मया ह्यत्राहितं ब्रह्म तप आस्थाय दारुणम् +पुत्रार्थं तव राजर्षे महाबलपराक्रम +महाबलो महावीर्यस्तपोबलसमन्वितः +यः शक्रमपि वीर्येण गमयेद्यमसादनम् +अनेन विधिना राजन्मयैतदुपपादितम् +अब्भक्षणं त्वया राजन्नयुक���तं कृतमद्य वै +न त्वद्य शक्यमस्माभिरेतत्कर्तुमतोऽन्यथा +नूनं दैवकृतं ह्येतद्यदेवं कृतवानसि +पिपासितेन याः पीता विधिमन्त्रपुरस्कृताः +आपस्त्वया महाराज मत्तपोवीर्यसंभृताः +ताभ्यस्त्वमात्मना पुत्रमेवंवीर्यं जनिष्यसि +विधास्यामो वयं तत्र तवेष्टिं परमाद्भुताम् +यथा शक्रसमं पुत्रं जनयिष्यसि वीर्यवान् +ततो वर्षशते पूर्णे तस्य राज्ञो महात्मनः +वामं पार्श्वं विनिर्भिद्य सुतः सूर्य इवापरः +निश्चक्राम महातेजा न च तं मृत्युराविशत् +युवनाश्वं नरपतिं तदद्भुतमिवाभवत् +ततः शक्रो महातेजास्तं दिदृक्षुरुपागमत् +प्रदेशिनीं ततोऽस्यास्ये शक्रः समभिसंदधे +मामयं धास्यतीत्येवं परिभाष्टः स वज्रिणा +मान्धातेति च नामास्य चक्रुः सेन्द्रा दिवौकसः +प्रदेशिनीं शक्रदत्तामास्वाद्य स शिशुस्तदा +अवर्धत महीपाल किष्कूणां च त्रयोदश +वेदास्तं सधनुर्वेदा दिव्यान्यस्त्राणि चेश्वरम् +उपतस्थुर्महाराज ध्यातमात्राणि सर्वशः +धनुराजगवं नाम शराः शृङ्गोद्भवाश्च ये +अभेद्यं कवचं चैव सद्यस्तमुपसंश्रयन् +सोऽभिषिक्तो मघवता स्वयं शक्रेण भारत +धर्मेण व्यजयल्लोकांस्त्रीन्विष्णुरिव विक्रमैः +तस्याप्रतिहतं चक्रं प्रावर्तत महात्मनः +रत्नानि चैव राजर्षिं स्वयमेवोपतस्थिरे +तस्येयं वसुसंपूर्णा वसुधा वसुधाधिप +तेनेष्टं विविधैर्यज्ञैर्बहुभिः स्वाप्तदक्षिणैः +चितचैत्यो महातेजा धर्मं प्राप्य च पुष्कलम् +शक्रस्यार्धासनं राजँल्लब्धवानमितद्युतिः +एकाह्ना पृथिवी तेन धर्मनित्येन धीमता +निर्जिता शासनादेव सरत्नाकरपत्तना +तस्य चित्यैर्महाराज क्रतूनां दक्षिणावताम् +चतुरन्ता मही व्याप्ता नासीत्किंचिदनावृतम् +तेन पद्मसहस्राणि गवां दश महात्मना +ब्राह्मणेभ्यो महाराज दत्तानीति प्रचक्षते +तेन द्वादशवार्षिक्यामनावृष्ट्यां महात्मना +वृष्टं सस्यविवृद्ध्यर्थं मिषतो वज्रपाणिनः +तेन सोमकुलोत्पन्नो गान्धाराधिपतिर्महान् +गर्जन्निव महामेघः प्रमथ्य निहतः शरैः +प्रजाश्चतुर्विधास्तेन जिता राजन्महात्मना +तेनात्मतपसा लोकाः स्थापिताश्चापि तेजसा +तस्यैतद्देवयजनं स्थानमादित्यवर्चसः +पश्य पुण्यतमे देशे कुरुक्षेत्रस्य मध्यतः +एतत्ते सर्वमाख्यातं मान्धातुश्चरितं महत् +जन्म चाग्र्यं महीपाल यन्मां त्वं परिपृच्छसि +युधिष्ठिर उवाच +कथंवीर्यः स राजाभूत्सोमको वदतां वर +कर्माण्यस्य प्रभावं च श्रोतुमिच्छामि तत्त्वतः +लोमश उवाच +युधिष्ठिरासीन्नृपतिः सोमको नाम धार्मिकः +तस्य भार्याशतं राजन्सदृशीनामभूत्तदा +स वै यत्नेन महता तासु पुत्रं महीपतिः +कंचिन्नासादयामास कालेन महता अपि +कदाचित्तस्य वृद्धस्य यतमानस्य यत्नतः +जन्तुर्नाम सुतस्तस्मिन्स्त्रीशते समजायत +तं जातं मातरः सर्वाः परिवार्य समासते +सततं पृष्ठतः कृत्वा कामभोगान्विशां पते +ततः पिपीलिका जन्तुं कदाचिददशत्स्फिजि +स दष्टो व्यनदद्राजंस्तेन दुःखेन बालकः +ततस्ता मातरः सर्वाः प्राक्रोशन्भृशदुःखिताः +परिवार्य जन्तुं सहिताः स शब्दस्तुमुलोऽभवत् +तमार्तनादं सहसा शुश्राव स महीपतिः +अमात्यपरिषन्मध्ये उपविष्टः सहर्त्विजैः +ततः प्रस्थापयामास किमेतदिति पार्थिवः +तस्मै क्षत्ता यथावृत्तमाचचक्षे सुतं प्रति +त्वरमाणः स चोत्थाय सोमकः सह मन्त्रिभिः +प्रविश्यान्तःपुरं पुत्रमाश्वासयदरिंदमः +सान्त्वयित्वा तु तं पुत्रं निष्क्रम्यान्तःपुरान्नृपः +ऋत्विजैः सहितो राजन्सहामात्य उपाविशत् +सोमक उवाच +धिगस्त्विहैकपुत्रत्वमपुत्रत्वं वरं भवेत् +नित्यातुरत्वाद्भूतानां शोक एवैकपुत्रता +इदं भार्याशतं ब्रह्मन्परीक्ष्योपचितं प्रभो +पुत्रार्थिना मया वोढं न चासां विद्यते प्रजा +एकः कथंचिदुत्पन्नः पुत्रो जन्तुरयं मम +यतमानस्य सर्वासु किं नु दुःखमतः परम् +वयश्च समतीतं मे सभार्यस्य द्विजोत्तम +आसां प्राणाः समायत्ता मम चात्रैकपुत्रके +स्यान्नु कर्म तथा युक्तं येन पुत्रशतं भवेत् +महता लघुना वापि कर्मणा दुष्करेण वा +ऋत्विगुवाच +अस्ति वै तादृशं कर्म येन पुत्रशतं भवेत् +यदि शक्नोषि तत्कर्तुमथ वक्ष्यामि सोमक +सोमक उवाच +कार्यं वा यदि वाकार्यं येन पुत्रशतं भवेत् +कृतमेव हि तद्विद्धि भगवान्प्रब्रवीतु मे +ऋत्विगुवाच +यजस्व जन्तुना राजंस्त्वं मया वितते क्रतौ +ततः पुत्रशतं श्रीमद्भविष्यत्यचिरेण ते +वपायां हूयमानायां धूममाघ्राय मातरः +ततस्ताः सुमहावीर्याञ्जनयिष्यन्ति ते सुतान् +तस्यामेव तु ते जन्तुर्भविता पुनरात्मजः +उत्तरे चास्य सौवर्णं लक्ष्म पार्श्वे भविष्यति +सोमक उवाच +ब्रह्मन्यद्यद्यथा कार्यं तत्तत्कुरु तथा तथा +पुत्रकामतया सर्वं करिष्यामि वचस्तव +लोमश उवाच +ततः स याजयामास सोमकं तेन जन्तुना +मातरस्तु बलात्पुत्रमपाकर्षुः कृपान्विताः +हा हताः स्मेति वाशन्त्यस्तीव्रशोकसमन्विताः +तं मातरः प्रत्यकर्षन्गृहीत्वा दक्षिणे करे +सव्ये पाणौ गृहीत्वा तु याजकोऽपि स्म कर्षति +कुररीणामिवार्तानामपाकृष्य तु तं सुतम् +विशस्य चैनं विधिना वपामस्य जुहाव सः +वपायां हूयमानायां गन्धमाघ्राय मातरः +आर्ता निपेतुः सहसा पृथिव्यां कुरुनन्दन +सर्वाश्च गर्भानलभंस्ततस्ताः पार्थिवाङ्गनाः +ततो दशसु मासेषु सोमकस्य विशां पते +जज्ञे पुत्रशतं पूर्णं तासु सर्वासु भारत +जन्तुर्ज्येष्ठः समभवज्जनित्र्यामेव भारत +स तासामिष्ट एवासीन्न तथान्ये निजाः सुताः +तच्च लक्षणमस्यासीत्सौवर्णं पार्श्व उत्तरे +तस्मिन्पुत्रशते चाग्र्यः स बभूव गुणैर्युतः +ततः स लोकमगमत्सोमकस्य गुरुः परम् +अथ काले व्यतीते तु सोमकोऽप्यगमत्परम् +अथ तं नरके घोरे पच्यमानं ददर्श सः +तमपृच्छत्किमर्थं त्वं नरके पच्यसे द्विज +तमब्रवीद्गुरुः सोऽथ पच्यमानोऽग्निना भृशम् +त्वं मया याजितो राजंस्तस्येदं कर्मणः फलम् +एतच्छ्रुत्वा स राजर्षिर्धर्मराजानमब्रवीत् +अहमत्र प्रवेक्ष्यामि मुच्यतां मम याजकः +मत्कृते हि महाभागः पच्यते नरकाग्निना +धर्म उवाच +नान्यः कर्तुः फलं राजन्नुपभुङ्क्ते कदाचन +इमानि तव दृश्यन्ते फलानि ददतां वर +सोमक उवाच +पुण्यान्न कामये लोकानृतेऽहं ब्रह्मवादिनम् +इच्छाम्यहमनेनैव सह वस्तुं सुरालये +नरके वा धर्मराज कर्मणास्य समो ह्यहम् +पुण्यापुण्यफलं देव सममस्त्वावयोरिदम् +धर्म उवाच +यद्येवमीप्सितं राजन्भुङ्क्ष्वास्य सहितः फलम् +तुल्यकालं सहानेन पश्चात्प्राप्स्यसि सद्गतिम् +लोमश उवाच +स चकार तथा सर्वं राजा राजीवलोचनः +पुनश्च लेभे लोकान्स्वान्कर्मणा निर्जिताञ्शुभान् +सह तेनैव विप्रेण गुरुणा स गुरुप्रियः +एष तस्याश्रमः पुण्यो य एषोऽग्रे विराजते +क्षान्त उष्यात्र षड्रात्रं प्राप्नोति सुगतिं नरः +एतस्मिन्नपि राजेन्द्र वत्स्यामो विगतज्वराः +षड्रात्रं नियतात्मानः सज्जीभव कुरूद्वह +लोमश उवाच +अस्मिन्किल स्वयं राजन्निष्टवान्वै प्रजापतिः +सत्रमिष्टीकृतं नाम पुरा वर्षसहस्रिकम् +अम्बरीषश्च नाभाग इष्टवान्यमुनामनु +यज्ञैश्च तपसा चैव परां सिद्धिमवाप सः +देशो नाहुषयज्ञानामयं पुण्यतमो नृप +य���्रेष्ट्वा दश पद्मानि सदस्येभ्यो निसृष्टवान् +सार्वभौमस्य कौन्तेय ययातेरमितौजसः +स्पर्धमानस्य शक्रेण पश्येदं यज्ञवास्त्विह +पश्य नानाविधाकारैरग्निभिर्निचितां महीम् +मज्जन्तीमिव चाक्रान्तां ययातेर्यज्ञकर्मभिः +एषा शम्येकपत्रा सा शरकं चैतदुत्तमम् +पश्य रामह्रदानेतान्पश्य नारायणाश्रमम् +एतदार्चीकपुत्रस्य योगैर्विचरतो महीम् +अपसर्पणं महीपाल रौप्यायाममितौजसः +अत्रानुवंशं पठतः शृणु मे कुरुनन्दन +उलूखलैराभरणैः पिशाची यदभाषत +युगंधरे दधि प्राश्य उषित्वा चाच्युतस्थले +तद्वद्भूतिलये स्नात्वा सपुत्रा वस्तुमिच्छसि +एकरात्रमुषित्वेह द्वितीयं यदि वत्स्यसि +एतद्वै ते दिवा वृत्तं रात्रौ वृत्तमतोऽन्यथा +अत्राद्याहो निवत्स्यामः क्षपां भरतसत्तम +द्वारमेतद्धि कौन्तेय कुरुक्षेत्रस्य भारत +अत्रैव नाहुषो राजा राजन्क्रतुभिरिष्टवान् +ययातिर्बहुरत्नाढ्यैर्यत्रेन्द्रो मुदमभ्यगात् +एतत्प्लक्षावतरणं यमुनातीर्थमुच्यते +एतद्वै नाकपृष्ठस्य द्वारमाहुर्मनीषिणः +अत्र सारस्वतैर्यज्ञैरीजानाः परमर्षयः +यूपोलूखलिनस्तात गच्छन्त्यवभृथाप्लवम् +अत्रैव भरतो राजा मेध्यमश्वमवासृजत् +असकृत्कृष्णसारङ्गं धर्मेणावाप्य मेदिनीम् +अत्रैव पुरुषव्याघ्र मरुत्तः सत्रमुत्तमम् +आस्ते देवर्षिमुख्येन संवर्तेनाभिपालितः +अत्रोपस्पृश्य राजेन्द्र सर्वाँल्लोकान्प्रपश्यति +पूयते दुष्कृताच्चैव समुपस्पृश्य भारत +वैशंपायन उवाच +तत्र सभ्रातृकः स्नात्वा स्तूयमानो महर्षिभिः +लोमशं पाण्डवश्रेष्ठ इदं वचनमब्रवीत् +सर्वाँल्लोकान्प्रपश्यामि तपसा सत्यविक्रम +इहस्थः पाण्डवश्रेष्ठं पश्यामि श्वेतवाहनम् +लोमश उवाच +एवमेतन्महाबाहो पश्यन्ति परमर्षयः +सरस्वतीमिमां पुण्यां पश्यैकशरणावृताम् +यत्र स्नात्वा नरश्रेष्ठ धूतपाप्मा भविष्यति +इह सारस्वतैर्यज्ञैरिष्टवन्तः सुरर्षयः +ऋषयश्चैव कौन्तेय तथा राजर्षयोऽपि च +वेदी प्रजापतेरेषा समन्तात्पञ्चयोजना +कुरोर्वै यज्ञशीलस्य क्षेत्रमेतन्महात्मनः +लोमश उवाच +इह मर्त्यास्तपस्तप्त्वा स्वर्गं गच्छन्ति भारत +मर्तुकामा नरा राजन्निहायान्ति सहस्रशः +एवमाशीः प्रयुक्ता हि दक्षेण यजता पुरा +इह ये वै मरिष्यन्ति ते वै स्वर्गजितो नराः +एषा सरस्वती पुण्या दिव्या चोघवती नदी +एतद्विनशनं नाम सरस्वत्या विशां पते +द्वारं निषादराष्ट्रस्य येषां द्वेषात्सरस्वती +प्रविष्टा पृथिवीं वीर मा निषादा हि मां विदुः +एष वै चमसोद्भेदो यत्र दृश्या सरस्वती +यत्रैनामभ्यवर्तन्त दिव्याः पुण्याः समुद्रगाः +एतत्सिन्धोर्महत्तीर्थं यत्रागस्त्यमरिंदम +लोपामुद्रा समागम्य भर्तारमवृणीत वै +एतत्प्रभासते तीर्थं प्रभासं भास्करद्युते +इन्द्रस्य दयितं पुण्यं पवित्रं पापनाशनम् +एतद्विष्णुपदं नाम दृश्यते तीर्थमुत्तमम् +एषा रम्या विपाशा च नदी परमपावनी +अत्रैव पुत्रशोकेन वसिष्ठो भगवानृषिः +बद्ध्वात्मानं निपतितो विपाशः पुनरुत्थितः +काश्मीरमण्डलं चैतत्सर्वपुण्यमरिंदम +महर्षिभिश्चाध्युषितं पश्येदं भ्रातृभिः सह +अत्रोत्तराणां सर्वेषामृषीणां नाहुषस्य च +अग्नेश्चात्रैव संवादः काश्यपस्य च भारत +एतद्द्वारं महाराज मानसस्य प्रकाशते +वर्षमस्य गिरेर्मध्ये रामेण श्रीमता कृतम् +एष वातिकषण्डो वै प्रख्यातः सत्यविक्रमः +नाभ्यवर्तत यद्द्वारं विदेहानुत्तरं च यः +एष उज्जानको नाम यवक्रीर्यत्र शान्तवान् +अरुन्धतीसहायश्च वसिष्ठो भगवानृषिः +ह्रदश्च कुशवानेष यत्र पद्मं कुशेशयम् +आश्रमश्चैव रुक्मिण्या यत्राशाम्यदकोपना +समाधीनां समासस्तु पाण्डवेय श्रुतस्त्वया +तं द्रक्ष्यसि महाराज भृगुतुङ्गं महागिरिम् +जलां चोपजलां चैव यमुनामभितो नदीम् +उशीनरो वै यत्रेष्ट्वा वासवादत्यरिच्यत +तां देवसमितिं तस्य वासवश्च विशां पते +अभ्यगच्छत राजानं ज्ञातुमग्निश्च भारत +जिज्ञासमानौ वरदौ महात्मानमुशीनरम् +इन्द्रः श्येनः कपोतोऽग्निर्भूत्वा यज्ञेऽभिजग्मतुः +ऊरुं राज्ञः समासाद्य कपोतः श्येनजाद्भयात् +शरणार्थी तदा राजन्निलिल्ये भयपीडितः +श्येन उवाच +धर्मात्मानं त्वाहुरेकं सर्वे राजन्महीक्षितः +स वै धर्मविरुद्धं त्वं कस्मात्कर्म चिकीर्षसि +विहितं भक्षणं राजन्पीड्यमानस्य मे क्षुधा +मा भाङ्क्षीर्धर्मलोभेन धर्ममुत्सृष्टवानसि +राजोवाच +संत्रस्तरूपस्त्राणार्थी त्वत्तो भीतो महाद्विज +मत्सकाशमनुप्राप्तः प्राणगृध्नुरयं द्विजः +एवमभ्यागतस्येह कपोतस्याभयार्थिनः +अप्रदाने परोऽधर्मः किं त्वं श्येन प्रपश्यसि +प्रस्पन्दमानः संभ्रान्तः कपोतः श्येन लक्ष्यते +मत्सकाशं जीवितार्थी तस्य त्यागो विगर्हितः +��्येन उवाच +आहारात्सर्वभूतानि संभवन्ति महीपते +आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः +शक्यते दुस्त्यजेऽप्यर्थे चिररात्राय जीवितुम् +न तु भोजनमुत्सृज्य शक्यं वर्तयितुं चिरम् +भक्ष्याद्विलोपितस्याद्य मम प्राणा विशां पते +विसृज्य कायमेष्यन्ति पन्थानमपुनर्भवम् +प्रमृते मयि धर्मात्मन्पुत्रदारं नशिष्यति +रक्षमाणः कपोतं त्वं बहून्प्राणान्नशिष्यसि +धर्मं यो बाधते धर्मो न स धर्मः कुधर्म तत् +अविरोधी तु यो धर्मः स धर्मः सत्यविक्रम +विरोधिषु महीपाल निश्चित्य गुरुलाघवम् +न बाधा विद्यते यत्र तं धर्मं समुदाचरेत् +गुरुलाघवमाज्ञाय धर्माधर्मविनिश्चये +यतो भूयांस्ततो राजन्कुरु धर्मविनिश्चयम् +राजोवाच +बहुकल्याणसंयुक्तं भाषसे विहगोत्तम +सुपर्णः पक्षिराट्किं त्वं धर्मज्ञश्चास्यसंशयम् +तथा हि धर्मसंयुक्तं बहु चित्रं प्रभाषसे +न तेऽस्त्यविदितं किंचिदिति त्वा लक्षयाम्यहम् +शरणैषिणः परित्यागं कथं साध्विति मन्यसे +आहारार्थं समारम्भस्तव चायं विहंगम +शक्यश्चाप्यन्यथा कर्तुमाहारोऽप्यधिकस्त्वया +गोवृषो वा वराहो वा मृगो वा महिषोऽपि वा +त्वदर्थमद्य क्रियतां यद्वान्यदभिकाङ्क्षसे +श्येन उवाच +न वराहं न चोक्षाणं न मृगान्विविधांस्तथा +भक्षयामि महाराज किमन्नाद्येन तेन मे +यस्तु मे दैवविहितो भक्षः क्षत्रियपुंगव +तमुत्सृज महीपाल कपोतमिममेव मे +श्येनाः कपोतान्खादन्ति स्थितिरेषा सनातनी +मा राजन्मार्गमाज्ञाय कदलीस्कन्धमारुह +राजोवाच +राज्यं शिबीनामृद्धं वै शाधि पक्षिगणार्चित +यद्वा कामयसे किंचिच्छ्येन सर्वं ददानि ते +विनेमं पक्षिणं श्येन शरणार्थिनमागतम् +येनेमं वर्जयेथास्त्वं कर्मणा पक्षिसत्तम +तदाचक्ष्व करिष्यामि न हि दास्ये कपोतकम् +श्येन उवाच +उशीनर कपोते ते यदि स्नेहो नराधिप +आत्मनो मांसमुत्कृत्य कपोततुलया धृतम् +यदा समं कपोतेन तव मांसं भवेन्नृप +तदा प्रदेयं तन्मह्यं सा मे तुष्टिर्भविष्यति +राजोवाच +अनुग्रहमिमं मन्ये श्येन यन्माभियाचसे +तस्मात्तेऽद्य प्रदास्यामि स्वमांसं तुलया धृतम् +लोमश उवाच +अथोत्कृत्य स्वमांसं तु राजा परमधर्मवित् +तुलयामास कौन्तेय कपोतेन सहाभिभो +ध्रियमाणस्तु तुलया कपोतो व्यतिरिच्यते +पुनश्चोत्कृत्य मांसानि राजा प्रादादुशीनरः +न विद्यते यदा मांसं कपोतेन समं ��ृतम् +तत उत्कृत्तमांसोऽसावारुरोह स्वयं तुलाम् +श्येन उवाच +इन्द्रोऽहमस्मि धर्मज्ञ कपोतो हव्यवाडयम् +जिज्ञासमानौ धर्मे त्वां यज्ञवाटमुपागतौ +यत्ते मांसानि गात्रेभ्य उत्कृत्तानि विशां पते +एषा ते भास्वरी कीर्तिर्लोकानभिभविष्यति +यावल्लोके मनुष्यास्त्वां कथयिष्यन्ति पार्थिव +तावत्कीर्तिश्च लोकाश्च स्थास्यन्ति तव शाश्वताः +लोमश उवाच +तत्पाण्डवेय सदनं राज्ञस्तस्य महात्मनः +पश्यस्वैतन्मया सार्धं पुण्यं पापप्रमोचनम् +अत्र वै सततं देवा मुनयश्च सनातनाः +दृश्यन्ते ब्राह्मणै राजन्पुण्यवद्भिर्महात्मभिः +लोमश उवाच +यः कथ्यते मन्त्रविदग्र्यबुद्धि;रौद्दालकिः श्वेतकेतुः पृथिव्याम् +तस्याश्रमं पश्य नरेन्द्र पुण्यं; सदाफलैरुपपन्नं महीजैः +साक्षादत्र श्वेतकेतुर्ददर्श; सरस्वतीं मानुषदेहरूपाम् +वेत्स्यामि वाणीमिति संप्रवृत्तां; सरस्वतीं श्वेतकेतुर्बभाषे +तस्मिन्काले ब्रह्मविदां वरिष्ठा;वास्तां तदा मातुलभागिनेयौ +अष्टावक्रश्चैव कहोडसूनु;रौद्दालकिः श्वेतकेतुश्च राजन् +विदेहराजस्य महीपतेस्तौ; विप्रावुभौ मातुलभागिनेयौ +प्रविश्य यज्ञायतनं विवादे; बन्दिं निजग्राहतुरप्रमेयम् +युधिष्ठिर उवाच +कथंप्रभावः स बभूव विप्र;स्तथायुक्तं यो निजग्राह बन्दिम् +अष्टावक्रः केन चासौ बभूव; तत्सर्वं मे लोमश शंस तत्त्वम् +लोमश उवाच +उद्दालकस्य नियतः शिष्य एको; नाम्ना कहोडेति बभूव राजन् +शुश्रूषुराचार्यवशानुवर्ती; दीर्घं कालं सोऽध्ययनं चकार +तं वै विप्राः पर्यभवंश्च शिष्या;स्तं च ज्ञात्वा विप्रकारं गुरुः सः +तस्मै प्रादात्सद्य एव श्रुतं च; भार्यां च वै दुहितरं स्वां सुजाताम् +तस्या गर्भः समभवदग्निकल्पः; सोऽधीयानं पितरमथाभ्युवाच +सर्वां रात्रिमध्ययनं करोषि; नेदं पितः सम्यगिवोपवर्तते +उपालब्धः शिष्यमध्ये महर्षिः; स तं कोपादुदरस्थं शशाप +यस्मात्कुक्षौ वर्तमानो ब्रवीषि; तस्माद्वक्रो भवितास्यष्टकृत्वः +स वै तथा वक्र एवाभ्यजाय;दष्टावक्रः प्रथितो वै महर्षिः +तस्यासीद्वै मातुलः श्वेतकेतुः; स तेन तुल्यो वयसा बभूव +संपीड्यमाना तु तदा सुजाता; विवर्धमानेन सुतेन कुक्षौ +उवाच भर्तारमिदं रहोगता; प्रसाद्य हीनं वसुना धनार्थिनी +कथं करिष्याम्यधना महर्षे; मासश्चायं दशमो वर्तते मे +न चास्ति ते वसु किंचित्प्रजा��ा; येनाहमेतामापदं निस्तरेयम् +उक्तस्त्वेवं भार्यया वै कहोडो; वित्तस्यार्थे जनकमथाभ्यगच्छत् +स वै तदा वादविदा निगृह्य; निमज्जितो बन्दिनेहाप्सु विप्रः +उद्दालकस्तं तु तदा निशम्य; सूतेन वादेऽप्सु तथा निमज्जितम् +उवाच तां तत्र ततः सुजाता;मष्टावक्रे गूहितव्योऽयमर्थः +ररक्ष सा चाप्यति तं सुमन्त्रं; जातोऽप्येवं न स शुश्राव विप्रः +उद्दालकं पितृवच्चापि मेने; अष्टावक्रो भ्रातृवच्छ्वेतकेतुम् +ततो वर्षे द्वादशे श्वेतकेतु;रष्टावक्रं पितुरङ्के निषण्णम् +अपाकर्षद्गृह्य पाणौ रुदन्तं; नायं तवाङ्कः पितुरित्युक्तवांश्च +यत्तेनोक्तं दुरुक्तं तत्तदानीं; हृदि स्थितं तस्य सुदुःखमासीत् +गृहं गत्वा मातरं रोदमानः; पप्रच्छेदं क्व नु तातो ममेति +ततः सुजाता परमार्तरूपा; शापाद्भीता सर्वमेवाचचक्षे +तद्वै तत्त्वं सर्वमाज्ञाय मातु;रित्यब्रवीच्छ्वेतकेतुं स विप्रः +गच्छाव यज्ञं जनकस्य राज्ञो; बह्वाश्चर्यः श्रूयते तस्य यज्ञः +श्रोष्यावोऽत्र ब्राह्मणानां विवाद;मन्नं चाग्र्यं तत्र भोक्ष्यावहे च +विचक्षणत्वं च भविष्यते नौ; शिवश्च सौम्यश्च हि ब्रह्मघोषः +तौ जग्मतुर्मातुलभागिनेयौ; यज्ञं समृद्धं जनकस्य राज्ञः +अष्टावक्रः पथि राज्ञा समेत्य; उत्सार्यमाणो वाक्यमिदं जगाद +अष्टावक्र उवाच +अन्धस्य पन्था बधिरस्य पन्थाः; स्त्रियः पन्था वैवधिकस्य पन्थाः +राज्ञः पन्था ब्राह्मणेनासमेत्य; समेत्य तु ब्राह्मणस्यैव पन्थाः +राजोवाच +पन्था अयं तेऽद्य मया निसृष्टो; येनेच्छसे तेन कामं व्रजस्व +न पावको विद्यते वै लघीया;निन्द्रोऽपि नित्यं नमते ब्राह्मणानाम् +अष्टावक्र उवाच +यज्ञं द्रष्टुं प्राप्तवन्तौ स्व तात; कौतूहलं नौ बलवद्वै विवृद्धम् +आवां प्राप्तावतिथी संप्रवेशं; काङ्क्षावहे द्वारपते तवाज्ञाम् +ऐन्द्रद्युम्नेर्यज्ञदृशाविहावां; विवक्षू वै जनकेन्द्रं दिदृक्षू +न वै क्रोधाद्व्याधिनैवोत्तमेन; संयोजय द्वारपाल क्षणेन +द्वारपाल उवाच +बन्देः समादेशकरा वयं स्म; निबोध वाक्यं च मयेर्यमाणम् +न वै बालाः प्रविशन्त्यत्र विप्रा; वृद्धा विद्वांसः प्रविशन्ति द्विजाग्र्याः +अष्टावक्र उवाच +यद्यत्र वृद्धेषु कृतः प्रवेशो; युक्तं मम द्वारपाल प्रवेष्टुम् +वयं हि वृद्धाश्चरितव्रताश्च; वेदप्रभावेन प्रवेशनार्हाः +शुश्रूषवश्चापि जितेन्द्रियाश्च; ज्ञानागमे चापि गताः स्म निष्ठाम् +न बाल इत्यवमन्तव्यमाहु;र्बालोऽप्यग्निर्दहति स्पृश्यमानः +द्वारपाल उवाच +सरस्वतीमीरय वेदजुष्टा;मेकाक्षरां बहुरूपां विराजम् +अङ्गात्मानं समवेक्षस्व बालं; किं श्लाघसे दुर्लभा वादसिद्धिः +अष्टावक्र उवाच +न ज्ञायते कायवृद्ध्या विवृद्धि;र्यथाष्ठीला शाल्मलेः संप्रवृद्धा +ह्रस्वोऽल्पकायः फलितो विवृद्धो; यश्चाफलस्तस्य न वृद्धभावः +द्वारपाल उवाच +वृद्धेभ्य एवेह मतिं स्म बाला; गृह्णन्ति कालेन भवन्ति वृद्धाः +न हि ज्ञानमल्पकालेन शक्यं; कस्माद्बालो वृद्ध इवावभाषसे +अष्टावक्र उवाच +न तेन स्थविरो भवति येनास्य पलितं शिरः +बालोऽपि यः प्रजानाति तं देवाः स्थविरं विदुः +न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः +ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् +दिदृक्षुरस्मि संप्राप्तो बन्दिनं राजसंसदि +निवेदयस्व मां द्वाःस्थ राज्ञे पुष्करमालिने +द्रष्टास्यद्य वदतो द्वारपाल; मनीषिभिः सह वादे विवृद्धे +उताहो वाप्युच्चतां नीचतां वा; तूष्णीं भूतेष्वथ सर्वेषु चाद्य +द्वारपाल उवाच +कथं यज्ञं दशवर्षो विशेस्त्वं; विनीतानां विदुषां संप्रवेश्यम् +उपायतः प्रयतिष्ये तवाहं; प्रवेशने कुरु यत्नं यथावत् +अष्टावक्र उवाच +भो भो राजञ्जनकानां वरिष्ठ; सभाज्यस्त्वं त्वयि सर्वं समृद्धम् +त्वं वा कर्ता कर्मणां यज्ञियानां; ययातिरेको नृपतिर्वा पुरस्तात् +विद्वान्बन्दी वेदविदो निगृह्य; वादे भग्नानप्रतिशङ्कमानः +त्वया निसृष्टैः पुरुषैराप्तकृद्भि;र्जले सर्वान्मज्जयतीति नः श्रुतम् +स तच्छ्रुत्वा ब्राह्मणानां सकाशा;द्ब्रह्मोद्यं वै कथयितुमागतोऽस्मि +क्वासौ बन्दी यावदेनं समेत्य; नक्षत्राणीव सविता नाशयामि +राजोवाच +आशंससे बन्दिनं त्वं विजेतु;मविज्ञात्वा वाक्यबलं परस्य +विज्ञातवीर्यैः शक्यमेवं प्रवक्तुं; दृष्टश्चासौ ब्राह्मणैर्वादशीलैः +अष्टावक्र उवाच +विवादितोऽसौ न हि मादृशैर्हि; सिंहीकृतस्तेन वदत्यभीतः +समेत्य मां निहतः शेष्यतेऽद्य; मार्गे भग्नं शकटमिवाबलाक्षम् +राजोवाच +षण्णाभेर्द्वादशाक्षस्य चतुर्विंशतिपर्वणः +यस्त्रिषष्टिशतारस्य वेदार्थं स परः कविः +अष्टावक्र उवाच +चतुर्विंशतिपर्व त्वां षण्णाभि द्वादशप्रधि +तत्त्रिषष्टिशतारं वै चक्रं पातु सदागति +राजोवाच +वडवे इव संयुक्ते श्येनपाते दिवौकसाम् +कस्तयोर्गर्भमाधत्ते गर्भं सुषुवतुश्च कम् +अष्टावक्र उवाच +मा स्म ते ते गृहे राजञ्शात्रवाणामपि ध्रुवम् +वातसारथिराधत्ते गर्भं सुषुवतुश्च तम् +राजोवाच +किं स्वित्सुप्तं न निमिषति किं स्विज्जातं न चोपति +कस्य स्विद्धृदयं नास्ति किं स्विद्वेगेन वर्धते +अष्टावक्र उवाच +मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति +अश्मनो हृदयं नास्ति नदी वेगेन वर्धते +राजोवाच +न त्वा मन्ये मानुषं देवसत्त्वं; न त्वं बालः स्थविरस्त्वं मतो मे +न ते तुल्यो विद्यते वाक्प्रलापे; तस्माद्द्वारं वितराम्येष बन्दी +अष्टावक्र उवाच +अत्रोग्रसेनसमितेषु राज;न्समागतेष्वप्रतिमेषु राजसु +न वै विवित्सान्तरमस्ति वादिनां; महाजले हंसनिनादिनामिव +न मेऽद्य वक्ष्यस्यतिवादिमानि;न्ग्लहं प्रपन्नः सरितामिवागमः +हुताशनस्येव समिद्धतेजसः; स्थिरो भवस्वेह ममाद्य बन्दिन् +बन्द्युवाच +व्याघ्रं शयानं प्रति मा प्रबोधय; आशीविषं सृक्किणी लेलिहानम् +पदाहतस्येव शिरोऽभिहत्य; नादष्टो वै मोक्ष्यसे तन्निबोध +यो वै दर्पात्संहननोपपन्नः; सुदुर्बलः पर्वतमाविहन्ति +तस्यैव पाणिः सनखो विशीर्यते; न चैव शैलस्य हि दृश्यते व्रणः +सर्वे राज्ञो मैथिलस्य मैनाकस्येव पर्वताः +निकृष्टभूता राजानो वत्सा अनदुहो यथा +लोमश उवाच +अष्टावक्रः समितौ गर्जमानो; जातक्रोधो बन्दिनमाह राजन् +उक्ते वाक्ये चोत्तरं मे ब्रवीहि; वाक्यस्य चाप्युत्तरं ते ब्रवीमि +बन्द्युवाच +एक एवाग्निर्बहुधा समिध्यते; एकः सूर्यः सर्वमिदं प्रभासते +एको वीरो देवराजो निहन्ता; यमः पितॄणामीश्वरश्चैक एव +अष्टावक्र उवाच +द्वाविन्द्राग्नी चरतो वै सखायौ; द्वौ देवर्षी नारदः पर्वतश्च +द्वावश्विनौ द्वे च रथस्य चक्रे; भार्यापती द्वौ विहितौ विधात्रा +बन्द्युवाच +त्रिः सूयते कर्मणा वै प्रजेयं; त्रयो युक्ता वाजपेयं वहन्ति +अध्वर्यवस्त्रिषवणानि तन्वते; त्रयो लोकास्त्रीणि ज्योतींषि चाहुः +अष्टावक्र उवाच +चतुष्टयं ब्राह्मणानां निकेतं; चत्वारो युक्ता यज्ञमिमं वहन्ति +दिशश्चतस्रश्चतुरश्च वर्णा;श्चतुष्पदा गौरपि शश्वदुक्ता +बन्द्युवाच +पञ्चाग्नयः पञ्चपदा च पङ्क्ति;र्यज्ञाः पञ्चैवाप्यथ पञ्चेन्द्रियाणि +दृष्टा वेदे पञ्चचूडाश्च पञ्च; लोके ख्यातं पञ्चनदं च पुण्यम् +अष्टा���क्र उवाच +षडाधाने दक्षिणामाहुरेके; षडेवेमे ऋतवः कालचक्रम् +षडिन्द्रियाण्युत षट्कृत्तिकाश्च; षट्साद्यस्काः सर्ववेदेषु दृष्टाः +बन्द्युवाच +सप्त ग्राम्याः पशवः सप्त वन्याः; सप्त छन्दांसि क्रतुमेकं वहन्ति +सप्तर्षयः सप्त चाप्यर्हणानि; सप्ततन्त्री प्रथिता चैव वीणा +अष्टावक्र उवाच +अष्टौ शाणाः शतमानं वहन्ति; तथाष्टपादः शरभः सिंहघाती +अष्टौ वसूञ्शुश्रुम देवतासु; यूपश्चाष्टास्रिर्विहितः सर्वयज्ञः +बन्द्युवाच +नवैवोक्ताः सामिधेन्यः पितॄणां; तथा प्राहुर्नवयोगं विसर्गम् +नवाक्षरा बृहती संप्रदिष्टा; नवयोगो गणनामेति शश्वत् +अष्टावक्र उवाच +दशा दशोक्ताः पुरुषस्य लोके; सहस्रमाहुर्दश पूर्णं शतानि +दशैव मासान्बिभ्रति गर्भवत्यो; दशेरका दश दाशा दशार्णाः +बन्द्युवाच +एकादशैकादशिनः पशूना;मेकादशैवात्र भवन्ति यूपाः +एकादश प्राणभृतां विकारा; एकादशोक्ता दिवि देवेषु रुद्राः +अष्टावक्र उवाच +संवत्सरं द्वादश मासमाहु;र्जगत्याः पादो द्वादशैवाक्षराणि +द्वादशाहः प्राकृतो यज्ञ उक्तो; द्वादशादित्यान्कथयन्तीह विप्राः +बन्द्युवाच +त्रयोदशी तिथिरुक्ता महोग्रा; त्रयोदशद्वीपवती मही च +लोमश उवाच +एतावदुक्त्वा विरराम बन्दी; श्लोकस्यार्धं व्याजहाराष्टवक्रः +त्रयोदशाहानि ससार केशी; त्रयोदशादीन्यतिच्छन्दांसि चाहुः +ततो महानुदतिष्ठन्निनाद;स्तूष्णींभूतं सूतपुत्रं निशम्य +अधोमुखं ध्यानपरं तदानी;मष्टावक्रं चाप्युदीर्यन्तमेव +तस्मिंस्तथा संकुले वर्तमाने; स्फीते यज्ञे जनकस्याथ राज्ञः +अष्टावक्रं पूजयन्तोऽभ्युपेयु;र्विप्राः सर्वे प्राञ्जलयः प्रतीताः +अष्टावक्र उवाच +अनेन वै ब्राह्मणाः शुश्रुवांसो; वादे जित्वा सलिले मज्जिताः किल +तानेव धर्मानयमद्य बन्दी; प्राप्नोतु गृह्याप्सु निमज्जयैनम् +बन्द्युवाच +अहं पुत्रो वरुणस्योत राज्ञ;स्तत्रास सत्रं द्वादशवार्षिकं वै +सत्रेण ते जनक तुल्यकालं; तदर्थं ते प्रहिता मे द्विजाग्र्याः +एते सर्वे वरुणस्योत यज्ञं; द्रष्टुं गता इह आयान्ति भूयः +अष्टावक्रं पूजये पूजनीयं; यस्य हेतोर्जनितारं समेष्ये +अष्टावक्र उवाच +विप्राः समुद्राम्भसि मज्जितास्ते; वाचा जिता मेधया आविदानाः +तां मेधया वाचमथोज्जहार; यथा वाचमवचिन्वन्ति सन्तः +अग्निर्दहञ्जातवेदाः सतां गृहा;न्विसर्जयं���्तेजसा न स्म धाक्षीत् +बालेषु पुत्रेषु कृपणं वदत्सु; तथा वाचमवचिन्वन्ति सन्तः +श्लेष्मातकी क्षीणवर्चाः शृणोषि; उताहो त्वां स्तुतयो मादयन्ति +हस्तीव त्वं जनक वितुद्यमानो; न मामिकां वाचमिमां शृणोषि +जनक उवाच +शृणोमि वाचं तव दिव्यरूपा;ममानुषीं दिव्यरूपोऽसि साक्षात् +अजैषीर्यद्बन्दिनं त्वं विवादे; निसृष्ट एष तव कामोऽद्य बन्दी +अष्टावक्र उवाच +नानेन जीवता कश्चिदर्थो मे बन्दिना नृप +पिता यद्यस्य वरुणो मज्जयैनं जलाशये +बन्द्युवाच +अहं पुत्रो वरुणस्योत राज्ञो; न मे भयं सलिले मज्जितस्य +इमं मुहूर्तं पितरं द्रक्ष्यतेऽय;मष्टावक्रश्चिरनष्टं कहोडम् +लोमश उवाच +ततस्ते पूजिता विप्रा वरुणेन महात्मना +उदतिष्ठन्त ते सर्वे जनकस्य समीपतः +कहोड उवाच +इत्यर्थमिच्छन्ति सुताञ्जना जनक कर्मणा +यदहं नाशकं कर्तुं तत्पुत्रः कृतवान्मम +उताबलस्य बलवानुत बालस्य पण्डितः +उत वाविदुषो विद्वान्पुत्रो जनक जायते +बन्द्युवाच +शितेन ते परशुना स्वयमेवान्तको नृप +शिरांस्यपाहरत्वाजौ रिपूणां भद्रमस्तु ते +महदुक्थ्यं गीयते साम चाग्र्यं; सम्यक्सोमः पीयते चात्र सत्रे +शुचीन्भागान्प्रतिजगृहुश्च हृष्टाः; साक्षाद्देवा जनकस्येह यज्ञे +लोमश उवाच +समुत्थितेष्वथ सर्वेषु राज;न्विप्रेषु तेष्वधिकं सुप्रभेषु +अनुज्ञातो जनकेनाथ राज्ञा; विवेश तोयं सागरस्योत बन्दी +अष्टावक्रः पितरं पूजयित्वा; संपूजितो ब्राह्मणैस्तैर्यथावत् +प्रत्याजगामाश्रममेव चाग्र्यं; जित्वा बन्दिं सहितो मातुलेन +अत्र कौन्तेय सहितो भ्रातृभिस्त्वं; सुखोषितः सह विप्रैः प्रतीतः +पुण्यान्यन्यानि शुचिकर्मैकभक्ति;र्मया सार्धं चरितास्याजमीढ +लोमश उवाच +एषा मधुविला राजन्समङ्गा संप्रकाशते +एतत्कर्दमिलं नाम भरतस्याभिषेचनम् +अलक्ष्म्या किल संयुक्तो वृत्रं हत्वा शचीपतिः +आप्लुतः सर्वपापेभ्यः समङ्गायां व्यमुच्यत +एतद्विनशनं कुक्षौ मैनाकस्य नरर्षभ +अदितिर्यत्र पुत्रार्थं तदन्नमपचत्पुरा +एनं पर्वतराजानमारुह्य पुरुषर्षभ +अयशस्यामसंशब्द्यामलक्ष्मीं व्यपनोत्स्यथ +एते कनखला राजनृषीणां दयिता नगाः +एषा प्रकाशते गङ्गा युधिष्ठिर महानदी +सनत्कुमारो भगवानत्र सिद्धिमगात्पराम् +आजमीढावगाह्यैनां सर्वपापैः प्रमोक्ष्यसे +अपां ह्रदं च पुण्याख्यं भृगुतुङ्गं च पर्वत��् +तूष्णीं गङ्गां च कौन्तेय सामात्यः समुपस्पृश +आश्रमः स्थूलशिरसो रमणीयः प्रकाशते +अत्र मानं च कौन्तेय क्रोधं चैव विवर्जय +एष रैभ्याश्रमः श्रीमान्पाण्डवेय प्रकाशते +भारद्वाजो यत्र कविर्यवक्रीतो व्यनश्यत +युधिष्ठिर उवाच +कथंयुक्तोऽभवदृषिर्भरद्वाजः प्रतापवान् +किमर्थं च यवक्रीत ऋषिपुत्रो व्यनश्यत +एतत्सर्वं यथावृत्तं श्रोतुमिच्छामि लोमश +कर्मभिर्देवकल्पानां कीर्त्यमानैर्भृशं रमे +लोमश उवाच +भरद्वाजश्च रैभ्यश्च सखायौ संबभूवतुः +तावूषतुरिहात्यन्तं प्रीयमाणौ वनान्तरे +रैभ्यस्य तु सुतावास्तामर्वावसुपरावसू +आसीद्यवक्रीः पुत्रस्तु भरद्वाजस्य भारत +रैभ्यो विद्वान्सहापत्यस्तपस्वी चेतरोऽभवत् +तयोश्चाप्यतुला प्रीतिर्बाल्यात्प्रभृति भारत +यवक्रीः पितरं दृष्ट्वा तपस्विनमसत्कृतम् +दृष्ट्वा च सत्कृतं विप्रै रैभ्यं पुत्रैः सहानघ +पर्यतप्यत तेजस्वी मन्युनाभिपरिप्लुतः +तपस्तेपे ततो घोरं वेदज्ञानाय पाण्डव +सुसमिद्धे महत्यग्नौ शरीरमुपतापयन् +जनयामास संतापमिन्द्रस्य सुमहातपाः +तत इन्द्रो यवक्रीतमुपगम्य युधिष्ठिर +अब्रवीत्कस्य हेतोस्त्वमास्थितस्तप उत्तमम् +यवक्रीरुवाच +द्विजानामनधीता वै वेदाः सुरगणार्चित +प्रतिभान्त्विति तप्येऽहमिदं परमकं तपः +स्वाध्यायार्थे समारम्भो ममायं पाकशासन +तपसा ज्ञातुमिच्छामि सर्वज्ञानानि कौशिक +कालेन महता वेदाः शक्या गुरुमुखाद्विभो +प्राप्तुं तस्मादयं यत्नः परमो मे समास्थितः +इन्द्र उवाच +अमार्ग एष विप्रर्षे येन त्वं यातुमिच्छसि +किं विघातेन ते विप्र गच्छाधीहि गुरोर्मुखात् +लोमश उवाच +एवमुक्त्वा गतः शक्रो यवक्रीरपि भारत +भूय एवाकरोद्यत्नं तपस्यमितविक्रम +घोरेण तपसा राजंस्तप्यमानो महातपाः +संतापयामास भृशं देवेन्द्रमिति नः श्रुतम् +तं तथा तप्यमानं तु तपस्तीव्रं महामुनिम् +उपेत्य बलभिद्देवो वारयामास वै पुनः +अशक्योऽर्थः समारब्धो नैतद्बुद्धिकृतं तव +प्रतिभास्यन्ति वै वेदास्तव चैव पितुश्च ते +यवक्रीरुवाच +न चैतदेवं क्रियते देवराज ममेप्सितम् +महता नियमेनाहं तप्स्ये घोरतरं तपः +समिद्धेऽग्नावुपकृत्याङ्गमङ्गं; होष्यामि वा मघवंस्तन्निबोध +यद्येतदेवं न करोषि कामं; ममेप्सितं देवराजेह सर्वम् +लोमश उवाच +निश्चयं तमभिज्ञाय मुनेस्तस्य महात्म���ः +प्रतिवारणहेत्वर्थं बुद्ध्या संचिन्त्य बुद्धिमान् +तत इन्द्रोऽकरोद्रूपं ब्राह्मणस्य तपस्विनः +अनेकशतवर्षस्य दुर्बलस्य सयक्ष्मणः +यवक्रीतस्य यत्तीर्थमुचितं शौचकर्मणि +भागीरथ्यां तत्र सेतुं वालुकाभिश्चकार सः +यदास्य वदतो वाक्यं न स चक्रे द्विजोत्तमः +वालुकाभिस्ततः शक्रो गङ्गां समभिपूरयन् +वालुकामुष्टिमनिशं भागीरथ्यां व्यसर्जयत् +सेतुमभ्यारभच्छक्रो यवक्रीतं निदर्शयन् +तं ददर्श यवक्रीस्तु यत्नवन्तं निबन्धने +प्रहसंश्चाब्रवीद्वाक्यमिदं स मुनिपुंगवः +किमिदं वर्तते ब्रह्मन्किं च ते ह चिकीर्षितम् +अतीव हि महान्यत्नः क्रियतेऽयं निरर्थकः +इन्द्र उवाच +बन्धिष्ये सेतुना गङ्गां सुखः पन्था भविष्यति +क्लिश्यते हि जनस्तात तरमाणः पुनः पुनः +यवक्रीरुवाच +नायं शक्यस्त्वया बद्धुं महानोघः कथंचन +अशक्याद्विनिवर्तस्व शक्यमर्थं समारभ +इन्द्र उवाच +यथैव भवता चेदं तपो वेदार्थमुद्यतम् +अशक्यं तद्वदस्माभिरयं भारः समुद्यतः +यवक्रीरुवाच +यथा तव निरर्थोऽयमारम्भस्त्रिदशेश्वर +तथा यदि ममापीदं मन्यसे पाकशासन +क्रियतां यद्भवेच्छक्यं मया सुरगणेश्वर +वरांश्च मे प्रयच्छान्यान्यैरन्यान्भवितास्म्यति +लोमश उवाच +तस्मै प्रादाद्वरानिन्द्र उक्तवान्यान्महातपाः +प्रतिभास्यन्ति ते वेदाः पित्रा सह यथेप्सिताः +यच्चान्यत्काङ्क्षसे कामं यवक्रीर्गम्यतामिति +स लब्धकामः पितरमुपेत्याथ ततोऽब्रवीत् +यवक्रीरुवाच +प्रतिभास्यन्ति वै वेदा मम तातस्य चोभयोः +अति चान्यान्भविष्यावो वरा लब्धास्तथा मया +भरद्वाज उवाच +दर्पस्ते भविता तात वराँल्लब्ध्वा यथेप्सितान् +स दर्पपूर्णः कृपणः क्षिप्रमेव विनश्यसि +अत्राप्युदाहरन्तीमा गाथा देवैरुदाहृताः +ऋषिरासीत्पुरा पुत्र बालधिर्नाम वीर्यवान् +स पुत्रशोकादुद्विग्नस्तपस्तेपे सुदुश्चरम् +भवेन्मम सुतोऽमर्त्य इति तं लब्धवांश्च सः +तस्य प्रसादो देवैश्च कृतो न त्वमरैः समः +नामर्त्यो विद्यते मर्त्यो निमित्तायुर्भविष्यति +बालधिरुवाच +यथेमे पर्वताः शश्वत्तिष्ठन्ति सुरसत्तमाः +अक्षयास्तन्निमित्तं मे सुतस्यायुर्भवेदिति +भरद्वाज उवाच +तस्य पुत्रस्तदा जज्ञे मेधावी क्रोधनः सदा +स तच्छ्रुत्वाकरोद्दर्पमृषींश्चैवावमन्यत +विकुर्वाणो मुनीनां तु चरमाणो महीमिमाम् +आससाद ��हावीर्यं धनुषाक्षं मनीषिणम् +तस्यापचक्रे मेधावी तं शशाप स वीर्यवान् +भव भस्मेति चोक्तः स न भस्म समपद्यत +धनुषाक्षस्तु तं दृष्ट्वा मेधाविनमनामयम् +निमित्तमस्य महिषैर्भेदयामास वीर्यवान् +स निमित्ते विनष्टे तु ममार सहसा शिशुः +तं मृतं पुत्रमादाय विललाप ततः पिता +लालप्यमानं तं दृष्ट्वा मुनयः पुनरार्तवत् +ऊचुर्वेदोक्तया पूर्वं गाथया तन्निबोध मे +न दिष्टमर्थमत्येतुमीशो मर्त्यः कथंचन +महिषैर्भेदयामास धनुषाक्षो महीधरान् +एवं लब्ध्वा वरान्बाला दर्पपूर्णास्तरस्विनः +क्षिप्रमेव विनश्यन्ति यथा न स्यात्तथा भवान् +एष रैभ्यो महावीर्यः पुत्रौ चास्य तथाविधौ +तं यथा पुत्र नाभ्येषि तथा कुर्यास्त्वतन्द्रितः +स हि क्रुद्धः समर्थस्त्वां पुत्र पीडयितुं रुषा +वैद्यश्चापि तपस्वी च कोपनश्च महानृषिः +यवक्रीरुवाच +एवं करिष्ये मा तापं तात कार्षीः कथंचन +यथा हि मे भवान्मान्यस्तथा रैभ्यः पिता मम +लोमश उवाच +उक्त्वा स पितरं श्लक्ष्णं यवक्रीरकुतोभयः +विप्रकुर्वन्नृषीनन्यानतुष्यत्परया मुदा +लोमश उवाच +चङ्क्रम्यमाणः स तदा यवक्रीरकुतोभयः +जगाम माधवे मासि रैभ्याश्रमपदं प्रति +स ददर्शाश्रमे पुण्ये पुष्पितद्रुमभूषिते +विचरन्तीं स्नुषां तस्य किंनरीमिव भारत +यवक्रीस्तामुवाचेदमुपतिष्ठस्व मामिति +निर्लज्जो लज्जया युक्तां कामेन हृतचेतनः +सा तस्य शीलमाज्ञाय तस्माच्छापाच्च बिभ्यती +तेजस्वितां च रैभ्यस्य तथेत्युक्त्वा जगाम सा +तत एकान्तमुन्नीय मज्जयामास भारत +आजगाम तदा रैभ्यः स्वमाश्रममरिंदम +रुदन्तीं च स्नुषां दृष्ट्वा भार्यामार्तां परावसोः +सान्त्वयञ्श्लक्ष्णया वाचा पर्यपृच्छद्युधिष्ठिर +सा तस्मै सर्वमाचष्ट यवक्रीभाषितं शुभा +प्रत्युक्तं च यवक्रीतं प्रेक्षापूर्वं तदात्मना +शृण्वानस्यैव रैभ्यस्य यवक्रीतविचेष्टितम् +दहन्निव तदा चेतः क्रोधः समभवन्महान् +स तदा मन्युनाविष्टस्तपस्वी भृशकोपनः +अवलुप्य जटामेकां जुहावाग्नौ सुसंस्कृते +ततः समभवन्नारी तस्या रूपेण संमिता +अवलुप्यापरां चाथ जुहावाग्नौ जटां पुनः +ततः समभवद्रक्षो घोराक्षं भीमदर्शनम् +अब्रूतां तौ तदा रैभ्यं किं कार्यं करवामहे +तावब्रवीदृषिः क्रुद्धो यवक्रीर्वध्यतामिति +जग्मतुस्तौ तथेत्युक्त्वा यवक्रीतजिघांसया +ततस्तं समुपास्थाय कृत��या सृष्टा महात्मना +कमण्डलुं जहारास्य मोहयित्वा तु भारत +उच्छिष्टं तु यवक्रीतमपकृष्टकमण्डलुम् +तत उद्यतशूलः स राक्षसः समुपाद्रवत् +तमापतन्तं संप्रेक्ष्य शूलहस्तं जिघांसया +यवक्रीः सहसोत्थाय प्राद्रवद्येन वै सरः +जलहीनं सरो दृष्ट्वा यवक्रीस्त्वरितः पुनः +जगाम सरितः सर्वास्ताश्चाप्यासन्विशोषिताः +स काल्यमानो घोरेण शूलहस्तेन रक्षसा +अग्निहोत्रं पितुर्भीतः सहसा समुपाद्रवत् +स वै प्रविशमानस्तु शूद्रेणान्धेन रक्षिणा +निगृहीतो बलाद्द्वारि सोऽवातिष्ठत पार्थिव +निगृहीतं तु शूद्रेण यवक्रीतं स राक्षसः +ताडयामास शूलेन स भिन्नहृदयोऽपतत् +यवक्रीतं स हत्वा तु राक्षसो रैभ्यमागमत् +अनुज्ञातस्तु रैभ्येण तया नार्या सहाचरत् +लोमश उवाच +भरद्वाजस्तु कौन्तेय कृत्वा स्वाध्यायमाह्निकम् +समित्कलापमादाय प्रविवेश स्वमाश्रमम् +तं स्म दृष्ट्वा पुरा सर्वे प्रत्युत्तिष्ठन्ति पावकाः +न त्वेनमुपतिष्ठन्ति हतपुत्रं तदाग्नयः +वैकृतं त्वग्निहोत्रे स लक्षयित्वा महातपाः +तमन्धं शूद्रमासीनं गृहपालमथाब्रवीत् +किं नु मे नाग्नयः शूद्र प्रतिनन्दन्ति दर्शनम् +त्वं चापि न यथापूर्वं कच्चित्क्षेममिहाश्रमे +कच्चिन्न रैभ्यं पुत्रो मे गतवानल्पचेतनः +एतदाचक्ष्व मे शीघ्रं न हि मे शुध्यते मनः +शूद्र उवाच +रैभ्यं गतो नूनमसौ सुतस्ते मन्दचेतनः +तथा हि निहतः शेते राक्षसेन बलीयसा +प्रकाल्यमानस्तेनायं शूलहस्तेन रक्षसा +अग्न्यागारं प्रति द्वारि मया दोर्भ्यां निवारितः +ततः स निहतो ह्यत्र जलकामोऽशुचिर्ध्रुवम् +संभावितो हि तूर्णेन शूलहस्तेन रक्षसा +लोमश उवाच +भरद्वाजस्तु शूद्रस्य तच्छ्रुत्वा विप्रियं वचः +गतासुं पुत्रमादाय विललाप सुदुःखितः +ब्राह्मणानां किलार्थाय ननु त्वं तप्तवांस्तपः +द्विजानामनधीता वै वेदाः संप्रतिभान्त्विति +तथा कल्याणशीलस्त्वं ब्राह्मणेषु महात्मसु +अनागाः सर्वभूतेषु कर्कशत्वमुपेयिवान् +प्रतिषिद्धो मया तात रैभ्यावसथदर्शनात् +गतवानेव तं क्षुद्रं कालान्तकयमोपमम् +यः स जानन्महातेजा वृद्धस्यैकं ममात्मजम् +गतवानेव कोपस्य वशं परमदुर्मतिः +पुत्रशोकमनुप्राप्य एष रैभ्यस्य कर्मणा +त्यक्ष्यामि त्वामृते पुत्र प्राणानिष्टतमान्भुवि +यथाहं पुत्रशोकेन देहं त्यक्ष्यामि किल्बिषी +तथा ज्येष्ठः सुत��� रैभ्यं हिंस्याच्छीघ्रमनागसम् +सुखिनो वै नरा येषां जात्या पुत्रो न विद्यते +ते पुत्रशोकमप्राप्य विचरन्ति यथासुखम् +ये तु पुत्रकृताच्छोकाद्भृशं व्याकुलचेतसः +शपन्तीष्टान्सखीनार्तास्तेभ्यः पापतरो नु कः +परासुश्च सुतो दृष्टः शप्तश्चेष्टः सखा मया +ईदृशीमापदं को नु द्वितीयोऽनुभविष्यति +विलप्यैवं बहुविधं भरद्वाजोऽदहत्सुतम् +सुसमिद्धं ततः पश्चात्प्रविवेश हुताशनम् +लोमश उवाच +एतस्मिन्नेव काले तु बृहद्द्युम्नो महीपतिः +सत्रमास्ते महाभागो रैभ्ययाज्यः प्रतापवान् +तेन रैभ्यस्य वै पुत्रावर्वावसुपरावसू +वृतौ सहायौ सत्रार्थे बृहद्द्युम्नेन धीमता +तत्र तौ समनुज्ञातौ पित्रा कौन्तेय जग्मतुः +आश्रमे त्वभवद्रैभ्यो भार्या चैव परावसोः +अथावलोककोऽगच्छद्गृहानेकः परावसुः +कृष्णाजिनेन संवीतं ददर्श पितरं वने +जघन्यरात्रे निद्रान्धः सावशेषे तमस्यपि +चरन्तं गहनेऽरण्ये मेने स पितरं मृगम् +मृगं तु मन्यमानेन पिता वै तेन हिंसितः +अकामयानेन तदा शरीरत्राणमिच्छता +स तस्य प्रेतकार्याणि कृत्वा सर्वाणि भारत +पुनरागम्य तत्सत्रमब्रवीद्भ्रातरं वचः +इदं कर्म न शक्तस्त्वं वोढुमेकः कथंचन +मया तु हिंसितस्तातो मन्यमानेन तं मृगम् +सोऽस्मदर्थे व्रतं साधु चर त्वं ब्रह्महिंसनम् +समर्थो ह्यहमेकाकी कर्म कर्तुमिदं मुने +अर्वावसुरुवाच +करोतु वै भवान्सत्रं बृहद्द्युम्नस्य धीमतः +ब्रह्महत्यां चरिष्येऽहं त्वदर्थं नियतेन्द्रियः +लोमश उवाच +स तस्या ब्रह्महत्यायाः पारं गत्वा युधिष्ठिर +अर्वावसुस्तदा सत्रमाजगाम पुनर्मुनिः +ततः परावसुर्दृष्ट्वा भ्रातरं समुपस्थितम् +बृहद्द्युम्नमुवाचेदं वचनं परिषद्गतम् +एष ते ब्रह्महा यज्ञं मा द्रष्टुं प्रविशेदिति +ब्रह्महा प्रेक्षितेनापि पीडयेत्त्वां न संशयः +प्रेष्यैरुत्सार्यमाणस्तु राजन्नर्वावसुस्तदा +न मया ब्रह्महत्येयं कृतेत्याह पुनः पुनः +उच्यमानोऽसकृत्प्रेष्यैर्ब्रह्महन्निति भारत +नैव स प्रतिजानाति ब्रह्महत्यां स्वयं कृताम् +मम भ्रात्रा कृतमिदं मया तु परिरक्षितम् +प्रीतास्तस्याभवन्देवाः कर्मणार्वावसोर्नृप +तं ते प्रवरयामासुर्निरासुश्च परावसुम् +ततो देवा वरं तस्मै ददुरग्निपुरोगमाः +स चापि वरयामास पितुरुत्थानमात्मनः +अनागस्त्वं तथा भ्रातुः पितुश्चास्मरणं ���धे +भरद्वाजस्य चोत्थानं यवक्रीतस्य चोभयोः +ततः प्रादुर्बभूवुस्ते सर्व एव युधिष्ठिर +अथाब्रवीद्यवक्रीतो देवानग्निपुरोगमान् +समधीतं मया ब्रह्म व्रतानि चरितानि च +कथं नु रैभ्यः शक्तो मामधीयानं तपस्विनम् +तथायुक्तेन विधिना निहन्तुममरोत्तमाः +देवा ऊचुः +मैवं कृथा यवक्रीत यथा वदसि वै मुने +ऋते गुरुमधीता हि सुखं वेदास्त्वया पुरा +अनेन तु गुरून्दुःखात्तोषयित्वा स्वकर्मणा +कालेन महता क्लेशाद्ब्रह्माधिगतमुत्तमम् +लोमश उवाच +यवक्रीतमथोक्त्वैवं देवाः साग्निपुरोगमाः +संजीवयित्वा तान्सर्वान्पुनर्जग्मुस्त्रिविष्टपम् +आश्रमस्तस्य पुण्योऽयं सदापुष्पफलद्रुमः +अत्रोष्य राजशार्दूल सर्वपापैः प्रमोक्ष्यसे +लोमश उवाच +उशीरबीजं मैनाकं गिरिं श्वेतं च भारत +समतीतोऽसि कौन्तेय कालशैलं च पार्थिव +एषा गङ्गा सप्तविधा राजते भरतर्षभ +स्थानं विरजसं रम्यं यत्राग्निर्नित्यमिध्यते +एतद्वै मानुषेणाद्य न शक्यं द्रष्टुमप्युत +समाधिं कुरुताव्यग्रास्तीर्थान्येतानि द्रक्ष्यथ +श्वेतं गिरिं प्रवेक्ष्यामो मन्दरं चैव पर्वतम् +यत्र माणिचरो यक्षः कुबेरश्चापि यक्षराट् +अष्टाशीतिसहस्राणि गन्धर्वाः शीघ्रचारिणः +तथा किंपुरुषा राजन्यक्षाश्चैव चतुर्गुणाः +अनेकरूपसंस्थाना नानाप्रहरणाश्च ते +यक्षेन्द्रं मनुजश्रेष्ठ माणिभद्रमुपासते +तेषामृद्धिरतीवाग्र्या गतौ वायुसमाश्च ते +स्थानात्प्रच्यावयेयुर्ये देवराजमपि ध्रुवम् +तैस्तात बलिभिर्गुप्ता यातुधानैश्च रक्षिताः +दुर्गमाः पर्वताः पार्थ समाधिं परमं कुरु +कुबेरसचिवाश्चान्ये रौद्रा मैत्राश्च राक्षसाः +तैः समेष्याम कौन्तेय यत्तो विक्रमणे भव +कैलासः पर्वतो राजन्षड्योजनशतान्युत +यत्र देवाः समायान्ति विशाला यत्र भारत +असंख्येयास्तु कौन्तेय यक्षराक्षसकिंनराः +नागाः सुपर्णा गन्धर्वाः कुबेरसदनं प्रति +तान्विगाहस्व पार्थाद्य तपसा च दमेन च +रक्ष्यमाणो मया राजन्भीमसेनबलेन च +स्वस्ति ते वरुणो राजा यमश्च समितिंजयः +गङ्गा च यमुना चैव पर्वतश्च दधातु ते +इन्द्रस्य जाम्बूनदपर्वताग्रे; शृणोमि घोषं तव देवि गङ्गे +गोपाययेमं सुभगे गिरिभ्यः; सर्वाजमीढापचितं नरेन्द्रम् +भवस्व शर्म प्रविविक्षतोऽस्य; शैलानिमाञ्शैलसुते नृपस्य +युधिष्ठिर उवाच +अपूर्वोऽयं संभ्रमो लोमशस��य; कृष्णां सर्वे रक्षत मा प्रमादम् +देशो ह्ययं दुर्गतमो मतोऽस्य; तस्मात्परं शौचमिहाचरध्वम् +वैशंपायन उवाच +ततोऽब्रवीद्भीममुदारवीर्यं; कृष्णां यत्तः पालय भीमसेन +शून्येऽर्जुनेऽसंनिहिते च तात; त्वमेव कृष्णां भजसेऽसुखेषु +ततो महात्मा यमजौ समेत्य; मूर्धन्युपाघ्राय विमृज्य गात्रे +उवाच तौ बाष्पकलं स राजा; मा भैष्टमागच्छतमप्रमत्तौ +युधिष्ठिर उवाच +अन्तर्हितानि भूतानि रक्षांसि बलवन्ति च +अग्निना तपसा चैव शक्यं गन्तुं वृकोदर +संनिवर्तय कौन्तेय क्षुत्पिपासे बलान्वयात् +ततो बलं च दाक्ष्यं च संश्रयस्व कुरूद्वह +ऋषेस्त्वया श्रुतं वाक्यं कैलासं पर्वतं प्रति +बुद्ध्या प्रपश्य कौन्तेय कथं कृष्णा गमिष्यति +अथ वा सहदेवेन धौम्येन च सहाभिभो +सूदैः पौरोगवैश्चैव सर्वैश्च परिचारकैः +रथैरश्वैश्च ये चान्ये विप्राः क्लेशासहाः पथि +सर्वैस्त्वं सहितो भीम निवर्तस्वायतेक्षण +त्रयो वयं गमिष्यामो लघ्वाहारा यतव्रताः +अहं च नकुलश्चैव लोमशश्च महातपाः +ममागमनमाकाङ्क्षन्गङ्गाद्वारे समाहितः +वसेह द्रौपदीं रक्षन्यावदागमनं मम +भीम उवाच +राजपुत्री श्रमेणार्ता दुःखार्ता चैव भारत +व्रजत्येव हि कल्याणी श्वेतवाहदिदृक्षया +तव चाप्यरतिस्तीव्रा वर्धते तमपश्यतः +किं पुनः सहदेवं च मां च कृष्णां च भारत +रथाः कामं निवर्तन्तां सर्वे च परिचारकाः +सूदाः पौरोगवाश्चैव मन्यते यत्र नो भवान् +न ह्यहं हातुमिच्छामि भवन्तमिह कर्हिचित् +शैलेऽस्मिन्राक्षसाकीर्णे दुर्गेषु विषमेषु च +इयं चापि महाभागा राजपुत्री यतव्रता +त्वामृते पुरुषव्याघ्र नोत्सहेद्विनिवर्तितुम् +तथैव सहदेवोऽयं सततं त्वामनुव्रतः +न जातु विनिवर्तेत मतज्ञो ह्यहमस्य वै +अपि चात्र महाराज सव्यसाचिदिदृक्षया +सर्वे लालसभूताः स्म तस्माद्यास्यामहे सह +यद्यशक्यो रथैर्गन्तुं शैलोऽयं बहुकन्दरः +पद्भिरेव गमिष्यामो मा राजन्विमना भव +अहं वहिष्ये पाञ्चालीं यत्र यत्र न शक्ष्यति +इति मे वर्तते बुद्धिर्मा राजन्विमना भव +सुकुमारौ तथा वीरौ माद्रीनन्दिकरावुभौ +दुर्गे संतारयिष्यामि यद्यशक्तौ भविष्यतः +युधिष्ठिर उवाच +एवं ते भाषमाणस्य बलं भीमाभिवर्धताम् +यस्त्वमुत्सहसे वोढुं द्रौपदीं विपुलेऽध्वनि +यमजौ चापि भद्रं ते नैतदन्यत्र विद्यते +बलं च ते यशश्चैव धर्मः कीर्तिश्च वर्���ताम् +यस्त्वमुत्सहसे नेतुं भ्रातरौ सह कृष्णया +मा ते ग्लानिर्महाबाहो मा च तेऽस्तु पराभवः +वैशंपायन उवाच +ततः कृष्णाब्रवीद्वाक्यं प्रहसन्ती मनोरमा +गमिष्यामि न संतापः कार्यो मां प्रति भारत +लोमश उवाच +तपसा शक्यते गन्तुं पर्वतो गन्धमादनः +तपसा चैव कौन्तेय सर्वे योक्ष्यामहे वयम् +नकुलः सहदेवश्च भीमसेनश्च पार्थिव +अहं च त्वं च कौन्तेय द्रक्ष्यामः श्वेतवाहनम् +वैशंपायन उवाच +एवं संभाषमाणास्ते सुबाहोर्विषयं महत् +ददृशुर्मुदिता राजन्प्रभूतगजवाजिमत् +किराततङ्गणाकीर्णं कुणिन्दशतसंकुलम् +हिमवत्यमरैर्जुष्टं बह्वाश्चर्यसमाकुलम् +सुबाहुश्चापि तान्दृष्ट्वा पूजया प्रत्यगृह्णत +विषयान्ते कुणिन्दानामीश्वरः प्रीतिपूर्वकम् +तत्र ते पूजितास्तेन सर्व एव सुखोषिताः +प्रतस्थुर्विमले सूर्ये हिमवन्तं गिरिं प्रति +इन्द्रसेनमुखांश्चैव भृत्यान्पौरोगवांस्तथा +सूदांश्च परिबर्हं च द्रौपद्याः सर्वशो नृप +राज्ञः कुणिन्दाधिपतेः परिदाय महारथाः +पद्भिरेव महावीर्या ययुः कौरवनन्दनाः +ते शनैः प्राद्रवन्सर्वे कृष्णया सह पाण्डवाः +तस्माद्देशात्सुसंहृष्टा द्रष्टुकामा धनंजयम् +युधिष्ठिर उवाच +भीमसेन यमौ चोभौ पाञ्चालि च निबोधत +नास्ति भूतस्य नाशो वै पश्यतास्मान्वनेचरान् +दुर्बलाः क्लेशिताः स्मेति यद्ब्रवीथेतरेतरम् +अशक्येऽपि व्रजामेति धनंजयदिदृक्षया +तन्मे दहति गात्राणि तूलराशिमिवानलः +यच्च वीरं न पश्यामि धनंजयमुपान्तिके +तस्य दर्शनतृष्णं मां सानुजं वनमास्थितम् +याज्ञसेन्याः परामर्शः स च वीर दहत्युत +नकुलात्पूर्वजं पार्थं न पश्याम्यमितौजसम् +अजेयमुग्रधन्वानं तेन तप्ये वृकोदर +तीर्थानि चैव रम्याणि वनानि च सरांसि च +चरामि सह युष्माभिस्तस्य दर्शनकाङ्क्षया +पञ्च वर्षाण्यहं वीरं सत्यसंधं धनंजयम् +यन्न पश्यामि बीभत्सुं तेन तप्ये वृकोदर +तं वै श्यामं गुडाकेशं सिंहविक्रान्तगामिनम् +न पश्यामि महाबाहुं तेन तप्ये वृकोदर +कृतास्त्रं निपुणं युद्धे प्रतिमानं धनुष्मताम् +न पश्यामि नरश्रेष्ठं तेन तप्ये वृकोदर +चरन्तमरिसंघेषु कालं क्रुद्धमिवान्तकम् +प्रभिन्नमिव मातङ्गं सिंहस्कन्धं धनंजयम् +यः स शक्रादनवरो वीर्येण द्रविणेन च +यमयोः पूर्वजः पार्थः श्वेताश्वोऽमितविक्रमः +दुःखेन महताविष्टः स्वकृतेना���िवर्तिना +अजेयमुग्रधन्वानं तं न पश्यामि फल्गुनम् +सततं यः क्षमाशीलः क्षिप्यमाणोऽप्यणीयसा +ऋजुमार्गप्रपन्नस्य शर्मदाताभयस्य च +स तु जिह्मप्रवृत्तस्य माययाभिजिघांसतः +अपि वज्रधरस्यापि भवेत्कालविषोपमः +शत्रोरपि प्रपन्नस्य सोऽनृशंसः प्रतापवान् +दाताभयस्य बीभत्सुरमितात्मा महाबलः +सर्वेषामाश्रयोऽस्माकं रणेऽरीणां प्रमर्दिता +आहर्ता सर्वरत्नानां सर्वेषां नः सुखावहः +रत्नानि यस्य वीर्येण दिव्यान्यासन्पुरा मम +बहूनि बहुजातानि यानि प्राप्तः सुयोधनः +यस्य बाहुबलाद्वीर सभा चासीत्पुरा मम +सर्वरत्नमयी ख्याता त्रिषु लोकेषु पाण्डव +वासुदेवसमं वीर्ये कार्तवीर्यसमं युधि +अजेयमजितं युद्धे तं न पश्यामि फल्गुनम् +संकर्षणं महावीर्यं त्वां च भीमापराजितम् +अनुजातः स वीर्येण वासुदेवं च शत्रुहा +यस्य बाहुबले तुल्यः प्रभावे च पुरंदरः +जवे वायुर्मुखे सोमः क्रोधे मृत्युः सनातनः +ते वयं तं नरव्याघ्रं सर्वे वीर दिदृक्षवः +प्रवेक्ष्यामो महाबाहो पर्वतं गन्धमादनम् +विशाला बदरी यत्र नरनारायणाश्रमः +तं सदाध्युषितं यक्षैर्द्रक्ष्यामो गिरिमुत्तमम् +कुबेरनलिनीं रम्यां राक्षसैरभिरक्षिताम् +पद्भिरेव गमिष्यामस्तप्यमाना महत्तपः +नातप्ततपसा शक्यो देशो गन्तुं वृकोदर +न नृशंसेन लुब्धेन नाप्रशान्तेन भारत +तत्र सर्वे गमिष्यामो भीमार्जुनपदैषिणः +सायुधा बद्धनिस्त्रिंशाः सह विप्रैर्महाव्रतैः +मक्षिकान्मशकान्दंशान्व्याघ्रान्सिंहान्सरीसृपान् +प्राप्नोत्यनियतः पार्थ नियतस्तान्न पश्यति +ते वयं नियतात्मानः पर्वतं गन्धमादनम् +प्रवेक्ष्यामो मिताहारा धनंजयदिदृक्षवः +वैशंपायन उवाच +ते शूरास्ततधन्वानस्तूणवन्तः समार्गणाः +बद्धगोधाङ्गुलित्राणाः खड्गवन्तोऽमितौजसः +परिगृह्य द्विजश्रेष्ठाञ्श्रेष्ठाः सर्वधनुष्मताम् +पाञ्चालीसहिता राजन्प्रययुर्गन्धमादनम् +सरांसि सरितश्चैव पर्वतांश्च वनानि च +वृक्षांश्च बहुलच्छायान्ददृशुर्गिरिमूर्धनि +नित्यपुष्पफलान्देशान्देवर्षिगणसेवितान् +आत्मन्यात्मानमाधाय वीरा मूलफलाशनाः +चेरुरुच्चावचाकारान्देशान्विषमसंकटान् +पश्यन्तो मृगजातानि बहूनि विविधानि च +ऋषिसिद्धामरयुतं गन्धर्वाप्सरसां प्रियम् +विविशुस्ते महात्मानः किंनराचरितं गिरिम् +प्रविशत्स्वथ वीर���षु पर्वतं गन्धमादनम् +चण्डवातं महद्वर्षं प्रादुरासीद्विशां पते +ततो रेणुः समुद्भूतः सपत्रबहुलो महान् +पृथिवीं चान्तरिक्षं च द्यां चैव तमसावृणोत् +न स्म प्रज्ञायते किंचिदावृते व्योम्नि रेणुना +न चापि शेकुस्ते कर्तुमन्योन्यस्याभिभाषणम् +न चापश्यन्त तेऽन्योन्यं तमसा हतचक्षुषः +आकृष्यमाणा वातेन साश्मचूर्णेन भारत +द्रुमाणां वातभग्नानां पततां भूतले भृशम् +अन्येषां च महीजानां शब्दः समभवन्महान् +द्यौः स्वित्पतति किं भूमौ दीर्यन्ते पर्वता नु किम् +इति ते मेनिरे सर्वे पवनेन विमोहिताः +ते यथानन्तरान्वृक्षान्वल्मीकान्विषमाणि च +पाणिभिः परिमार्गन्तो भीता वायोर्निलिल्यिरे +ततः कार्मुकमुद्यम्य भीमसेनो महाबलः +कृष्णामादाय संगत्या तस्थावाश्रित्य पादपम् +धर्मराजश्च धौम्यश्च निलिल्याते महावने +अग्निहोत्राण्युपादाय सहदेवस्तु पर्वते +नकुलो ब्राह्मणाश्चान्ये लोमशश्च महातपाः +वृक्षानासाद्य संत्रस्तास्तत्र तत्र निलिल्यिरे +मन्दीभूते च पवने तस्मिन्रजसि शाम्यति +महद्भिः पृषतैस्तूर्णं वर्षमभ्याजगाम ह +ततोऽश्मसहिता धाराः संवृण्वन्त्यः समन्ततः +प्रपेतुरनिशं तत्र शीघ्रवातसमीरिताः +ततः सागरगा आपः कीर्यमाणाः समन्ततः +प्रादुरासन्सकलुषाः फेनवत्यो विशां पते +वहन्त्यो वारि बहुलं फेनोडुपपरिप्लुतम् +परिसस्रुर्महाशब्दाः प्रकर्षन्त्यो महीरुहान् +तस्मिन्नुपरते वर्षे वाते च समतां गते +गते ह्यम्भसि निम्नानि प्रादुर्भूते दिवाकरे +निर्जग्मुस्ते शनैः सर्वे समाजग्मुश्च भारत +प्रतस्थुश्च पुनर्वीराः पर्वतं गन्धमादनम् +वैशंपायन उवाच +ततः प्रयातमात्रेषु पाण्डवेषु महात्मसु +पद्भ्यामनुचिता गन्तुं द्रौपदी समुपाविशत् +श्रान्ता दुःखपरीता च वातवर्षेण तेन च +सौकुमार्याच्च पाञ्चाली संमुमोह यशस्विनी +सा पात्यमाना मोहेन बाहुभ्यामसितेक्षणा +वृत्ताभ्यामनुरूपाभ्यामूरू समवलम्बत +आलम्बमाना सहितावूरू गजकरोपमौ +पपात सहसा भूमौ वेपन्ती कदली यथा +तां पतन्तीं वरारोहां सज्जमानां लतामिव +नकुलः समभिद्रुत्य परिजग्राह वीर्यवान् +नकुल उवाच +राजन्पाञ्चालराजस्य सुतेयमसितेक्षणा +श्रान्ता निपतिता भूमौ तामवेक्षस्व भारत +अदुःखार्हा परं दुःखं प्राप्तेयं मृदुगामिनी +आश्वासय महाराज तामिमां श्रमकर्शिताम् +वैशंपाय�� उवाच +राजा तु वचनात्तस्य भृशं दुःखसमन्वितः +भीमश्च सहदेवश्च सहसा समुपाद्रवन् +तामवेक्ष्य तु कौन्तेयो विवर्णवदनां कृशाम् +अङ्कमानीय धर्मात्मा पर्यदेवयदातुरः +कथं वेश्मसु गुप्तेषु स्वास्तीर्णशयनोचिता +शेते निपतिता भूमौ सुखार्हा वरवर्णिनी +सुकुमारौ कथं पादौ मुखं च कमलप्रभम् +मत्कृतेऽद्य वरार्हायाः श्यामतां समुपागतम् +किमिदं द्यूतकामेन मया कृतमबुद्धिना +आदाय कृष्णां चरता वने मृगगणायुते +सुखं प्राप्स्यति पाञ्चाली पाण्डवान्प्राप्य वै पतीन् +इति द्रुपदराजेन पित्रा दत्तायतेक्षणा +तत्सर्वमनवाप्यैव श्रमशोकाद्धि कर्शिता +शेते निपतिता भूमौ पापस्य मम कर्मभिः +तथा लालप्यमाने तु धर्मराजे युधिष्ठिरे +धौम्यप्रभृतयः सर्वे तत्राजग्मुर्द्विजोत्तमाः +ते समाश्वासयामासुराशीर्भिश्चाप्यपूजयन् +रक्षोघ्नांश्च तथा मन्त्राञ्जेपुश्चक्रुश्च ते क्रियाः +पठ्यमानेषु मन्त्रेषु शान्त्यर्थं परमर्षिभिः +स्पृश्यमाना करैः शीतैः पाण्डवैश्च मुहुर्मुहुः +सेव्यमाना च शीतेन जलमिश्रेण वायुना +पाञ्चाली सुखमासाद्य लेभे चेतः शनैः शनैः +परिगृह्य च तां दीनां कृष्णामजिनसंस्तरे +तदा विश्रामयामासुर्लब्धसंज्ञां तपस्विनीम् +तस्या यमौ रक्ततलौ पादौ पूजितलक्षणौ +कराभ्यां किणजाताभ्यां शनकैः संववाहतुः +पर्याश्वासयदप्येनां धर्मराजो युधिष्ठिरः +उवाच च कुरुश्रेष्ठो भीमसेनमिदं वचः +बहवः पर्वता भीम विषमा हिमदुर्गमाः +तेषु कृष्णा महाबाहो कथं नु विचरिष्यति +भीमसेन उवाच +त्वां राजन्राजपुत्रीं च यमौ च पुरुषर्षभौ +स्वयं नेष्यामि राजेन्द्र मा विषादे मनः कृथाः +अथ वासौ मया जातो विहगो मद्बलोपमः +वहेदनघ सर्वान्नो वचनात्ते घटोत्कचः +वैशंपायन उवाच +अनुज्ञातो धर्मराज्ञा पुत्रं सस्मार राक्षसम् +घटोत्कचश्च धर्मात्मा स्मृतमात्रः पितुस्तदा +कृताञ्जलिरुपातिष्ठदभिवाद्याथ पाण्डवान् +ब्राह्मणांश्च महाबाहुः स च तैरभिनन्दितः +उवाच भीमसेनं स पितरं सत्यविक्रमः +स्मृतोऽस्मि भवता शीघ्रं शुश्रूषुरहमागतः +आज्ञापय महाबाहो सर्वं कर्तास्म्यसंशयम् +तच्छ्रुत्वा भीमसेनस्तु राक्षसं परिषस्वजे +युधिष्ठिर उवाच +धर्मज्ञो बलवाञ्शूरः सद्यो राक्षसपुंगवः +भक्तोऽस्मानौरसः पुत्रो भीम गृह्णातु मातरम् +तव भीम बलेनाहमतिभीमपराक्रम +अक्षतः सह पा��्चाल्या गच्छेयं गन्धमादनम् +वैशंपायन उवाच +भ्रातुर्वचनमाज्ञाय भीमसेनो घटोत्कचम् +आदिदेश नरव्याघ्रस्तनयं शत्रुकर्शनम् +हैडिम्बेय परिश्रान्ता तव मातापराजिता +त्वं च कामगमस्तात बलवान्वह तां खग +स्कन्धमारोप्य भद्रं ते मध्येऽस्माकं विहायसा +गच्छ नीचिकया गत्या यथा चैनां न पीडयेः +घटोत्कच उवाच +धर्मराजं च धौम्यं च राजपुत्रीं यमौ तथा +एकोऽप्यहमलं वोढुं किमुताद्य सहायवान् +वैशंपायन उवाच +एवमुक्त्वा ततः कृष्णामुवाह स घटोत्कचः +पाण्डूनां मध्यगो वीरः पाण्डवानपि चापरे +लोमशः सिद्धमार्गेण जगामानुपमद्युतिः +स्वेनैवात्मप्रभावेन द्वितीय इव भास्करः +ब्राह्मणांश्चापि तान्सर्वान्समुपादाय राक्षसाः +नियोगाद्राक्षसेन्द्रस्य जग्मुर्भीमपराक्रमाः +एवं सुरमणीयानि वनान्युपवनानि च +आलोकयन्तस्ते जग्मुर्विशालां बदरीं प्रति +ते त्वाशुगतिभिर्वीरा राक्षसैस्तैर्महाबलैः +उह्यमाना ययुः शीघ्रं महदध्वानमल्पवत् +देशान्म्लेच्छगणाकीर्णान्नानारत्नाकरायुतान् +ददृशुर्गिरिपादांश्च नानाधातुसमाचितान् +विद्याधरगणाकीर्णान्युतान्वानरकिंनरैः +तथा किंपुरुषैश्चैव गन्धर्वैश्च समन्ततः +नदीजालसमाकीर्णान्नानापक्षिरुताकुलान् +नानाविधैर्मृगैर्जुष्टान्वानरैश्चोपशोभितान् +ते व्यतीत्य बहून्देशानुत्तरांश्च कुरूनपि +ददृशुर्विविधाश्चर्यं कैलासं पर्वतोत्तमम् +तस्याभ्याशे तु ददृशुर्नरनारायणाश्रमम् +उपेतं पादपैर्दिव्यैः सदापुष्पफलोपगैः +ददृशुस्तां च बदरीं वृत्तस्कन्धां मनोरमाम् +स्निग्धामविरलच्छायां श्रिया परमया युताम् +पत्रैः स्निग्धैरविरलैरुपेतां मृदुभिः शुभाम् +विशालशाखां विस्तीर्णामतिद्युतिसमन्विताम् +फलैरुपचितैर्दिव्यैराचितां स्वादुभिर्भृशम् +मधुस्रवैः सदा दिव्यां महर्षिगणसेविताम् +मदप्रमुदितैर्नित्यं नानाद्विजगणैर्युताम् +अदंशमशके देशे बहुमूलफलोदके +नीलशाद्वलसंछन्ने देवगन्धर्वसेविते +सुसमीकृतभूभागे स्वभावविहिते शुभे +जातां हिममृदुस्पर्शे देशेऽपहतकण्टके +तामुपेत्य महात्मानः सह तैर्ब्राह्मणर्षभैः +अवतेरुस्ततः सर्वे राक्षसस्कन्धतः शनैः +ततस्तमाश्रमं पुण्यं नरनारायणाश्रितम् +ददृशुः पाण्डवा राजन्सहिता द्विजपुंगवैः +तमसा रहितं पुण्यमनामृष्टं रवेः करैः +क्षुत्तृट्शीतो���्णदोषैश्च वर्जितं शोकनाशनम् +महर्षिगणसंबाधं ब्राह्म्या लक्ष्म्या समन्वितम् +दुष्प्रवेशं महाराज नरैर्धर्मबहिष्कृतैः +बलिहोमार्चितं दिव्यं सुसंमृष्टानुलेपनम् +दिव्यपुष्पोपहारैश्च सर्वतोऽभिविराजितम् +विशालैरग्निशरणैः स्रुग्भाण्डैराचितं शुभैः +महद्भिस्तोयकलशैः कठिनैश्चोपशोभितम् +शरण्यं सर्वभूतानां ब्रह्मघोषनिनादितम् +दिव्यमाश्रयणीयं तमाश्रमं श्रमनाशनम् +श्रिया युतमनिर्देश्यं देवचर्योपशोभितम् +फलमूलाशनैर्दान्तैश्चीरकृष्णाजिनाम्बरैः +सूर्यवैश्वानरसमैस्तपसा भावितात्मभिः +महर्षिभिर्मोक्षपरैर्यतिभिर्नियतेन्द्रियैः +ब्रह्मभूतैर्महाभागैरुपेतं ब्रह्मवादिभिः +सोऽभ्यगच्छन्महातेजास्तानृषीन्नियतः शुचिः +भ्रातृभिः सहितो धीमान्धर्मपुत्रो युधिष्ठिरः +दिव्यज्ञानोपपन्नास्ते दृष्ट्वा प्राप्तं युधिष्ठिरम् +अभ्यगच्छन्त सुप्रीताः सर्व एव महर्षयः +आशीर्वादान्प्रयुञ्जानाः स्वाध्यायनिरता भृशम् +प्रीतास्ते तस्य सत्कारं विधिना पावकोपमाः +उपाजह्रुश्च सलिलं पुष्पमूलफलं शुचि +स तैः प्रीत्याथ सत्कारमुपनीतं महर्षिभिः +प्रयतः प्रतिगृह्याथ धर्मपुत्रो युधिष्ठिरः +तं शक्रसदनप्रख्यं दिव्यगन्धं मनोरमम् +प्रीतः स्वर्गोपमं पुण्यं पाण्डवः सह कृष्णया +विवेश शोभया युक्तं भ्रातृभिश्च सहानघ +ब्राह्मणैर्वेदवेदाङ्गपारगैश्च सहाच्युतः +तत्रापश्यत्स धर्मात्मा देवदेवर्षिपूजितम् +नरनारायणस्थानं भागीरथ्योपशोभितम् +मधुस्रवफलां दिव्यां महर्षिगणसेविताम् +तामुपेत्य महात्मानस्तेऽवसन्ब्राह्मणैः सह +आलोकयन्तो मैनाकं नानाद्विजगणायुतम् +हिरण्यशिखरं चैव तच्च बिन्दुसरः शिवम् +भागीरथीं सुतीर्थां च शीतामलजलां शिवाम् +मणिप्रवालप्रस्तारां पादपैरुपशोभिताम् +दिव्यपुष्पसमाकीर्णां मनसः प्रीतिवर्धनीम् +वीक्षमाणा महात्मानो विजह्रुस्तत्र पाण्डवाः +तत्र देवान्पितॄंश्चैव तर्पयन्तः पुनः पुनः +ब्राह्मणैः सहिता वीरा न्यवसन्पुरुषर्षभाः +कृष्णायास्तत्र पश्यन्तः क्रीडितान्यमरप्रभाः +विचित्राणि नरव्याघ्रा रेमिरे तत्र पाण्डवाः +वैशंपायन उवाच +तत्र ते पुरुषव्याघ्राः परमं शौचमास्थिताः +षड्रात्रमवसन्वीरा धनंजयदिदृक्षया +तस्मिन्विहरमाणाश्च रममाणाश्च पाण्डवाः +मनोज्ञे काननवरे सर्वभू���मनोरमे +पादपैः पुष्पविकचैः फलभारावनामितैः +शोभितं सर्वतोरम्यैः पुंस्कोकिलकुलाकुलैः +स्निग्धपत्रैरविरलैः शीतच्छायैर्मनोरमैः +सरांसि च विचित्राणि प्रसन्नसलिलानि च +कमलैः सोत्पलैस्तत्र भ्राजमानानि सर्वशः +पश्यन्तश्चारुरूपाणि रेमिरे तत्र पाण्डवाः +पुण्यगन्धः सुखस्पर्शो ववौ तत्र समीरणः +ह्लादयन्पाण्डवान्सर्वान्सकृष्णान्सद्विजर्षभान् +ततः पूर्वोत्तरो वायुः पवमानो यदृच्छया +सहस्रपत्रमर्काभं दिव्यं पद्ममुदावहत् +तदपश्यत पाञ्चाली दिव्यगन्धं मनोरमम् +अनिलेनाहृतं भूमौ पतितं जलजं शुचि +तच्छुभा शुभमासाद्य सौगन्धिकमनुत्तमम् +अतीव मुदिता राजन्भीमसेनमथाब्रवीत् +पश्य दिव्यं सुरुचिरं भीम पुष्पमनुत्तमम् +गन्धसंस्थानसंपन्नं मनसो मम नन्दनम् +एतत्तु धर्मराजाय प्रदास्यामि परंतप +हरेरिदं मे कामाय काम्यके पुनराश्रमे +यदि तेऽहं प्रिया पार्थ बहूनीमान्युपाहर +तान्यहं नेतुमिच्छामि काम्यकं पुनराश्रमम् +एवमुक्त्वा तु पाञ्चाली भीमसेनमनिन्दिता +जगाम धर्मराजाय पुष्पमादाय तत्तदा +अभिप्रायं तु विज्ञाय महिष्याः पुरुषर्षभः +प्रियायाः प्रियकामः स भीमो भीमपराक्रमः +वातं तमेवाभिमुखो यतस्तत्पुष्पमागतम् +आजिहीर्षुर्जगामाशु स पुष्पाण्यपराण्यपि +रुक्मपृष्ठं धनुर्गृह्य शरांश्चाशीविषोपमान् +मृगराडिव संक्रुद्धः प्रभिन्न इव कुञ्जरः +द्रौपद्याः प्रियमन्विच्छन्स्वबाहुबलमाश्रितः +व्यपेतभयसंमोहः शैलमभ्यपतद्बली +स तं द्रुमलतागुल्मच्छन्नं नीलशिलातलम् +गिरिं चचारारिहरः किंनराचरितं शुभम् +नानावर्णधरैश्चित्रं धातुद्रुममृगाण्डजैः +सर्वभूषणसंपूर्णं भूमेर्भुजमिवोच्छ्रितम् +सर्वर्तुरमणीयेषु गन्धमादनसानुषु +सक्तचक्षुरभिप्रायं हृदयेनानुचिन्तयन् +पुंस्कोकिलनिनादेषु षट्पदाभिरुतेषु च +बद्धश्रोत्रमनश्चक्षुर्जगामामितविक्रमः +जिघ्रमाणो महातेजाः सर्वर्तुकुसुमोद्भवम् +गन्धमुद्दाममुद्दामो वने मत्त इव द्विपः +ह्रियमाणश्रमः पित्रा संप्रहृष्टतनूरुहः +पितुः संस्पर्शशीतेन गन्धमादनवायुना +स यक्षगन्धर्वसुरब्रह्मर्षिगणसेवितम् +विलोडयामास तदा पुष्पहेतोररिंदमः +विषमच्छेदरचितैरनुलिप्तमिवाङ्गुलैः +विमलैर्धातुविच्छेदैः काञ्चनाञ्जनराजतैः +सपक्षमिव नृत्यन्तं पार्श्वलग्नैः पयोधरैः +मु��्ताहारैरिव चितं च्युतैः प्रस्रवणोदकैः +अभिरामनदीकुञ्जनिर्झरोदरकन्दरम् +अप्सरोनूपुररवैः प्रनृत्तबहुबर्हिणम् +दिग्वारणविषाणाग्रैर्घृष्टोपलशिलातलम् +स्रस्तांशुकमिवाक्षोभ्यैर्निम्नगानिःसृतैर्जलैः +सशष्पकवलैः स्वस्थैरदूरपरिवर्तिभिः +भयस्याज्ञैश्च हरिणैः कौतूहलनिरीक्षितः +चालयन्नूरुवेगेन लताजालान्यनेकशः +आक्रीडमानः कौन्तेयः श्रीमान्वायुसुतो ययौ +प्रियामनोरथं कर्तुमुद्यतश्चारुलोचनः +प्रांशुः कनकतालाभः सिंहसंहननो युवा +मत्तवारणविक्रान्तो मत्तवारणवेगवान् +मत्तवारणताम्राक्षो मत्तवारणवारणः +प्रियपार्श्वोपविष्टाभिर्व्यावृत्ताभिर्विचेष्टितैः +यक्षगन्धर्वयोषाभिरदृश्याभिर्निरीक्षितः +नवावतारं रूपस्य विक्रीणन्निव पाण्डवः +चचार रमणीयेषु गन्धमादनसानुषु +संस्मरन्विविधान्क्लेशान्दुर्योधनकृतान्बहून् +द्रौपद्या वनवासिन्याः प्रियं कर्तुं समुद्यतः +सोऽचिन्तयद्गते स्वर्गमर्जुने मयि चागते +पुष्पहेतोः कथं न्वार्यः करिष्यति युधिष्ठिरः +स्नेहान्नरवरो नूनमविश्वासाद्वनस्य च +नकुलं सहदेवं च न मोक्ष्यति युधिष्ठिरः +कथं नु कुसुमावाप्तिः स्याच्छीघ्रमिति चिन्तयन् +प्रतस्थे नरशार्दूलः पक्षिराडिव वेगितः +कम्पयन्मेदिनीं पद्भ्यां निर्घात इव पर्वसु +त्रासयन्गजयूथानि वातरंहा वृकोदरः +सिंहव्याघ्रगणांश्चैव मर्दमानो महाबलः +उन्मूलयन्महावृक्षान्पोथयंश्चोरसा बली +लतावल्लीश्च वेगेन विकर्षन्पाण्डुनन्दनः +उपर्युपरि शैलाग्रमारुरुक्षुरिव द्विपः +विनर्दमानोऽतिभृशं सविद्युदिव तोयदः +तस्य शब्देन घोरेण धनुर्घोषेण चाभिभो +त्रस्तानि मृगयूथानि समन्ताद्विप्रदुद्रुवुः +अथापश्यन्महाबाहुर्गन्धमादनसानुषु +सुरम्यं कदलीषण्डं बहुयोजनविस्तृतम् +तमभ्यगच्छद्वेगेन क्षोभयिष्यन्महाबलः +महागज इवास्रावी प्रभञ्जन्विविधान्द्रुमान् +उत्पाट्य कदलीस्कन्धान्बहुतालसमुच्छ्रयान् +चिक्षेप तरसा भीमः समन्ताद्बलिनां वरः +ततः सत्त्वान्युपाक्रामन्बहूनि च महान्ति च +रुरुवारणसंघाश्च महिषाश्च जलाश्रयाः +सिंहव्याघ्राश्च संक्रुद्धा भीमसेनमभिद्रवन् +व्यादितास्या महारौद्रा विनदन्तोऽतिभीषणाः +ततो वायुसुतः क्रोधात्स्वबाहुबलमाश्रितः +गजेनाघ्नन्गजं भीमः सिंहं सिंहेन चाभिभूः +तलप्रहारैरन्यांश्च व्यहनत्पाण्डवो बली +ते हन्यमाना भीमेन सिंहव्याघ्रतरक्षवः +भयाद्विससृपुः सर्वे शकृन्मूत्रं च सुस्रुवुः +प्रविवेश ततः क्षिप्रं तानपास्य महाबलः +वनं पाण्डुसुतः श्रीमाञ्शब्देनापूरयन्दिशः +तेन शब्देन चोग्रेण भीमसेनरवेण च +वनान्तरगताः सर्वे वित्रेसुर्मृगपक्षिणः +तं शब्दं सहसा श्रुत्वा मृगपक्षिसमीरितम् +जलार्द्रपक्षा विहगाः समुत्पेतुः सहस्रशः +तानौदकान्पक्षिगणान्निरीक्ष्य भरतर्षभः +तानेवानुसरन्रम्यं ददर्श सुमहत्सरः +काञ्चनैः कदलीषण्डैर्मन्दमारुतकम्पितैः +वीज्यमानमिवाक्षोभ्यं तीरान्तरविसर्पिभिः +तत्सरोऽथावतीर्याशु प्रभूतकमलोत्पलम् +महागज इवोद्दामश्चिक्रीड बलवद्बली +विक्रीड्य तस्मिन्सुचिरमुत्ततारामितद्युतिः +ततोऽवगाह्य वेगेन तद्वनं बहुपादपम् +दध्मौ च शङ्खं स्वनवत्सर्वप्राणेन पाण्डवः +तस्य शङ्खस्य शब्देन भीमसेनरवेण च +बाहुशब्देन चोग्रेण नर्दन्तीव गिरेर्गुहाः +तं वज्रनिष्पेषसममास्फोटितरवं भृशम् +श्रुत्वा शैलगुहासुप्तैः सिंहैर्मुक्तो महास्वनः +सिंहनादभयत्रस्तैः कुञ्जरैरपि भारत +मुक्तो विरावः सुमहान्पर्वतो येन पूरितः +तं तु नादं ततः श्रुत्वा सुप्तो वानरपुंगवः +प्राजृम्भत महाकायो हनूमान्नाम वानरः +कदलीषण्डमध्यस्थो निद्रावशगतस्तदा +जृम्भमाणः सुविपुलं शक्रध्वजमिवोच्छ्रितम् +आस्फोटयत लाङ्गूलमिन्द्राशनिसमस्वनम् +तस्य लाङ्गूलनिनदं पर्वतः स गुहामुखैः +उद्गारमिव गौर्नर्दमुत्ससर्ज समन्ततः +स लाङ्गूलरवस्तस्य मत्तवारणनिस्वनम् +अन्तर्धाय विचित्रेषु चचार गिरिसानुषु +स भीमसेनस्तं श्रुत्वा संप्रहृष्टतनूरुहः +शब्दप्रभवमन्विच्छंश्चचार कदलीवनम् +कदलीवनमध्यस्थमथ पीने शिलातले +स ददर्श महाबाहुर्वानराधिपतिं स्थितम् +विद्युत्संघातदुष्प्रेक्ष्यं विद्युत्संघातपिङ्गलम् +विद्युत्संघातसदृशं विद्युत्संघातचञ्चलम् +बाहुस्वस्तिकविन्यस्तपीनह्रस्वशिरोधरम् +स्कन्धभूयिष्ठकायत्वात्तनुमध्यकटीतटम् +किंचिच्चाभुग्नशीर्षेण दीर्घरोमाञ्चितेन च +लाङ्गूलेनोर्ध्वगतिना ध्वजेनेव विराजितम् +रक्तोष्ठं ताम्रजिह्वास्यं रक्तकर्णं चलद्भ्रुवम् +वदनं वृत्तदंष्ट्राग्रं रश्मिवन्तमिवोडुपम् +वदनाभ्यन्तरगतैः शुक्लभासैरलंकृतम् +केसरोत्करसंमिश्रमशोकानामिवोत्करम् +हिरण्मयीनां मध्यस्थं कदलीनां महाद्युतिम् +दीप्यमानं स्ववपुषा अर्चिष्मन्तमिवानलम् +निरीक्षन्तमवित्रस्तं लोचनैर्मधुपिङ्गलैः +तं वानरवरं वीरमतिकायं महाबलम् +अथोपसृत्य तरसा भीमो भीमपराक्रमः +सिंहनादं समकरोद्बोधयिष्यन्कपिं तदा +तेन शब्देन भीमस्य वित्रेसुर्मृगपक्षिणः +हनूमांश्च महासत्त्व ईषदुन्मील्य लोचने +अवैक्षदथ सावज्ञं लोचनैर्मधुपिङ्गलैः +स्मितेनाभाष्य कौन्तेयं वानरो नरमब्रवीत् +किमर्थं सरुजस्तेऽहं सुखसुप्तः प्रबोधितः +ननु नाम त्वया कार्या दया भूतेषु जानता +वयं धर्मं न जानीमस्तिर्यग्योनिं समाश्रिताः +मनुष्या बुद्धिसंपन्ना दयां कुर्वन्ति जन्तुषु +क्रूरेषु कर्मसु कथं देहवाक्चित्तदूषिषु +धर्मघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः +न त्वं धर्मं विजानासि वृद्धा नोपासितास्त्वया +अल्पबुद्धितया वन्यानुत्सादयसि यन्मृगान् +ब्रूहि कस्त्वं किमर्थं वा वनं त्वमिदमागतः +वर्जितं मानुषैर्भावैस्तथैव पुरुषैरपि +अतः परमगम्योऽयं पर्वतः सुदुरारुहः +विना सिद्धगतिं वीर गतिरत्र न विद्यते +कारुण्यात्सौहृदाच्चैव वारये त्वां महाबल +नातः परं त्वया शक्यं गन्तुमाश्वसिहि प्रभो +इमान्यमृतकल्पानि मूलानि च फलानि च +भक्षयित्वा निवर्तस्व ग्राह्यं यदि वचो मम +वैशंपायन उवाच +एतच्छ्रुत्वा वचस्तस्य वानरेन्द्रस्य धीमतः +भीमसेनस्तदा वीरः प्रोवाचामित्रकर्शनः +को भवान्किंनिमित्तं वा वानरं वपुराश्रितः +ब्राह्मणानन्तरो वर्णः क्षत्रियस्त्वानुपृच्छति +कौरवः सोमवंशीयः कुन्त्या गर्भेण धारितः +पाण्डवो वायुतनयो भीमसेन इति श्रुतः +स वाक्यं भीमसेनस्य स्मितेन प्रतिगृह्य तत् +हनूमान्वायुतनयो वायुपुत्रमभाषत +वानरोऽहं न ते मार्गं प्रदास्यामि यथेप्सितम् +साधु गच्छ निवर्तस्व मा त्वं प्राप्स्यसि वैशसम् +भीम उवाच +वैशसं वास्तु यद्वान्यन्न त्वा पृच्छामि वानर +प्रयच्छोत्तिष्ठ मार्गं मे मा त्वं प्राप्स्यसि वैशसम् +हनूमानुवाच +नास्ति शक्तिर्ममोत्थातुं व्याधिना क्लेशितो ह्यहम् +यद्यवश्यं प्रयातव्यं लङ्घयित्वा प्रयाहि माम् +भीम उवाच +निर्गुणः परमात्मेति देहं ते व्याप्य तिष्ठति +तमहं ज्ञानविज्ञेयं नावमन्ये न लङ्घये +यद्यागमैर्न विन्देयं तमहं भूतभावनम् +क्रमेयं त्वां गिरिं चेमं हनूमानिव सागरम् +हनू��ानुवाच +क एष हनुमान्नाम सागरो येन लङ्घितः +पृच्छामि त्वा कुरुश्रेष्ठ कथ्यतां यदि शक्यते +भीम उवाच +भ्राता मम गुणश्लाघ्यो बुद्धिसत्त्वबलान्वितः +रामायणेऽतिविख्यातः शूरो वानरपुंगवः +रामपत्नीकृते येन शतयोजनमायतः +सागरः प्लवगेन्द्रेण क्रमेणैकेन लङ्घितः +स मे भ्राता महावीर्यस्तुल्योऽहं तस्य तेजसा +बले पराक्रमे युद्धे शक्तोऽहं तव निग्रहे +उत्तिष्ठ देहि मे मार्गं पश्य वा मेऽद्य पौरुषम् +मच्छासनमकुर्वाणं मा त्वा नेष्ये यमक्षयम् +वैशंपायन उवाच +विज्ञाय तं बलोन्मत्तं बाहुवीर्येण गर्वितम् +हृदयेनावहस्यैनं हनूमान्वाक्यमब्रवीत् +प्रसीद नास्ति मे शक्तिरुत्थातुं जरयानघ +ममानुकम्पया त्वेतत्पुच्छमुत्सार्य गम्यताम् +सावज्ञमथ वामेन स्मयञ्जग्राह पाणिना +न चाशकच्चालयितुं भीमः पुच्छं महाकपेः +उच्चिक्षेप पुनर्दोर्भ्यामिन्द्रायुधमिवोच्छ्रितम् +नोद्धर्तुमशकद्भीमो दोर्भ्यामपि महाबलः +उत्क्षिप्तभ्रूर्विवृत्ताक्षः संहतभ्रुकुटीमुखः +स्विन्नगात्रोऽभवद्भीमो न चोद्धर्तुं शशाक ह +यत्नवानपि तु श्रीमाँल्लाङ्गूलोद्धरणोद्धुतः +कपेः पार्श्वगतो भीमस्तस्थौ व्रीडादधोमुखः +प्रणिपत्य च कौन्तेयः प्राञ्जलिर्वाक्यमब्रवीत् +प्रसीद कपिशार्दूल दुरुक्तं क्षम्यतां मम +सिद्धो वा यदि वा देवो गन्धर्वो वाथ गुह्यकः +पृष्टः सन्कामया ब्रूहि कस्त्वं वानररूपधृक् +हनूमानुवाच +यत्ते मम परिज्ञाने कौतूहलमरिंदम +तत्सर्वमखिलेन त्वं शृणु पाण्डवनन्दन +अहं केसरिणः क्षेत्रे वायुना जगदायुषा +जातः कमलपत्राक्ष हनूमान्नाम वानरः +सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम् +सर्ववानरराजानौ सर्ववानरयूथपाः +उपतस्थुर्महावीर्या मम चामित्रकर्शन +सुग्रीवेणाभवत्प्रीतिरनिलस्याग्निना यथा +निकृतः स ततो भ्रात्रा कस्मिंश्चित्कारणान्तरे +ऋश्यमूके मया सार्धं सुग्रीवो न्यवसच्चिरम् +अथ दाशरथिर्वीरो रामो नाम महाबलः +विष्णुर्मानुषरूपेण चचार वसुधामिमाम् +स पितुः प्रियमन्विच्छन्सहभार्यः सहानुजः +सधनुर्धन्विनां श्रेष्ठो दण्डकारण्यमाश्रितः +तस्य भार्या जनस्थानाद्रावणेन हृता बलात् +वञ्चयित्वा महाबुद्धिं मृगरूपेण राघवम् +हृतदारः सह भ्रात्रा पत्नीं मार्गन्स राघवः +दृष्टवाञ्शैलशिखरे सुग्रीवं वानरर्षभम् +तेन तस्याभवत्सख्यं राघवस्य महात्मनः +स हत्वा वालिनं राज्ये सुग्रीवं प्रत्यपादयत् +स हरीन्प्रेषयामास सीतायाः परिमार्गणे +ततो वानरकोटीभिर्यां वयं प्रस्थिता दिशम् +तत्र प्रवृत्तिः सीताया गृध्रेण प्रतिपादिता +ततोऽहं कार्यसिद्ध्यर्थं रामस्याक्लिष्टकर्मणः +शतयोजनविस्तीर्णमर्णवं सहसाप्लुतः +दृष्टा सा च मया देवी रावणस्य निवेशने +प्रत्यागतश्चापि पुनर्नाम तत्र प्रकाश्य वै +ततो रामेण वीरेण हत्वा तान्सर्वराक्षसान् +पुनः प्रत्याहृता भार्या नष्टा वेदश्रुतिर्यथा +ततः प्रतिष्ठिते रामे वीरोऽयं याचितो मया +यावद्रामकथा वीर भवेल्लोकेषु शत्रुहन् +तावज्जीवेयमित्येवं तथास्त्विति च सोऽब्रवीत् +दश वर्षसहस्राणि दश वर्षशतानि च +राज्यं कारितवान्रामस्ततस्तु त्रिदिवं गतः +तदिहाप्सरसस्तात गन्धर्वाश्च सदानघ +तस्य वीरस्य चरितं गायन्त्यो रमयन्ति माम् +अयं च मार्गो मर्त्यानामगम्यः कुरुनन्दन +ततोऽहं रुद्धवान्मार्गं तवेमं देवसेवितम् +धर्षयेद्वा शपेद्वापि मा कश्चिदिति भारत +दिव्यो देवपथो ह्येष नात्र गच्छन्ति मानुषाः +यदर्थमागतश्चासि तत्सरोऽभ्यर्ण एव हि +वैशंपायन उवाच +एवमुक्तो महाबाहुर्भीमसेनः प्रतापवान् +प्रणिपत्य ततः प्रीत्या भ्रातरं हृष्टमानसः +उवाच श्लक्ष्णया वाचा हनूमन्तं कपीश्वरम् +मया धन्यतरो नास्ति यदार्यं दृष्टवानहम् +अनुग्रहो मे सुमहांस्तृप्तिश्च तव दर्शनात् +एवं तु कृतमिच्छामि त्वयार्याद्य प्रियं मम +यत्ते तदासीत्प्लवतः सागरं मकरालयम् +रूपमप्रतिमं वीर तदिच्छामि निरीक्षितुम् +एवं तुष्टो भविष्यामि श्रद्धास्यामि च ते वचः +एवमुक्तः स तेजस्वी प्रहस्य हरिरब्रवीत् +न तच्छक्यं त्वया द्रष्टुं रूपं नान्येन केनचित् +कालावस्था तदा ह्यन्या वर्तते सा न सांप्रतम् +अन्यः कृतयुगे कालस्त्रेतायां द्वापरेऽपरः +अयं प्रध्वंसनः कालो नाद्य तद्रूपमस्ति मे +भूमिर्नद्यो नगाः शैलाः सिद्धा देवा महर्षयः +कालं समनुवर्तन्ते यथा भावा युगे युगे +बलवर्ष्मप्रभावा हि प्रहीयन्त्युद्भवन्ति च +तदलं तव तद्रूपं द्रष्टुं कुरुकुलोद्वह +युगं समनुवर्तामि कालो हि दुरतिक्रमः +भीम उवाच +युगसंख्यां समाचक्ष्व आचारं च युगे युगे +धर्मकामार्थभावांश्च वर्ष्म वीर्यं भवाभवौ +हनूमानुवाच +कृतं नाम युगं तात यत्र धर्मः सनातनः +कृतमेव न कर्तव्यं तस्मिन्काले युगोत्तमे +न तत्र धर्माः सीदन्ति न क्षीयन्ते च वै प्रजाः +ततः कृतयुगं नाम कालेन गुणतां गतम् +देवदानवगन्धर्वयक्षराक्षसपन्नगाः +नासन्कृतयुगे तात तदा न क्रयविक्रयाः +न सामयजुऋग्वर्णाः क्रिया नासीच्च मानवी +अभिध्याय फलं तत्र धर्मः संन्यास एव च +न तस्मिन्युगसंसर्गे व्याधयो नेन्द्रियक्षयः +नासूया नापि रुदितं न दर्पो नापि पैशुनम् +न विग्रहः कुतस्तन्द्री न द्वेषो नापि वैकृतम् +न भयं न च संतापो न चेर्ष्या न च मत्सरः +ततः परमकं ब्रह्म या गतिर्योगिनां परा +आत्मा च सर्वभूतानां शुक्लो नारायणस्तदा +ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च कृतलक्षणाः +कृते युगे समभवन्स्वकर्मनिरताः प्रजाः +समाश्रमं समाचारं समज्ञानमतीबलम् +तदा हि समकर्माणो वर्णा धर्मानवाप्नुवन् +एकवेदसमायुक्ता एकमन्त्रविधिक्रियाः +पृथग्धर्मास्त्वेकवेदा धर्ममेकमनुव्रताः +चातुराश्रम्ययुक्तेन कर्मणा कालयोगिना +अकामफलसंयोगात्प्राप्नुवन्ति परां गतिम् +आत्मयोगसमायुक्तो धर्मोऽयं कृतलक्षणः +कृते युगे चतुष्पादश्चातुर्वर्ण्यस्य शाश्वतः +एतत्कृतयुगं नाम त्रैगुण्यपरिवर्जितम् +त्रेतामपि निबोध त्वं यस्मिन्सत्रं प्रवर्तते +पादेन ह्रसते धर्मो रक्ततां याति चाच्युतः +सत्यप्रवृत्ताश्च नराः क्रियाधर्मपरायणाः +ततो यज्ञाः प्रवर्तन्ते धर्माश्च विविधाः क्रियाः +त्रेतायां भावसंकल्पाः क्रियादानफलोदयाः +प्रचलन्ति न वै धर्मात्तपोदानपरायणाः +स्वधर्मस्थाः क्रियावन्तो जनास्त्रेतायुगेऽभवन् +द्वापरेऽपि युगे धर्मो द्विभागोनः प्रवर्तते +विष्णुर्वै पीततां याति चतुर्धा वेद एव च +ततोऽन्ये च चतुर्वेदास्त्रिवेदाश्च तथापरे +द्विवेदाश्चैकवेदाश्चाप्यनृचश्च तथापरे +एवं शास्त्रेषु भिन्नेषु बहुधा नीयते क्रिया +तपोदानप्रवृत्ता च राजसी भवति प्रजा +एकवेदस्य चाज्ञानाद्वेदास्ते बहवः कृताः +सत्यस्य चेह विभ्रंशात्सत्ये कश्चिदवस्थितः +सत्यात्प्रच्यवमानानां व्याधयो बहवोऽभवन् +कामाश्चोपद्रवाश्चैव तदा दैवतकारिताः +यैरर्द्यमानाः सुभृशं तपस्तप्यन्ति मानवाः +कामकामाः स्वर्गकामा यज्ञांस्तन्वन्ति चापरे +एवं द्वापरमासाद्य प्रजाः क्षीयन्त्यधर्मतः +पादेनैकेन कौन्तेय धर्मः कलियुगे स्थितः +तामसं युगमासाद्य कृष्णो भवति केशवः +वेदाचाराः प्रशाम्यन्ति धर्मयज्ञक्रियास्तथा +ईतयो व्याधयस्तन्द्री दोषाः क्रोधादयस्तथा +उपद्रवाश्च वर्तन्ते आधयो व्याधयस्तथा +युगेष्वावर्तमानेषु धर्मो व्यावर्तते पुनः +धर्मे व्यावर्तमाने तु लोको व्यावर्तते पुनः +लोके क्षीणे क्षयं यान्ति भावा लोकप्रवर्तकाः +युगक्षयकृता धर्माः प्रार्थनानि विकुर्वते +एतत्कलियुगं नाम अचिराद्यत्प्रवर्तते +युगानुवर्तनं त्वेतत्कुर्वन्ति चिरजीविनः +यच्च ते मत्परिज्ञाने कौतूहलमरिंदम +अनर्थकेषु को भावः पुरुषस्य विजानतः +एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि +युगसंख्यां महाबाहो स्वस्ति प्राप्नुहि गम्यताम् +भीम उवाच +पूर्वरूपमदृष्ट्वा ते न यास्यामि कथंचन +यदि तेऽहमनुग्राह्यो दर्शयात्मानमात्मना +वैशंपायन उवाच +एवमुक्तस्तु भीमेन स्मितं कृत्वा प्लवंगमः +तद्रूपं दर्शयामास यद्वै सागरलङ्घने +भ्रातुः प्रियमभीप्सन्वै चकार सुमहद्वपुः +देहस्तस्य ततोऽतीव वर्धत्यायामविस्तरैः +तद्रूपं कदलीषण्डं छादयन्नमितद्युतिः +गिरेश्चोच्छ्रयमागम्य तस्थौ तत्र स वानरः +समुच्छ्रितमहाकायो द्वितीय इव पर्वतः +ताम्रेक्षणस्तीक्ष्णदंष्ट्रो भृकुटीकृतलोचनः +दीर्घलाङ्गूलमाविध्य दिशो व्याप्य स्थितः कपिः +तद्रूपं महदालक्ष्य भ्रातुः कौरवनन्दनः +विसिस्मिये तदा भीमो जहृषे च पुनः पुनः +तमर्कमिव तेजोभिः सौवर्णमिव पर्वतम् +प्रदीप्तमिव चाकाशं दृष्ट्वा भीमो न्यमीलयत् +आबभाषे च हनुमान्भीमसेनं स्मयन्निव +एतावदिह शक्तस्त्वं रूपं द्रष्टुं ममानघ +वर्धेऽहं चाप्यतो भूयो यावन्मे मनसेप्सितम् +भीम शत्रुषु चात्यर्थं वर्धते मूर्तिरोजसा +तदद्भुतं महारौद्रं विन्ध्यमन्दरसंनिभम् +दृष्ट्वा हनूमतो वर्ष्म संभ्रान्तः पवनात्मजः +प्रत्युवाच ततो भीमः संप्रहृष्टतनूरुहः +कृताञ्जलिरदीनात्मा हनूमन्तमवस्थितम् +दृष्टं प्रमाणं विपुलं शरीरस्यास्य ते विभो +संहरस्व महावीर्य स्वयमात्मानमात्मना +न हि शक्नोमि त्वां द्रष्टुं दिवाकरमिवोदितम् +अप्रमेयमनाधृष्यं मैनाकमिव पर्वतम् +विस्मयश्चैव मे वीर सुमहान्मनसोऽद्य वै +यद्रामस्त्वयि पार्श्वस्थे स्वयं रावणमभ्यगात् +त्वमेव शक्तस्तां लङ्कां सयोधां सहवाहनाम् +स्वबाहुबलमाश्रित्य विनाशयितुमोजसा +न हि ते किंचिदप्राप्यं मारुतात्मज विद्यते +तव नैकस्य पर्याप��तो रावणः सगणो युधि +एवमुक्तस्तु भीमेन हनूमान्प्लवगर्षभः +प्रत्युवाच ततो वाक्यं स्निग्धगम्भीरया गिरा +एवमेतन्महाबाहो यथा वदसि भारत +भीमसेन न पर्याप्तो ममासौ राक्षसाधमः +मया तु तस्मिन्निहते रावणे लोककण्टके +कीर्तिर्नश्येद्राघवस्य तत एतदुपेक्षितम् +तेन वीरेण हत्वा तु सगणं राक्षसाधिपम् +आनीता स्वपुरं सीता लोके कीर्तिश्च स्थापिता +तद्गच्छ विपुलप्रज्ञ भ्रातुः प्रियहिते रतः +अरिष्टं क्षेममध्वानं वायुना परिरक्षितः +एष पन्थाः कुरुश्रेष्ठ सौगन्धिकवनाय ते +द्रक्ष्यसे धनदोद्यानं रक्षितं यक्षराक्षसैः +न च ते तरसा कार्यः कुसुमावचयः स्वयम् +दैवतानि हि मान्यानि पुरुषेण विशेषतः +बलिहोमनमस्कारैर्मन्त्रैश्च भरतर्षभ +दैवतानि प्रसादं हि भक्त्या कुर्वन्ति भारत +मा तात साहसं कार्षीः स्वधर्ममनुपालय +स्वधर्मस्थः परं धर्मं बुध्यस्वागमयस्व च +न हि धर्ममविज्ञाय वृद्धाननुपसेव्य च +धर्मो वै वेदितुं शक्यो बृहस्पतिसमैरपि +अधर्मो यत्र धर्माख्यो धर्मश्चाधर्मसंज्ञितः +विज्ञातव्यो विभागेन यत्र मुह्यन्त्यबुद्धयः +आचारसंभवो धर्मो धर्माद्वेदाः समुत्थिताः +वेदैर्यज्ञाः समुत्पन्ना यज्ञैर्देवाः प्रतिष्ठिताः +वेदाचारविधानोक्तैर्यज्ञैर्धार्यन्ति देवताः +बृहस्पत्युशनोक्तैश्च नयैर्धार्यन्ति मानवाः +पण्याकरवणिज्याभिः कृष्याथो योनिपोषणैः +वार्तया धार्यते सर्वं धर्मैरेतैर्द्विजातिभिः +त्रयी वार्ता दण्डनीतिस्तिस्रो विद्या विजानताम् +ताभिः सम्यक्प्रयुक्ताभिर्लोकयात्रा विधीयते +सा चेद्धर्मक्रिया न स्यात्त्रयीधर्ममृते भुवि +दण्डनीतिमृते चापि निर्मर्यादमिदं भवेत् +वार्ताधर्मे ह्यवर्तन्त्यो विनश्येयुरिमाः प्रजाः +सुप्रवृत्तैस्त्रिभिर्ह्येतैर्धर्मैः सूयन्ति वै प्रजाः +द्विजानाममृतं धर्मो ह्येकश्चैवैकवर्णिकः +यज्ञाध्ययनदानानि त्रयः साधारणाः स्मृताः +याजनाध्यापने चोभे ब्राह्मणानां प्रतिग्रहः +पालनं क्षत्रियाणां वै वैश्यधर्मश्च पोषणम् +शुश्रूषा तु द्विजातीनां शूद्राणां धर्म उच्यते +भैक्षहोमव्रतैर्हीनास्तथैव गुरुवासिनाम् +क्षत्रधर्मोऽत्र कौन्तेय तव धर्माभिरक्षणम् +स्वधर्मं प्रतिपद्यस्व विनीतो नियतेन्द्रियः +वृद्धैः संमन्त्र्य सद्भिश्च बुद्धिमद्भिः श्रुतान्वितैः +सुस्थितः शास��ति दण्डेन व्यसनी परिभूयते +निग्रहानुग्रहैः सम्यग्यदा राजा प्रवर्तते +तदा भवति लोकस्य मर्यादा सुव्यवस्थिता +तस्माद्देशे च दुर्गे च शत्रुमित्रबलेषु च +नित्यं चारेण बोद्धव्यं स्थानं वृद्धिः क्षयस्तथा +राज्ञामुपायाश्चत्वारो बुद्धिमन्त्रः पराक्रमः +निग्रहानुग्रहौ चैव दाक्ष्यं तत्कार्यसाधनम् +साम्ना दानेन भेदेन दण्डेनोपेक्षणेन च +साधनीयानि कार्याणि समासव्यासयोगतः +मन्त्रमूला नयाः सर्वे चाराश्च भरतर्षभ +सुमन्त्रितैर्नयैः सिद्धिस्तद्विदैः सह मन्त्रयेत् +स्त्रिया मूढेन लुब्धेन बालेन लघुना तथा +न मन्त्रयेत गुह्यानि येषु चोन्मादलक्षणम् +मन्त्रयेत्सह विद्वद्भिः शक्तैः कर्माणि कारयेत् +स्निग्धैश्च नीतिविन्यासान्मूर्खान्सर्वत्र वर्जयेत् +धार्मिकान्धर्मकार्येषु अर्थकार्येषु पण्डितान् +स्त्रीषु क्लीबान्नियुञ्जीत क्रूरान्क्रूरेषु कर्मसु +स्वेभ्यश्चैव परेभ्यश्च कार्याकार्यसमुद्भवा +बुद्धिः कर्मसु विज्ञेया रिपूणां च बलाबलम् +बुद्ध्या सुप्रतिपन्नेषु कुर्यात्साधुपरिग्रहम् +निग्रहं चाप्यशिष्टेषु निर्मर्यादेषु कारयेत् +निग्रहे प्रग्रहे सम्यग्यदा राजा प्रवर्तते +तदा भवति लोकस्य मर्यादा सुव्यवस्थिता +एष ते विहितः पार्थ घोरो धर्मो दुरन्वयः +तं स्वधर्मविभागेन विनयस्थोऽनुपालय +तपोधर्मदमेज्याभिर्विप्रा यान्ति यथा दिवम् +दानातिथ्यक्रियाधर्मैर्यान्ति वैश्याश्च सद्गतिम् +क्षत्रं याति तथा स्वर्गं भुवि निग्रहपालनैः +सम्यक्प्रणीय दण्डं हि कामद्वेषविवर्जिताः +अलुब्धा विगतक्रोधाः सतां यान्ति सलोकताम् +वैशंपायन उवाच +ततः संहृत्य विपुलं तद्वपुः कामवर्धितम् +भीमसेनं पुनर्दोर्भ्यां पर्यष्वजत वानरः +परिष्वक्तस्य तस्याशु भ्रात्रा भीमस्य भारत +श्रमो नाशमुपागच्छत्सर्वं चासीत्प्रदक्षिणम् +ततः पुनरथोवाच पर्यश्रुनयनो हरिः +भीममाभाष्य सौहार्दाद्बाष्पगद्गदया गिरा +गच्छ वीर स्वमावासं स्मर्तव्योऽस्मि कथान्तरे +इहस्थश्च कुरुश्रेष्ठ न निवेद्योऽस्मि कस्यचित् +धनदस्यालयाच्चापि विसृष्टानां महाबल +देशकाल इहायातुं देवगन्धर्वयोषिताम् +ममापि सफलं चक्षुः स्मारितश्चास्मि राघवम् +मानुषं गात्रसंस्पर्शं गत्वा भीम त्वया सह +तदस्मद्दर्शनं वीर कौन्तेयामोघमस्तु ते +भ्रातृत्वं त्वं पुरस्कृत्य वरं वरय भारत +यदि तावन्मया क्षुद्रा गत्वा वारणसाह्वयम् +धार्तराष्ट्रा निहन्तव्या यावदेतत्करोम्यहम् +शिलया नगरं वा तन्मर्दितव्यं मया यदि +यावदद्य करोम्येतत्कामं तव महाबल +भीमसेनस्तु तद्वाक्यं श्रुत्वा तस्य महात्मनः +प्रत्युवाच हनूमन्तं प्रहृष्टेनान्तरात्मना +कृतमेव त्वया सर्वं मम वानरपुंगव +स्वस्ति तेऽस्तु महाबाहो क्षामये त्वां प्रसीद मे +सनाथाः पाण्डवाः सर्वे त्वया नाथेन वीर्यवन् +तवैव तेजसा सर्वान्विजेष्यामो वयं रिपून् +एवमुक्तस्तु हनुमान्भीमसेनमभाषत +भ्रातृत्वात्सौहृदाच्चापि करिष्यामि तव प्रियम् +चमूं विगाह्य शत्रूणां शरशक्तिसमाकुलाम् +यदा सिंहरवं वीर करिष्यसि महाबल +तदाहं बृंहयिष्यामि स्वरवेण रवं तव +विजयस्य ध्वजस्थश्च नादान्मोक्ष्यामि दारुणान् +शत्रूणां ते प्राणहरानित्युक्त्वान्तरधीयत +गते तस्मिन्हरिवरे भीमोऽपि बलिनां वरः +तेन मार्गेण विपुलं व्यचरद्गन्धमादनम् +अनुस्मरन्वपुस्तस्य श्रियं चाप्रतिमां भुवि +माहात्म्यमनुभावं च स्मरन्दाशरथेर्ययौ +स तानि रमणीयानि वनान्युपवनानि च +विलोडयामास तदा सौगन्धिकवनेप्सया +फुल्लपद्मविचित्राणि पुष्पितानि वनानि च +मत्तवारणयूथानि पङ्कक्लिन्नानि भारत +वर्षतामिव मेघानां वृन्दानि ददृशे तदा +हरिणैश्चञ्चलापाङ्गैर्हरिणीसहितैर्वने +सशष्पकवलैः श्रीमान्पथि दृष्टो द्रुतं ययौ +महिषैश्च वराहैश्च शार्दूलैश्च निषेवितम् +व्यपेतभीर्गिरिं शौर्याद्भीमसेनो व्यगाहत +कुसुमानतशाखैश्च ताम्रपल्लवकोमलैः +याच्यमान इवारण्ये द्रुमैर्मारुतकम्पितैः +कृतपद्माञ्जलिपुटा मत्तषट्पदसेविताः +प्रियतीर्थवना मार्गे पद्मिनीः समतिक्रमन् +सज्जमानमनोदृष्टिः फुल्लेषु गिरिसानुषु +द्रौपदीवाक्यपाथेयो भीमः शीघ्रतरं ययौ +परिवृत्तेऽहनि ततः प्रकीर्णहरिणे वने +काञ्चनैर्विमलैः पद्मैर्ददर्श विपुलां नदीम् +मत्तकारण्डवयुतां चक्रवाकोपशोभिताम् +रचितामिव तस्याद्रेर्मालां विमलपङ्कजाम् +तस्यां नद्यां महासत्त्वः सौगन्धिकवनं महत् +अपश्यत्प्रीतिजननं बालार्कसदृशद्युति +तद्दृष्ट्वा लब्धकामः स मनसा पाण्डुनन्दनः +वनवासपरिक्लिष्टां जगाम मनसा प्रियाम् +वैशंपायन उवाच +स गत्वा नलिनीं रम्यां राक्षसैरभिरक्षिताम् +कैलासशिखरे रम्ये ददर्श शुभकानने +कुबेर���वनाभ्याशे जातां पर्वतनिर्झरे +सुरम्यां विपुलच्छायां नानाद्रुमलतावृताम् +हरिताम्बुजसंछन्नां दिव्यां कनकपुष्कराम् +पवित्रभूतां लोकस्य शुभामद्भुतदर्शनाम् +तत्रामृतरसं शीतं लघु कुन्तीसुतः शुभम् +ददर्श विमलं तोयं शिवं बहु च पाण्डवः +तां तु पुष्करिणीं रम्यां पद्मसौगन्धिकायुताम् +जातरूपमयैः पद्मैश्छन्नां परमगन्धिभिः +वैडूर्यवरनालैश्च बहुचित्रैर्मनोहरैः +हंसकारण्डवोद्धूतैः सृजद्भिरमलं रजः +आक्रीडं यक्षराजस्य कुबेरस्य महात्मनः +गन्धर्वैरप्सरोभिश्च देवैश्च परमार्चिताम् +सेवितामृषिभिर्दिव्यां यक्षैः किंपुरुषैस्तथा +राक्षसैः किंनरैश्चैव गुप्तां वैश्रवणेन च +तां च दृष्ट्वैव कौन्तेयो भीमसेनो महाबलः +बभूव परमप्रीतो दिव्यं संप्रेक्ष्य तत्सरः +तच्च क्रोधवशा नाम राक्षसा राजशासनात् +रक्षन्ति शतसाहस्राश्चित्रायुधपरिच्छदाः +ते तु दृष्ट्वैव कौन्तेयमजिनैः परिवारितम् +रुक्माङ्गदधरं वीरं भीमं भीमपराक्रमम् +सायुधं बद्धनिस्त्रिंशमशङ्कितमरिंदमम् +पुष्करेप्सुमुपायान्तमन्योन्यमभिचुक्रुशुः +अयं पुरुषशार्दूलः सायुधोऽजिनसंवृतः +यच्चिकीर्षुरिह प्राप्तस्तत्संप्रष्टुमिहार्हथ +ततः सर्वे महाबाहुं समासाद्य वृकोदरम् +तेजोयुक्तमपृच्छन्त कस्त्वमाख्यातुमर्हसि +मुनिवेषधरश्चासि चीरवासाश्च लक्ष्यसे +यदर्थमसि संप्राप्तस्तदाचक्ष्व महाद्युते +भीम उवाच +पाण्डवो भीमसेनोऽहं धर्मपुत्रादनन्तरः +विशालां बदरीं प्राप्तो भ्रातृभिः सह राक्षसाः +अपश्यत्तत्र पाञ्चाली सौगन्धिकमनुत्तमम् +अनिलोढमितो नूनं सा बहूनि परीप्सति +तस्या मामनवद्याङ्ग्या धर्मपत्न्याः प्रिये स्थितम् +पुष्पाहारमिह प्राप्तं निबोधत निशाचराः +राक्षसा ऊचुः +आक्रीडोऽयं कुबेरस्य दयितः पुरुषर्षभ +नेह शक्यं मनुष्येण विहर्तुं मर्त्यधर्मिणा +देवर्षयस्तथा यक्षा देवाश्चात्र वृकोदर +आमन्त्र्य यक्षप्रवरं पिबन्ति विहरन्ति च +गन्धर्वाप्सरसश्चैव विहरन्त्यत्र पाण्डव +अन्यायेनेह यः कश्चिदवमन्य धनेश्वरम् +विहर्तुमिच्छेद्दुर्वृत्तः स विनश्येदसंशयम् +तमनादृत्य पद्मानि जिहीर्षसि बलादितः +धर्मराजस्य चात्मानं ब्रवीषि भ्रातरं कथम् +भीम उवाच +राक्षसास्तं न पश्यामि धनेश्वरमिहान्तिके +दृष्ट्वापि च महाराजं नाहं याचितुमुत्सहे +न हि याचन्ति राजान एष धर्मः सनातनः +न चाहं हातुमिच्छामि क्षात्रधर्मं कथंचन +इयं च नलिनी रम्या जाता पर्वतनिर्झरे +नेयं भवनमासाद्य कुबेरस्य महात्मनः +तुल्या हि सर्वभूतानामियं वैश्रवणस्य च +एवंगतेषु द्रव्येषु कः कं याचितुमर्हति +वैशंपायन उवाच +इत्युक्त्वा राक्षसान्सर्वान्भीमसेनो व्यगाहत +ततः स राक्षसैर्वाचा प्रतिषिद्धः प्रतापवान् +मा मैवमिति सक्रोधैर्भर्त्सयद्भिः समन्ततः +कदर्थीकृत्य तु स तान्राक्षसान्भीमविक्रमः +व्यगाहत महातेजास्ते तं सर्वे न्यवारयन् +गृह्णीत बध्नीत निकृन्ततेमं; पचाम खादाम च भीमसेनम् +क्रुद्धा ब्रुवन्तोऽनुययुर्द्रुतं ते; शस्त्राणि चोद्यम्य विवृत्तनेत्राः +ततः स गुर्वीं यमदण्डकल्पां; महागदां काञ्चनपट्टनद्धाम् +प्रगृह्य तानभ्यपतत्तरस्वी; ततोऽब्रवीत्तिष्ठत तिष्ठतेति +ते तं तदा तोमरपट्टिशाद्यै;र्व्याविध्य शस्त्रैः सहसाभिपेतुः +जिघांसवः क्रोधवशाः सुभीमा; भीमं समन्तात्परिवव्रुरुग्राः +वातेन कुन्त्यां बलवान्स जातः; शूरस्तरस्वी द्विषतां निहन्ता +सत्ये च धर्मे च रतः सदैव; पराक्रमे शत्रुभिरप्रधृष्यः +तेषां स मार्गान्विविधान्महात्मा; निहत्य शस्त्राणि च शात्रवाणाम् +यथाप्रवीरान्निजघान वीरः; परःशतान्पुष्करिणीसमीपे +ते तस्य वीर्यं च बलं च दृष्ट्वा; विद्याबलं बाहुबलं तथैव +अशक्नुवन्तः सहिताः समन्ता;द्धतप्रवीराः सहसा निवृत्ताः +विदीर्यमाणास्तत एव तूर्ण;माकाशमास्थाय विमूढसंज्ञाः +कैलासशृङ्गाण्यभिदुद्रुवुस्ते; भीमार्दिताः क्रोधवशाः प्रभग्नाः +स शक्रवद्दानवदैत्यसंघा;न्विक्रम्य जित्वा च रणेऽरिसंघान् +विगाह्य तां पुष्करिणीं जितारिः; कामाय जग्राह ततोऽम्बुजानि +ततः स पीत्वामृतकल्पमम्भो; भूयो बभूवोत्तमवीर्यतेजाः +उत्पाट्य जग्राह ततोऽम्बुजानि; सौगन्धिकान्युत्तमगन्धवन्ति +ततस्तु ते क्रोधवशाः समेत्य; धनेश्वरं भीमबलप्रणुन्नाः +भीमस्य वीर्यं च बलं च संख्ये; यथावदाचख्युरतीव दीनाः +तेषां वचस्तत्तु निशम्य देवः; प्रहस्य रक्षांशि ततोऽभ्युवाच +गृह्णातु भीमो जलजानि कामं; कृष्णानिमित्तं विदितं ममैतत् +ततोऽभ्यनुज्ञाय धनेश्वरं ते; जग्मुः कुरूणां प्रवरं विरोषाः +भीमं च तस्यां ददृशुर्नलिन्यां; यथोपजोषं विहरन्तमेकम् +वैशंपायन उवाच +ततस्तानि महार्हाणि दिव्यानि भरतर्षभ +ब��ूनि बहुरूपाणि विरजांसि समाददे +ततो वायुर्महाञ्शीघ्रो नीचैः शर्करकर्षणः +प्रादुरासीत्खरस्पर्शः संग्राममभिचोदयन् +पपात महती चोल्का सनिर्घाता महाप्रभा +निष्प्रभश्चाभवत्सूर्यश्छन्नरश्मिस्तमोवृतः +निर्घातश्चाभवद्भीमो भीमे विक्रममास्थिते +चचाल पृथिवी चापि पांसुवर्षं पपात च +सलोहिता दिशश्चासन्खरवाचो मृगद्विजाः +तमोवृतमभूत्सर्वं न प्रज्ञायत किंचन +तदद्भुतमभिप्रेक्ष्य धर्मपुत्रो युधिष्ठिरः +उवाच वदतां श्रेष्ठः कोऽस्मानभिभविष्यति +सज्जीभवत भद्रं वः पाण्डवा युद्धदुर्मदाः +यथारूपाणि पश्यामि स्वभ्यग्रो नः पराक्रमः +एवमुक्त्वा ततो राजा वीक्षां चक्रे समन्ततः +अपश्यमानो भीमं च धर्मराजो युधिष्ठिरः +तत्र कृष्णां यमौ चैव समीपस्थानरिंदमः +पप्रच्छ भ्रातरं भीमं भीमकर्माणमाहवे +कच्चिन्न भीमः पाञ्चालि किंचित्कृत्यं चिकीर्षति +कृतवानपि वा वीरः साहसं साहसप्रियः +इमे ह्यकस्मादुत्पाता महासमरदर्शिनः +दर्शयन्तो भयं तीव्रं प्रादुर्भूताः समन्ततः +तं तथा वादिनं कृष्णा प्रत्युवाच मनस्विनी +प्रिया प्रियं चिकीर्षन्ती महिषी चारुहासिनी +यत्तत्सौगन्धिकं राजन्नाहृतं मातरिश्वना +तन्मया भीमसेनस्य प्रीतयाद्योपपादितम् +अपि चोक्तो मया वीरो यदि पश्येद्बहून्यपि +तानि सर्वाण्युपादाय शीघ्रमागम्यतामिति +स तु नूनं महाबाहुः प्रियार्थं मम पाण्डवः +प्रागुदीचीं दिशं राजंस्तान्याहर्तुमितो गतः +उक्तस्त्वेवं तया राजा यमाविदमथाब्रवीत् +गच्छाम सहितास्तूर्णं येन यातो वृकोदरः +वहन्तु राक्षसा विप्रान्यथाश्रान्तान्यथाकृशान् +त्वमप्यमरसंकाश वह कृष्णां घटोत्कच +व्यक्तं दूरमितो भीमः प्रविष्ट इति मे मतिः +चिरं च तस्य कालोऽयं स च वायुसमो जवे +तरस्वी वैनतेयस्य सदृशो भुवि लङ्घने +उत्पतेदपि चाकाशं निपतेच्च यथेच्छकम् +तमन्वियाम भवतां प्रभावाद्रजनीचराः +पुरा स नापराध्नोति सिद्धानां ब्रह्मवादिनाम् +तथेत्युक्त्वा तु ते सर्वे हैडिम्बप्रमुखास्तदा +उद्देशज्ञाः कुबेरस्य नलिन्या भरतर्षभ +आदाय पाण्डवांश्चैव तांश्च विप्राननेकशः +लोमशेनैव सहिताः प्रययुः प्रीतमानसाः +ते गत्वा सहिताः सर्वे ददृशुस्तत्र कानने +प्रफुल्लपङ्कजवतीं नलिनीं सुमनोहराम् +तं च भीमं महात्मानं तस्यास्तीरे व्यवस्थितम् +ददृशुर्निहतांश्चैव यक्���ान्सुविपुलेक्षणान् +उद्यम्य च गदां दोर्भ्यां नदीतीरे व्यवस्थितम् +प्रजासंक्षेपसमये दण्डहस्तमिवान्तकम् +तं दृष्ट्वा धर्मराजस्तु परिष्वज्य पुनः पुनः +उवाच श्लक्ष्णया वाचा कौन्तेय किमिदं कृतम् +साहसं बत भद्रं ते देवानामपि चाप्रियम् +पुनरेवं न कर्तव्यं मम चेदिच्छसि प्रियम् +अनुशास्य च कौन्तेयं पद्मानि प्रतिगृह्य च +तस्यामेव नलिन्यां ते विजह्रुरमरोपमाः +एतस्मिन्नेव काले तु प्रगृहीतशिलायुधाः +प्रादुरासन्महाकायास्तस्योद्यानस्य रक्षिणः +ते दृष्ट्वा धर्मराजानं देवर्षिं चापि लोमशम् +नकुलं सहदेवं च तथान्यान्ब्राह्मणर्षभान् +विनयेनानताः सर्वे प्रणिपेतुश्च भारत +सान्त्विता धर्मराजेन प्रसेदुः क्षणदाचराः +विदिताश्च कुबेरस्य ततस्ते नरपुंगवाः +ऊषुर्नातिचिरं कालं रममाणाः कुरूद्वहाः +वैशंपायन उवाच +ततस्तान्परिविश्वस्तान्वसतस्तत्र पाण्डवान् +गतेषु तेषु रक्षःसु भीमसेनात्मजेऽपि च +रहितान्भीमसेनेन कदाचित्तान्यदृच्छया +जहार धर्मराजानं यमौ कृष्णां च राक्षसः +ब्राह्मणो मन्त्रकुशलः सर्वास्त्रेष्वस्त्रवित्तमः +इति ब्रुवन्पाण्डवेयान्पर्युपास्ते स्म नित्यदा +परीक्षमाणः पार्थानां कलापानि धनूंषि च +अन्तरं समभिप्रेप्सुर्नाम्ना ख्यातो जटासुरः +स भीमसेने निष्क्रान्ते मृगयार्थमरिंदमे +अन्यद्रूपं समास्थाय विकृतं भैरवं महत् +गृहीत्वा सर्वशस्त्राणि द्रौपदीं परिगृह्य च +प्रातिष्ठत स दुष्टात्मा त्रीन्गृहीत्वा च पाण्डवान् +सहदेवस्तु यत्नेन ततोऽपक्रम्य पाण्डवः +आक्रन्दद्भीमसेनं वै येन यातो महाबलः +तमब्रवीद्धर्मराजो ह्रियमाणो युधिष्ठिरः +धर्मस्ते हीयते मूढ न चैनं समवेक्षसे +येऽन्ये केचिन्मनुष्येषु तिर्यग्योनिगता अपि +गन्धर्वयक्षरक्षांसि वयांसि पशवस्तथा +मनुष्यानुपजीवन्ति ततस्त्वमुपजीवसि +समृद्ध्या ह्यस्य लोकस्य लोको युष्माकमृध्यते +इमं च लोकं शोचन्तमनुशोचन्ति देवताः +पूज्यमानाश्च वर्धन्ते हव्यकव्यैर्यथाविधि +वयं राष्ट्रस्य गोप्तारो रक्षितारश्च राक्षस +राष्ट्रस्यारक्ष्यमाणस्य कुतो भूतिः कुतः सुखम् +न च राजावमन्तव्यो रक्षसा जात्वनागसि +अणुरप्यपचारश्च नास्त्यस्माकं नराशन +द्रोग्धव्यं न च मित्रेषु न विश्वस्तेषु कर्हिचित् +येषां चान्नानि भुञ्जीत यत्र च स्यात्प्रतिश्रयः +स त्वं प्रतिश्रयेऽस्माकं पूज्यमानः सुखोषितः +भुक्त्वा चान्नानि दुष्प्रज्ञ कथमस्माञ्जिहीर्षसि +एवमेव वृथाचारो वृथावृद्धो वृथामतिः +वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसि +अथ चेद्दुष्टबुद्धिस्त्वं सर्वैर्धर्मैर्विवर्जितः +प्रदाय शस्त्राण्यस्माकं युद्धेन द्रौपदीं हर +अथ चेत्त्वमविज्ञाय इदं कर्म करिष्यसि +अधर्मं चाप्यकीर्तिं च लोके प्राप्स्यसि केवलम् +एतामद्य परामृश्य स्त्रियं राक्षस मानुषीम् +विषमेतत्समालोड्य कुम्भेन प्राशितं त्वया +ततो युधिष्ठिरस्तस्य भारिकः समपद्यत +स तु भाराभिभूतात्मा न तथा शीघ्रगोऽभवत् +अथाब्रवीद्द्रौपदीं च नकुलं च युधिष्ठिरः +मा भैष्ट राक्षसान्मूढाद्गतिरस्य मया हृता +नातिदूरे महाबाहुर्भविता पवनात्मजः +अस्मिन्मुहूर्ते संप्राप्ते न भविष्यति राक्षसः +सहदेवस्तु तं दृष्ट्वा राक्षसं मूढचेतसम् +उवाच वचनं राजन्कुन्तीपुत्रं युधिष्ठिरम् +राजन्किं नाम तत्कृत्यं क्षत्रियस्यास्त्यतोऽधिकम् +यद्युद्धेऽभिमुखः प्राणांस्त्यजेच्छत्रूञ्जयेत वा +एष चास्मान्वयं चैनं युध्यमानाः परंतप +सूदयेम महाबाहो देशकालो ह्ययं नृप +क्षत्रधर्मस्य संप्राप्तः कालः सत्यपराक्रम +जयन्तः पात्यमाना वा प्राप्तुमर्हाम सद्गतिम् +राक्षसे जीवमानेऽद्य रविरस्तमियाद्यदि +नाहं ब्रूयां पुनर्जातु क्षत्रियोऽस्मीति भारत +भो भो राक्षस तिष्ठस्व सहदेवोऽस्मि पाण्डवः +हत्वा वा मां नयस्वैनान्हतो वाद्येह स्वप्स्यसि +तथैव तस्मिन्ब्रुवति भीमसेनो यदृच्छया +प्रादृश्यत महाबाहुः सवज्र इव वासवः +सोऽपश्यद्भ्रातरौ तत्र द्रौपदीं च यशस्विनीम् +क्षितिस्थं सहदेवं च क्षिपन्तं राक्षसं तदा +मार्गाच्च राक्षसं मूढं कालोपहतचेतसम् +भ्रमन्तं तत्र तत्रैव दैवेन विनिवारितम् +भ्रातॄंस्तान्ह्रियतो दृष्ट्वा द्रौपदीं च महाबलः +क्रोधमाहारयद्भीमो राक्षसं चेदमब्रवीत् +विज्ञातोऽसि मया पूर्वं चेष्टञ्शस्त्रपरीक्षणे +आस्था तु त्वयि मे नास्ति यतोऽसि न हतस्तदा +ब्रह्मरूपप्रतिच्छन्नो न नो वदसि चाप्रियम् +प्रियेषु चरमाणं त्वां न चैवाप्रियकारिणम् +अतिथिं ब्रह्मरूपं च कथं हन्यामनागसम् +राक्षसं मन्यमानोऽपि यो हन्यान्नरकं व्रजेत् +अपक्वस्य च कालेन वधस्तव न विद्यते +नूनमद्यासि संपक्वो यथा ते मतिरीदृशी +दत्ता कृष्णापहरण�� कालेनाद्भुतकर्मणा +बडिशोऽयं त्वया ग्रस्तः कालसूत्रेण लम्बितः +मत्स्योऽम्भसीव स्यूतास्यः कथं मेऽद्य गमिष्यसि +यं चासि प्रस्थितो देशं मनः पूर्वं गतं च ते +न तं गन्तासि गन्तासि मार्गं बकहिडिम्बयोः +एवमुक्तस्तु भीमेन राक्षसः कालचोदितः +भीत उत्सृज्य तान्सर्वान्युद्धाय समुपस्थितः +अब्रवीच्च पुनर्भीमं रोषात्प्रस्फुरिताधरः +न मे मूढा दिशः पाप त्वदर्थं मे विलम्बनम् +श्रुता मे राक्षसा ये ये त्वया विनिहता रणे +तेषामद्य करिष्यामि तवास्रेणोदकक्रियाम् +एवमुक्तस्ततो भीमः सृक्किणी परिसंलिहन् +स्मयमान इव क्रोधात्साक्षात्कालान्तकोपमः +बाहुसंरम्भमेवेच्छन्नभिदुद्राव राक्षसम् +राक्षसोऽपि तदा भीमं युद्धार्थिनमवस्थितम् +अभिदुद्राव संरब्धो बलो वज्रधरं यथा +वर्तमाने तदा ताभ्यां बाहुयुद्धे सुदारुणे +माद्रीपुत्रावभिक्रुद्धावुभावप्यभ्यधावताम् +न्यवारयत्तौ प्रहसन्कुन्तीपुत्रो वृकोदरः +शक्तोऽहं राक्षसस्येति प्रेक्षध्वमिति चाब्रवीत् +आत्मना भ्रातृभिश्चाहं धर्मेण सुकृतेन च +इष्टेन च शपे राजन्सूदयिष्यामि राक्षसम् +इत्येवमुक्त्वा तौ वीरौ स्पर्धमानौ परस्परम् +बाहुभिः समसज्जेतामुभौ रक्षोवृकोदरौ +तयोरासीत्संप्रहारः क्रुद्धयोर्भीमरक्षसोः +अमृष्यमाणयोः संख्ये देवदानवयोरिव +आरुज्यारुज्य तौ वृक्षानन्योन्यमभिजघ्नतुः +जीमूताविव घर्मान्ते विनदन्तौ महाबलौ +बभञ्जतुर्महावृक्षानूरुभिर्बलिनां वरौ +अन्योन्येनाभिसंरब्धौ परस्परजयैषिणौ +तद्वृक्षयुद्धमभवन्महीरुहविनाशनम् +वालिसुग्रीवयोर्भ्रात्रोः पुरेव कपिसिंहयोः +आविध्याविध्य तौ वृक्षान्मुहूर्तमितरेतरम् +ताडयामासतुरुभौ विनदन्तौ मुहुर्मुहुः +तस्मिन्देशे यदा वृक्षाः सर्व एव निपातिताः +पुञ्जीकृताश्च शतशः परस्परवधेप्सया +तदा शिलाः समादाय मुहूर्तमिव भारत +महाभ्रैरिव शैलेन्द्रौ युयुधाते महाबलौ +उग्राभिरुग्ररूपाभिर्बृहतीभिः परस्परम् +वज्रैरिव महावेगैराजघ्नतुरमर्षणौ +अभिहत्य च भूयस्तावन्योन्यं बलदर्पितौ +भुजाभ्यां परिगृह्याथ चकर्षाते गजाविव +मुष्टिभिश्च महाघोरैरन्योन्यमभिपेततुः +तयोश्चटचटाशब्दो बभूव सुमहात्मनोः +ततः संहृत्य मुष्टिं तु पञ्चशीर्षमिवोरगम् +वेगेनाभ्यहनद्भीमो राक्षसस्य शिरोधराम् +ततः श्रान्तं तु तद्रक्षो भीमसेनभुजाहतम् +सुपरिश्रान्तमालक्ष्य भीमसेनोऽभ्यवर्तत +तत एनं महाबाहुर्बाहुभ्याममरोपमः +समुत्क्षिप्य बलाद्भीमो निष्पिपेष महीतले +तस्य गात्राणि सर्वाणि चूर्णयामास पाण्डवः +अरत्निना चाभिहत्य शिरः कायादपाहरत् +संदष्टोष्ठं विवृत्ताक्षं फलं वृन्तादिव च्युतम् +जटासुरस्य तु शिरो भीमसेनबलाद्धृतम् +पपात रुधिरादिग्धं संदष्टदशनच्छदम् +तं निहत्य महेष्वासो युधिष्ठिरमुपागमत् +स्तूयमानो द्विजाग्र्यैस्तैर्मरुद्भिरिव वासवः +वैशंपायन उवाच +निहते राक्षसे तस्मिन्पुनर्नारायणाश्रमम् +अभ्येत्य राजा कौन्तेयो निवासमकरोत्प्रभुः +स समानीय तान्सर्वान्भ्रातॄनित्यब्रवीद्वचः +द्रौपद्या सहितान्काले संस्मरन्भ्रातरं जयम् +समाश्चतस्रोऽभिगताः शिवेन चरतां वने +कृतोद्देशश्च बीभत्सुः पञ्चमीमभितः समाम् +प्राप्य पर्वतराजानं श्वेतं शिखरिणां वरम् +तत्रापि च कृतोद्देशः समागमदिदृक्षुभिः +कृतश्च समयस्तेन पार्थेनामिततेजसा +पञ्च वर्षाणि वत्स्यामि विद्यार्थीति पुरा मयि +तत्र गाण्डीवधन्वानमवाप्तास्त्रमरिंदमम् +देवलोकादिमं लोकं द्रक्ष्यामः पुनरागतम् +इत्युक्त्वा ब्राह्मणान्सर्वानामन्त्रयत पाण्डवः +कारणं चैव तत्तेषामाचचक्षे तपस्विनाम् +तमुग्रतपसः प्रीताः कृत्वा पार्थं प्रदक्षिणम् +ब्राह्मणास्तेऽन्वमोदन्त शिवेन कुशलेन च +सुखोदर्कमिमं क्लेशमचिराद्भरतर्षभ +क्षत्रधर्मेण धर्मज्ञ तीर्त्वा गां पालयिष्यसि +तत्तु राजा वचस्तेषां प्रतिगृह्य तपस्विनाम् +प्रतस्थे सह विप्रैस्तैर्भ्रातृभिश्च परंतपः +द्रौपद्या सहितः श्रीमान्हैडिम्बेयादिभिस्तथा +राक्षसैरनुयातश्च लोमशेनाभिरक्षितः +क्वचिज्जगाम पद्भ्यां तु राक्षसैरुह्यते क्वचित् +तत्र तत्र महातेजा भ्रातृभिः सह सुव्रतः +ततो युधिष्ठिरो राजा बहून्क्लेशान्विचिन्तयन् +सिंहव्याघ्रगजाकीर्णामुदीचीं प्रययौ दिशम् +अवेक्षमाणः कैलासं मैनाकं चैव पर्वतम् +गन्धमादनपादांश्च मेरुं चापि शिलोच्चयम् +उपर्युपरि शैलस्य बह्वीश्च सरितः शिवाः +प्रस्थं हिमवतः पुण्यं ययौ सप्तदशेऽहनि +ददृशुः पाण्डवा राजन्गन्धमादनमन्तिकात् +पृष्ठे हिमवतः पुण्ये नानाद्रुमलतायुते +सलिलावर्तसंजातैः पुष्पितैश्च महीरुहैः +समावृतं पुण्यतममाश्रमं वृषपर्वणः +तमुपक्रम्य राजर्षिं धर्मा��्मानमरिंदमाः +पाण्डवा वृषपर्वाणमवन्दन्त गतक्लमाः +अभ्यनन्दत्स राजर्षिः पुत्रवद्भरतर्षभान् +पूजिताश्चावसंस्तत्र सप्तरात्रमरिंदमाः +अष्टमेऽहनि संप्राप्ते तमृषिं लोकविश्रुतम् +आमन्त्र्य वृषपर्वाणं प्रस्थानं समरोचयन् +एकैकशश्च तान्विप्रान्निवेद्य वृषपर्वणे +न्यासभूतान्यथाकालं बन्धूनिव सुसत्कृतान् +ततस्ते वरवस्त्राणि शुभान्याभरणानि च +न्यदधुः पाण्डवास्तस्मिन्नाश्रमे वृषपर्वणः +अतीतानागते विद्वान्कुशलः सर्वधर्मवित् +अन्वशासत्स धर्मज्ञः पुत्रवद्भरतर्षभान् +तेऽनुज्ञाता महात्मानः प्रययुर्दिशमुत्तराम् +कृष्णया सहिता वीरा ब्राह्मणैश्च महात्मभिः +तान्प्रस्थितानन्वगच्छद्वृषपर्वा महीपतिः +उपन्यस्य महातेजा विप्रेभ्यः पाण्डवांस्तदा +अनुसंसाध्य कौन्तेयानाशीर्भिरभिनन्द्य च +वृषपर्वा निववृते पन्थानमुपदिश्य च +नानामृगगणैर्जुष्टं कौन्तेयः सत्यविक्रमः +पदातिर्भ्रातृभिः सार्धं प्रातिष्ठत युधिष्ठिरः +नानाद्रुमनिरोधेषु वसन्तः शैलसानुषु +पर्वतं विविशुः श्वेतं चतुर्थेऽहनि पाण्डवाः +महाभ्रघनसंकाशं सलिलोपहितं शुभम् +मणिकाञ्चनरम्यं च शैलं नानासमुच्छ्रयम् +ते समासाद्य पन्थानं यथोक्तं वृषपर्वणा +अनुसस्रुर्यथोद्देशं पश्यन्तो विविधान्नगान् +उपर्युपरि शैलस्य गुहाः परमदुर्गमाः +सुदुर्गमांस्ते सुबहून्सुखेनैवाभिचक्रमुः +धौम्यः कृष्णा च पार्थाश्च लोमशश्च महानृषिः +अगमन्सहितास्तत्र न कश्चिदवहीयते +ते मृगद्विजसंघुष्टं नानाद्विजसमाकुलम् +शाखामृगगणैश्चैव सेवितं सुमनोहरम् +पुण्यं पद्मसरोपेतं सपल्वलमहावनम् +उपतस्थुर्महावीर्या माल्यवन्तं महागिरिम् +ततः किंपुरुषावासं सिद्धचारणसेवितम् +ददृशुर्हृष्टरोमाणः पर्वतं गन्धमादनम् +विद्याधरानुचरितं किंनरीभिस्तथैव च +गजसिंहसमाकीर्णमुदीर्णशरभायुतम् +उपेतमन्यैश्च तदा मृगैर्मृदुनिनादिभिः +ते गन्धमादनवनं तन्नन्दनवनोपमम् +मुदिताः पाण्डुतनया मनोहृदयनन्दनम् +विविशुः क्रमशो वीरा अरण्यं शुभकाननम् +द्रौपदीसहिता वीरास्तैश्च विप्रैर्महात्मभिः +शृण्वन्तः प्रीतिजननान्वल्गून्मदकलाञ्शुभान् +श्रोत्ररम्यान्सुमधुराञ्शब्दान्खगमुखेरितान् +सर्वर्तुफलभाराढ्यान्सर्वर्तुकुसुमोज्ज्वलान् +पश्यन्तः पादपांश्चापि फलभारावनामि��ान् +आम्रानाम्रातकान्फुल्लान्नारिकेलान्सतिन्दुकान् +अजातकांस्तथा जीरान्दाडिमान्बीजपूरकान् +पनसाँल्लिकुचान्मोचान्खर्जूरानाम्रवेतसान् +पारावतांस्तथा क्षौद्रान्नीपांश्चापि मनोरमान् +बिल्वान्कपित्थाञ्जम्बूंश्च काश्मरीर्बदरीस्तथा +प्लक्षानुदुम्बरवटानश्वत्थान्क्षीरिणस्तथा +भल्लातकानामलकान्हरीतकबिभीतकान् +इङ्गुदान्करवीरांश्च तिन्दुकांश्च महाफलान् +एतानन्यांश्च विविधान्गन्धमादनसानुषु +फलैरमृतकल्पैस्तानाचितान्स्वादुभिस्तरून् +तथैव चम्पकाशोकान्केतकान्बकुलांस्तथा +पुंनागान्सप्तपर्णांश्च कर्णिकारान्सकेतकान् +पाटलान्कुटजान्रम्यान्मन्दारेन्दीवरांस्तथा +पारिजातान्कोविदारान्देवदारुतरूंस्तथा +शालांस्तालांस्तमालांश्च प्रियालान्बकुलांस्तथा +शाल्मलीः किंशुकाशोकाञ्शिंशपांस्तरलांस्तथा +चकोरैः शतपत्रैश्च भृङ्गराजैस्तथा शुकैः +कोकिलैः कलविङ्कैश्च हारीतैर्जीवजीवकैः +प्रियव्रतैश्चातकैश्च तथान्यैर्विविधैः खगैः +श्रोत्ररम्यं सुमधुरं कूजद्भिश्चाप्यधिष्ठितान् +सरांसि च विचित्राणि प्रसन्नसलिलानि च +कुमुदैः पुण्डरीकैश्च तथा कोकनदोत्पलैः +कह्लारैः कमलैश्चैव आचितानि समन्ततः +कदम्बैश्चक्रवाकैश्च कुररैर्जलकुक्कुटैः +कारण्डवैः प्लवैर्हंसैर्बकैर्मद्गुभिरेव च +एतैश्चान्यैश्च कीर्णानि समन्ताज्जलचारिभिः +हृष्टैस्तथा तामरसरसासवमदालसैः +पद्मोदरच्युतरजःकिञ्जल्कारुणरञ्जितैः +मधुरस्वरैर्मधुकरैर्विरुतान्कमलाकरान् +पश्यन्तस्ते मनोरम्यान्गन्धमादनसानुषु +तथैव पद्मषण्डैश्च मण्डितेषु समन्ततः +शिखण्डिनीभिः सहिताँल्लतामण्डपकेषु च +मेघतूर्यरवोद्दाममदनाकुलितान्भृशम् +कृत्वैव केकामधुरं संगीतमधुरस्वरम् +चित्रान्कलापान्विस्तीर्य सविलासान्मदालसान् +मयूरान्ददृशुश्चित्रान्नृत्यतो वनलासकान् +कान्ताभिः सहितानन्यानपश्यन्रमतः सुखम् +वल्लीलतासंकटेषु कटकेषु स्थितांस्तथा +कांश्चिच्छकुनजातांश्च विटपेषूत्कटानपि +कलापरचिताटोपान्विचित्रमुकुटानिव +विवरेषु तरूणां च मुदितान्ददृशुश्च ते +सिन्धुवारानथोद्दामान्मन्मथस्येव तोमरान् +सुवर्णकुसुमाकीर्णान्गिरीणां शिखरेषु च +कर्णिकारान्विरचितान्कर्णपूरानिवोत्तमान् +अथापश्यन्कुरबकान्वनराजिषु पुष��पितान् +कामवश्योत्सुककरान्कामस्येव शरोत्करान् +तथैव वनराजीनामुदारान्रचितानिव +विराजमानांस्तेऽपश्यंस्तिलकांस्तिलकानिव +तथानङ्गशराकारान्सहकारान्मनोरमान् +अपश्यन्भ्रमरारावान्मञ्जरीभिर्विराजितान् +हिरण्यसदृशैः पुष्पैर्दावाग्निसदृशैरपि +लोहितैरञ्जनाभैश्च वैडूर्यसदृशैरपि +तथा शालांस्तमालांश्च पाटल्यो बकुलानि च +माला इव समासक्ताः शैलानां शिखरेषु च +एवं क्रमेण ते वीरा वीक्षमाणाः समन्ततः +गजसंघसमाबाधं सिंहव्याघ्रसमायुतम् +शरभोन्नादसंघुष्टं नानारावनिनादितम् +सर्वर्तुफलपुष्पाढ्यं गन्धमादनसानुषु +पीता भास्वरवर्णाभा बभूवुर्वनराजयः +नात्र कण्टकिनः केचिन्नात्र केचिदपुष्पिताः +स्निग्धपत्रफला वृक्षा गन्धमादनसानुषु +विमलस्फटिकाभानि पाण्डुरच्छदनैर्द्विजैः +राजहंसैरुपेतानि सारसाभिरुतानि च +सरांसि सरितः पार्थाः पश्यन्तः शैलसानुषु +पद्मोत्पलविचित्राणि सुखस्पर्शजलानि च +गन्धवन्ति च माल्यानि रसवन्ति फलानि च +अतीव वृक्षा राजन्ते पुष्पिताः शैलसानुषु +एते चान्ये च बहवस्तत्र काननजा द्रुमाः +लताश्च विविधाकाराः पत्रपुष्पफलोच्चयाः +युधिष्ठिरस्तु तान्वृक्षान्पश्यमानो नगोत्तमे +भीमसेनमिदं वाक्यमब्रवीन्मधुराक्षरम् +पश्य भीम शुभान्देशान्देवाक्रीडान्समन्ततः +अमानुषगतिं प्राप्ताः संसिद्धाः स्म वृकोदर +लताभिश्चैव बह्वीभिः पुष्पिताः पादपोत्तमाः +संश्लिष्टाः पार्थ शोभन्ते गन्धमादनसानुषु +शिखण्डिनीभिश्चरतां सहितानां शिखण्डिनाम् +नर्दतां शृणु निर्घोषं भीम पर्वतसानुषु +चकोराः शतपत्राश्च मत्तकोकिलशारिकाः +पत्रिणः पुष्पितानेतान्संश्लिष्यन्ति महाद्रुमान् +रक्तपीतारुणाः पार्थ पादपाग्रगता द्विजाः +परस्परमुदीक्षन्ते बहवो जीवजीवकाः +हरितारुणवर्णानां शाद्वलानां समन्ततः +सारसाः प्रतिदृश्यन्ते शैलप्रस्रवणेष्वपि +वदन्ति मधुरा वाचः सर्वभूतमनोनुगाः +भृङ्गराजोपचक्राश्च लोहपृष्ठाश्च पत्रिणः +चतुर्विषाणाः पद्माभाः कुञ्जराः सकरेणवः +एते वैडूर्यवर्णाभं क्षोभयन्ति महत्सरः +बहुतालसमुत्सेधाः शैलशृङ्गात्परिच्युताः +नानाप्रस्रवणेभ्यश्च वारिधाराः पतन्त्यमूः +भास्कराभप्रभा भीम शारदाभ्रघनोपमाः +शोभयन्ति महाशैलं नानारजतधातवः +क्वचिदञ्जनवर्णाभाः क्वचित्काञ्चनसंनिभाः +धातवो हरितालस्य क्वचिद्धिङ्गुलकस्य च +मनःशिलागुहाश्चैव संध्याभ्रनिकरोपमाः +शशलोहितवर्णाभाः क्वचिद्गैरिकधातवः +सितासिताभ्रप्रतिमा बालसूर्यसमप्रभाः +एते बहुविधाः शैलं शोभयन्ति महाप्रभाः +गन्धर्वाः सह कान्ताभिर्यथोक्तं वृषपर्वणा +दृश्यन्ते शैलशृङ्गेषु पार्थ किंपुरुषैः सह +गीतानां तलतालानां यथा साम्नां च निस्वनः +श्रूयते बहुधा भीम सर्वभूतमनोहरः +महागङ्गामुदीक्षस्व पुण्यां देवनदीं शुभाम् +कलहंसगणैर्जुष्टामृषिकिंनरसेविताम् +धातुभिश्च सरिद्भिश्च किंनरैर्मृगपक्षिभिः +गन्धर्वैरप्सरोभिश्च काननैश्च मनोरमैः +व्यालैश्च विविधाकारैः शतशीर्षैः समन्ततः +उपेतं पश्य कौन्तेय शैलराजमरिंदम +ते प्रीतमनसः शूराः प्राप्ता गतिमनुत्तमाम् +नातृप्यन्पर्वतेन्द्रस्य दर्शनेन परंतपाः +उपेतमथ माल्यैश्च फलवद्भिश्च पादपैः +आर्ष्टिषेणस्य राजर्षेराश्रमं ददृशुस्तदा +ततस्तं तीव्रतपसं कृशं धमनिसंततम् +पारगं सर्वधर्माणामार्ष्टिषेणमुपागमन् +वैशंपायन उवाच +युधिष्ठिरस्तमासाद्य तपसा दग्धकिल्बिषम् +अभ्यवादयत प्रीतः शिरसा नाम कीर्तयन् +ततः कृष्णा च भीमश्च यमौ चापि यशस्विनौ +शिरोभिः प्राप्य राजर्षिं परिवार्योपतस्थिरे +तथैव धौम्यो धर्मज्ञः पाण्डवानां पुरोहितः +यथान्यायमुपाक्रान्तस्तमृषिं संशितव्रतम् +अन्वजानात्स धर्मज्ञो मुनिर्दिव्येन चक्षुषा +पाण्डोः पुत्रान्कुरुश्रेष्ठानास्यतामिति चाब्रवीत् +कुरूणामृषभं प्राज्ञं पूजयित्वा महातपाः +सह भ्रातृभिरासीनं पर्यपृच्छदनामयम् +नानृते कुरुषे भावं कच्चिद्धर्मे च वर्तसे +मतापित्रोश्च ते वृत्तिः कच्चित्पार्थ न सीदति +कच्चित्ते गुरवः सर्वे वृद्धा वैद्याश्च पूजिताः +कच्चिन्न कुरुषे भावं पार्थ पापेषु कर्मसु +सुकृतं प्रतिकर्तुं च कच्चिद्धातुं च दुष्कृतम् +यथान्यायं कुरुश्रेष्ठ जानासि न च कत्थसे +यथार्हं मानिताः कच्चित्त्वया नन्दन्ति साधवः +वनेष्वपि वसन्कच्चिद्धर्ममेवानुवर्तसे +कच्चिद्धौम्यस्त्वदाचारैर्न पार्थ परितप्यते +दानधर्मतपःशौचैरार्जवेन तितिक्षया +पितृपैतामहं वृत्तं कच्चित्पार्थानुवर्तसे +कच्चिद्राजर्षियातेन पथा गच्छसि पाण्डव +स्वे स्वे किल कुले जाते पुत्रे नप्तरि वा पुनः +पितरः पितृलोकस्थाः शोचन्ति च हसन्ति च +किं न्वस्य ���ुष्कृतेऽस्माभिः संप्राप्तव्यं भविष्यति +किं चास्य सुकृतेऽस्माभिः प्राप्तव्यमिति शोभनम् +पिता माता तथैवाग्निर्गुरुरात्मा च पञ्चमः +यस्यैते पूजिताः पार्थ तस्य लोकावुभौ जितौ +अब्भक्षा वायुभक्षाश्च प्लवमाना विहायसा +जुषन्ते पर्वतश्रेष्ठमृषयः पर्वसंधिषु +कामिनः सह कान्ताभिः परस्परमनुव्रताः +दृश्यन्ते शैलशृङ्गस्थास्तथा किंपुरुषा नृप +अरजांसि च वासांसि वसानाः कौशिकानि च +दृश्यन्ते बहवः पार्थ गन्धर्वाप्सरसां गणाः +विद्याधरगणाश्चैव स्रग्विणः प्रियदर्शनाः +महोरगगणाश्चैव सुपर्णाश्चोरगादयः +अस्य चोपरि शैलस्य श्रूयते पर्वसंधिषु +भेरीपणवशङ्खानां मृदङ्गानां च निस्वनः +इहस्थैरेव तत्सर्वं श्रोतव्यं भरतर्षभाः +न कार्या वः कथंचित्स्यात्तत्राभिसरणे मतिः +न चाप्यतः परं शक्यं गन्तुं भरतसत्तमाः +विहारो ह्यत्र देवानाममानुषगतिस्तु सा +ईषच्चपलकर्माणं मनुष्यमिह भारत +द्विषन्ति सर्वभूतानि ताडयन्ति च राक्षसाः +अभ्यतिक्रम्य शिखरं शैलस्यास्य युधिष्ठिर +गतिः परमसिद्धानां देवर्षीणां प्रकाशते +चापलादिह गच्छन्तं पार्थ यानमतः परम् +अयःशूलादिभिर्घ्नन्ति राक्षसाः शत्रुसूदन +अप्सरोभिः परिवृतः समृद्ध्या नरवाहनः +इह वैश्रवणस्तात पर्वसंधिषु दृश्यते +शिखरे तं समासीनमधिपं सर्वरक्षसाम् +प्रेक्षन्ते सर्वभूतानि भानुमन्तमिवोदितम् +देवदानवसिद्धानां तथा वैश्रवणस्य च +गिरेः शिखरमुद्यानमिदं भरतसत्तम +उपासीनस्य धनदं तुम्बुरोः पर्वसंधिषु +गीतसामस्वनस्तात श्रूयते गन्धमादने +एतदेवंविधं चित्रमिह तात युधिष्ठिर +प्रेक्षन्ते सर्वभूतानि बहुशः पर्वसंधिषु +भुञ्जानाः सर्वभोज्यानि रसवन्ति फलानि च +वसध्वं पाण्डवश्रेष्ठा यावदर्जुनदर्शनम् +न तात चपलैर्भाव्यमिह प्राप्तैः कथंचन +उषित्वेह यथाकामं यथाश्रद्धं विहृत्य च +ततः शस्त्रभृतां श्रेष्ठ पृथिवीं पालयिष्यसि +जनमेजय उवाच +पाण्डोः पुत्रा महात्मानः सर्वे दिव्यपराक्रमाः +कियन्तं कालमवसन्पर्वते गन्धमादने +कानि चाभ्यवहार्याणि तत्र तेषां महात्मनाम् +वसतां लोकवीराणामासंस्तद्ब्रूहि सत्तम +विस्तरेण च मे शंस भीमसेनपराक्रमम् +यद्यच्चक्रे महाबाहुस्तस्मिन्हैमवते गिरौ +न खल्वासीत्पुनर्युद्धं तस्य यक्षैर्द्विजोत्तम +कच्चित्समागमस्तेषामासीद्वैश्रवणेन च +तत्र ह्यायाति धनद आर्ष्टिषेणो यथाब्रवीत् +एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन +न हि मे शृण्वतस्तृप्तिरस्ति तेषां विचेष्टितम् +वैशंपायन उवाच +एतदात्महितं श्रुत्वा तस्याप्रतिमतेजसः +शासनं सततं चक्रुस्तथैव भरतर्षभाः +भुञ्जाना मुनिभोज्यानि रसवन्ति फलानि च +शुद्धबाणहतानां च मृगाणां पिशितान्यपि +मेध्यानि हिमवत्पृष्ठे मधूनि विविधानि च +एवं ते न्यवसंस्तत्र पाण्डवा भरतर्षभाः +तथा निवसतां तेषां पञ्चमं वर्षमभ्यगात् +शृण्वतां लोमशोक्तानि वाक्यानि विविधानि च +कृत्यकाल उपस्थास्य इति चोक्त्वा घटोत्कचः +राक्षसैः सहितः सर्वैः पूर्वमेव गतः प्रभो +आर्ष्टिषेणाश्रमे तेषां वसतां वै महात्मनाम् +अगच्छन्बहवो मासाः पश्यतां महदद्भुतम् +तैस्तत्र रममाणैश्च विहरद्भिश्च पाण्डवैः +प्रीतिमन्तो महाभागा मुनयश्चारणास्तथा +आजग्मुः पाण्डवान्द्रष्टुं सिद्धात्मानो यतव्रताः +तैस्तैः सह कथाश्चक्रुर्दिव्या भरतसत्तमाः +ततः कतिपयाहस्य महाह्रदनिवासिनम् +ऋद्धिमन्तं महानागं सुपर्णः सहसाहरत् +प्राकम्पत महाशैलः प्रामृद्यन्त महाद्रुमाः +ददृशुः सर्वभूतानि पाण्डवाश्च तदद्भुतम् +ततः शैलोत्तमस्याग्रात्पाण्डवान्प्रति मारुतः +अवहत्सर्वमाल्यानि गन्धवन्ति शुभानि च +तत्र पुष्पाणि दिव्यानि सुहृद्भिः सह पाण्डवाः +ददृशुः पञ्च वर्णानि द्रौपदी च यशस्विनी +भीमसेनं ततः कृष्णा काले वचनमब्रवीत् +विविक्ते पर्वतोद्देशे सुखासीनं महाभुजम् +सुपर्णानिलवेगेन श्वसनेन महाबलात् +पञ्चवर्णानि पात्यन्ते पुष्पाणि भरतर्षभ +प्रत्यक्षं सर्वभूतानां नदीमश्वरथां प्रति +खाण्डवे सत्यसंधेन भ्रात्रा तव नरेश्वर +गन्धर्वोरगरक्षांसि वासवश्च निवारितः +हता मायाविनश्चोग्रा धनुः प्राप्तं च गाण्डिवम् +तवापि सुमहत्तेजो महद्बाहुबलं च ते +अविषह्यमनाधृष्यं शतक्रतुबलोपमम् +त्वद्बाहुबलवेगेन त्रासिताः सर्वराक्षसाः +हित्वा शैलं प्रपद्यन्तां भीमसेन दिशो दश +ततः शैलोत्तमस्याग्रं चित्रमाल्यधरं शिवम् +व्यपेतभयसंमोहाः पश्यन्तु सुहृदस्तव +एवं प्रणिहितं भीम चिरात्प्रभृति मे मनः +द्रष्टुमिच्छामि शैलाग्रं त्वद्बाहुबलमाश्रिता +ततः क्षिप्तमिवात्मानं द्रौपद्या स परंतपः +नामृष्यत महाबाहुः प्रहारमिव सद्गवः +सिंहर्षभगतिः श्रीमानुदारः कनकप्रभः +मनस्वी बलवान्दृप्तो मानी शूरश्च पाण्डवः +लोहिताक्षः पृथुव्यंसो मत्तवारणविक्रमः +सिंहदंष्ट्रो बृहत्स्कन्धः शालपोत इवोद्गतः +महात्मा चारुसर्वाङ्गः कम्बुग्रीवो महाभुजः +रुक्मपृष्ठं धनुः खड्गं तूणांश्चापि परामृशत् +केसरीव यथोत्सिक्तः प्रभिन्न इव वारणः +व्यपेतभयसंमोहः शैलमभ्यपतद्बली +तं मृगेन्द्रमिवायान्तं प्रभिन्नमिव वारणम् +ददृशुः सर्वभूतानि बाणखड्गधनुर्धरम् +द्रौपद्या वर्धयन्हर्षं गदामादाय पाण्डवः +व्यपेतभयसंमोहः शैलराजं समाविशत् +न ग्लानिर्न च कातर्यं न वैक्लव्यं न मत्सरः +कदाचिज्जुषते पार्थमात्मजं मातरिश्वनः +तदेकायनमासाद्य विषमं भीमदर्शनम् +बहुतालोच्छ्रयं शृङ्गमारुरोह महाबलः +स किंनरमहानागमुनिगन्धर्वराक्षसान् +हर्षयन्पर्वतस्याग्रमाससाद महाबलः +तत्र वैश्रवणावासं ददर्श भरतर्षभः +काञ्चनैः स्फाटिकाकारैर्वेश्मभिः समलंकृतम् +मोदयन्सर्वभूतानि गन्धमादनसंभवः +सर्वगन्धवहस्तत्र मारुतः सुसुखो ववौ +चित्रा विविधवर्णाभाश्चित्रमञ्जरिधारिणः +अचिन्त्या विविधास्तत्र द्रुमाः परमशोभनाः +रत्नजालपरिक्षिप्तं चित्रमाल्यधरं शिवम् +राक्षसाधिपतेः स्थानं ददर्श भरतर्षभः +गदाखड्गधनुष्पाणिः समभित्यक्तजीवितः +भीमसेनो महाबाहुस्तस्थौ गिरिरिवाचलः +ततः शङ्खमुपाध्मासीद्द्विषतां लोमहर्षणम् +ज्याघोषतलघोषं च कृत्वा भूतान्यमोहयत् +ततः संहृष्टरोमाणः शब्दं तमभिदुद्रुवुः +यक्षराक्षसगन्धर्वाः पाण्डवस्य समीपतः +गदापरिघनिस्त्रिंशशक्तिशूलपरश्वधाः +प्रगृहीता व्यरोचन्त यक्षराक्षसबाहुभिः +ततः प्रववृते युद्धं तेषां तस्य च भारत +तैः प्रयुक्तान्महाकायैः शक्तिशूलपरश्वधान् +भल्लैर्भीमः प्रचिच्छेद भीमवेगतरैस्ततः +अन्तरिक्षचराणां च भूमिष्ठानां च गर्जताम् +शरैर्विव्याध गात्राणि राक्षसानां महाबलः +सा लोहितमहावृष्टिरभ्यवर्षन्महाबलम् +कायेभ्यः प्रच्युता धारा राक्षसानां समन्ततः +भीमबाहुबलोत्सृष्टैर्बहुधा यक्षरक्षसाम् +विनिकृत्तान्यदृश्यन्त शरीराणि शिरांसि च +प्रच्छाद्यमानं रक्षोभिः पाण्डवं प्रियदर्शनम् +ददृशुः सर्वभूतानि सूर्यमभ्रगणैरिव +स रश्मिभिरिवादित्यः शरैररिनिघातिभिः +सर्वानार्छन्महाबाहुर्बलवान्सत्यविक्रमः +अभितर्जयमानाश्च रुवन्तश्च महारवान् +न मोहं भीमसेनस्य ददृशुः सर्वराक्षसाः +ते शरैः क्षतसर्वाङ्गा भीमसेनभयार्दिताः +भीममार्तस्वरं चक्रुर्विप्रकीर्णमहायुधाः +उत्सृज्य ते गदाशूलानसिशक्तिपरश्वधान् +दक्षिणां दिशमाजग्मुस्त्रासिता दृढधन्वना +तत्र शूलगदापाणिर्व्यूढोरस्को महाभुजः +सखा वैश्रवणस्यासीन्मणिमान्नाम राक्षसः +अदर्शयदधीकारं पौरुषं च महाबलः +स तान्दृष्ट्वा परावृत्तान्स्मयमान इवाब्रवीत् +एकेन बहवः संख्ये मानुषेण पराजिताः +प्राप्य वैश्रवणावासं किं वक्ष्यथ धनेश्वरम् +एवमाभाष्य तान्सर्वान्न्यवर्तत स राक्षसः +शक्तिशूलगदापाणिरभ्यधावच्च पाण्डवम् +तमापतन्तं वेगेन प्रभिन्नमिव वारणम् +वत्सदन्तैस्त्रिभिः पार्श्वे भीमसेनः समर्पयत् +मणिमानपि संक्रुद्धः प्रगृह्य महतीं गदाम् +प्राहिणोद्भीमसेनाय परिक्षिप्य महाबलः +विद्युद्रूपां महाघोरामाकाशे महतीं गदाम् +शरैर्बहुभिरभ्यर्छद्भीमसेनः शिलाशितैः +प्रत्यहन्यन्त ते सर्वे गदामासाद्य सायकाः +न वेगं धारयामासुर्गदावेगस्य वेगिताः +गदायुद्धसमाचारं बुध्यमानः स वीर्यवान् +व्यंसयामास तं तस्य प्रहारं भीमविक्रमः +ततः शक्तिं महाघोरां रुक्मदण्डामयस्मयीम् +तस्मिन्नेवान्तरे धीमान्प्रजहाराथ राक्षसः +सा भुजं भीमनिर्ह्रादा भित्त्वा भीमस्य दक्षिणम् +साग्निज्वाला महारौद्रा पपात सहसा भुवि +सोऽतिविद्धो महेष्वासः शक्त्यामितपराक्रमः +गदां जग्राह कौरव्यो गदायुद्धविशारदः +तां प्रगृह्योन्नदन्भीमः सर्वशैक्यायसीं गदाम् +तरसा सोऽभिदुद्राव मणिमन्तं महाबलम् +दीप्यमानं महाशूलं प्रगृह्य मणिमानपि +प्राहिणोद्भीमसेनाय वेगेन महता नदन् +भङ्क्त्वा शूलं गदाग्रेण गदायुद्धविशारदः +अभिदुद्राव तं तूर्णं गरुत्मानिव पन्नगम् +सोऽन्तरिक्षमभिप्लुत्य विधूय सहसा गदाम् +प्रचिक्षेप महाबाहुर्विनद्य रणमूर्धनि +सेन्द्राशनिरिवेन्द्रेण विसृष्टा वातरंहसा +हत्वा रक्षः क्षितिं प्राप्य कृत्येव निपपात ह +तं राक्षसं भीमबलं भीमसेनेन पातितम् +ददृशुः सर्वभूतानि सिंहेनेव गवां पतिम् +तं प्रेक्ष्य निहतं भूमौ हतशेषा निशाचराः +भीममार्तस्वरं कृत्वा जग्मुः प्राचीं दिशं प्रति +वैशंपायन उवाच +श्रुत्वा बहुविधैः शब्दैर्नाद्यमाना गिरेर्गुहाः +अजातशत्रुः कौन्तेयो माद्रीपुत्रावुभावपि +धौम्यः कृष्णा च विप्राश्च सर्वे च सुहृदस्तथा +भीमसेनमपश्यन्तः सर्वे विमनसोऽभवन् +द्रौपदीमार्ष्टिषेणाय प्रदाय तु महारथाः +सहिताः सायुधाः शूराः शैलमारुरुहुस्तदा +ततः संप्राप्य शैलाग्रं वीक्षमाणा महारथाः +ददृशुस्ते महेष्वासा भीमसेनमरिंदमम् +स्फुरतश्च महाकायान्गतसत्त्वांश्च राक्षसान् +महाबलान्महाघोरान्भीमसेनेन पातितान् +शुशुभे स महाबाहुर्गदाखड्गधनुर्धरः +निहत्य समरे सर्वान्दानवान्मघवानिव +ततस्ते समतिक्रम्य परिष्वज्य वृकोदरम् +तत्रोपविविशुः पार्थाः प्राप्ता गतिमनुत्तमाम् +तैश्चतुर्भिर्महेष्वासैर्गिरिशृङ्गमशोभत +लोकपालैर्महाभागैर्दिवं देववरैरिव +कुबेरसदनं दृष्ट्वा राक्षसांश्च निपातितान् +भ्राता भ्रातरमासीनमभ्यभाषत पाण्डवम् +साहसाद्यदि वा मोहाद्भीम पापमिदं कृतम् +नैतत्ते सदृशं वीर मुनेरिव मृषावचः +राजद्विष्टं न कर्तव्यमिति धर्मविदो विदुः +त्रिदशानामिदं द्विष्टं भीमसेन त्वया कृतम् +अर्थधर्मावनादृत्य यः पापे कुरुते मनः +कर्मणां पार्थ पापानां स फलं विन्दते ध्रुवम् +पुनरेवं न कर्तव्यं मम चेदिच्छसि प्रियम् +एवमुक्त्वा स धर्मात्मा भ्राता भ्रातरमच्युतम् +अर्थतत्त्वविभागज्ञः कुन्तीपुत्रो युधिष्ठिरः +विरराम महातेजास्तमेवार्थं विचिन्तयन् +ततस्तु हतशिष्टा ये भीमसेनेन राक्षसाः +सहिताः प्रत्यपद्यन्त कुबेरसदनं प्रति +ते जवेन महावेगाः प्राप्य वैश्रवणालयम् +भीममार्तस्वरं चक्रुर्भीमसेनभयार्दिताः +न्यस्तशस्त्रायुधाः श्रान्ताः शोणिताक्तपरिच्छदाः +प्रकीर्णमूर्धजा राजन्यक्षाधिपतिमब्रुवन् +गदापरिघनिस्त्रिंशतोमरप्रासयोधिनः +राक्षसा निहताः सर्वे तव देव पुरःसराः +प्रमृद्य तरसा शैलं मानुषेण धनेश्वर +एकेन सहिताः संख्ये हताः क्रोधवशा गणाः +प्रवरा रक्षसेन्द्राणां यक्षाणां च धनाधिप +शेरते निहता देव गतसत्त्वाः परासवः +लब्धः शैलो वयं मुक्ता मणिमांस्ते सखा हतः +मानुषेण कृतं कर्म विधत्स्व यदनन्तरम् +स तच्छ्रुत्वा तु संक्रुद्धः सर्वयक्षगणाधिपः +कोपसंरक्तनयनः कथमित्यब्रवीद्वचः +द्वितीयमपराध्यन्तं भीमं श्रुत्वा धनेश्वरः +चुक्रोध यक्षाधिपतिर्युज्यतामिति चाब्रवीत् +अथाभ्रघनसंकाशं गिरिकूटमिवोच्छ्रितम् +हयैः संयोजयामासुर्गान्धर्वैरुत्तमं रथम् +तस्य सर्वगुणोपेता विमलाक्षा हयोत्तमाः +तेजोबलजवोपे��ा नानारत्नविभूषिताः +शोभमाना रथे युक्तास्तरिष्यन्त इवाशुगाः +हर्षयामासुरन्योन्यमिङ्गितैर्विजयावहैः +स तमास्थाय भगवान्राजराजो महारथम् +प्रययौ देवगन्धर्वैः स्तूयमानो महाद्युतिः +तं प्रयान्तं महात्मानं सर्वयक्षधनाधिपम् +रक्ताक्षा हेमसंकाशा महाकाया महाबलाः +सायुधा बद्धनिस्त्रिंशा यक्षा दशशतायुताः +जवेन महता वीराः परिवार्योपतस्थिरे +तं महान्तमुपायान्तं धनेश्वरमुपान्तिके +ददृशुर्हृष्टरोमाणः पाण्डवाः प्रियदर्शनम् +कुबेरस्तु महासत्त्वान्पाण्डोः पुत्रान्महारथान् +आत्तकार्मुकनिस्त्रिंशान्दृष्ट्वा प्रीतोऽभवत्तदा +ते पक्षिण इवोत्पत्य गिरेः शृङ्गं महाजवाः +तस्थुस्तेषां समभ्याशे धनेश्वरपुरःसराः +ततस्तं हृष्टमनसं पाण्डवान्प्रति भारत +समीक्ष्य यक्षगन्धर्वा निर्विकारा व्यवस्थिताः +पाण्डवाश्च महात्मानः प्रणम्य धनदं प्रभुम् +नकुलः सहदेवश्च धर्मपुत्रश्च धर्मवित् +अपराद्धमिवात्मानं मन्यमाना महारथाः +तस्थुः प्राञ्जलयः सर्वे परिवार्य धनेश्वरम् +शय्यासनवरं श्रीमत्पुष्पकं विश्वकर्मणा +विहितं चित्रपर्यन्तमातिष्ठत धनाधिपः +तमासीनं महाकायाः शङ्कुकर्णा महाजवाः +उपोपविविशुर्यक्षा राक्षसाश्च सहस्रशः +शतशश्चापि गन्धर्वास्तथैवाप्सरसां गणाः +परिवार्योपतिष्ठन्त यथा देवाः शतक्रतुम् +काञ्चनीं शिरसा बिभ्रद्भीमसेनः स्रजं शुभाम् +बाणखड्गधनुष्पाणिरुदैक्षत धनाधिपम् +न भीर्भीमस्य न ग्लानिर्विक्षतस्यापि राक्षसैः +आसीत्तस्यामवस्थायां कुबेरमपि पश्यतः +आददानं शितान्बाणान्योद्धुकाममवस्थितम् +दृष्ट्वा भीमं धर्मसुतमब्रवीन्नरवाहनः +विदुस्त्वां सर्वभूतानि पार्थ भूतहिते रतम् +निर्भयश्चापि शैलाग्रे वस त्वं सह बन्धुभिः +न च मन्युस्त्वया कार्यो भीमसेनस्य पाण्डव +कालेनैते हताः पूर्वं निमित्तमनुजस्तव +व्रीडा चात्र न कर्तव्या साहसं यदिदं कृतम् +दृष्टश्चापि सुरैः पूर्वं विनाशो यक्षरक्षसाम् +न भीमसेने कोपो मे प्रीतोऽस्मि भरतर्षभ +कर्मणानेन भीमस्य मम तुष्टिरभूत्पुरा +एवमुक्त्वा तु राजानं भीमसेनमभाषत +नैतन्मनसि मे तात वर्तते कुरुसत्तम +यदिदं साहसं भीम कृष्णार्थे कृतवानसि +मामनादृत्य देवांश्च विनाशं यक्षरक्षसाम् +स्वबाहुबलमाश्रित्य तेनाहं प्रीतिमांस्त्वयि +शापादस्मि विनिर्म���क्तो घोरादद्य वृकोदर +अहं पूर्वमगस्त्येन क्रुद्धेन परमर्षिणा +शप्तोऽपराधे कस्मिंश्चित्तस्यैषा निष्कृतिः कृता +दृष्टो हि मम संक्लेशः पुरा पाण्डवनन्दन +न तवात्रापराधोऽस्ति कथंचिदपि शत्रुहन् +युधिष्ठिर उवाच +कथं शप्तोऽसि भगवन्नगस्त्येन महात्मना +श्रोतुमिच्छाम्यहं देव तवैतच्छापकारणम् +इदं चाश्चर्यभूतं मे यत्क्रोधात्तस्य धीमतः +तदैव त्वं न निर्दग्धः सबलः सपदानुगः +वैश्रवण उवाच +देवतानामभून्मन्त्रः कुशवत्यां नरेश्वर +वृतस्तत्राहमगमं महापद्मशतैस्त्रिभिः +यक्षाणां घोररूपाणां विविधायुधधारिणाम् +अध्वन्यहमथापश्यमगस्त्यमृषिसत्तमम् +उग्रं तपस्तपस्यन्तं यमुनातीरमाश्रितम् +नानापक्षिगणाकीर्णं पुष्पितद्रुमशोभितम् +तमूर्ध्वबाहुं दृष्ट्वा तु सूर्यस्याभिमुखं स्थितम् +तेजोराशिं दीप्यमानं हुताशनमिवैधितम् +राक्षसाधिपतिः श्रीमान्मणिमान्नाम मे सखा +मौर्ख्यादज्ञानभावाच्च दर्पान्मोहाच्च भारत +न्यष्ठीवदाकाशगतो महर्षेस्तस्य मूर्धनि +स कोपान्मामुवाचेदं दिशः सर्वा दहन्निव +मामवज्ञाय दुष्टात्मा यस्मादेष सखा तव +धर्षणां कृतवानेतां पश्यतस्ते धनेश्वर +तस्मात्सहैभिः सैन्यैस्ते वधं प्राप्स्यति मानुषात् +त्वं चाप्येभिर्हतैः सैन्यैः क्लेशं प्राप्स्यसि दुर्मते +तमेव मानुषं दृष्ट्वा किल्बिषाद्विप्रमोक्ष्यसे +सैन्यानां तु तवैतेषां पुत्रपौत्रबलान्वितम् +न शापं प्राप्स्यते घोरं गच्छ तेऽऽज्ञां करिष्यति +एष शापो मया प्राप्तः प्राक्तस्मादृषिसत्तमात् +स भीमेन महाराज भ्रात्रा तव विमोक्षितः +वैश्रवण उवाच +युधिष्ठिर धृतिर्दाक्ष्यं देशकालौ पराक्रमः +लोकतन्त्रविधानानामेष पञ्चविधो विधिः +धृतिमन्तश्च दक्षाश्च स्वे स्वे कर्मणि भारत +पराक्रमविधानज्ञा नराः कृतयुगेऽभवन् +धृतिमान्देशकालज्ञः सर्वधर्मविधानवित् +क्षत्रियः क्षत्रियश्रेष्ठ पृथिवीमनुशास्ति वै +य एवं वर्तते पार्थ पुरुषः सर्वकर्मसु +स लोके लभते वीर यशः प्रेत्य च सद्गतिम् +देशकालान्तरप्रेप्सुः कृत्वा शक्रः पराक्रमम् +संप्राप्तस्त्रिदिवे राज्यं वृत्रहा वसुभिः सह +पापात्मा पापबुद्धिर्यः पापमेवानुवर्तते +कर्मणामविभागज्ञः प्रेत्य चेह च नश्यति +अकालज्ञः सुदुर्मेधाः कार्याणामविशेषवित् +वृथाचारसमारम्भः प्रेत्य चेह च नश्यति +साहसे वर्तमानानां निकृतीनां दुरात्मनाम् +सर्वसामर्थ्यलिप्सूनां पापो भवति निश्चयः +अधर्मज्ञोऽवलिप्तश्च बालबुद्धिरमर्षणः +निर्भयो भीमसेनोऽयं तं शाधि पुरुषर्षभ +आर्ष्टिषेणस्य राजर्षेः प्राप्य भूयस्त्वमाश्रमम् +तामिस्रं प्रथमं पक्षं वीतशोकभयो वस +अलकाः सह गन्धर्वैर्यक्षैश्च सह राक्षसैः +मन्नियुक्ता मनुष्येन्द्र सर्वे च गिरिवासिनः +रक्षन्तु त्वा महाबाहो सहितं द्विजसत्तमैः +साहसेषु च संतिष्ठन्निह शैले वृकोदरः +वार्यतां साध्वयं राजंस्त्वया धर्मभृतां वर +इतः परं च राजेन्द्र द्रक्ष्यन्ति वनगोचराः +उपस्थास्यन्ति च सदा रक्षिष्यन्ति च सर्वशः +तथैव चान्नपानानि स्वादूनि च बहूनि च +उपस्थास्यन्ति वो गृह्य मत्प्रेष्याः पुरुषर्षभ +यथा जिष्णुर्महेन्द्रस्य यथा वायोर्वृकोदरः +धर्मस्य त्वं यथा तात योगोत्पन्नो निजः सुतः +आत्मजावात्मसंपन्नौ यमौ चोभौ यथाश्विनोः +रक्ष्यास्तद्वन्ममापीह यूयं सर्वे युधिष्ठिर +अर्थतत्त्वविभागज्ञः सर्वधर्मविशेषवित् +भीमसेनादवरजः फल्गुनः कुशली दिवि +याः काश्चन मता लोकेष्वग्र्याः परमसंपदः +जन्मप्रभृति ताः सर्वाः स्थितास्तात धनंजये +दमो दानं बलं बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम् +एतान्यपि महासत्त्वे स्थितान्यमिततेजसि +न मोहात्कुरुते जिष्णुः कर्म पाण्डव गर्हितम् +न पार्थस्य मृषोक्तानि कथयन्ति नरा नृषु +स देवपितृगन्धर्वैः कुरूणां कीर्तिवर्धनः +मानितः कुरुतेऽस्त्राणि शक्रसद्मनि भारत +योऽसौ सर्वान्महीपालान्धर्मेण वशमानयत् +स शंतनुर्महातेजाः पितुस्तव पितामहः +प्रीयते पार्थ पार्थेन दिवि गाण्डीवधन्वना +सम्यक्चासौ महावीर्यः कुलधुर्य इव स्थितः +पितॄन्देवांस्तथा विप्रान्पूजयित्वा महायशाः +सप्त मुख्यान्महामेधानाहरद्यमुनां प्रति +अधिराजः स राजंस्त्वां शंतनुः प्रपितामहः +स्वर्गजिच्छक्रलोकस्थः कुशलं परिपृच्छति +वैशंपायन उवाच +ततः शक्तिं गदां खड्गं धनुश्च भरतर्षभ +प्राध्वं कृत्वा नमश्चक्रे कुबेराय वृकोदरः +ततोऽब्रवीद्धनाध्यक्षः शरण्यः शरणागतम् +मानहा भव शत्रूणां सुहृदां नन्दिवर्धनः +स्वेषु वेश्मसु रम्येषु वसतामित्रतापनाः +कामानुपहरिष्यन्ति यक्षा वो भरतर्षभाः +शीघ्रमेव गुडाकेशः कृतास्त्रः पुरुषर्षभः +साक्षान्मघवता सृष्टः संप्राप्स्यति धनंजयः +एवमुत्तमकर्माणमनुशिष्य युधिष्ठिरम् +अस्तं गिरिवरश्रेष्ठं प्रययौ गुह्यकाधिपः +तं परिस्तोमसंकीर्णैर्नानारत्नविभूषितैः +यानैरनुययुर्यक्षा राक्षसाश्च सहस्रशः +पक्षिणामिव निर्घोषः कुबेरसदनं प्रति +बभूव परमाश्वानामैरावतपथे यताम् +ते जग्मुस्तूर्णमाकाशं धनाधिपतिवाजिनः +प्रकर्षन्त इवाभ्राणि पिबन्त इव मारुतम् +ततस्तानि शरीराणि गतसत्त्वानि रक्षसाम् +अपाकृष्यन्त शैलाग्राद्धनाधिपतिशासनात् +तेषां हि शापकालोऽसौ कृतोऽगस्त्येन धीमता +समरे निहतास्तस्मात्सर्वे मणिमता सह +पाण्डवास्तु महात्मानस्तेषु वेश्मसु तां क्षपाम् +सुखमूषुर्गतोद्वेगाः पूजिताः सर्वराक्षसैः +वैशंपायन उवाच +ततः सूर्योदये धौम्यः कृत्वाह्निकमरिंदम +आर्ष्टिषेणेन सहितः पाण्डवानभ्यवर्तत +तेऽभिवाद्यार्ष्टिषेणस्य पादौ धौम्यस्य चैव ह +ततः प्राञ्जलयः सर्वे ब्राह्मणांस्तानपूजयन् +ततो युधिष्ठिरं धौम्यो गृहीत्वा दक्षिणे करे +प्राचीं दिशमभिप्रेक्ष्य महर्षिरिदमब्रवीत् +असौ सागरपर्यन्तां भूमिमावृत्य तिष्ठति +शैलराजो महाराज मन्दरोऽभिविराजते +इन्द्रवैश्रवणावेतां दिशं पाण्डव रक्षतः +पर्वतैश्च वनान्तैश्च काननैश्चोपशोभिताम् +एतदाहुर्महेन्द्रस्य राज्ञो वैश्रवणस्य च +ऋषयः सर्वधर्मज्ञाः सद्म तात मनीषिणः +अतश्चोद्यन्तमादित्यमुपतिष्ठन्ति वै प्रजाः +ऋषयश्चापि धर्मज्ञाः सिद्धाः साध्याश्च देवताः +यमस्तु राजा धर्मात्मा सर्वप्राणभृतां प्रभुः +प्रेतसत्त्वगतीमेतां दक्षिणामाश्रितो दिशम् +एतत्संयमनं पुण्यमतीवाद्भुतदर्शनम् +प्रेतराजस्य भवनमृद्ध्या परमया युतम् +यं प्राप्य सविता राजन्सत्येन प्रतितिष्ठति +अस्तं पर्वतराजानमेतमाहुर्मनीषिणः +एतं पर्वतराजानं समुद्रं च महोदधिम् +आवसन्वरुणो राजा भूतानि परिरक्षति +उदीचीं दीपयन्नेष दिशं तिष्ठति कीर्तिमान् +महामेरुर्महाभाग शिवो ब्रह्मविदां गतिः +यस्मिन्ब्रह्मसदश्चैव तिष्ठते च प्रजापतिः +भूतात्मा विसृजन्सर्वं यत्किंचिज्जङ्गमागमम् +यानाहुर्ब्रह्मणः पुत्रान्मानसान्दक्षसप्तमान् +तेषामपि महामेरुः स्थानं शिवमनामयम् +अत्रैव प्रतितिष्ठन्ति पुनरत्रोदयन्ति च +सप्त देवर्षयस्तात वसिष्ठप्रमुखाः सदा +देशं विरजसं पश्य मेरोः शिखरमुत्तमम् +यत्रात्मतृप्तैरध्यास्ते देवैः सह पितामहः +यमाहुः सर्वभूतानां प्रकृतेः प्रकृतिं ध्रुवम् +अनादिनिधनं देवं प्रभुं नारायणं परम् +ब्रह्मणः सदनात्तस्य परं स्थानं प्रकाशते +देवाश्च यत्नात्पश्यन्ति दिव्यं तेजोमयं शिवम् +अत्यर्कानलदीप्तं तत्स्थानं विष्णोर्महात्मनः +स्वयैव प्रभया राजन्दुष्प्रेक्ष्यं देवदानवैः +तद्वै ज्योतींषि सर्वाणि प्राप्य भासन्ति नोऽपि च +स्वयं विभुरदीनात्मा तत्र ह्यभिविराजते +यतयस्तत्र गच्छन्ति भक्त्या नारायणं हरिम् +परेण तपसा युक्ता भाविताः कर्मभिः शुभैः +योगसिद्धा महात्मानस्तमोमोहविवर्जिताः +तत्र गत्वा पुनर्नेमं लोकमायान्ति भारत +स्थानमेतन्महाभाग ध्रुवमक्षयमव्ययम् +ईश्वरस्य सदा ह्येतत्प्रणमात्र युधिष्ठिर +एतं ज्योतींषि सर्वाणि प्रकर्षन्भगवानपि +कुरुते वितमस्कर्मा आदित्योऽभिप्रदक्षिणम् +अस्तं प्राप्य ततः संध्यामतिक्रम्य दिवाकरः +उदीचीं भजते काष्ठां दिशमेष विभावसुः +स मेरुमनुवृत्तः सन्पुनर्गच्छति पाण्डव +प्राङ्मुखः सविता देवः सर्वभूतहिते रतः +स मासं विभजन्कालं बहुधा पर्वसंधिषु +तथैव भगवान्सोमो नक्षत्रैः सह गच्छति +एवमेष परिक्रम्य महामेरुमतन्द्रितः +भावयन्सर्वभूतानि पुनर्गच्छति मन्दरम् +तथा तमिस्रहा देवो मयूखैर्भावयञ्जगत् +मार्गमेतदसंबाधमादित्यः परिवर्तते +सिसृक्षुः शिशिराण्येष दक्षिणां भजते दिशम् +ततः सर्वाणि भूतानि कालः शिशिरमृच्छति +स्थावराणां च भूतानां जङ्गमानां च तेजसा +तेजांसि समुपादत्ते निवृत्तः सन्विभावसुः +ततः स्वेदः क्लमस्तन्द्री ग्लानिश्च भजते नरान् +प्राणिभिः सततं स्वप्नो ह्यभीक्ष्णं च निषेव्यते +एवमेतदनिर्देश्यं मार्गमावृत्य भानुमान् +पुनः सृजति वर्षाणि भगवान्भावयन्प्रजाः +वृष्टिमारुतसंतापैः सुखैः स्थावरजङ्गमान् +वर्धयन्सुमहातेजाः पुनः प्रतिनिवर्तते +एवमेष चरन्पार्थ कालचक्रमतन्द्रितः +प्रकर्षन्सर्वभूतानि सविता परिवर्तते +संतता गतिरेतस्य नैष तिष्ठति पाण्डव +आदायैव तु भूतानां तेजो विसृजते पुनः +विभजन्सर्वभूतानामायुः कर्म च भारत +अहोरात्रान्कलाः काष्ठाः सृजत्येष सदा विभुः +वैशंपायन उवाच +तस्मिन्नगेन्द्रे वसतां तु तेषां; महात्मनां सद्व्रतमास्थितानाम् +रतिः प्रमोदश्च बभूव तेषा;माकाङ्क्षतां दर्शनमर्जुनस्य +तान्वीर्ययुक्तान्सुविशुद्धसत्त्वां;स्तेजस्विनः सत्यधृतिप्रधानान् +संप्रीयमाणा बहवोऽभिजग्मु;र्गन्धर्वसंघाश्च महर्षयश्च +तं पादपैः पुष्पधरैरुपेतं; नगोत्तमं प्राप्य महारथानाम् +मनःप्रसादः परमो बभूव; यथा दिवं प्राप्य मरुद्गणानाम् +मयूरहंसस्वननादितानि; पुष्पोपकीर्णानि महाचलस्य +शृङ्गाणि सानूनि च पश्यमाना; गिरेः परं हर्षमवाप्य तस्थुः +साक्षात्कुबेरेण कृताश्च तस्मि;न्नगोत्तमे संवृतकूलरोधसः +कादम्बकारण्डवहंसजुष्टाः; पद्माकुलाः पुष्करिणीरपश्यन् +क्रीडाप्रदेशांश्च समृद्धरूपा;न्सुचित्रमाल्यावृतजातशोभान् +मणिप्रवेकान्सुमनोहरांश्च; यथा भवेयुर्धनदस्य राज्ञः +अनेकवर्णैश्च सुगन्धिभिश्च; महाद्रुमैः संततमभ्रमालिभिः +तपःप्रधानाः सततं चरन्तः; शृङ्गं गिरेश्चिन्तयितुं न शेकुः +स्वतेजसा तस्य नगोत्तमस्य; महौषधीनां च तथा प्रभावात् +विभक्तभावो न बभूव कश्चि;दहर्निशानां पुरुषप्रवीर +यमास्थितः स्थावरजङ्गमानि; विभावसुर्भावयतेऽमितौजाः +तस्योदयं चास्तमयं च वीरा;स्तत्र स्थितास्ते ददृशुर्नृसिंहाः +रवेस्तमिस्रागमनिर्गमांस्ते; तथोदयं चास्तमयं च वीराः +समावृताः प्रेक्ष्य तमोनुदस्य; गभस्तिजालैः प्रदिशो दिशश्च +स्वाध्यायवन्तः सततक्रियाश्च; धर्मप्रधानाश्च शुचिव्रताश्च +सत्ये स्थितास्तस्य महारथस्य; सत्यव्रतस्यागमनप्रतीक्षाः +इहैव हर्षोऽस्तु समागतानां; क्षिप्रं कृतास्त्रेण धनंजयेन +इति ब्रुवन्तः परमाशिषस्ते; पार्थास्तपोयोगपरा बभूवुः +दृष्ट्वा विचित्राणि गिरौ वनानि; किरीटिनं चिन्तयतामभीक्ष्णम् +बभूव रात्रिर्दिवसश्च तेषां; संवत्सरेणैव समानरूपः +यदैव धौम्यानुमते महात्मा; कृत्वा जटाः प्रव्रजितः स जिष्णुः +तदैव तेषां न बभूव हर्षः; कुतो रतिस्तद्गतमानसानाम् +भ्रातुर्नियोगात्तु युधिष्ठिरस्य; वनादसौ वारणमत्तगामी +यत्काम्यकात्प्रव्रजितः स जिष्णु;स्तदैव ते शोकहता बभूवुः +तथा तु तं चिन्तयतां सिताश्व;मस्त्रार्थिनं वासवमभ्युपेतम् +मासोऽथ कृच्छ्रेण तदा व्यतीत;स्तस्मिन्नगे भारत भारतानाम् +ततः कदाचिद्धरिसंप्रयुक्तं; महेन्द्रवाहं सहसोपयातम् +विद्युत्प्रभं प्रेक्ष्य महारथानां; हर्षोऽर्जुनं चिन्तयतां बभूव +स दीप्यमानः सहसान्तरिक्षं; प्रकाशयन्मातलिसंगृहीतः +बभौ महोल्केव घनान्तरस्था; शिखेव चाग्नेर्ज्वलिता विधूमा +तमा���्थितः संददृशे किरीटी; स्रग्वी वराण्याभरणानि बिभ्रत् +धनंजयो वज्रधरप्रभावः; श्रिया ज्वलन्पर्वतमाजगाम +स शैलमासाद्य किरीटमाली; महेन्द्रवाहादवरुह्य तस्मात् +धौम्यस्य पादावभिवाद्य पूर्व;मजातशत्रोस्तदनन्तरं च +वृकोदरस्यापि ववन्द पादौ; माद्रीसुताभ्यामभिवादितश्च +समेत्य कृष्णां परिसान्त्व्य चैनां; प्रह्वोऽभवद्भ्रातुरुपह्वरे सः +बभूव तेषां परमः प्रहर्ष;स्तेनाप्रमेयेण समागतानाम् +स चापि तान्प्रेक्ष्य किरीटमाली; ननन्द राजानमभिप्रशंसन् +यमास्थितः सप्त जघान पूगा;न्दितेः सुतानां नमुचेर्निहन्ता +तमिन्द्रवाहं समुपेत्य पार्थाः; प्रदक्षिणं चक्रुरदीनसत्त्वाः +ते मातलेश्चक्रुरतीव हृष्टाः; सत्कारमग्र्यं सुरराजतुल्यम् +सर्वं यथावच्च दिवौकसस्ता;न्पप्रच्छुरेनं कुरुराजपुत्राः +तानप्यसौ मातलिरभ्यनन्द;त्पितेव पुत्राननुशिष्य चैनान् +ययौ रथेनाप्रतिमप्रभेण; पुनः सकाशं त्रिदिवेश्वरस्य +गते तु तस्मिन्वरदेववाहे; शक्रात्मजः सर्वरिपुप्रमाथी +शक्रेण दत्तानि ददौ महात्मा; महाधनान्युत्तमरूपवन्ति +दिवाकराभाणि विभूषणानि; प्रीतः प्रियायै सुतसोममात्रे +ततः स तेषां कुरुपुंगवानां; तेषां च सूर्याग्निसमप्रभाणाम् +विप्रर्षभाणामुपविश्य मध्ये; सर्वं यथावत्कथयां बभूव +एवं मयास्त्राण्युपशिक्षितानि; शक्राच्च वाताच्च शिवाच्च साक्षात् +तथैव शीलेन समाधिना च; प्रीताः सुरा मे सहिताः सहेन्द्राः +संक्षेपतो वै स विशुद्धकर्मा; तेभ्यः समाख्याय दिवि प्रवेशम् +माद्रीसुताभ्यां सहितः किरीटी; सुष्वाप तामावसतिं प्रतीतः +वैशंपायन उवाच +एतस्मिन्नेव काले तु सर्ववादित्रनिस्वनः +बभूव तुमुलः शब्दस्त्वन्तरिक्षे दिवौकसाम् +रथनेमिस्वनश्चैव घण्टाशब्दश्च भारत +पृथग्व्यालमृगाणां च पक्षिणां चैव सर्वशः +तं समन्तादनुययुर्गन्धर्वाप्सरसस्तथा +विमानैः सूर्यसंकाशैर्देवराजमरिंदमम् +ततः स हरिभिर्युक्तं जाम्बूनदपरिष्कृतम् +मेघनादिनमारुह्य श्रिया परमया ज्वलन् +पार्थानभ्याजगामाशु देवराजः पुरंदरः +आगत्य च सहस्राक्षो रथादवरुरोह वै +तं दृष्ट्वैव महात्मानं धर्मराजो युधिष्ठिरः +भ्रातृभिः सहितः श्रीमान्देवराजमुपागमत् +पूजयामास चैवाथ विधिवद्भूरिदक्षिणः +यथार्हममितात्मानं विधिदृष्टेन कर्मणा +धनंजयश्च तेजस्वी प्रणिपत्य पुरंदरम् +भृत्यवत्प्रणतस्तस्थौ देवराजसमीपतः +आप्यायत महातेजाः कुन्तीपुत्रो युधिष्ठिरः +धनंजयमभिप्रेक्ष्य विनीतं स्थितमन्तिके +जटिलं देवराजस्य तपोयुक्तमकल्मषम् +हर्षेण महताविष्टः फल्गुनस्याथ दर्शनात् +तं तथादीनमनसं राजानं हर्षसंप्लुतम् +उवाच वचनं धीमान्देवराजः पुरंदरः +त्वमिमां पृथिवीं राजन्प्रशासिष्यसि पाण्डव +स्वस्ति प्राप्नुहि कौन्तेय काम्यकं पुनराश्रमम् +अस्त्राणि लब्धानि च पाण्डवेन; सर्वाणि मत्तः प्रयतेन राजन् +कृतप्रियश्चास्मि धनंजयेन; जेतुं न शक्यस्त्रिभिरेष लोकैः +एवमुक्त्वा सहस्राक्षः कुन्तीपुत्रं युधिष्ठिरम् +जगाम त्रिदिवं हृष्टः स्तूयमानो महर्षिभिः +धनेश्वरगृहस्थानां पाण्डवानां समागमम् +शक्रेण य इमं विद्वानधीयीत समाहितः +संवत्सरं ब्रह्मचारी नियतः संशितव्रतः +स जीवेत निराबाधः सुसुखी शरदां शतम् +वैशंपायन उवाच +यथागतं गते शक्रे भ्रातृभिः सह संगतः +कृष्णया चैव बीभत्सुर्धर्मपुत्रमपूजयत् +अभिवादयमानं तु मूर्ध्न्युपाघ्राय पाण्डवम् +हर्षगद्गदया वाचा प्रहृष्टोऽर्जुनमब्रवीत् +कथमर्जुन कालोऽयं स्वर्गे व्यतिगतस्तव +कथं चास्त्राण्यवाप्तानि देवराजश्च तोषितः +सम्यग्वा ते गृहीतानि कच्चिदस्त्राणि भारत +कच्चित्सुराधिपः प्रीतो रुद्रश्चास्त्राण्यदात्तव +यथा दृष्टश्च ते शक्रो भगवान्वा पिनाकधृक् +यथा चास्त्राण्यवाप्तानि यथा चाराधितश्च ते +यथोक्तवांस्त्वां भगवाञ्शतक्रतुररिंदम +कृतप्रियस्त्वयास्मीति तच्च ते किं प्रियं कृतम् +एतदिच्छाम्यहं श्रोतुं विस्तरेण महाद्युते +यथा तुष्टो महादेवो देवराजश्च तेऽनघ +यच्चापि वज्रपाणेस्ते प्रियं कृतमरिंदम +एतदाख्याहि मे सर्वमखिलेन धनंजय +अर्जुन उवाच +शृणु हन्त महाराज विधिना येन दृष्टवान् +शतक्रतुमहं देवं भगवन्तं च शंकरम् +विद्यामधीत्य तां राजंस्त्वयोक्तामरिमर्दन +भवता च समादिष्टस्तपसे प्रस्थितो वनम् +भृगुतुङ्गमथो गत्वा काम्यकादास्थितस्तपः +एकरात्रोषितः कंचिदपश्यं ब्राह्मणं पथि +स मामपृच्छत्कौन्तेय क्वासि गन्ता ब्रवीहि मे +तस्मा अवितथं सर्वमब्रुवं कुरुनन्दन +स तथ्यं मम तच्छ्रुत्वा ब्राह्मणो राजसत्तम +अपूजयत मां राजन्प्रीतिमांश्चाभवन्मयि +ततो मामब्रवीत्प्रीतस्तप आतिष्ठ भारत +तपस्वी नचिरेण त्वं द्रक्ष्यसे विबुधाधिपम् +ततोऽहं वचनात्तस्य गिरिमारुह्य शैशिरम् +तपोऽतप्यं महाराज मासं मूलफलाशनः +द्वितीयश्चापि मे मासो जलं भक्षयतो गतः +निराहारस्तृतीयेऽथ मासे पाण्डवनन्दन +ऊर्ध्वबाहुश्चतुर्थं तु मासमस्मि स्थितस्तदा +न च मे हीयते प्राणस्तदद्भुतमिवाभवत् +चतुर्थे समभिक्रान्ते प्रथमे दिवसे गते +वराहसंस्थितं भूतं मत्समीपमुपागमत् +निघ्नन्प्रोथेन पृथिवीं विलिखंश्चरणैरपि +संमार्जञ्जठरेणोर्वीं विवर्तंश्च मुहुर्मुहुः +अनु तस्यापरं भूतं महत्कैरातसंस्थितम् +धनुर्बाणासिमत्प्राप्तं स्त्रीगणानुगतं तदा +ततोऽहं धनुरादाय तथाक्षय्यौ महेषुधी +अताडयं शरेणाथ तद्भूतं लोमहर्षणम् +युगपत्तत्किरातश्च विकृष्य बलवद्धनुः +अभ्याजघ्ने दृढतरं कम्पयन्निव मे मनः +स तु मामब्रवीद्राजन्मम पूर्वपरिग्रहः +मृगयाधर्ममुत्सृज्य किमर्थं ताडितस्त्वया +एष ते निशितैर्बाणैर्दर्पं हन्मि स्थिरो भव +स वर्ष्मवान्महाकायस्ततो मामभ्यधावत +ततो गिरिमिवात्यर्थमावृणोन्मां महाशरैः +तं चाहं शरवर्षेण महता समवाकिरम् +ततः शरैर्दीप्तमुखैः पत्रितैरनुमन्त्रितैः +प्रत्यविध्यमहं तं तु वज्रैरिव शिलोच्चयम् +तस्य तच्छतधा रूपमभवच्च सहस्रधा +तानि चास्य शरीराणि शरैरहमताडयम् +पुनस्तानि शरीराणि एकीभूतानि भारत +अदृश्यन्त महाराज तान्यहं व्यधमं पुनः +अणुर्बृहच्छिरा भूत्वा बृहच्चाणुशिराः पुनः +एकीभूतस्तदा राजन्सोऽभ्यवर्तत मां युधि +यदाभिभवितुं बाणैर्नैव शक्नोमि तं रणे +ततोऽहमस्त्रमातिष्ठं वायव्यं भरतर्षभ +न चैनमशकं हन्तुं तदद्भुतमिवाभवत् +तस्मिन्प्रतिहते चास्त्रे विस्मयो मे महानभूत् +भूयश्चैव महाराज सविशेषमहं ततः +अस्त्रपूगेन महता रणे भूतमवाकिरम् +स्थूणाकर्णमयोजालं शरवर्षं शरोल्बणम् +शैलास्त्रमश्मवर्षं च समास्थायाहमभ्ययाम् +जग्रास प्रहसंस्तानि सर्वाण्यस्त्राणि मेऽनघ +तेषु सर्वेषु शान्तेषु ब्रह्मास्त्रमहमादिशम् +ततः प्रज्वलितैर्बाणैः सर्वतः सोपचीयत +उपचीयमानश्च मया महास्त्रेण व्यवर्धत +ततः संतापितो लोको मत्प्रसूतेन तेजसा +क्षणेन हि दिशः खं च सर्वतोऽभिविदीपितम् +तदप्यस्त्रं महातेजाः क्षणेनैव व्यशातयत् +ब्रह्मास्त्रे तु हते राजन्भयं मां महदाविशत् +ततोऽहं धनुरादाय तथाक्षय्यौ महेषुधी +सहसाभ्यहनं भूतं तान्यप्यस्त्राण्यभक्षय��् +हतेष्वस्त्रेषु सर्वेषु भक्षितेष्वायुधेषु च +मम तस्य च भूतस्य बाहुयुद्धमवर्तत +व्यायामं मुष्टिभिः कृत्वा तलैरपि समाहतौ +अपातयच्च तद्भूतं निश्चेष्टो ह्यगमं महीम् +ततः प्रहस्य तद्भूतं तत्रैवान्तरधीयत +सह स्त्रीभिर्महाराज पश्यतो मेऽद्भुतोपमम् +एवं कृत्वा स भगवांस्ततोऽन्यद्रूपमात्मनः +दिव्यमेव महाराज वसानोऽद्भुतमम्बरम् +हित्वा किरातरूपं च भगवांस्त्रिदशेश्वरः +स्वरूपं दिव्यमास्थाय तस्थौ तत्र महेश्वरः +अदृश्यत ततः साक्षाद्भगवान्गोवृषध्वजः +उमासहायो हरिदृग्बहुरूपः पिनाकधृक् +स मामभ्येत्य समरे तथैवाभिमुखं स्थितम् +शूलपाणिरथोवाच तुष्टोऽस्मीति परंतप +ततस्तद्धनुरादाय तूणौ चाक्षय्यसायकौ +प्रादान्ममैव भगवान्वरयस्वेति चाब्रवीत् +तुष्टोऽस्मि तव कौन्तेय ब्रूहि किं करवाणि ते +यत्ते मनोगतं वीर तद्ब्रूहि वितराम्यहम् +अमरत्वमपाहाय ब्रूहि यत्ते मनोगतम् +ततः प्राञ्जलिरेवाहमस्त्रेषु गतमानसः +प्रणम्य शिरसा शर्वं ततो वचनमाददे +भगवान्मे प्रसन्नश्चेदीप्सितोऽयं वरो मम +अस्त्राणीच्छाम्यहं ज्ञातुं यानि देवेषु कानिचित् +ददानीत्येव भगवानब्रवीत्त्र्यम्बकश्च माम् +रौद्रमस्त्रं मदीयं त्वामुपस्थास्यति पाण्डव +प्रददौ च मम प्रीतः सोऽस्त्रं पाशुपतं प्रभुः +उवाच च महादेवो दत्त्वा मेऽस्त्रं सनातनम् +न प्रयोज्यं भवेदेतन्मानुषेषु कथंचन +पीड्यमानेन बलवत्प्रयोज्यं ते धनंजय +अस्त्राणां प्रतिघाते च सर्वथैव प्रयोजयेः +तदप्रतिहतं दिव्यं सर्वास्त्रप्रतिषेधनम् +मूर्तिमन्मे स्थितं पार्श्वे प्रसन्ने गोवृषध्वजे +उत्सादनममित्राणां परसेनानिकर्तनम् +दुरासदं दुष्प्रहसं सुरदानवराक्षसैः +अनुज्ञातस्त्वहं तेन तत्रैव समुपाविशम् +प्रेक्षतश्चैव मे देवस्तत्रैवान्तरधीयत +अर्जुन उवाच +ततस्तामवसं प्रीतो रजनीं तत्र भारत +प्रसादाद्देवदेवस्य त्र्यम्बकस्य महात्मनः +व्युषितो रजनीं चाहं कृत्वा पूर्वाह्णिकक्रियाम् +अपश्यं तं द्विजश्रेष्ठं दृष्टवानस्मि यं पुरा +तस्मै चाहं यथावृत्तं सर्वमेव न्यवेदयम् +भगवन्तं महादेवं समेतोऽस्मीति भारत +स मामुवाच राजेन्द्र प्रीयमाणो द्विजोत्तमः +दृष्टस्त्वया महादेवो यथा नान्येन केनचित् +समेत्य लोकपालैस्तु सर्वैर्वैवस्वतादिभिः +द्रष्टास्यनघ देवेन्द्रं स च तेऽस्त्रा���ि दास्यति +एवमुक्त्वा स मां राजन्नाश्लिष्य च पुनः पुनः +अगच्छत्स यथाकामं ब्राह्मणः सूर्यसंनिभः +अथापराह्णे तस्याह्नः प्रावात्पुण्यः समीरणः +पुनर्नवमिमं लोकं कुर्वन्निव सपत्नहन् +दिव्यानि चैव माल्यानि सुगन्धीनि नवानि च +शैशिरस्य गिरेः पादे प्रादुरासन्समीपतः +वादित्राणि च दिव्यानि सुघोषाणि समन्ततः +स्तुतयश्चेन्द्रसंयुक्ता अश्रूयन्त मनोहराः +गणाश्चाप्सरसां तत्र गन्धर्वाणां तथैव च +पुरस्ताद्देवदेवस्य जगुर्गीतानि सर्वशः +मरुतां च गणास्तत्र देवयानैरुपागमन् +महेन्द्रानुचरा ये च देवसद्मनिवासिनः +ततो मरुत्वान्हरिभिर्युक्तैर्वाहैः स्वलंकृतैः +शचीसहायस्तत्रायात्सह सर्वैस्तदामरैः +एतस्मिन्नेव काले तु कुबेरो नरवाहनः +दर्शयामास मां राजँल्लक्ष्म्या परमया युतः +दक्षिणस्यां दिशि यमं प्रत्यपश्यं व्यवस्थितम् +वरुणं देवराजं च यथास्थानमवस्थितम् +ते मामूचुर्महाराज सान्त्वयित्वा सुरर्षभाः +सव्यसाचिन्समीक्षस्व लोकपालानवस्थितान् +सुरकार्यार्थसिद्ध्यर्थं दृष्टवानसि शंकरम् +अस्मत्तोऽपि गृहाण त्वमस्त्राणीति समन्ततः +ततोऽहं प्रयतो भूत्वा प्रणिपत्य सुरर्षभान् +प्रत्यगृह्णं तदास्त्राणि महान्ति विधिवत्प्रभो +गृहीतास्त्रस्ततो देवैरनुज्ञातोऽस्मि भारत +अथ देवा ययुः सर्वे यथागतमरिंदम +मघवानपि देवेशो रथमारुह्य सुप्रभम् +उवाच भगवान्वाक्यं स्मयन्निव सुरारिहा +पुरैवागमनादस्माद्वेदाहं त्वां धनंजय +अतः परं त्वहं वै त्वां दर्शये भरतर्षभ +त्वया हि तीर्थेषु पुरा समाप्लावः कृतोऽसकृत् +तपश्चेदं पुरा तप्तं स्वर्गं गन्तासि पाण्डव +भूयश्चैव तु तप्तव्यं तपः परमदारुणम् +उवाच भगवान्सर्वं तपसश्चोपपादनम् +मातलिर्मन्नियोगात्त्वां त्रिदिवं प्रापयिष्यति +विदितस्त्वं हि देवानामृषीणां च महात्मनाम् +ततोऽहमब्रुवं शक्रं प्रसीद भगवन्मम +आचार्यं वरये त्वाहमस्त्रार्थं त्रिदशेश्वर +इन्द्र उवाच +क्रूरं कर्मास्त्रवित्तात करिष्यसि परंतप +यदर्थमस्त्राणीप्सुस्त्वं तं कामं पाण्डवाप्नुहि +अर्जुन उवाच +ततोऽहमब्रुवं नाहं दिव्यान्यस्त्राणि शत्रुहन् +मानुषेषु प्रयोक्ष्यामि विनास्त्रप्रतिघातनम् +तानि दिव्यानि मेऽस्त्राणि प्रयच्छ विबुधाधिप +लोकांश्चास्त्रजितान्पश्चाल्लभेयं सुरपुंगव +इन्द्र उवाच +���रीक्षार्थं मयैतत्ते वाक्यमुक्तं धनंजय +ममात्मजस्य वचनं सूपपन्नमिदं तव +शिक्ष मे भवनं गत्वा सर्वाण्यस्त्राणि भारत +वायोरग्नेर्वसुभ्योऽथ वरुणात्समरुद्गणात् +साध्यं पैतामहं चैव गन्धर्वोरगरक्षसाम् +वैष्णवानि च सर्वाणि नैरृतानि तथैव च +मद्गतानि च यानीह सर्वास्त्राणि कुरूद्वह +अर्जुन उवाच +एवमुक्त्वा तु मां शक्रस्तत्रैवान्तरधीयत +अथापश्यं हरियुजं रथमैन्द्रमुपस्थितम् +दिव्यं मायामयं पुण्यं यत्तं मातलिना नृप +लोकपालेषु यातेषु मामुवाचाथ मातलिः +द्रष्टुमिच्छति शक्रस्त्वां देवराजो महाद्युते +संसिद्धस्त्वं महाबाहो कुरु कार्यमनुत्तमम् +पश्य पुण्यकृतां लोकान्सशरीरो दिवं व्रज +इत्युक्तोऽहं मातलिना गिरिमामन्त्र्य शैशिरम् +प्रदक्षिणमुपावृत्य समारोहं रथोत्तमम् +चोदयामास स हयान्मनोमारुतरंहसः +मातलिर्हयशास्त्रज्ञो यथावद्भूरिदक्षिणः +अवैक्षत च मे वक्त्रं स्थितस्याथ स सारथिः +तथा भ्रान्ते रथे राजन्विस्मितश्चेदमब्रवीत् +अत्यद्भुतमिदं मेऽद्य विचित्रं प्रतिभाति माम् +यदास्थितो रथं दिव्यं पदा न चलितो भवान् +देवराजोऽपि हि मया नित्यमत्रोपलक्षितः +विचलन्प्रथमोत्पाते हयानां भरतर्षभ +त्वं पुनः स्थित एवात्र रथे भ्रान्ते कुरूद्वह +अतिशक्रमिदं सत्त्वं तवेति प्रतिभाति मे +इत्युक्त्वाकाशमाविश्य मातलिर्विबुधालयान् +दर्शयामास मे राजन्विमानानि च भारत +नन्दनादीनि देवानां वनानि बहुलान्युत +दर्शयामास मे प्रीत्या मातलिः शक्रसारथिः +ततः शक्रस्य भवनमपश्यममरावतीम् +दिव्यैः कामफलैर्वृक्षै रत्नैश्च समलंकृताम् +न तां भासयते सूर्यो न शीतोष्णे न च क्लमः +रजः पङ्को न च तमस्तत्रास्ति न जरा नृप +न तत्र शोको दैन्यं वा वैवर्ण्यं चोपलक्ष्यते +दिवौकसां महाराज न च ग्लानिररिंदम +न क्रोधलोभौ तत्रास्तामशुभं च विशां पते +नित्यतुष्टाश्च हृष्टाश्च प्राणिनः सुरवेश्मनि +नित्यपुष्पफलास्तत्र पादपा हरितच्छदाः +पुष्करिण्यश्च विविधाः पद्मसौगन्धिकायुताः +शीतस्तत्र ववौ वायुः सुगन्धो जीवनः शुचिः +सर्वरत्नविचित्रा च भूमिः पुष्पविभूषिता +मृगद्विजाश्च बहवो रुचिरा मधुरस्वराः +विमानयायिनश्चात्र दृश्यन्ते बहवोऽमराः +ततोऽपश्यं वसून्रुद्रान्साध्यांश्च समरुद्गणान् +आदित्यानश्विनौ चैव तान्सर्वान्प्रत्यपूजयम् +ते मां वीर्येण यशसा तेजसा च बलेन च +अस्त्रैश्चाप्यन्वजानन्त संग्रामविजयेन च +प्रविश्य तां पुरीं रम्यां देवगन्धर्वसेविताम् +देवराजं सहस्राक्षमुपातिष्ठं कृताञ्जलिः +ददावर्धासनं प्रीतः शक्रो मे ददतां वरः +बहुमानाच्च गात्राणि पस्पर्श मम वासवः +तत्राहं देवगन्धर्वैः सहितो भूरिदक्षिण +अस्त्रार्थमवसं स्वर्गे कुर्वाणोऽस्त्राणि भारत +विश्वावसोश्च मे पुत्रश्चित्रसेनोऽभवत्सखा +स च गान्धर्वमखिलं ग्राहयामास मां नृप +ततोऽहमवसं राजन्गृहीतास्त्रः सुपूजितः +सुखं शक्रस्य भवने सर्वकामसमन्वितः +शृण्वन्वै गीतशब्दं च तूर्यशब्दं च पुष्कलम् +पश्यंश्चाप्सरसः श्रेष्ठा नृत्यमानाः परंतप +तत्सर्वमनवज्ञाय तथ्यं विज्ज्ञाय भारत +अत्यर्थं प्रतिगृह्याहमस्त्रेष्वेव व्यवस्थितः +ततोऽतुष्यत्सहस्राक्षस्तेन कामेन मे विभुः +एवं मे वसतो राजन्नेष कालोऽत्यगाद्दिवि +अर्जुन उवाच +कृतास्त्रमभिविश्वस्तमथ मां हरिवाहनः +संस्पृश्य मूर्ध्नि पाणिभ्यामिदं वचनमब्रवीत् +न त्वमद्य युधा जेतुं शक्यः सुरगणैरपि +किं पुनर्मानुषे लोके मानुषैरकृतात्मभिः +अप्रमेयोऽप्रधृष्यश्च युद्धेष्वप्रतिमस्तथा +अथाब्रवीत्पुनर्देवः संप्रहृष्टतनूरुहः +अस्त्रयुद्धे समो वीर न ते कश्चिद्भविष्यति +अप्रमत्तः सदा दक्षः सत्यवादी जितेन्द्रियः +ब्रह्मण्यश्चास्त्रविच्चासि शूरश्चासि कुरूद्वह +अस्त्राणि समवाप्तानि त्वया दश च पञ्च च +पञ्चभिर्विधिभिः पार्थ न त्वया विद्यते समः +प्रयोगमुपसंहारमावृत्तिं च धनंजय +प्रायश्चित्तं च वेत्थ त्वं प्रतिघातं च सर्वशः +तव गुर्वर्थकालोऽयमुपपन्नः परंतप +प्रतिजानीष्व तं कर्तुमतो वेत्स्याम्यहं परम् +ततोऽहमब्रुवं राजन्देवराजमिदं वचः +विषह्यं चेन्मया कर्तुं कृतमेव निबोध तत् +ततो मामब्रवीद्राजन्प्रहस्य बलवृत्रहा +नाविषह्यं तवाद्यास्ति त्रिषु लोकेषु किंचन +निवातकवचा नाम दानवा मम शत्रवः +समुद्रकुक्षिमाश्रित्य दुर्गे प्रतिवसन्त्युत +तिस्रः कोट्यः समाख्यातास्तुल्यरूपबलप्रभाः +तांस्तत्र जहि कौन्तेय गुर्वर्थस्ते भविष्यति +ततो मातलिसंयुक्तं मयूरसमरोमभिः +हयैरुपेतं प्रादान्मे रथं दिव्यं महाप्रभम् +बबन्ध चैव मे मूर्ध्नि किरीटमिदमुत्तमम् +स्वरूपसदृशं चैव प्रादादङ्गविभूषणम् +अभेद्यं कवचं चेदं स्पर्शरू��वदुत्तमम् +अजरां ज्यामिमां चापि गाण्डीवे समयोजयत् +ततः प्रायामहं तेन स्यन्दनेन विराजता +येनाजयद्देवपतिर्बलिं वैरोचनिं पुरा +ततो देवाः सर्व एव तेन घोषेण बोधितः +मन्वाना देवराजं मां समाजग्मुर्विशां पते +दृष्ट्वा च मामपृच्छन्त किं करिष्यसि फल्गुन +तानब्रुवं यथाभूतमिदं कर्तास्मि संयुगे +निवातकवचानां तु प्रस्थितं मां वधैषिणम् +निबोधत महाभागाः शिवं चाशास्त मेऽनघाः +तुष्टुवुर्मां प्रसन्नास्ते यथा देवं पुरंदरम् +रथेनानेन मघवा जितवाञ्शम्बरं युधि +नमुचिं बलवृत्रौ च प्रह्लादनरकावपि +बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च +रथेनानेन दैत्यानां जितवान्मघवान्युधि +त्वमप्येतेन कौन्तेय निवातकवचान्रणे +विजेता युधि विक्रम्य पुरेव मघवान्वशी +अयं च शङ्खप्रवरो येन जेतासि दानवान् +अनेन विजिता लोकाः शक्रेणापि महात्मना +प्रदीयमानं देवैस्तु देवदत्तं जलोद्भवम् +प्रत्यगृह्णं जयायैनं स्तूयमानस्तदामरैः +स शङ्खी कवची बाणी प्रगृहीतशरासनः +दानवालयमत्युग्रं प्रयातोऽस्मि युयुत्सया +अर्जुन उवाच +ततोऽहं स्तूयमानस्तु तत्र तत्र महर्षिभिः +अपश्यमुदधिं भीममपांपतिमथाव्ययम् +फेनवत्यः प्रकीर्णाश्च संहताश्च समुच्छ्रिताः +ऊर्मयश्चात्र दृश्यन्ते चलन्त इव पर्वताः +नावः सहस्रशस्तत्र रत्नपूर्णाः समन्ततः +तिमिंगिलाः कच्छपाश्च तथा तिमितिमिंगिलाः +मकराश्चात्र दृश्यन्ते जले मग्ना इवाद्रयः +शङ्खानां च सहस्राणि मग्नान्यप्सु समन्ततः +दृश्यन्ते स्म यथा रात्रौ तारास्तन्वभ्रसंवृताः +तथा सहस्रशस्तत्र रत्नसंघाः प्लवन्त्युत +वायुश्च घूर्णते भीमस्तदद्भुतमिवाभवत् +तमतीत्य महावेगं सर्वाम्भोनिधिमुत्तमम् +अपश्यं दानवाकीर्णं तद्दैत्यपुरमन्तिकात् +तत्रैव मातलिस्तूर्णं निपत्य पृथिवीतले +नादयन्रथघोषेण तत्पुरं समुपाद्रवत् +रथघोषं तु तं श्रुत्वा स्तनयित्नोरिवाम्बरे +मन्वाना देवराजं मां संविग्ना दानवाभवन् +सर्वे संभ्रान्तमनसः शरचापधराः स्थिताः +तथा शूलासिपरशुगदामुसलपाणयः +ततो द्वाराणि पिदधुर्दानवास्त्रस्तचेतसः +संविधाय पुरे रक्षां न स्म कश्चन दृश्यते +ततः शङ्खमुपादाय देवदत्तं महास्वनम् +पुरमासुरमाश्लिष्य प्राधमं तं शनैरहम् +स तु शब्दो दिवं स्तब्ध्वा प्रतिशब्दमजीजनत् +वित्रेसुश्च निलिल्युश्च भूतानि सुमहान्त्यपि +ततो निवातकवचाः सर्व एव समन्ततः +दंशिता विविधैस्त्राणैर्विविधायुधपाणयः +आयसैश्च महाशूलैर्गदाभिर्मुसलैरपि +पट्टिशैः करवालैश्च रथचक्रैश्च भारत +शतघ्नीभिर्भुशुण्डीभिः खड्गैश्चित्रैः स्वलंकृतैः +प्रगृहीतैर्दितेः पुत्राः प्रादुरासन्सहस्रशः +ततो विचार्य बहुधा रथमार्गेषु तान्हयान् +प्राचोदयत्समे देशे मातलिर्भरतर्षभ +तेन तेषां प्रणुन्नानामाशुत्वाच्छीघ्रगामिनाम् +नान्वपश्यं तदा किंचित्तन्मेऽद्भुतमिवाभवत् +ततस्ते दानवास्तत्र योधव्रातान्यनेकशः +विकृतस्वररूपाणि भृशं सर्वाण्यचोदयन् +तेन शब्देन महता समुद्रे पर्वतोपमाः +आप्लवन्त गतैः सत्त्वैर्मत्स्याः शतसहस्रशः +ततो वेगेन महता दानवा मामुपाद्रवन् +विमुञ्चन्तः शितान्बाणाञ्शतशोऽथ सहस्रशः +स संप्रहारस्तुमुलस्तेषां मम च भारत +अवर्तत महाघोरो निवातकवचान्तकः +ततो देवर्षयश्चैव दानवर्षिगणाश्च ये +ब्रह्मर्षयश्च सिद्धाश्च समाजग्मुर्महामृधे +ते वै मामनुरूपाभिर्मधुराभिर्जयैषिणः +अस्तुवन्मुनयो वाग्भिर्यथेन्द्रं तारकामये +अर्जुन उवाच +ततो निवातकवचाः सर्वे वेगेन भारत +अभ्यद्रवन्मां सहिताः प्रगृहीतायुधा रणे +आच्छिद्य रथपन्थानमुत्क्रोशन्तो महारथाः +आवृत्य सर्वतस्ते मां शरवर्षैरवाकिरन् +ततोऽपरे महावीर्याः शूलपट्टिशपाणयः +शूलानि च भुशुण्डीश्च मुमुचुर्दानवा मयि +तच्छूलवर्षं सुमहद्गदाशक्तिसमाकुलम् +अनिशं सृज्यमानं तैरपतन्मद्रथोपरि +अन्ये मामभ्यधावन्त निवातकवचा युधि +शितशस्त्रायुधा रौद्राः कालरूपाः प्रहारिणः +तानहं विविधैर्बाणैर्वेगवद्भिरजिह्मगैः +गाण्डीवमुक्तैरभ्यघ्नमेकैकं दशभिर्मृधे +ते कृता विमुखाः सर्वे मत्प्रयुक्तैः शिलाशितैः +ततो मातलिना तूर्णं हयास्ते संप्रचोदिताः +रथमार्गाद्बहूंस्तत्र विचेरुर्वातरंहसः +सुसंयता मातलिना प्रामथ्नन्त दितेः सुतान् +शतं शतास्ते हरयस्तस्मिन्युक्ता महारथे +तदा मातलिना यत्ता व्यचरन्नल्पका इव +तेषां चरणपातेन रथनेमिस्वनेन च +मम बाणनिपातैश्च हतास्ते शतशोऽसुराः +गतासवस्तथा चान्ये प्रगृहीतशरासनाः +हतसारथयस्तत्र व्यकृष्यन्त तुरंगमैः +ते दिशो विदिशः सर्वाः प्रतिरुध्य प्रहारिणः +निघ्नन्ति विविधैः शस्त्रैस्ततो मे व्यथितं मनः +ततोऽहं मातलेर्वीर्यमपश्यं परमाद्भुतम् +अश्वांस्तथा वेगवतो यदयत्नादधारयत् +ततोऽहं लघुभिश्चित्रैरस्त्रैस्तानसुरान्रणे +सायुधानच्छिनं राजञ्शतशोऽथ सहस्रशः +एवं मे चरतस्तत्र सर्वयत्नेन शत्रुहन् +प्रीतिमानभवद्वीरो मातलिः शक्रसारथिः +वध्यमानास्ततस्ते तु हयैस्तेन रथेन च +अगमन्प्रक्षयं केचिन्न्यवर्तन्त तथापरे +स्पर्धमाना इवास्माभिर्निवातकवचा रणे +शरवर्षैर्महद्भिर्मां समन्तात्प्रत्यवारयन् +ततोऽहं लघुभिश्चित्रैर्ब्रह्मास्त्रपरिमन्त्रितैः +व्यधमं सायकैराशु शतशोऽथ सहस्रशः +ततः संपीड्यमानास्ते क्रोधाविष्टा महासुराः +अपीडयन्मां सहिताः शरशूलासिवृष्टिभिः +ततोऽहमस्त्रमातिष्ठं परमं तिग्मतेजसम् +दयितं देवराजस्य माधवं नाम भारत +ततः खड्गांस्त्रिशूलांश्च तोमरांश्च सहस्रशः +अस्त्रवीर्येण शतधा तैर्मुक्तानहमच्छिनम् +छित्त्वा प्रहरणान्येषां ततस्तानपि सर्वशः +प्रत्यविध्यमहं रोषाद्दशभिर्दशभिः शरैः +गाण्डीवाद्धि तदा संख्ये यथा भ्रमरपङ्क्तयः +निष्पतन्ति तथा बाणास्तन्मातलिरपूजयत् +तेषामपि तु बाणास्ते बहुत्वाच्छलभा इव +अवाकिरन्मां बलवत्तानहं व्यधमं शरैः +वध्यमानास्ततस्ते तु निवातकवचाः पुनः +शरवर्षैर्महद्भिर्मां समन्तात्पर्यवारयन् +शरवेगान्निहत्याहमस्त्रैः शरविघातिभिः +ज्वलद्भिः परमैः शीघ्रैस्तानविध्यं सहस्रशः +तेषां छिन्नानि गात्राणि विसृजन्ति स्म शोणितम् +प्रावृषीवातिवृष्टानि शृङ्गाणीव धराभृताम् +इन्द्राशनिसमस्पर्शैर्वेगवद्भिरजिह्मगैः +मद्बाणैर्वध्यमानास्ते समुद्विग्नाः स्म दानवाः +शतधा भिन्नदेहान्त्राः क्षीणप्रहरणौजसः +ततो निवातकवचा मामयुध्यन्त मायया +अर्जुन उवाच +ततोऽश्मवर्षं सुमहत्प्रादुरासीत्समन्ततः +नगमात्रैर्महाघोरैस्तन्मां दृढमपीडयत् +तदहं वज्रसंकाशैः शरैरिन्द्रास्त्रचोदितैः +अचूर्णयं वेगवद्भिः शतधैकैकमाहवे +चूर्ण्यमानेऽश्मवर्षे तु पावकः समजायत +तत्राश्मचूर्णमपतत्पावकप्रकरा इव +ततोऽश्मवर्षे निहते जलवर्षं महत्तरम् +धाराभिरक्षमात्राभिः प्रादुरासीन्ममान्तिके +नभसः प्रच्युता धारास्तिग्मवीर्याः सहस्रशः +आवृण्वन्सर्वतो व्योम दिशश्चोपदिशस्तथा +धाराणां च निपातेन वायोर्विस्फूर्जितेन च +गर्जितेन च दैत्यानां न प्राज्ञायत किंचन +धारा दिवि च संबद्धा वसुधायां च सर्वशः +व्यामोहयन्त मां तत्र निपतन्त्योऽनिशं भुवि +तत्रोपदिष्टमिन्द्रेण दिव्यमस्त्रं विशोषणम् +दीप्तं प्राहिणवं घोरमशुष्यत्तेन तज्जलम् +हतेऽश्मवर्षे तु मया जलवर्षे च शोषिते +मुमुचुर्दानवा मायामग्निं वायुं च मानद +ततोऽहमग्निं व्यधमं सलिलास्त्रेण सर्वशः +शैलेन च महास्त्रेण वायोर्वेगमधारयम् +तस्यां प्रतिहतायां तु दानवा युद्धदुर्मदाः +प्राकुर्वन्विविधा माया यौगपद्येन भारत +ततो वर्षं प्रादुरभूत्सुमहल्लोमहर्षणम् +अस्त्राणां घोररूपाणामग्नेर्वायोस्तथाश्मनाम् +सा तु मायामयी वृष्टिः पीडयामास मां युधि +अथ घोरं तमस्तीव्रं प्रादुरासीत्समन्ततः +तमसा संवृते लोके घोरेण परुषेण च +तुरगा विमुखाश्चासन्प्रास्खलच्चापि मातलिः +हस्ताद्धिरण्मयश्चास्य प्रतोदः प्रापतद्भुवि +असकृच्चाह मां भीतः क्वासीति भरतर्षभ +मां च भीराविशत्तीव्रा तस्मिन्विगतचेतसि +स च मां विगतज्ञानः संत्रस्त इदमब्रवीत् +सुराणामसुराणां च संग्रामः सुमहानभूत् +अमृतार्थे पुरा पार्थ स च दृष्टो मयानघ +शम्बरस्य वधे चापि संग्रामः सुमहानभूत् +सारथ्यं देवराजस्य तत्रापि कृतवानहम् +तथैव वृत्रस्य वधे संगृहीता हया मया +वैरोचनेर्मया युद्धं दृष्टं चापि सुदारुणम् +एते मया महाघोराः संग्रामाः पर्युपासिताः +न चापि विगतज्ञानो भूतपूर्वोऽस्मि पाण्डव +पितामहेन संहारः प्रजानां विहितो ध्रुवम् +न हि युद्धमिदं युक्तमन्यत्र जगतः क्षयात् +तस्य तद्वचनं श्रुत्वा संस्तभ्यात्मानमात्मना +मोहयिष्यन्दानवानामहं मायामयं बलम् +अब्रुवं मातलिं भीतं पश्य मे भुजयोर्बलम् +अस्त्राणां च प्रभावं मे धनुषो गाण्डिवस्य च +अद्यास्त्रमाययैतेषां मायामेतां सुदारुणाम् +विनिहन्मि तमश्चोग्रं मा भैः सूत स्थिरो भव +एवमुक्त्वाहमसृजमस्त्रमायां नराधिप +मोहनीं सर्वशत्रूणां हिताय त्रिदिवौकसाम् +पीड्यमानासु मायासु तासु तास्वसुरेश्वराः +पुनर्बहुविधा मायाः प्राकुर्वन्नमितौजसः +पुनः प्रकाशमभवत्तमसा ग्रस्यते पुनः +व्रजत्यदर्शनं लोकः पुनरप्सु निमज्जति +सुसंगृहीतैर्हरिभिः प्रकाशे सति मातलिः +व्यचरत्स्यन्दनाग्र्येण संग्रामे लोमहर्षणे +ततः पर्यपतन्नुग्रा निवातकवचा मयि +तानहं विवरं दृष्ट्वा प्राहिण्वं यमसादनम् +वर्तमाने तथा युद्धे निवातकवचान्तके +नापश्यं सहसा सर्वान्दानवान्मायय��वृतान् +अर्जुन उवाच +अदृश्यमानास्ते दैत्या योधयन्ति स्म मायया +अदृश्यानस्त्रवीर्येण तानप्यहमयोधयम् +गाण्डीवमुक्ता विशिखाः सम्यगस्त्रप्रचोदिताः +अच्छिन्दन्नुत्तमाङ्गानि यत्र यत्र स्म तेऽभवन् +ततो निवातकवचा वध्यमाना मया युधि +संहृत्य मायां सहसा प्राविशन्पुरमात्मनः +व्यपयातेषु दैत्येषु प्रादुर्भूते च दर्शने +अपश्यं दानवांस्तत्र हताञ्शतसहस्रशः +विनिष्पिष्टानि तत्रैषां शस्त्राण्याभरणानि च +कूटशः स्म प्रदृश्यन्ते गात्राणि कवचानि च +हयानां नान्तरं ह्यासीत्पदाद्विचलितुं पदम् +उत्पत्य सहसा तस्थुरन्तरिक्षगमास्ततः +ततो निवातकवचा व्योम संछाद्य केवलम् +अदृश्या ह्यभ्यवर्तन्त विसृजन्तः शिलोच्चयान् +अन्तर्भूमिगताश्चान्ये हयानां चरणान्यथ +न्यगृह्णन्दानवा घोरा रथचक्रे च भारत +विनिगृह्य हरीनश्वान्रथं च मम युध्यतः +सर्वतो मामचिन्वन्त सरथं धरणीधरैः +पर्वतैरुपचीयद्भिः पतमानैस्तथापरैः +स देशो यत्र वर्ताम गुहेव समपद्यत +पर्वतैश्छाद्यमानोऽहं निगृहीतैश्च वाजिभिः +अगच्छं परमामार्तिं मातलिस्तदलक्षयत् +लक्षयित्वा तु मां भीतमिदं वचनमब्रवीत् +अर्जुनार्जुन मा भैस्त्वं वज्रमस्त्रमुदीरय +ततोऽहं तस्य तद्वाक्यं श्रुत्वा वज्रमुदीरयम् +देवराजस्य दयितं वज्रमस्त्रं नराधिप +अचलं स्थानमासाद्य गाण्डीवमनुमन्त्र्य च +अमुञ्चं वज्रसंस्पर्शानायसान्निशिताञ्शरान् +ततो मायाश्च ताः सर्वा निवातकवचांश्च तान् +ते वज्रचोदिता बाणा वज्रभूताः समाविशन् +ते वज्रवेगाभिहता दानवाः पर्वतोपमाः +इतरेतरमाश्लिष्य न्यपतन्पृथिवीतले +अन्तर्भूमौ तु येऽगृह्णन्दानवा रथवाजिनः +अनुप्रविश्य तान्बाणाः प्राहिण्वन्यमसादनम् +हतैर्निवातकवचैर्निरस्तैः पर्वतोपमैः +समाच्छाद्यत देशः स विकीर्णैरिव पर्वतैः +न हयानां क्षतिः काचिन्न रथस्य न मातलेः +मम चादृश्यत तदा तदद्भुतमिवाभवत् +ततो मां प्रहसन्राजन्मातलिः प्रत्यभाषत +नैतदर्जुन देवेषु त्वयि वीर्यं यदीक्ष्यते +हतेष्वसुरसंघेषु दारास्तेषां तु सर्वशः +प्राक्रोशन्नगरे तस्मिन्यथा शरदि लक्ष्मणाः +ततो मातलिना सार्धमहं तत्पुरमभ्ययाम् +त्रासयन्रथघोषेण निवातकवचस्त्रियः +तान्दृष्ट्वा दशसाहस्रान्मयूरसदृशान्हयान् +रथं च रविसंकाशं प्राद्रवन्गणशः स्त्रियः +ताभिराभरणैः शब���दस्त्रासिताभिः समीरितः +शिलानामिव शैलेषु पतन्तीनामभूत्तदा +वित्रस्ता दैत्यनार्यस्ताः स्वानि वेश्मान्यथाविशन् +बहुरत्नविचित्राणि शातकुम्भमयानि च +तदद्भुताकारमहं दृष्ट्वा नगरमुत्तमम् +विशिष्टं देवनगरादपृच्छं मातलिं ततः +इदमेवंविधं कस्माद्देवता नाविशन्त्युत +पुरंदरपुराद्धीदं विशिष्टमिति लक्षये +मातलिरुवाच +आसीदिदं पुरा पार्थ देवराजस्य नः पुरम् +ततो निवातकवचैरितः प्रच्याविताः सुराः +तपस्तप्त्वा महत्तीव्रं प्रसाद्य च पितामहम् +इदं वृतं निवासाय देवेभ्यश्चाभयं युधि +ततः शक्रेण भगवान्स्वयम्भूरभिचोदितः +विधत्तां भगवानत्रेत्यात्मनो हितकाम्यया +तत उक्तो भगवता दिष्टमत्रेति वासवः +भवितान्तस्त्वमेवैषां देहेनान्येन वृत्रहन् +तत एषां वधार्थाय शक्रोऽस्त्राणि ददौ तव +न हि शक्याः सुरैर्हन्तुं य एते निहतास्त्वया +कालस्य परिणामेन ततस्त्वमिह भारत +एषामन्तकरः प्राप्तस्तत्त्वया च कृतं तथा +दानवानां विनाशार्थं महास्त्राणां महद्बलम् +ग्राहितस्त्वं महेन्द्रेण पुरुषेन्द्र तदुत्तमम् +अर्जुन उवाच +ततः प्रविश्य नगरं दानवांश्च निहत्य तान् +पुनर्मातलिना सार्धमगच्छं देवसद्म तत् +अर्जुन उवाच +निवर्तमानेन मया महद्दृष्टं ततोऽपरम् +पुरं कामचरं दिव्यं पावकार्कसमप्रभम् +द्रुमै रत्नमयैश्चैत्रैर्भास्वरैश्च पतत्रिभिः +पौलोमैः कालकेयैश्च नित्यहृष्टैरधिष्ठितम् +गोपुराट्टालकोपेतं चतुर्द्वारं दुरासदम् +सर्वरत्नमयं दिव्यमद्भुतोपमदर्शनम् +द्रुमैः पुष्पफलोपेतैर्दिव्यरत्नमयैर्वृतम् +तथा पतत्रिभिर्दिव्यैरुपेतं सुमनोहरैः +असुरैर्नित्यमुदितैः शूलर्ष्टिमुसलायुधैः +चापमुद्गरहस्तैश्च स्रग्विभिः सर्वतो वृतम् +तदहं प्रेक्ष्य दैत्यानां पुरमद्भुतदर्शनम् +अपृच्छं मातलिं राजन्किमिदं दृश्यतेति वै +मातलिरुवाच +पुलोमा नाम दैतेयी कालका च महासुरी +दिव्यं वर्षसहस्रं ते चेरतुः परमं तपः +तपसोऽन्ते ततस्ताभ्यां स्वयम्भूरददाद्वरम् +अगृह्णीतां वरं ते तु सुतानामल्पदुःखताम् +अवध्यतां च राजेन्द्र सुरराक्षसपन्नगैः +रमणीयं पुरं चेदं खचरं सुकृतप्रभम् +सर्वरत्नैः समुदितं दुर्धर्षममरैरपि +सयक्षगन्धर्वगणैः पन्नगासुरराक्षसैः +सर्वकामगुणोपेतं वीतशोकमनामयम् +ब्रह्मणा भरतश्रेष्ठ कालकेयकृते कृतम् +तदे���त्खचरं दिव्यं चरत्यमरवर्जितम् +पौलोमाध्युषितं वीर कालकेयैश्च दानवैः +हिरण्यपुरमित्येतत्ख्यायते नगरं महत् +रक्षितं कालकेयैश्च पौलोमैश्च महासुरैः +त एते मुदिता नित्यमवध्याः सर्वदैवतैः +निवसन्त्यत्र राजेन्द्र गतोद्वेगा निरुत्सुकाः +मानुषो मृत्युरेतेषां निर्दिष्टो ब्रह्मणा पुरा +अर्जुन उवाच +सुरासुरैरवध्यांस्तानहं ज्ञात्वा ततः प्रभो +अब्रुवं मातलिं हृष्टो याह्येतत्पुरमञ्जसा +त्रिदशेशद्विषो यावत्क्षयमस्त्रैर्नयाम्यहम् +न कथंचिद्धि मे पापा न वध्या ये सुरद्विषः +उवाह मां ततः शीघ्रं हिरण्यपुरमन्तिकात् +रथेन तेन दिव्येन हरियुक्तेन मातलिः +ते मामालक्ष्य दैतेया विचित्राभरणाम्बराः +समुत्पेतुर्महावेगा रथानास्थाय दंशिताः +ततो नालीकनाराचैर्भल्लशक्त्यृष्टितोमरैः +अभ्यघ्नन्दानवेन्द्रा मां क्रुद्धास्तीव्रपराक्रमाः +तदहं चास्त्रवर्षेण महता प्रत्यवारयम् +शस्त्रवर्षं महद्राजन्विद्याबलमुपाश्रितः +व्यामोहयं च तान्सर्वान्रथमार्गैश्चरन्रणे +तेऽन्योन्यमभिसंमूढाः पातयन्ति स्म दानवाः +तेषामहं विमूढानामन्योन्यमभिधावताम् +शिरांसि विशिखैर्दीप्तैर्व्यहरं शतसंघशः +ते वध्यमाना दैतेयाः पुरमास्थाय तत्पुनः +खमुत्पेतुः सनगरा मायामास्थाय दानवीम् +ततोऽहं शरवर्षेण महता प्रत्यवारयम् +मार्गमावृत्य दैत्यानां गतिं चैषामवारयम् +तत्पुरं खचरं दिव्यं कामगं दिव्यवर्चसम् +दैतेयैर्वरदानेन धार्यते स्म यथासुखम् +अन्तर्भूमौ निपतितं पुनरूर्ध्वं प्रतिष्ठते +पुनस्तिर्यक्प्रयात्याशु पुनरप्सु निमज्जति +अमरावतिसंकाशं पुरं कामगमं तु तत् +अहमस्त्रैर्बहुविधैः प्रत्यगृह्णं नराधिप +ततोऽहं शरजालेन दिव्यास्त्रमुदितेन च +न्यगृह्णं सह दैतेयैस्तत्पुरं भरतर्षभ +विक्षतं चायसैर्बाणैर्मत्प्रयुक्तैरजिह्मगैः +महीमभ्यपतद्राजन्प्रभग्नं पुरमासुरम् +ते वध्यमाना मद्बाणैर्वज्रवेगैरयस्मयैः +पर्यभ्रमन्त वै राजन्नसुराः कालचोदिताः +ततो मातलिरप्याशु पुरस्तान्निपतन्निव +महीमवातरत्क्षिप्रं रथेनादित्यवर्चसा +ततो रथसहस्राणि षष्टिस्तेषाममर्षिणाम् +युयुत्सूनां मया सार्धं पर्यवर्तन्त भारत +तानहं निशितैर्बाणैर्व्यधमं गार्ध्रवाजितैः +ते युद्धे संन्यवर्तन्त समुद्रस्य यथोर्मयः +नेमे शक्या मानुषेण युद्धेनेति प्रचिन्त्य वै +ततोऽहमानुपूर्व्येण सर्वाण्यस्त्राण्ययोजयम् +ततस्तानि सहस्राणि रथानां चित्रयोधिनाम् +अस्त्राणि मम दिव्यानि प्रत्यघ्नञ्शनकैरिव +रथमार्गान्विचित्रांस्ते विचरन्तो महारथाः +प्रत्यदृश्यन्त संग्रामे शतशोऽथ सहस्रशः +विचित्रमुकुटापीडा विचित्रकवचध्वजाः +विचित्राभरणाश्चैव नन्दयन्तीव मे मनः +अहं तु शरवर्षैस्तानस्त्रप्रमुदितै रणे +नाशक्नुवं पीडयितुं ते तु मां पर्यपीडयन् +तैः पीड्यमानो बहुभिः कृतास्त्रैः कुशलैर्युधि +व्यथितोऽस्मि महायुद्धे भयं चागान्महन्मम +ततोऽहं देवदेवाय रुद्राय प्रणतो रणे +स्वस्ति भूतेभ्य इत्युक्त्वा महास्त्रं समयोजयम् +यत्तद्रौद्रमिति ख्यातं सर्वामित्रविनाशनम् +ततोऽपश्यं त्रिशिरसं पुरुषं नवलोचनम् +त्रिमुखं षड्भुजं दीप्तमर्कज्वलनमूर्धजम् +लेलिहानैर्महानागैः कृतशीर्षममित्रहन् +विभीस्ततस्तदस्त्रं तु घोरं रौद्रं सनातनम् +दृष्ट्वा गाण्डीवसंयोगमानीय भरतर्षभ +नमस्कृत्वा त्रिनेत्राय शर्वायामिततेजसे +मुक्तवान्दानवेन्द्राणां पराभावाय भारत +मुक्तमात्रे ततस्तस्मिन्रूपाण्यासन्सहस्रशः +मृगाणामथ सिंहानां व्याघ्राणां च विशां पते +ऋक्षाणां महिषाणां च पन्नगानां तथा गवाम् +गजानां सृमराणां च शरभाणां च सर्वशः +ऋषभाणां वराहाणां मार्जाराणां तथैव च +शालावृकाणां प्रेतानां भुरुण्डानां च सर्वशः +गृध्राणां गरुडानां च मकराणां तथैव च +पिशाचानां सयक्षाणां तथैव च सुरद्विषाम् +गुह्यकानां च संग्रामे नैरृतानां तथैव च +झषाणां गजवक्त्राणामुलूकानां तथैव च +मीनकूर्मसमूहानां नानाशस्त्रासिपाणिनाम् +तथैव यातु धानानां गदामुद्गरधारिणाम् +एतैश्चान्यैश्च बहुभिर्नानारूपधरैस्तथा +सर्वमासीज्जगद्व्याप्तं तस्मिन्नस्त्रे विसर्जिते +त्रिशिरोभिश्चतुर्दंष्ट्रैश्चतुरास्यैश्चतुर्भुजैः +अनेकरूपसंयुक्तैर्मांसमेदोवसाशिभिः +अभीक्ष्णं वध्यमानास्ते दानवा ये समागताः +अर्कज्वलनतेजोभिर्वज्राशनिसमप्रभैः +अद्रिसारमयैश्चान्यैर्बाणैररिविदारणैः +न्यहनं दानवान्सर्वान्मुहूर्तेनैव भारत +गाण्डीवास्त्रप्रणुन्नांस्तान्गतासून्नभसश्च्युतान् +दृष्ट्वाहं प्राणमं भूयस्त्रिपुरघ्नाय वेधसे +तथा रौद्रास्त्रनिष्पिष्टान्दिव्याभरणभूषितान् +निशाम्य परमं हर्षमगमद्देवसारथिः +तदसह्यं कृतं कर्म देवैरपि दुरासदम् +दृष्ट्वा मां पूजयामास मातलिः शक्रसारथिः +उवाच चेदं वचनं प्रीयमाणः कृताञ्जलिः +सुरासुरैरसह्यं हि कर्म यत्साधितं त्वया +न ह्येतत्संयुगे कर्तुमपि शक्तः सुरेश्वरः +सुरासुरैरवध्यं हि पुरमेतत्खगं महत् +त्वया विमथितं वीर स्ववीर्यास्त्रतपोबलात् +विध्वस्तेऽथ पुरे तस्मिन्दानवेषु हतेषु च +विनदन्त्यः स्त्रियः सर्वा निष्पेतुर्नगराद्बहिः +प्रकीर्णकेश्यो व्यथिताः कुरर्य इव दुःखिताः +पेतुः पुत्रान्पितॄन्भ्रातॄञ्शोचमाना महीतले +रुदन्त्यो दीनकण्ठ्यस्ता विनदन्त्यो हतेश्वराः +उरांसि पाणिभिर्घ्नन्त्यः प्रस्रस्तस्रग्विभूषणाः +तच्छोकयुक्तमश्रीकं दुःखदैन्यसमाहतम् +न बभौ दानवपुरं हतत्विट्कं हतेश्वरम् +गन्धर्वनगराकारं हतनागमिव ह्रदम् +शुष्कवृक्षमिवारण्यमदृश्यमभवत्पुरम् +मां तु संहृष्टमनसं क्षिप्रं मातलिरानयत् +देवराजस्य भवनं कृतकर्माणमाहवात् +हिरण्यपुरमारुज्य निहत्य च महासुरान् +निवातकवचांश्चैव ततोऽहं शक्रमागमम् +मम कर्म च देवेन्द्रं मातलिर्विस्तरेण तत् +सर्वं विश्रावयामास यथा भूतं महाद्युते +हिरण्यपुरघातं च मायानां च निवारणम् +निवातकवचानां च वधं संख्ये महौजसाम् +तच्छ्रुत्वा भगवान्प्रीतः सहस्राक्षः पुरंदरः +मरुद्भिः सहितः श्रीमान्साधु साध्वित्यथाब्रवीत् +ततो मां देवराजो वै समाश्वास्य पुनः पुनः +अब्रवीद्विबुधैः सार्धमिदं सुमधुरं वचः +अतिदेवासुरं कर्म कृतमेतत्त्वया रणे +गुर्वर्थश्च महान्पार्थ कृतः शत्रून्घ्नता मम +एवमेव सदा भाव्यं स्थिरेणाजौ धनंजय +असंमूढेन चास्त्राणां कर्तव्यं प्रतिपादनम् +अविषह्यो रणे हि त्वं देवदानवराक्षसैः +सयक्षासुरगन्धर्वैः सपक्षिगणपन्नगैः +वसुधां चापि कौन्तेय त्वद्बाहुबलनिर्जिताम् +पालयिष्यति धर्मात्मा कुन्तीपुत्रो युधिष्ठिरः +अर्जुन उवाच +ततो मामभिविश्वस्तं संरूढशरविक्षतम् +देवराजोऽनुगृह्येदं काले वचनमब्रवीत् +दिव्यान्यस्त्राणि सर्वाणि त्वयि तिष्ठन्ति भारत +न त्वाभिभवितुं शक्तो मानुषो भुवि कश्चन +भीष्मो द्रोणः कृपः कर्णः शकुनिः सह राजभिः +संग्रामस्थस्य ते पुत्र कलां नार्हन्ति षोडशीम् +इदं च मे तनुत्राणं प्रायच्छन्मघवान्प्रभुः +अभेद्यं कवचं दिव्यं स्रजं चैव हिरण्मयीम् +देवदत्तं च मे शङ्खं देवः प्रादान्महारवम् +दिव्यं चेदं किरीटं मे स्वयमिन्द्रो युयोज ह +ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि च +प्रादाच्छक्रो ममैतानि रुचिराणि बृहन्ति च +एवं संपूजितस्तत्र सुखमस्म्युषितो नृप +इन्द्रस्य भवने पुण्ये गन्धर्वशिशुभिः सह +ततो मामब्रवीच्छक्रः प्रीतिमानमरैः सह +समयोऽर्जुन गन्तुं ते भ्रातरो हि स्मरन्ति ते +एवमिन्द्रस्य भवने पञ्च वर्षाणि भारत +उषितानि मया राजन्स्मरता द्यूतजं कलिम् +ततो भवन्तमद्राक्षं भ्रातृभिः परिवारितम् +गन्धमादनमासाद्य पर्वतस्यास्य मूर्धनि +युधिष्ठिर उवाच +दिष्ट्या धनंजयास्त्राणि त्वया प्राप्तानि भारत +दिष्ट्या चाराधितो राजा देवानामीश्वरः प्रभुः +दिष्ट्या च भगवान्स्थाणुर्देव्या सह परंतप +साक्षाद्दृष्टः सुयुद्धेन तोषितश्च त्वयानघ +दिष्ट्या च लोकपालैस्त्वं समेतो भरतर्षभ +दिष्ट्या वर्धामहे सर्वे दिष्ट्यासि पुनरागतः +अद्य कृत्स्नामिमां देवीं विजितां पुरमालिनीम् +मन्ये च धृतराष्ट्रस्य पुत्रानपि वशीकृतान् +तानि त्विच्छामि ते द्रष्टुं दिव्यान्यस्त्राणि भारत +यैस्तथा वीर्यवन्तस्ते निवातकवचा हता +अर्जुन उवाच +श्वः प्रभाते भवान्द्रष्टा दिव्यान्यस्त्राणि सर्वशः +निवातकवचा घोरा यैर्मया विनिपातिताः +वैशंपायन उवाच +एवमागमनं तत्र कथयित्वा धनंजयः +भ्रातृभिः सहितः सर्वै रजनीं तामुवास ह +वैशंपायन उवाच +तस्यां रजन्यां व्युष्टायां धर्मराजो युधिष्ठिरः +उत्थायावश्यकार्याणि कृतवान्भ्रतृभिः सह +ततः संचोदयामास सोऽर्जुनं भ्रातृनन्दनम् +दर्शयास्त्राणि कौन्तेय यैर्जिता दानवास्त्वया +ततो धनंजयो राजन्देवैर्दत्तानि पाण्डवः +अस्त्राणि तानि दिव्यानि दर्शयामास भारत +यथान्यायं महातेजाः शौचं परममास्थितः +गिरिकूबरं पादपाङ्गं शुभवेणु त्रिवेणुकम् +पार्थिवं रथमास्थाय शोभमानो धनंजयः +ततः सुदंशितस्तेन कवचेन सुवर्चसा +धनुरादाय गाण्डीवं देवदत्तं च वारिजम् +शोशुभ्यमानः कौन्तेय आनुपूर्व्यान्महाभुजः +अस्त्राणि तानि दिव्यानि दर्शनायोपचक्रमे +अथ प्रयोक्ष्यमाणेन दिव्यान्यस्त्राणि तेन वै +समाक्रान्ता मही पद्भ्यां समकम्पत सद्रुमा +क्षुभिताः सरितश्चैव तथैव च महोदधिः +शैलाश्चापि व्यशीर्यन्त न ववौ च समीरणः +न बभासे सहस्रांशुर्न जज्वाल च पावकः +न वेदाः प्रतिभ��न्ति स्म द्विजातीनां कथंचन +अन्तर्भूमिगता ये च प्राणिनो जनमेजय +पीड्यमानाः समुत्थाय पाण्डवं पर्यवारयन् +वेपमानाः प्राञ्जलयस्ते सर्वे पिहिताननाः +दह्यमानास्तदास्त्रैस्तैर्याचन्ति स्म धनंजयम् +ततो ब्रह्मर्षयश्चैव सिद्धाश्चैव सुरर्षयः +जङ्गमानि च भूतानि सर्वाण्येवावतस्थिरे +राजर्षयश्च प्रवरास्तथैव च दिवौकसः +यक्षराक्षसगन्धर्वास्तथैव च पतत्रिणः +ततः पितामहश्चैव लोकपालाश्च सर्वशः +भगवांश्च महादेवः सगणोऽभ्याययौ तदा +ततो वायुर्महाराज दिव्यैर्माल्यैः सुगन्धिभिः +अभितः पाण्डवांश्चित्रैरवचक्रे समन्ततः +जगुश्च गाथा विविधा गन्धर्वाः सुरचोदिताः +ननृतुः संघशश्चैव राजन्नप्सरसां गणाः +तस्मिंस्तु तुमुले काले नारदः सुरचोदितः +आगम्याह वचः पार्थं श्रवणीयमिदं नृप +अर्जुनार्जुन मा युङ्क्ष्व दिव्यान्यस्त्राणि भारत +नैतानि निरधिष्ठाने प्रयुज्यन्ते कदाचन +अधिष्ठाने न वानार्तः प्रयुञ्जीत कदाचन +प्रयोगे सुमहान्दोषो ह्यस्त्राणां कुरुनन्दन +एतानि रक्ष्यमाणानि धनंजय यथागमम् +बलवन्ति सुखार्हाणि भविष्यन्ति न संशयः +अरक्ष्यमाणान्येतानि त्रैलोक्यस्यापि पाण्डव +भवन्ति स्म विनाशाय मैवं भूयः कृथाः क्वचित् +अजातशत्रो त्वं चैव द्रक्ष्यसे तानि संयुगे +योज्यमानानि पार्थेन द्विषतामवमर्दने +निवार्याथ ततः पार्थं सर्वे देवा यथागतम् +जग्मुरन्ये च ये तत्र समाजग्मुर्नरर्षभ +तेषु सर्वेषु कौरव्य प्रतियातेषु पाण्डवाः +तस्मिन्नेव वने हृष्टास्त ऊषुः सह कृष्णया +जनमेजय उवाच +तस्मिन्कृतास्त्रे रथिनां प्रधाने; प्रत्यागते भवनाद्वृत्रहन्तुः +अतः परं किमकुर्वन्त पार्थाः; समेत्य शूरेण धनंजयेन +वैशंपायन उवाच +वनेषु तेष्वेव तु ते नरेन्द्राः; सहार्जुनेनेन्द्रसमेन वीराः +तस्मिंश्च शैलप्रवरे सुरम्ये; धनेश्वराक्रीडगता विजह्रुः +वेश्मानि तान्यप्रतिमानि पश्य;न्क्रीडाश्च नानाद्रुमसंनिकर्षाः +चचार धन्वी बहुधा नरेन्द्रः; सोऽस्त्रेषु यत्तः सततं किरीटी +अवाप्य वासं नरदेवपुत्राः; प्रसादजं वैश्रवणस्य राज्ञः +न प्राणिनां ते स्पृहयन्ति राज;ञ्शिवश्च कालः स बभूव तेषाम् +समेत्य पार्थेन यथैकरात्र;मूषुः समास्तत्र तदा चतस्रः +पूर्वाश्च षट्ता दश पाण्डवानां; शिवा बभूवुर्वसतां वनेषु +ततोऽब्रवीद्वायुसुतस्तरस्वी; जिष्णु���्च राजानमुपोपविश्य +यमौ च वीरौ सुरराजकल्पा;वेकान्तमास्थाय हितं प्रियं च +तव प्रतिज्ञां कुरुराज सत्यां; चिकीर्षमाणास्त्वदनु प्रियं च +ततोऽनुगच्छाम वनान्यपास्य; सुयोधनं सानुचरं निहन्तुम् +एकादशं वर्षमिदं वसामः; सुयोधनेनात्तसुखाः सुखार्हाः +तं वञ्चयित्वाधमबुद्धिशील;मज्ञातवासं सुखमाप्नुयामः +तवाज्ञया पार्थिव निर्विशङ्का; विहाय मानं विचरन्वनानि +समीपवासेन विलोभितास्ते; ज्ञास्यन्ति नास्मानपकृष्टदेशान् +संवत्सरं तं तु विहृत्य गूढं; नराधमं तं सुखमुद्धरेम +निर्यात्य वैरं सफलं सपुष्पं; तस्मै नरेन्द्राधमपूरुषाय +सुयोधनायानुचरैर्वृताय; ततो महीमाहर धर्मराज +स्वर्गोपमं शैलमिमं चरद्भिः; शक्यो विहन्तुं नरदेव शोकः +कीर्तिश्च ते भारत पुण्यगन्धा; नश्येत लोकेषु चराचरेषु +तत्प्राप्य राज्यं कुरुपुंगवानां; शक्यं महत्प्राप्तमथ क्रियाश्च +इदं तु शक्यं सततं नरेन्द्र; प्राप्तुं त्वया यल्लभसे कुबेरात् +कुरुष्व बुद्धिं द्विषतां वधाय; कृतागसां भारत निग्रहे च +तेजस्तवोग्रं न सहेत राज;न्समेत्य साक्षादपि वज्रपाणिः +न हि व्यथां जातु करिष्यतस्तौ; समेत्य देवैरपि धर्मराज +त्वदर्थसिद्ध्यर्थमभिप्रवृत्तौ; सुपर्णकेतुश्च शिनेश्च नप्ता +यथैव कृष्णोऽप्रतिमो बलेन; तथैव राजन्स शिनिप्रवीरः +तवार्थसिद्ध्यर्थमभिप्रवृत्तौ; यथैव कृष्णः सह यादवैस्तैः +तथैव चावां नरदेववर्य; यमौ च वीरौ कृतिनौ प्रयोगे +त्वदर्थयोगप्रभवप्रधानाः; समं करिष्याम परान्समेत्य +ततस्तदाज्ञाय मतं महात्मा; तेषां स धर्मस्य सुतो वरिष्ठः +प्रदक्षिणं वैश्रवणाधिवासं; चकार धर्मार्थविदुत्तमौजः +आमन्त्र्य वेश्मानि नदीः सरांसि; सर्वाणि रक्षांसि च धर्मराजः +यथागतं मार्गमवेक्षमाणः; पुनर्गिरिं चैव निरीक्षमाणः +समाप्तकर्मा सहितः सुहृद्भि;र्जित्वा सपत्नान्प्रतिलभ्य राज्यम् +शैलेन्द्र भूयस्तपसे धृतात्मा; द्रष्टा तवास्मीति मतिं चकार +वृतः स सर्वैरनुजैर्द्विजैश्च; तेनैव मार्गेण पतिः कुरूणाम् +उवाह चैनान्सगणांस्तथैव; घटोत्कचः पर्वतनिर्झरेषु +तान्प्रस्थितान्प्रीतिमना महर्षिः; पितेव पुत्राननुशिष्य सर्वान् +स लोमशः प्रीतमना जगाम; दिवौकसां पुण्यतमं निवासम् +तेनानुशिष्टार्ष्टिषेणेन चैव; तीर्थानि रम्याणि तपोवनानि +महान्ति चान्यानि सरांसि पार्थाः; संपश्यमानाः प्रययुर्नराग्र्याः +वैशंपायन उवाच +नगोत्तमं प्रस्रवणैरुपेतं; दिशां गजैः किंनरपक्षिभिश्च +सुखं निवासं जहतां हि तेषां; न प्रीतिरासीद्भरतर्षभाणाम् +ततस्तु तेषां पुनरेव हर्षः; कैलासमालोक्य महान्बभूव +कुबेरकान्तं भरतर्षभाणां; महीधरं वारिधरप्रकाशम् +समुच्छ्रयान्पर्वतसंनिरोधा;न्गोष्ठान्गिरीणां गिरिसेतुमालाः +बहून्प्रपातांश्च समीक्ष्य वीराः; स्थलानि निम्नानि च तत्र तत्र +तथैव चान्यानि महावनानि; मृगद्विजानेकपसेवितानि +आलोकयन्तोऽभिययुः प्रतीता;स्ते धन्विनः खड्गधरा नराग्र्याः +वनानि रम्याणि सरांसि नद्यो; गुहा गिरीणां गिरिगह्वराणि +एते निवासाः सततं बभूवु;र्निशानिशं प्राप्य नरर्षभाणाम् +ते दुर्गवासं बहुधा निरुष्य; व्यतीत्य कैलासमचिन्त्यरूपम् +आसेदुरत्यर्थमनोरमं वै; तमाश्रमाग्र्यं वृषपर्वणस्ते +समेत्य राज्ञा वृषपर्वणस्ते; प्रत्यर्चितास्तेन च वीतमोहाः +शशंसिरे विस्तरशः प्रवासं; शिवं यथावद्वृषपर्वणस्ते +सुखोषितास्तत्र त एकरात्रं; पुण्याश्रमे देवमहर्षिजुष्टे +अभ्याययुस्ते बदरीं विशालां; सुखेन वीराः पुनरेव वासम् +ऊषुस्ततस्तत्र महानुभावा; नारायणस्थानगता नराग्र्याः +कुबेरकान्तां नलिनीं विशोकाः; संपश्यमानाः सुरसिद्धजुष्टाम् +तां चाथ दृष्ट्वा नलिनीं विशोकाः; पाण्डोः सुताः सर्वनरप्रवीराः +ते रेमिरे नन्दनवासमेत्य; द्विजर्षयो वीतभया यथैव +ततः क्रमेणोपययुर्नृवीरा; यथागतेनैव पथा समग्राः +विहृत्य मासं सुखिनो बदर्यां; किरातराज्ञो विषयं सुबाहोः +चीनांस्तुखारान्दरदान्सदार्वा;न्देशान्कुणिन्दस्य च भूरिरत्नान् +अतीत्य दुर्गं हिमवत्प्रदेशं; पुरं सुबाहोर्ददृशुर्नृवीराः +श्रुत्वा च तान्पार्थिवपुत्रपौत्रा;न्प्राप्तान्सुबाहुर्विषये समग्रान् +प्रत्युद्ययौ प्रीतियुतः स राजा; तं चाभ्यनन्दन्वृषभाः कुरूणाम् +समेत्य राज्ञा तु सुबाहुना ते; सूतैर्विशोकप्रमुखैश्च सर्वैः +सहेन्द्रसेनैः परिचारकैश्च; पौरोगवैर्ये च महानसस्थाः +सुखोषितास्तत्र त एकरात्रं; सूतानुपादाय रथांश्च सर्वान् +घटोत्कचं सानुचरं विसृज्य; ततोऽभ्ययुर्यामुनमद्रिराजम् +तस्मिन्गिरौ प्रस्रवणोपपन्ने; हिमोत्तरीयारुणपाण्डुसानौ +विशाखयूपं समुपेत्य चक्रु;स्तदा निवासं पुरुषप्रवीराः +वराहनानामृगपक्षिजुष्टं; महद���वनं चैत्ररथप्रकाशम् +शिवेन यात्वा मृगयाप्रधानाः; संवत्सरं तत्र वने विजह्रुः +तत्राससादातिबलं भुजंगं; क्षुधार्दितं मृत्युमिवोग्ररूपम् +वृकोदरः पर्वतकन्दरायां; विषादमोहव्यथितान्तरात्मा +द्वीपोऽभवद्यत्र वृकोदरस्य; युधिष्ठिरो धर्मभृतां वरिष्ठः +अमोक्षयद्यस्तमनन्ततेजा; ग्राहेण संवेष्टितसर्वगात्रम् +ते द्वादशं वर्षमथोपयान्तं; वने विहर्तुं कुरवः प्रतीताः +तस्माद्वनाच्चैत्ररथप्रकाशा;च्छ्रिया ज्वलन्तस्तपसा च युक्ताः +ततश्च यात्वा मरुधन्वपार्श्वं; सदा धनुर्वेदरतिप्रधानाः +सरस्वतीमेत्य निवासकामाः; सरस्ततो द्वैतवनं प्रतीयुः +समीक्ष्य तान्द्वैतवने निविष्टा;न्निवासिनस्तत्र ततोऽभिजग्मुः +तपोदमाचारसमाधियुक्ता;स्तृणोदपात्राहरणाश्मकुट्टाः +प्लक्षाक्षरौहीतकवेतसाश्च; स्नुहा बदर्यः खदिराः शिरीषाः +बिल्वेङ्गुदाः पीलुशमीकरीराः; सरस्वतीतीररुहा बभूवुः +तां यक्षगन्धर्वमहर्षिकान्ता;मायागभूतामिव देवतानाम् +सरस्वतीं प्रीतियुताश्चरन्तः; सुखं विजह्रुर्नरदेवपुत्राः +जनमेजय उवाच +कथं नागायुतप्राणो भीमसेनो महाबलः +भयमाहारयत्तीव्रं तस्मादजगरान्मुने +पौलस्त्यं योऽऽह्वयद्युद्धे धनदं बलदर्पितः +नलिन्यां कदनं कृत्वा वराणां यक्षरक्षसाम् +तं शंससि भयाविष्टमापन्नमरिकर्षणम् +एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे +वैशंपायन उवाच +बह्वाश्चर्ये वने तेषां वसतामुग्रधन्विनाम् +प्राप्तानामाश्रमाद्राजन्राजर्षेर्वृषपर्वणः +यदृच्छया धनुष्पाणिर्बद्धखड्गो वृकोदरः +ददर्श तद्वनं रम्यं देवगन्धर्वसेवितम् +स ददर्श शुभान्देशान्गिरेर्हिमवतस्तदा +देवर्षिसिद्धचरितानप्सरोगणसेवितान् +चकोरैश्चक्रवाकैश्च पक्षिभिर्जीवजीवकैः +कोकिलैर्भृङ्गराजैश्च तत्र तत्र विनादितान् +नित्यपुष्पफलैर्वृक्षैर्हिमसंस्पर्शकोमलैः +उपेतान्बहुलच्छायैर्मनोनयननन्दनैः +स संपश्यन्गिरिनदीर्वैडूर्यमणिसंनिभैः +सलिलैर्हिमसंस्पर्शैर्हंसकारण्डवायुतैः +वनानि देवदारूणां मेघानामिव वागुराः +हरिचन्दनमिश्राणि तुङ्गकालीयकान्यपि +मृगयां परिधावन्स समेषु मरुधन्वसु +विध्यन्मृगाञ्शरैः शुद्धैश्चचार सुमहाबलः +स ददर्श महाकायं भुजङ्गं लोमहर्षणम् +गिरिदुर्गे समापन्नं कायेनावृत्य कन्दरम् +पर्वताभोगवर्ष्माणं भोगैश्चन्द्रार्कमण्डलैः +चित्राङ्गमजिनैश्चित्रैर्हरिद्रासदृशच्छविम् +गुहाकारेण वक्त्रेण चतुर्दंष्ट्रेण राजता +दीप्ताक्षेणातिताम्रेण लिहन्तं सृक्किणी मुहुः +त्रासनं सर्वभूतानां कालान्तकयमोपमम् +निःश्वासक्ष्वेडनादेन भर्त्सयन्तमिव स्थितम् +स भीमं सहसाभ्येत्य पृदाकुः क्षुधितो भृशम् +जग्राहाजगरो ग्राहो भुजयोरुभयोर्बलात् +तेन संस्पृष्टमात्रस्य भीमसेनस्य वै तदा +संज्ञा मुमोह सहसा वरदानेन तस्य ह +दश नागसहस्राणि धारयन्ति हि यद्बलम् +तद्बलं भीमसेनस्य भुजयोरसमं परैः +स तेजस्वी तथा तेन भुजगेन वशीकृतः +विस्फुरञ्शनकैर्भीमो न शशाक विचेष्टितुम् +नागायुतसमप्राणः सिंहस्कन्धो महाभुजः +गृहीतो व्यजहात्सत्त्वं वरदानेन मोहितः +स हि प्रयत्नमकरोत्तीव्रमात्मविमोक्षणे +न चैनमशकद्वीरः कथंचित्प्रतिबाधितुम् +वैशंपायन उवाच +स भीमसेनस्तेजस्वी तथा सर्पवशं गतः +चिन्तयामास सर्पस्य वीर्यमत्यद्भुतं महत् +उवाच च महासर्पं कामया ब्रूहि पन्नग +कस्त्वं भो भुजगश्रेष्ठ किं मया च करिष्यसि +पाण्डवो भीमसेनोऽहं धर्मराजादनन्तरः +नागायुतसमप्राणस्त्वया नीतः कथं वशम् +सिंहाः केसरिणो व्याघ्रा महिषा वारणास्तथा +समागताश्च बहुशो निहताश्च मया मृधे +दानवाश्च पिशाचाश्च राक्षसाश्च महाबलाः +भुजवेगमशक्ता मे सोढुं पन्नगसत्तम +किं नु विद्याबलं किं वा वरदानमथो तव +उद्योगमपि कुर्वाणो वशगोऽस्मि कृतस्त्वया +असत्यो विक्रमो नॄणामिति मे निश्चिता मतिः +यथेदं मे त्वया नाग बलं प्रतिहतं महत् +इत्येवंवादिनं वीरं भीममक्लिष्टकारिणम् +भोगेन महता सर्पः समन्तात्पर्यवेष्टयत् +निगृह्य तं महाबाहुं ततः स भुजगस्तदा +विमुच्यास्य भुजौ पीनाविदं वचनमब्रवीत् +दिष्ट्या त्वं क्षुधितस्याद्य देवैर्भक्षो महाभुज +दिष्ट्या कालस्य महतः प्रियाः प्राणा हि देहिनाम् +यथा त्विदं मया प्राप्तं भुजंगत्वमरिंदम +तदवश्यं मया ख्याप्यं तवाद्य शृणु सत्तम +इमामवस्थां संप्राप्तो ह्यहं कोपान्मनीषिणाम् +शापस्यान्तं परिप्रेप्सुः सर्पस्य कथयामि तत् +नहुषो नाम राजर्षिर्व्यक्तं ते श्रोत्रमागतः +तवैव पूर्वः पूर्वेषामायोर्वंशकरः सुतः +सोऽहं शापादगस्त्यस्य ब्राह्मणानवमन्य च +इमामवस्थामापन्नः पश्य दैवमिदं मम +त्वां चेदवध्यमायान्तमतीव प्रियदर्शनम् +अहमद्योपयोक��ष्यामि विधानं पश्य यादृशम् +न हि मे मुच्यते कश्चित्कथंचिद्ग्रहणं गतः +गजो वा महिषो वापि षष्ठे काले नरोत्तम +नासि केवलसर्पेण तिर्यग्योनिषु वर्तता +गृहीतः कौरवश्रेष्ठ वरदानमिदं मम +पतता हि विमानाग्रान्मया शक्रासनाद्द्रुतम् +कुरु शापान्तमित्युक्तो भगवान्मुनिसत्तमः +स मामुवाच तेजस्वी कृपयाभिपरिप्लुतः +मोक्षस्ते भविता राजन्कस्माच्चित्कालपर्ययात् +ततोऽस्मि पतितो भूमौ न च मामजहात्स्मृतिः +स्मार्तमस्ति पुराणं मे यथैवाधिगतं तथा +यस्तु ते व्याहृतान्प्रश्नान्प्रतिब्रूयाद्विशेषवित् +स त्वां मोक्षयिता शापादिति मामब्रवीदृषिः +गृहीतस्य त्वया राजन्प्राणिनोऽपि बलीयसः +सत्त्वभ्रंशोऽधिकस्यापि सर्वस्याशु भविष्यति +इति चाप्यहमश्रौषं वचस्तेषां दयावताम् +मयि संजातहार्दानामथ तेऽन्तर्हिता द्विजाः +सोऽहं परमदुष्कर्मा वसामि निरयेऽशुचौ +सर्पयोनिमिमां प्राप्य कालाकाङ्क्षी महाद्युते +तमुवाच महाबाहुर्भीमसेनो भुजंगमम् +न ते कुप्ये महासर्प न चात्मानं विगर्हये +यस्मादभावी भावी वा मनुष्यः सुखदुःखयोः +आगमे यदि वापाये न तत्र ग्लपयेन्मनः +दैवं पुरुषकारेण को निवर्तितुमर्हति +दैवमेव परं मन्ये पुरुषार्थो निरर्थकः +पश्य दैवोपघाताद्धि भुजवीर्यव्यपाश्रयम् +इमामवस्थां संप्राप्तमनिमित्तमिहाद्य माम् +किं तु नाद्यानुशोचामि तथात्मानं विनाशितम् +यथा तु विपिने न्यस्तान्भ्रातॄन्राज्यपरिच्युतान् +हिमवांश्च सुदुर्गोऽयं यक्षराक्षससंकुलः +मां च ते समुदीक्षन्तः प्रपतिष्यन्ति विह्वलाः +विनष्टमथ वा श्रुत्वा भविष्यन्ति निरुद्यमाः +धर्मशीला मया ते हि बाध्यन्ते राज्यगृद्धिना +अथ वा नार्जुनो धीमान्विषादमुपयास्यति +सर्वास्त्रविदनाधृष्यो देवगन्धर्वराक्षसैः +समर्थः स महाबाहुरेकाह्ना सुमहाबलः +देवराजमपि स्थानात्प्रच्यावयितुमोजसा +किं पुनर्धृतराष्ट्रस्य पुत्रं दुर्द्यूतदेविनम् +विद्विष्टं सर्वलोकस्य दम्भलोभपरायणम् +मातरं चैव शोचामि कृपणां पुत्रगृद्धिनीम् +यास्माकं नित्यमाशास्ते महत्त्वमधिकं परैः +कथं नु तस्यानाथाया मद्विनाशाद्भुजंगम +अफलास्ते भविष्यन्ति मयि सर्वे मनोरथाः +नकुलः सहदेवश्च यमजौ गुरुवर्तिनौ +मद्बाहुबलसंस्तब्धौ नित्यं पुरुषमानिनौ +निरुत्साहौ भविष्येते भ्रष्टवीर्यपराक्रमौ +म���्विनाशात्परिद्यूनाविति मे वर्तते मतिः +एवंविधं बहु तदा विललाप वृकोदरः +भुजंगभोगसंरुद्धो नाशकच्च विचेष्टितुम् +युधिष्ठिरस्तु कौन्तेय बभूवास्वस्थचेतनः +अनिष्टदर्शनान्घोरानुत्पातान्परिचिन्तयन् +दारुणं ह्यशिवं नादं शिवा दक्षिणतः स्थिता +दीप्तायां दिशि वित्रस्ता रौति तस्याश्रमस्य ह +एकपक्षाक्षिचरणा वर्तिका घोरदर्शना +रुधिरं वमन्ती ददृशे प्रत्यादित्यमपस्वरा +प्रववावनिलो रूक्षश्चण्डः शर्करकर्षणः +अपसव्यानि सर्वाणि मृगपक्षिरुतानि च +पृष्ठतो वायसः कृष्णो याहि याहीति वाशति +मुहुर्मुहुः प्रस्फुरति दक्षिणोऽस्य भुजस्तथा +हृदयं चरणश्चापि वामोऽस्य परिवर्तते +सव्यस्याक्ष्णो विकारश्चाप्यनिष्टः समपद्यत +स धर्मराजो मेधावी शङ्कमानो महद्भयम् +द्रौपदीं परिपप्रच्छ क्व भीम इति भारत +शशंस तस्मै पाञ्चाली चिरयातं वृकोदरम् +स प्रतस्थे महाबाहुर्धौम्येन सहितो नृपः +द्रौपद्या रक्षणं कार्यमित्युवाच धनंजयम् +नकुलं सहदेवं च व्यादिदेश द्विजान्प्रति +स तस्य पदमुन्नीय तस्मादेवाश्रमात्प्रभुः +ददर्श पृथिवीं चिह्नैर्भीमस्य परिचिह्निताम् +धावतस्तस्य वीरस्य मृगार्थे वातरंहसः +ऊरुवातविनिर्भग्नान्द्रुमान्व्यावर्जितान्पथि +स गत्वा तैस्तदा चिह्नैर्ददर्श गिरिगह्वरे +गृहीतं भुजगेन्द्रेण निश्चेष्टमनुजं तथा +वैशंपायन उवाच +युधिष्ठिरस्तमासाद्य सर्पभोगाभिवेष्टितम् +दयितं भ्रातरं वीरमिदं वचनमब्रवीत् +कुन्तीमातः कथमिमामापदं त्वमवाप्तवान् +कश्चायं पर्वताभोगप्रतिमः पन्नगोत्तमः +स धर्मराजमालक्ष्य भ्राता भ्रातरमग्रजम् +कथयामास तत्सर्वं ग्रहणादि विचेष्टितम् +युधिष्ठिर उवाच +देवो वा यदि वा दैत्य उरगो वा भवान्यदि +सत्यं सर्प वचो ब्रूहि पृच्छति त्वां युधिष्ठिरः +किमाहृत्य विदित्वा वा प्रीतिस्ते स्याद्भुजंगम +किमाहारं प्रयच्छामि कथं मुञ्चेद्भवानिमम् +सर्प उवाच +नहुषो नाम राजाहमासं पूर्वस्तवानघ +प्रथितः पञ्चमः सोमादायोः पुत्रो नराधिप +क्रतुभिस्तपसा चैव स्वाध्यायेन दमेन च +त्रैलोक्यैश्वर्यमव्यग्रं प्राप्तो विक्रमणेन च +तदैश्वर्यं समासाद्य दर्पो मामगमत्तदा +सहस्रं हि द्विजातीनामुवाह शिबिकां मम +ऐश्वर्यमदमत्तोऽहमवमन्य ततो द्विजान् +इमामगस्त्येन दशामानीतः पृथिवीपते +न तु मामजहात्प्रज्ञा य���वदद्येति पाण्डव +तस्यैवानुग्रहाद्राजन्नगस्त्यस्य महात्मनः +षष्ठे काले ममाहारः प्राप्तोऽयमनुजस्तव +नाहमेनं विमोक्ष्यामि न चान्यमभिकामये +प्रश्नानुच्चारितांस्तु त्वं व्याहरिष्यसि चेन्मम +अथ पश्चाद्विमोक्ष्यामि भ्रातरं ते वृकोदरम् +युधिष्ठिर उवाच +ब्रूहि सर्प यथाकामं प्रतिवक्ष्यामि ते वचः +अपि चेच्छक्नुयां प्रीतिमाहर्तुं ते भुजंगम +वेद्यं यद्ब्राह्मणेनेह तद्भवान्वेत्ति केवलम् +सर्पराज ततः श्रुत्वा प्रतिवक्ष्यामि ते वचः +सर्प उवाच +ब्राह्मणः को भवेद्राजन्वेद्यं किं च युधिष्ठिर +ब्रवीह्यतिमतिं त्वां हि वाक्यैरनुमिमीमहे +युधिष्ठिर उवाच +सत्यं दानं क्षमा शीलमानृशंस्यं दमो घृणा +दृश्यन्ते यत्र नागेन्द्र स ब्राह्मण इति स्मृतः +वेद्यं सर्प परं ब्रह्म निर्दुःखमसुखं च यत् +यत्र गत्वा न शोचन्ति भवतः किं विवक्षितम् +सर्प उवाच +चातुर्वर्ण्यं प्रमाणं च सत्यं च ब्रह्म चैव ह +शूद्रेष्वपि च सत्यं च दानमक्रोध एव च +आनृशंस्यमहिंसा च घृणा चैव युधिष्ठिर +वेद्यं यच्चात्थ निर्दुःखमसुखं च नराधिप +ताभ्यां हीनं पदं चान्यन्न तदस्तीति लक्षये +युधिष्ठिर उवाच +शूद्रे चैतद्भवेल्लक्ष्यं द्विजे तच्च न विद्यते +न वै शूद्रो भवेच्छूद्रो ब्राह्मणो न च ब्राह्मणः +यत्रैतल्लक्ष्यते सर्प वृत्तं स ब्राह्मणः स्मृतः +यत्रैतन्न भवेत्सर्प तं शूद्रमिति निर्दिशेत् +यत्पुनर्भवता प्रोक्तं न वेद्यं विद्यतेति ह +ताभ्यां हीनमतीत्यात्र पदं नास्तीति चेदपि +एवमेतन्मतं सर्प ताभ्यां हीनं न विद्यते +यथा शीतोष्णयोर्मध्ये भवेन्नोष्णं न शीतता +एवं वै सुखदुःखाभ्यां हीनमस्ति पदं क्वचित् +एषा मम मतिः सर्प यथा वा मन्यते भवान् +सर्प उवाच +यदि ते वृत्ततो राजन्ब्राह्मणः प्रसमीक्षितः +व्यर्था जातिस्तदायुष्मन्कृतिर्यावन्न दृश्यते +युधिष्ठिर उवाच +जातिरत्र महासर्प मनुष्यत्वे महामते +संकरात्सर्ववर्णानां दुष्परीक्ष्येति मे मतिः +सर्वे सर्वास्वपत्यानि जनयन्ति यदा नराः +वाङ्मैथुनमथो जन्म मरणं च समं नृणाम् +इदमार्षं प्रमाणं च ये यजामह इत्यपि +तस्माच्छीलं प्रधानेष्टं विदुर्ये तत्त्वदर्शिनः +प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते +तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते +वृत्त्या शूद्रसमो ह्येष यावद्वेदे न जायते +अस्मिन्न���वं मतिद्वैधे मनुः स्वायम्भुवोऽब्रवीत् +कृतकृत्याः पुनर्वर्णा यदि वृत्तं न विद्यते +संकरस्तत्र नागेन्द्र बलवान्प्रसमीक्षितः +यत्रेदानीं महासर्प संस्कृतं वृत्तमिष्यते +तं ब्राह्मणमहं पूर्वमुक्तवान्भुजगोत्तम +सर्प उवाच +श्रुतं विदितवेद्यस्य तव वाक्यं युधिष्ठिर +भक्षयेयमहं कस्माद्भ्रातरं ते वृकोदरम् +युधिष्ठिर उवाच +भवानेतादृशो लोके वेदवेदाङ्गपारगः +ब्रूहि किं कुर्वतः कर्म भवेद्गतिरनुत्तमा +सर्प उवाच +पात्रे दत्त्वा प्रियाण्युक्त्वा सत्यमुक्त्वा च भारत +अहिंसानिरतः स्वर्गं गच्छेदिति मतिर्मम +युधिष्ठिर उवाच +दानाद्वा सर्प सत्याद्वा किमतो गुरु दृश्यते +अहिंसाप्रिययोश्चैव गुरुलाघवमुच्यताम् +सर्प उवाच +दाने रतत्वं सत्यं च अहिंसा प्रियमेव च +एषां कार्यगरीयस्त्वाद्दृश्यते गुरुलाघवम् +कस्माच्चिद्दानयोगाद्धि सत्यमेव विशिष्यते +सत्यवाक्याच्च राजेन्द्र किंचिद्दानं विशिष्यते +एवमेव महेष्वास प्रियवाक्यान्महीपते +अहिंसा दृश्यते गुर्वी ततश्च प्रियमिष्यते +एवमेतद्भवेद्राजन्कार्यापेक्षमनन्तरम् +यदभिप्रेतमन्यत्ते ब्रूहि यावद्ब्रवीम्यहम् +युधिष्ठिर उवाच +कथं स्वर्गे गतिः सर्प कर्मणां च फलं ध्रुवम् +अशरीरस्य दृश्येत विषयांश्च ब्रवीहि मे +सर्प उवाच +तिस्रो वै गतयो राजन्परिदृष्टाः स्वकर्मभिः +मानुष्यं स्वर्गवासश्च तिर्यग्योनिश्च तत्त्रिधा +तत्र वै मानुषाल्लोकाद्दानादिभिरतन्द्रितः +अहिंसार्थसमायुक्तैः कारणैः स्वर्गमश्नुते +विपरीतैश्च राजेन्द्र कारणैर्मानुषो भवेत् +तिर्यग्योनिस्तथा तात विशेषश्चात्र वक्ष्यते +कामक्रोधसमायुक्तो हिंसालोभसमन्वितः +मनुष्यत्वात्परिभ्रष्टस्तिर्यग्योनौ प्रसूयते +तिर्यग्योन्यां पृथग्भावो मनुष्यत्वे विधीयते +गवादिभ्यस्तथाश्वेभ्यो देवत्वमपि दृश्यते +सोऽयमेता गतीः सर्वा जन्तुश्चरति कार्यवान् +नित्ये महति चात्मानमवस्थापयते नृप +जातो जातश्च बलवान्भुङ्क्ते चात्मा स देहवान् +फलार्थस्तात निष्पृक्तः प्रजालक्षणभावनः +युधिष्ठिर उवाच +शब्दे स्पर्शे च रूपे च तथैव रसगन्धयोः +तस्याधिष्ठानमव्यग्रं ब्रूहि सर्प यथातथम् +किं न गृह्णासि विषयान्युगपत्त्वं महामते +एतावदुच्यतां चोक्तं सर्वं पन्नगसत्तम +सर्प उवाच +यदात्मद्रव्यमायुष्मन्देहसंश���रयणान्वितम् +करणाधिष्ठितं भोगानुपभुङ्क्ते यथाविधि +ज्ञानं चैवात्र बुद्धिश्च मनश्च भरतर्षभ +तस्य भोगाधिकरणे करणानि निबोध मे +मनसा तात पर्येति क्रमशो विषयानिमान् +विषयायतनस्थेन भूतात्मा क्षेत्रनिःसृतः +अत्र चापि नरव्याघ्र मनो जन्तोर्विधीयते +तस्माद्युगपदस्यात्र ग्रहणं नोपपद्यते +स आत्मा पुरुषव्याघ्र भ्रुवोरन्तरमाश्रितः +द्रव्येषु सृजते बुद्धिं विविधेषु परावराम् +बुद्धेरुत्तरकालं च वेदना दृश्यते बुधैः +एष वै राजशार्दूल विधिः क्षेत्रज्ञभावनः +युधिष्ठिर उवाच +मनसश्चापि बुद्धेश्च ब्रूहि मे लक्षणं परम् +एतदध्यात्मविदुषां परं कार्यं विधीयते +सर्प उवाच +बुद्धिरात्मानुगा तात उत्पातेन विधीयते +तदाश्रिता हि संज्ञैषा विधिस्तस्यैषणे भवेत् +बुद्धेर्गुणविधिर्नास्ति मनस्तु गुणवद्भवेत् +बुद्धिरुत्पद्यते कार्ये मनस्तूत्पन्नमेव हि +एतद्विशेषणं तात मनोबुद्ध्योर्मयेरितम् +त्वमप्यत्राभिसंबुद्धः कथं वा मन्यते भवान् +युधिष्ठिर उवाच +अहो बुद्धिमतां श्रेष्ठ शुभा बुद्धिरियं तव +विदितं वेदितव्यं ते कस्मान्मामनुपृच्छसि +सर्वज्ञं त्वां कथं मोह आविशत्स्वर्गवासिनम् +एवमद्भुतकर्माणमिति मे संशयो महान् +सर्प उवाच +सुप्रज्ञमपि चेच्छूरमृद्धिर्मोहयते नरम् +वर्तमानः सुखे सर्वो नावैतीति मतिर्मम +सोऽहमैश्वर्यमोहेन मदाविष्टो युधिष्ठिर +पतितः प्रतिसंबुद्धस्त्वां तु संबोधयाम्यहम् +कृतं कार्यं महाराज त्वया मम परंतप +क्षीणः शापः सुकृच्छ्रो मे त्वया संभाष्य साधुना +अहं हि दिवि दिव्येन विमानेन चरन्पुरा +अभिमानेन मत्तः सन्कंचिन्नान्यमचिन्तयम् +ब्रह्मर्षिदेवगन्धर्वयक्षराक्षसकिंनराः +करान्मम प्रयच्छन्ति सर्वे त्रैलोक्यवासिनः +चक्षुषा यं प्रपश्यामि प्राणिनं पृथिवीपते +तस्य तेजो हराम्याशु तद्धि दृष्टिबलं मम +ब्रह्मर्षीणां सहस्रं हि उवाह शिबिकां मम +स मामपनयो राजन्भ्रंशयामास वै श्रियः +तत्र ह्यगस्त्यः पादेन वहन्स्पृष्टो मया मुनिः +अदृष्टेन ततोऽस्म्युक्तो ध्वंस सर्पेति वै रुषा +ततस्तस्माद्विमानाग्रात्प्रच्युतश्च्युतभूषणः +प्रपतन्बुबुधेऽऽत्मानं व्यालीभूतमधोमुखम् +अयाचं तमहं विप्रं शापस्यान्तो भवेदिति +अज्ञानात्संप्रवृत्तस्य भगवन्क्षन्तुमर्हसि +ततः स मामुवाचेदं प्रपतन्तं कृपान्वित��� +युधिष्ठिरो धर्मराजः शापात्त्वां मोक्षयिष्यति +अभिमानस्य घोरस्य बलस्य च नराधिप +फले क्षीणे महाराज फलं पुण्यमवाप्स्यसि +ततो मे विस्मयो जातस्तद्दृष्ट्वा तपसो बलम् +ब्रह्म च ब्राह्मणत्वं च येन त्वाहमचूचुदम् +सत्यं दमस्तपो योगमहिंसा दाननित्यता +साधकानि सदा पुंसां न जातिर्न कुलं नृप +अरिष्ट एष ते भ्राता भीमो मुक्तो महाभुजः +स्वस्ति तेऽस्तु महाराज गमिष्यामि दिवं पुनः +वैशंपायन उवाच +इत्युक्त्वाजगरं देहं त्यक्त्वा स नहुषो नृपः +दिव्यं वपुः समास्थाय गतस्त्रिदिवमेव ह +युधिष्ठिरोऽपि धर्मात्मा भ्रात्रा भीमेन संगतः +धौम्येन सहितः श्रीमानाश्रमं पुनरभ्यगात् +ततो द्विजेभ्यः सर्वेभ्यः समेतेभ्यो यथातथम् +कथयामास तत्सर्वं धर्मराजो युधिष्ठिरः +तच्छ्रुत्वा ते द्विजाः सर्वे भ्रातरश्चास्य ते त्रयः +आसन्सुव्रीडिता राजन्द्रौपदी च यशस्विनी +ते तु सर्वे द्विजश्रेष्ठाः पाण्डवानां हितेप्सया +मैवमित्यब्रुवन्भीमं गर्हयन्तोऽस्य साहसम् +पाण्डवास्तु भयान्मुक्तं प्रेक्ष्य भीमं महाबलम् +हर्षमाहारयां चक्रुर्विजह्रुश्च मुदा युताः +वैशंपायन उवाच +निदाघान्तकरः कालः सर्वभूतसुखावहः +तत्रैव वसतां तेषां प्रावृट्समभिपद्यत +छादयन्तो महाघोषाः खं दिशश्च बलाहकाः +प्रववर्षुर्दिवारात्रमसिताः सततं तदा +तपात्ययनिकेताश्च शतशोऽथ सहस्रशः +अपेतार्कप्रभाजालाः सविद्युद्विमलप्रभाः +विरूढशष्पा पृथिवी मत्तदंशसरीसृपा +बभूव पयसा सिक्ता शान्तधूमरजोऽरुणा +न स्म प्रज्ञायते किंचिदम्भसा समवस्तृते +समं वा विषमं वापि नद्यो वा स्थावराणि वा +क्षुब्धतोया महाघोषाः श्वसमाना इवाशुगाः +सिन्धवः शोभयां चक्रुः काननानि तपात्यये +नदतां काननान्तेषु श्रूयन्ते विविधाः स्वनाः +वृष्टिभिस्ताड्यमानानां वराहमृगपक्षिणाम् +स्तोककाः शिखिनश्चैव पुंस्कोकिलगणैः सह +मत्ताः परिपतन्ति स्म दर्दुराश्चैव दर्पिताः +तथा बहुविधाकारा प्रावृण्मेघानुनादिता +अभ्यतीता शिवा तेषां चरतां मरुधन्वसु +क्रौञ्चहंसगणाकीर्णा शरत्प्रणिहिताभवत् +रूढकक्षवनप्रस्था प्रसन्नजलनिम्नगा +विमलाकाशनक्षत्रा शरत्तेषां शिवाभवत् +मृगद्विजसमाकीर्णा पाण्डवानां महात्मनाम् +पश्यन्तः शान्तरजसः क्षपा जलदशीतलाः +ग्रहनक्षत्रसंघैश्च सोमेन च विराजिताः +कुमुदैः पुण्डरीक��श्च शीतवारिधराः शिवाः +नदीः पुष्करिणीश्चैव ददृशुः समलंकृताः +आकाशनीकाशतटां नीपनीवारसंकुलाम् +बभूव चरतां हर्षः पुण्यतीर्थां सरस्वतीम् +ते वै मुमुदिरे वीराः प्रसन्नसलिलां शिवाम् +पश्यन्तो दृढधन्वानः परिपूर्णां सरस्वतीम् +तेषां पुण्यतमा रात्रिः पर्वसंधौ स्म शारदी +तत्रैव वसतामासीत्कार्त्तिकी जनमेजय +पुण्यकृद्भिर्महासत्त्वैस्तापसैः सह पाण्डवाः +तत्सर्वं भरतश्रेष्ठाः समूहुर्योगमुत्तमम् +तमिस्राभ्युदये तस्मिन्धौम्येन सह पाण्डवाः +सूतैः पौरोगवैश्चैव काम्यकं प्रययुर्वनम् +वैशंपायन उवाच +काम्यकं प्राप्य कौन्तेया युधिष्ठिरपुरोगमाः +कृतातिथ्या मुनिगणैर्निषेदुः सह कृष्णया +ततस्तान्परिविश्वस्तान्वसतः पाण्डुनन्दनान् +ब्राह्मणा बहवस्तत्र समन्तात्पर्यवारयन् +अथाब्रवीद्द्विजः कश्चिदर्जुनस्य प्रियः सखा +एष्यतीह महाबाहुर्वशी शौरिरुदारधीः +विदिता हि हरेर्यूयमिहायाताः कुरूद्वहाः +सदा हि दर्शनाकाङ्क्षी श्रेयोऽन्वेषी च वो हरिः +बहुवत्सरजीवी च मार्कण्डेयो महातपाः +स्वाध्यायतपसा युक्तः क्षिप्रं युष्मान्समेष्यति +तथैव तस्य ब्रुवतः प्रत्यदृश्यत केशवः +सैन्यसुग्रीवयुक्तेन रथेन रथिनां वरः +मघवानिव पौलोम्या सहितः सत्यभामया +उपायाद्देवकीपुत्रो दिदृक्षुः कुरुसत्तमान् +अवतीर्य रथात्कृष्णो धर्मराजं यथाविधि +ववन्दे मुदितो धीमान्भीमं च बलिनां वरम् +पूजयामास धौम्यं च यमाभ्यामभिवादितः +परिष्वज्य गुडाकेशं द्रौपदीं पर्यसान्त्वयत् +स दृष्ट्वा फल्गुनं वीरं चिरस्य प्रियमागतम् +पर्यष्वजत दाशार्हः पुनः पुनररिंदमम् +तथैव सत्यभामापि द्रौपदीं परिषस्वजे +पाण्डवानां प्रियां भार्यां कृष्णस्य महिषी प्रिया +ततस्ते पाण्डवाः सर्वे सभार्याः सपुरोहिताः +आनर्चुः पुण्डरीकाक्षं परिवव्रुश्च सर्वशः +कृष्णस्तु पार्थेन समेत्य विद्वा;न्धनंजयेनासुरतर्जनेन +बभौ यथा भूतपतिर्महात्मा; समेत्य साक्षाद्भगवान्गुहेन +ततः समस्तानि किरीटमाली; वनेषु वृत्तानि गदाग्रजाय +उक्त्वा यथावत्पुनरन्वपृच्छ;त्कथं सुभद्रा च तथाभिमन्युः +स पूजयित्वा मधुहा यथाव;त्पार्थांश्च कृष्णां च पुरोहितं च +उवाच राजानमभिप्रशंस;न्युधिष्ठिरं तत्र सहोपविश्य +धर्मः परः पाण्डव राज्यलाभा;त्तस्यार्थमाहुस्तप एव राजन् +सत्यार्जवाभ्��ां चरता स्वधर्मं; जितस्तवायं च परश्च लोकः +अधीतमग्रे चरता व्रतानि; सम्यग्धनुर्वेदमवाप्य कृत्स्नम् +क्षात्रेण धर्मेण वसूनि लब्ध्वा; सर्वे ह्यवाप्ताः क्रतवः पुराणाः +न ग्राम्यधर्मेषु रतिस्तवास्ति; कामान्न किंचित्कुरुषे नरेन्द्र +न चार्थलोभात्प्रजहासि धर्मं; तस्मात्स्वभावादसि धर्मराजः +दानं च सत्यं च तपश्च राज;ञ्श्रद्धा च शान्तिश्च धृतिः क्षमा च +अवाप्य राष्ट्राणि वसूनि भोगा;नेषा परा पार्थ सदा रतिस्ते +यदा जनौघः कुरुजाङ्गलानां; कृष्णां सभायामवशामपश्यत् +अपेतधर्मव्यवहारवृत्तं; सहेत तत्पाण्डव कस्त्वदन्यः +असंशयं सर्वसमृद्धकामः; क्षिप्रं प्रजाः पालयितासि सम्यक् +इमे वयं निग्रहणे कुरूणां; यदि प्रतिज्ञा भवतः समाप्ता +धौम्यं च कृष्णां च युधिष्ठिरं च; यमौ च भीमं च दशार्हसिंहः +उवाच दिष्ट्या भवतां शिवेन; प्राप्तः किरीटी मुदितः कृतास्त्रः +प्रोवाच कृष्णामपि याज्ञसेनीं; दशार्हभर्ता सहितः सुहृद्भिः +कृष्णे धनुर्वेदरतिप्रधानाः; सत्यव्रतास्ते शिशवः सुशीलाः +सद्भिः सदैवाचरितं समाधिं; चरन्ति पुत्रास्तव याज्ञसेनि +राज्येन राष्ट्रैश्च निमन्त्र्यमाणाः; पित्रा च कृष्णे तव सोदरैश्च +न यज्ञसेनस्य न मातुलानां; गृहेषु बाला रतिमाप्नुवन्ति +आनर्तमेवाभिमुखाः शिवेन; गत्वा धनुर्वेदरतिप्रधानाः +तवात्मजा वृष्णिपुरं प्रविश्य; न दैवतेभ्यः स्पृहयन्ति कृष्णे +यथा त्वमेवार्हसि तेषु वृत्तिं; प्रयोक्तुमार्या च यथैव कुन्ती +तेष्वप्रमादेन सदा करोति; तथा च भूयश्च तथा सुभद्रा +यथानिरुद्धस्य यथाभिमन्यो;र्यथा सुनीथस्य यथैव भानोः +तथा विनेता च गतिश्च कृष्णे; तवात्मजानामपि रौक्मिणेयः +गदासिचर्मग्रहणेषु शूरा;नस्त्रेषु शिक्षासु रथाश्वयाने +सम्यग्विनेता विनयत्यतन्द्री;स्तांश्चाभिमन्युः सततं कुमारः +स चापि सम्यक्प्रणिधाय शिक्षा;मस्त्राणि चैषां गुरुवत्प्रदाय +तवात्मजानां च तथाभिमन्योः; पराक्रमैस्तुष्यति रौक्मिणेयः +यदा विहारं प्रसमीक्षमाणाः; प्रयान्ति पुत्रास्तव याज्ञसेनि +एकैकमेषामनुयान्ति तत्र; रथाश्च यानानि च दन्तिनश्च +अथाब्रवीद्धर्मराजं तु कृष्णो; दशार्हयोधाः कुकुरान्धकाश्च +एते निदेशं तव पालयन्ति; तिष्ठन्ति यत्रेच्छसि तत्र राजन् +आवर्ततां कार्मुकवेगवाता; हलायुधप्रग्रहणा मधूनाम् +सेना तवार्थेषु न���ेन्द्र यत्ता; ससादिपत्त्यश्वरथा सनागा +प्रस्थाप्यतां पाण्डव धार्तराष्ट्रः; सुयोधनः पापकृतां वरिष्ठः +स सानुबन्धः ससुहृद्गणश्च; सौभस्य सौभाधिपतेश्च मार्गम् +कामं तथा तिष्ठ नरेन्द्र तस्मि;न्यथा कृतस्ते समयः सभायाम् +दाशार्हयोधैस्तु ससादियोधं; प्रतीक्षतां नागपुरं भवन्तम् +व्यपेतमन्युर्व्यपनीतपाप्मा; विहृत्य यत्रेच्छसि तत्र कामम् +ततः समृद्धं प्रथमं विशोकः; प्रपत्स्यसे नागपुरं सराष्ट्रम् +ततस्तदाज्ञाय मतं महात्मा; यथावदुक्तं पुरुषोत्तमेन +प्रशस्य विप्रेक्ष्य च धर्मराजः; कृताञ्जलिः केशवमित्युवाच +असंशयं केशव पाण्डवानां; भवान्गतिस्त्वच्छरणा हि पार्थाः +कालोदये तच्च ततश्च भूयः; कर्ता भवान्कर्म न संशयोऽस्ति +यथाप्रतिज्ञं विहृतश्च कालः; सर्वाः समा द्वादश निर्जनेषु +अज्ञातचर्यां विधिवत्समाप्य; भवद्गताः केशव पाण्डवेयाः +वैशंपायन उवाच +तथा वदति वार्ष्णेये धर्मराजे च भारत +अथ पश्चात्तपोवृद्धो बहुवर्षसहस्रधृक् +प्रत्यदृश्यत धर्मात्मा मार्कण्डेयो महातपाः +तमागतमृषिं वृद्धं बहुवर्षसहस्रिणम् +आनर्चुर्ब्राह्मणाः सर्वे कृष्णश्च सह पाण्डवैः +तमर्चितं सुविश्वस्तमासीनमृषिसत्तमम् +ब्राह्मणानां मतेनाह पाण्डवानां च केशवः +शुश्रूषवः पाण्डवास्ते ब्राह्मणाश्च समागताः +द्रौपदी सत्यभामा च तथाहं परमं वचः +पुरावृत्ताः कथाः पुण्याः सदाचाराः सनातनाः +राज्ञां स्त्रीणामृषीणां च मार्कण्डेय विचक्ष्व नः +तेषु तत्रोपविष्टेषु देवर्षिरपि नारदः +आजगाम विशुद्धात्मा पाण्डवानवलोककः +तमप्यथ महात्मानं सर्वे तु पुरुषर्षभाः +पाद्यार्घ्याभ्यां यथान्यायमुपतस्थुर्मनीषिणम् +नारदस्त्वथ देवर्षिर्ज्ञात्वा तांस्तु कृतक्षणान् +मार्कण्डेयस्य वदतस्तां कथामन्वमोदत +उवाच चैनं कालज्ञः स्मयन्निव स नारदः +ब्रह्मर्षे कथ्यतां यत्ते पाण्डवेषु विवक्षितम् +एवमुक्तः प्रत्युवाच मार्कण्डेयो महातपाः +क्षणं कुरुध्वं विपुलमाख्यातव्यं भविष्यति +एवमुक्ताः क्षणं चक्रुः पाण्डवाः सह तैर्द्विजैः +मध्यंदिने यथादित्यं प्रेक्षन्तस्तं महामुनिम् +वैशंपायन उवाच +तं विवक्षन्तमालक्ष्य कुरुराजो महामुनिम् +कथासंजननार्थाय चोदयामास पाण्डवः +भवान्दैवतदैत्यानामृषीणां च महात्मनाम् +राजर्षीणां च सर्वेषां चरितज्ञः सनातनः +सेव���यश्चोपासितव्यश्च मतो नः काङ्क्षितश्चिरम् +अयं च देवकीपुत्रः प्राप्तोऽस्मानवलोककः +भवत्येव हि मे बुद्धिर्दृष्ट्वात्मानं सुखाच्च्युतम् +धार्तराष्ट्रांश्च दुर्वृत्तानृध्यतः प्रेक्ष्य सर्वशः +कर्मणः पुरुषः कर्ता शुभस्याप्यशुभस्य च +स्वफलं तदुपाश्नाति कथं कर्ता स्विदीश्वरः +अथ वा सुखदुःखेषु नृणां ब्रह्मविदां वर +इह वा कृतमन्वेति परदेहेऽथ वा पुनः +देही च देहं संत्यज्य मृग्यमाणः शुभाशुभैः +कथं संयुज्यते प्रेत्य इह वा द्विजसत्तम +ऐहलौकिकमेवैतदुताहो पारलौकिकम् +क्व च कर्माणि तिष्ठन्ति जन्तोः प्रेतस्य भार्गव +मार्कण्डेय उवाच +त्वद्युक्तोऽयमनुप्रश्नो यथावद्वदतां वर +विदितं वेदितव्यं ते स्थित्यर्थमनुपृच्छसि +अत्र ते वर्तयिष्यामि तदिहैकमनाः शृणु +यथेहामुत्र च नरः सुखदुःखमुपाश्नुते +निर्मलानि शरीराणि विशुद्धानि शरीरिणाम् +ससर्ज धर्मतन्त्राणि पूर्वोत्पन्नः प्रजापतिः +अमोघबलसंकल्पाः सुव्रताः सत्यवादिनः +ब्रह्मभूता नराः पुण्याः पुराणाः कुरुनन्दन +सर्वे देवैः समायान्ति स्वच्छन्देन नभस्तलम् +ततश्च पुनरायान्ति सर्वे स्वच्छन्दचारिणः +स्वच्छन्दमरणाश्चासन्नराः स्वच्छन्दजीविनः +अल्पबाधा निरातङ्का सिद्धार्था निरुपद्रवाः +द्रष्टारो देवसंघानामृषीणां च महात्मनाम् +प्रत्यक्षाः सर्वधर्माणां दान्ता विगतमत्सराः +आसन्वर्षसहस्राणि तथा पुत्रसहस्रिणः +ततः कालान्तरेऽन्यस्मिन्पृथिवीतलचारिणः +कामक्रोधाभिभूतास्ते मायाव्याजोपजीविनः +लोभमोहाभिभूताश्च त्यक्ता देवैस्ततो नराः +अशुभैः कर्मभिः पापास्तिर्यङ्नरकगामिनः +संसारेषु विचित्रेषु पच्यमानाः पुनः पुनः +मोघेष्टा मोघसंकल्पा मोघज्ञाना विचेतसः +सर्वातिशङ्किनश्चैव संवृत्ताः क्लेशभागिनः +अशुभैः कर्मभिश्चापि प्रायशः परिचिह्निताः +दौष्कुल्या व्याधिबहुला दुरात्मानोऽप्रतापिनः +भवन्त्यल्पायुषः पापा रौद्रकर्मफलोदयाः +नाथन्तः सर्वकामानां नास्तिका भिन्नसेतवः +जन्तोः प्रेतस्य कौन्तेय गतिः स्वैरिह कर्मभिः +प्राज्ञस्य हीनबुद्धेश्च कर्मकोशः क्व तिष्ठति +क्वस्थस्तत्समुपाश्नाति सुकृतं यदि वेतरत् +इति ते दर्शनं यच्च तत्राप्यनुनयं शृणु +अयमादिशरीरेण देवसृष्टेन मानवः +शुभानामशुभानां च कुरुते संचयं महत् +आयुषोऽन्ते प्रहायेदं क्षी���प्रायं कलेवरम् +संभवत्येव युगपद्योनौ नास्त्यन्तराभवः +तत्रास्य स्वकृतं कर्म छायेवानुगतं सदा +फलत्यथ सुखार्हो वा दुःखार्हो वापि जायते +कृतान्तविधिसंयुक्तः स जन्तुर्लक्षणैः शुभैः +अशुभैर्वा निरादानो लक्ष्यते ज्ञानदृष्टिभिः +एषा तावदबुद्धीनां गतिरुक्ता युधिष्ठिर +अतः परं ज्ञानवतां निबोध गतिमुत्तमाम् +मनुष्यास्तप्ततपसः सर्वागमपरायणाः +स्थिरव्रताः सत्यपरा गुरुशुश्रूषणे रताः +सुशीलाः शुक्लजातीयाः क्षान्ता दान्ताः सुतेजसः +शुभयोन्यन्तरगताः प्रायशः शुभलक्षणाः +जितेन्द्रियत्वाद्वशिनः शुक्लत्वान्मन्दरोगिणः +अल्पबाधपरित्रासाद्भवन्ति निरुपद्रवाः +च्यवन्तं जायमानं च गर्भस्थं चैव सर्वशः +स्वमात्मानं परं चैव बुध्यन्ते ज्ञानचक्षुषः +कर्मभूमिमिमां प्राप्य पुनर्यान्ति सुरालयम् +किंचिद्दैवाद्धठात्किंचित्किंचिदेव स्वकर्मभिः +प्राप्नुवन्ति नरा राजन्मा तेऽस्त्वन्या विचारणा +इमामत्रोपमां चापि निबोध वदतां वर +मनुष्यलोके यच्छ्रेयः परं मन्ये युधिष्ठिर +इह वैकस्य नामुत्र अमुत्रैकस्य नो इह +इह चामुत्र चैकस्य नामुत्रैकस्य नो इह +धनानि येषां विपुलानि सन्ति; नित्यं रमन्ते सुविभूषिताङ्गाः +तेषामयं शत्रुवरघ्न लोको; नासौ सदा देहसुखे रतानाम् +ये योगयुक्तास्तपसि प्रसक्ताः; स्वाध्यायशीला जरयन्ति देहान् +जितेन्द्रिया भूतहिते निविष्टा;स्तेषामसौ नायमरिघ्न लोकः +ये धर्ममेव प्रथमं चरन्ति; धर्मेण लब्ध्वा च धनानि काले +दारानवाप्य क्रतुभिर्यजन्ते; तेषामयं चैव परश्च लोकः +ये नैव विद्यां न तपो न दानं; न चापि मूढाः प्रजने यतन्ते +न चाधिगच्छन्ति सुखान्यभाग्या;स्तेषामयं चैव परश्च नास्ति +सर्वे भवन्तस्त्वतिवीर्यसत्त्वा; दिव्यौजसः संहननोपपन्नाः +लोकादमुष्मादवनिं प्रपन्नाः; स्वधीतविद्याः सुरकार्यहेतोः +कृत्वैव कर्माणि महान्ति शूरा;स्तपोदमाचारविहारशीलाः +देवानृषीन्प्रेतगणांश्च सर्वा;न्संतर्पयित्वा विधिना परेण +स्वर्गं परं पुण्यकृतां निवासं; क्रमेण संप्राप्स्यथ कर्मभिः स्वैः +मा भूद्विशङ्का तव कौरवेन्द्र; दृष्ट्वात्मनः क्लेशमिमं सुखार्ह +वैशंपायन उवाच +मार्कण्डेयं महात्मानमूचुः पाण्डुसुतास्तदा +माहात्म्यं द्विजमुख्यानां श्रोतुमिच्छाम कथ्यताम् +एवमुक्तः स भगवान्मार्कण्डेयो महातपाः +उ���ाच सुमहातेजाः सर्वशास्त्रविशारदः +हैहयानां कुलकरो राजा परपुरंजयः +कुमारो रूपसंपन्नो मृगयामचरद्बली +चरमाणस्तु सोऽरण्ये तृणवीरुत्समावृते +कृष्णाजिनोत्तरासङ्गं ददर्श मुनिमन्तिके +स तेन निहतोऽरण्ये मन्यमानेन वै मृगम् +व्यथितः कर्म तत्कृत्वा शोकोपहतचेतनः +जगाम हैहयानां वै सकाशं प्रथितात्मनाम् +राज्ञां राजीवनेत्रोसौ कुमारः पृथिवीपते +तेषां च तद्यथावृत्तं कथयामास वै तदा +तं चापि हिंसितं तात मुनिं मूलफलाशिनम् +श्रुत्वा दृष्ट्वा च ते तत्र बभूवुर्दीनमानसाः +कस्यायमिति ते सर्वे मार्गमाणास्ततस्ततः +जग्मुश्चारिष्टनेमेस्ते तार्क्ष्यस्याश्रममञ्जसा +तेऽभिवाद्य महात्मानं तं मुनिं संशितव्रतम् +तस्थुः सर्वे स तु मुनिस्तेषां पूजामथाहरत् +ते तमूचुर्महात्मानं न वयं सत्क्रियां मुने +त्वत्तोऽर्हाः कर्मदोषेण ब्राह्मणो हिंसितो हि नः +तानब्रवीत्स विप्रर्षिः कथं वो ब्राह्मणो हतः +क्व चासौ ब्रूत सहिताः पश्यध्वं मे तपोबलम् +ते तु तत्सर्वमखिलमाख्यायास्मै यथातथम् +नापश्यंस्तमृषिं तत्र गतासुं ते समागताः +अन्वेषमाणाः सव्रीडाः स्वप्नवद्गतमानसाः +तानब्रवीत्तत्र मुनिस्तार्क्ष्यः परपुरंजयः +स्यादयं ब्राह्मणः सोऽथ यो युष्माभिर्विनाशितः +पुत्रो ह्ययं मम नृपास्तपोबलसमन्वितः +ते तु दृष्ट्वैव तमृषिं विस्मयं परमं गताः +महदाश्चर्यमिति वै विब्रुवाणा महीपते +मृतो ह्ययमतो दृष्टः कथं जीवितमाप्तवान् +किमेतत्तपसो वीर्यं येनायं जीवितः पुनः +श्रोतुमिच्छाम विप्रर्षे यदि श्रोतव्यमित्युत +स तानुवाच नास्माकं मृत्युः प्रभवते नृपाः +कारणं वः प्रवक्ष्यामि हेतुयोगं समासतः +सत्यमेवाभिजानीमो नानृते कुर्महे मनः +स्वधर्ममनुतिष्ठामस्तस्मान्मृत्युभयं न नः +यद्ब्राह्मणानां कुशलं तदेषां कथयामहे +नैषां दुश्चरितं ब्रूमस्तस्मान्मृत्युभयं न नः +अतिथीनन्नपानेन भृत्यानत्यशनेन च +तेजस्विदेशवासाच्च तस्मान्मृत्युभयं न नः +एतद्वै लेशमात्रं वः समाख्यातं विमत्सराः +गच्छध्वं सहिताः सर्वे न पापाद्भयमस्ति वः +एवमस्त्विति ते सर्वे प्रतिपूज्य महामुनिम् +स्वदेशमगमन्हृष्टा राजानो भरतर्षभ +मार्कण्डेय उवाच +भूय एव तु माहात्म्यं ब्राह्मणानां निबोध मे +वैन्यो नामेह राजर्षिरश्वमेधाय दीक्षितः +तमत्रिर्गन्तुमारेभे वित्तार्थमिति नः श्रुतम् +भूयोऽथ नानुरुध्यत्स धर्मव्यक्तिनिदर्शनात् +संचिन्त्य स महातेजा वनमेवान्वरोचयत् +धर्मपत्नीं समाहूय पुत्रांश्चेदमुवाच ह +प्राप्स्यामः फलमत्यन्तं बहुलं निरुपद्रवम् +अरण्यगमनं क्षिप्रं रोचतां वो गुणाधिकम् +तं भार्या प्रत्युवाचेदं धर्ममेवानुरुध्यती +वैन्यं गत्वा महात्मानमर्थयस्व धनं बहु +स ते दास्यति राजर्षिर्यजमानोऽर्थिने धनम् +तत आदाय विप्रर्षे प्रतिगृह्य धनं बहु +भृत्यान्सुतान्संविभज्य ततो व्रज यथेप्सितम् +एष वै परमो धर्मो धर्मविद्भिरुदाहृतः +अत्रिरुवाच +कथितो मे महाभागे गौतमेन महात्मना +वैन्यो धर्मार्थसंयुक्तः सत्यव्रतसमन्वितः +किं त्वस्ति तत्र द्वेष्टारो निवसन्ति हि मे द्विजाः +यथा मे गौतमः प्राह ततो न व्यवसाम्यहम् +तत्र स्म वाचं कल्याणीं धर्मकामार्थसंहिताम् +मयोक्तामन्यथा ब्रूयुस्ततस्ते वै निरर्थकाम् +गमिष्यामि महाप्राज्ञे रोचते मे वचस्तव +गाश्च मे दास्यते वैन्यः प्रभूतं चार्थसंचयम् +मार्कण्डेय उवाच +एवमुक्त्वा जगामाशु वैन्ययज्ञं महातपाः +गत्वा च यज्ञायतनमत्रिस्तुष्टाव तं नृपम् +राजन्वैन्य त्वमीशश्च भुवि त्वं प्रथमो नृपः +स्तुवन्ति त्वां मुनिगणास्त्वदन्यो नास्ति धर्मवित् +तमब्रवीदृषिस्तत्र वचः क्रुद्धो महातपाः +मैवमत्रे पुनर्ब्रूया न ते प्रज्ञा समाहिता +अत्र नः प्रथमं स्थाता महेन्द्रो वै प्रजापतिः +अथात्रिरपि राजेन्द्र गौतमं प्रत्यभाषत +अयमेव विधाता च यथैवेन्द्रः प्रजापतिः +त्वमेव मुह्यसे मोहान्न प्रज्ञानं तवास्ति ह +गौतम उवाच +जानामि नाहं मुह्यामि त्वं विवक्षुर्विमुह्यसे +स्तोष्यसेऽभ्युदयप्रेप्सुस्तस्य दर्शनसंश्रयात् +न वेत्थ परमं धर्मं न चावैषि प्रयोजनम् +बालस्त्वमसि मूढश्च वृद्धः केनापि हेतुना +मार्कण्डेय उवाच +विवदन्तौ तथा तौ तु मुनीनां दर्शने स्थितौ +ये तस्य यज्ञे संवृत्तास्तेऽपृच्छन्त कथं त्विमौ +प्रवेशः केन दत्तोऽयमनयोर्वैन्यसंसदि +उच्चैः समभिभाषन्तौ केन कार्येण विष्ठितौ +ततः परमधर्मात्मा काश्यपः सर्वधर्मवित् +विवादिनावनुप्राप्तौ तावुभौ प्रत्यवेदयत् +अथाब्रवीत्सदस्यांस्तु गौतमो मुनिसत्तमान् +आवयोर्व्याहृतं प्रश्नं शृणुत द्विजपुंगवाः +वैन्यो विधातेत्याहात्रिरत्र नः संशयो महान् +श्रुत्वैव तु महात्मानो मुनयोऽभ्यद���रवन्द्रुतम् +सनत्कुमारं धर्मज्ञं संशयच्छेदनाय वै +स च तेषां वचः श्रुत्वा यथातत्त्वं महातपाः +प्रत्युवाचाथ तानेवं धर्मार्थसहितं वचः +सनत्कुमार उवाच +ब्रह्म क्षत्रेण सहितं क्षत्रं च ब्रह्मणा सह +राजा वै प्रथमो धर्मः प्रजानां पतिरेव च +स एव शक्रः शुक्रश्च स धाता स बृहस्पतिः +प्रजापतिर्विराट्सम्राट्क्षत्रियो भूपतिर्नृपः +य एभिः स्तूयते शब्दैः कस्तं नार्चितुमर्हति +पुरायोनिर्युधाजिच्च अभिया मुदितो भवः +स्वर्णेता सहजिद्बभ्रुरिति राजाभिधीयते +सत्यमन्युर्युधाजीवः सत्यधर्मप्रवर्तकः +अधर्मादृषयो भीता बलं क्षत्रे समादधन् +आदित्यो दिवि देवेषु तमो नुदति तेजसा +तथैव नृपतिर्भूमावधर्मं नुदते भृशम् +अतो राज्ञः प्रधानत्वं शास्त्रप्रामाण्यदर्शनात् +उत्तरः सिध्यते पक्षो येन राजेति भाषितम् +मार्कण्डेय उवाच +ततः स राजा संहृष्टः सिद्धे पक्षे महामनाः +तमत्रिमब्रवीत्प्रीतः पूर्वं येनाभिसंस्तुतः +यस्मात्सर्वमनुष्येषु ज्यायांसं मामिहाब्रवीः +सर्वदेवैश्च विप्रर्षे संमितं श्रेष्ठमेव च +तस्मात्तेऽहं प्रदास्यामि विविधं वसु भूरि च +दासीसहस्रं श्यामानां सुवस्त्राणामलंकृतम् +दश कोट्यो हिरण्यस्य रुक्मभारांस्तथा दश +एतद्ददानि ते विप्र सर्वज्ञस्त्वं हि मे मतः +तदत्रिर्न्यायतः सर्वं प्रतिगृह्य महामनाः +प्रत्याजगाम तेजस्वी गृहानेव महातपाः +प्रदाय च धनं प्रीतः पुत्रेभ्यः प्रयतात्मवान् +तपः समभिसंधाय वनमेवान्वपद्यत +मार्कण्डेय उवाच +अत्रैव च सरस्वत्या गीतं परपुरंजय +पृष्टया मुनिना वीर शृणु तार्क्ष्येण धीमता +तार्क्ष्य उवाच +किं नु श्रेयः पुरुषस्येह भद्रे; कथं कुर्वन्न च्यवते स्वधर्मात् +आचक्ष्व मे चारुसर्वाङ्गि सर्वं; त्वयानुशिष्टो न च्यवेयं स्वधर्मात् +कथं चाग्निं जुहुयां पूजये वा; कस्मिन्काले केन धर्मो न नश्येत् +एतत्सर्वं सुभगे प्रब्रवीहि; यथा लोकान्विरजाः संचरेयम् +मार्कण्डेय उवाच +एवं पृष्टा प्रीतियुक्तेन तेन; शुश्रूषुमीक्ष्योत्तमबुद्धियुक्तम् +तार्क्ष्यं विप्रं धर्मयुक्तं हितं च; सरस्वती वाक्यमिदं बभाषे +सरस्वत्युवाच +यो ब्रह्म जानाति यथाप्रदेशं; स्वाध्यायनित्यः शुचिरप्रमत्तः +स वै पुरो देवपुरस्य गन्ता; सहामरैः प्राप्नुयात्प्रीतियोगम् +तत्र स्म रम्या विपुला विशोकाः; सुपुष्पिताः पुष्करिण्यः सुपुण्याः +अकर्दमा मीनवत्यः सुतीर्था; हिरण्मयैरावृताः पुण्डरीकैः +तासां तीरेष्वासते पुण्यकर्मा; महीयमानः पृथगप्सरोभिः +सुपुण्यगन्धाभिरलंकृताभि;र्हिरण्यवर्णाभिरतीव हृष्टः +परं लोकं गोप्रदास्त्वाप्नुवन्ति; दत्त्वानड्वाहं सूर्यलोकं व्रजन्ति +वासो दत्त्वा चन्द्रमसः स लोकं; दत्त्वा हिरण्यममृतत्वमेति +धेनुं दत्त्वा सुव्रतां साधुदोहां; कल्याणवत्सामपलायिनीं च +यावन्ति रोमाणि भवन्ति तस्या;स्तावद्वर्षाण्यश्नुते स्वर्गलोकम् +अनड्वाहं सुव्रतं यो ददाति; हलस्य वोढारमनन्तवीर्यम् +धुरंधरं बलवन्तं युवानं; प्राप्नोति लोकान्दश धेनुदस्य +यः सप्त वर्षाणि जुहोति तार्क्ष्य; हव्यं त्वग्नौ सुव्रतः साधुशीलः +सप्तावरान्सप्त पूर्वान्पुनाति; पितामहानात्मनः कर्मभिः स्वैः +तार्क्ष्य उवाच +किमग्निहोत्रस्य व्रतं पुराण;माचक्ष्व मे पृच्छतश्चारुरूपे +त्वयानुशिष्टोऽहमिहाद्य विद्यां; यदग्निहोत्रस्य व्रतं पुराणम् +सरस्वत्युवाच +न चाशुचिर्नाप्यनिर्णिक्तपाणि;र्नाब्रह्मविज्जुहुयान्नाविपश्चित् +बुभुक्षवः शुचिकामा हि देवा; नाश्रद्दधानाद्धि हविर्जुषन्ति +नाश्रोत्रियं देवहव्ये नियुञ्ज्या;न्मोघं परा सिञ्चति तादृशो हि +अपूर्णमश्रोत्रियमाह तार्क्ष्य; न वै तादृग्जुहुयादग्निहोत्रम् +कृशानुं ये जुह्वति श्रद्दधानाः; सत्यव्रता हुतशिष्टाशिनश्च +गवां लोकं प्राप्य ते पुण्यगन्धं; पश्यन्ति देवं परमं चापि सत्यम् +तार्क्ष्य उवाच +क्षेत्रज्ञभूतां परलोकभावे; कर्मोदये बुद्धिमतिप्रविष्टाम् +प्रज्ञां च देवीं सुभगे विमृश्य; पृच्छामि त्वां का ह्यसि चारुरूपे +सरस्वत्युवाच +अग्निहोत्रादहमभ्यागतास्मि; विप्रर्षभाणां संशयच्छेदनाय +त्वत्संयोगादहमेतदब्रुवं; भावे स्थिता तथ्यमर्थं यथावत् +तार्क्ष्य उवाच +न हि त्वया सदृशी काचिदस्ति; विभ्राजसे ह्यतिमात्रं यथा श्रीः +रूपं च ते दिव्यमत्यन्तकान्तं; प्रज्ञां च देवीं सुभगे बिभर्षि +सरस्वत्युवाच +श्रेष्ठानि यानि द्विपदां वरिष्ठ; यज्ञेषु विद्वन्नुपपादयन्ति +तैरेवाहं संप्रवृद्धा भवामि; आप्यायिता रूपवती च विप्र +यच्चापि द्रव्यमुपयुज्यते ह; वानस्पत्यमायसं पार्थिवं वा +दिव्येन रूपेण च प्रज्ञया च; तेनैव सिद्धिरिति विद्धि विद्वन् +तार्क्ष्य उवाच +इदं श्रेयः परमं मन्यमाना; व्यायच्छन्ते मुनयः संप्रतीताः +आचक्ष्व मे तं परमं विशोकं; मोक्षं परं यं प्रविशन्ति धीराः +सरस्वत्युवाच +तं वै परं वेदविदः प्रपन्नाः; परं परेभ्यः प्रथितं पुराणम् +स्वाध्यायदानव्रतपुण्ययोगै;स्तपोधना वीतशोका विमुक्ताः +तस्याथ मध्ये वेतसः पुण्यगन्धः; सहस्रशाखो विमलो विभाति +तस्य मूलात्सरितः प्रस्रवन्ति; मधूदकप्रस्रवणा रमण्यः +शाखां शाखां महानद्यः संयान्ति सिकतासमाः +धानापूपा मांसशाकाः सदा पायसकर्दमाः +यस्मिन्नग्निमुखा देवाः सेन्द्राः सह मरुद्गणैः +ईजिरे क्रतुभिः श्रेष्ठैस्तत्पदं परमं मुने +वैशंपायन उवाच +ततः स पाण्डवो भूयो मार्कण्डेयमुवाच ह +कथयस्वेह चरितं मनोर्वैवस्वतस्य मे +मार्कण्डेय उवाच +विवस्वतः सुतो राजन्परमर्षिः प्रतापवान् +बभूव नरशार्दूल प्रजापतिसमद्युतिः +ओजसा तेजसा लक्ष्म्या तपसा च विशेषतः +अतिचक्राम पितरं मनुः स्वं च पितामहम् +ऊर्ध्वबाहुर्विशालायां बदर्यां स नराधिपः +एकपादस्थितस्तीव्रं चचार सुमहत्तपः +अवाक्शिरास्तथा चापि नेत्रैरनिमिषैर्दृढम् +सोऽतप्यत तपो घोरं वर्षाणामयुतं तदा +तं कदाचित्तपस्यन्तमार्द्रचीरजटाधरम् +वीरिणीतीरमागम्य मत्स्यो वचनमब्रवीत् +भगवन्क्षुद्रमत्स्योऽस्मि बलवद्भ्यो भयं मम +मत्स्येभ्यो हि ततो मां त्वं त्रातुमर्हसि सुव्रत +दुर्बलं बलवन्तो हि मत्स्यं मत्स्या विशेषतः +भक्षयन्ति यथा वृत्तिर्विहिता नः सनातनी +तस्माद्भयौघान्महतो मज्जन्तं मां विशेषतः +त्रातुमर्हसि कर्तास्मि कृते प्रतिकृतं तव +स मत्स्यवचनं श्रुत्वा कृपयाभिपरिप्लुतः +मनुर्वैवस्वतोऽगृह्णात्तं मत्स्यं पाणिना स्वयम् +उदकान्तमुपानीय मत्स्यं वैवस्वतो मनुः +अलिञ्जरे प्राक्षिपत्स चन्द्रांशुसदृशप्रभम् +स तत्र ववृधे राजन्मत्स्यः परमसत्कृतः +पुत्रवच्चाकरोत्तस्मिन्मनुर्भावं विशेषतः +अथ कालेन महता स मत्स्यः सुमहानभूत् +अलिञ्जरे जले चैव नासौ समभवत्किल +अथ मत्स्यो मनुं दृष्ट्वा पुनरेवाभ्यभाषत +भगवन्साधु मेऽद्यान्यत्स्थानं संप्रतिपादय +उद्धृत्यालिञ्जरात्तस्मात्ततः स भगवान्मुनिः +तं मत्स्यमनयद्वापीं महतीं स मनुस्तदा +तत्र तं प्राक्षिपच्चापि मनुः परपुरंजय +अथावर्धत मत्स्यः स पुनर्वर्षगणान्बहून् +द्वियोजनायता वापी विस्तृता चापि योजनम् +तस्यां नासौ समभवन्मत्स्यो राजीवलोचन +विचेष्टितुं वा कौन्तेय मत्स्यो वाप्यां विशां पते +मनुं मत्स्यस्ततो दृष्ट्वा पुनरेवाभ्यभाषत +नय मां भगवन्साधो समुद्रमहिषीं प्रभो +गङ्गां तत्र निवत्स्यामि यथा वा तात मन्यसे +एवमुक्तो मनुर्मत्स्यमनयद्भगवान्वशी +नदीं गङ्गां तत्र चैनं स्वयं प्राक्षिपदच्युतः +स तत्र ववृधे मत्स्यः किंचित्कालमरिंदम +ततः पुनर्मनुं दृष्ट्वा मत्स्यो वचनमब्रवीत् +गङ्गायां हि न शक्नोमि बृहत्त्वाच्चेष्टितुं प्रभो +समुद्रं नय मामाशु प्रसीद भगवन्निति +उद्धृत्य गङ्गासलिलात्ततो मत्स्यं मनुः स्वयम् +समुद्रमनयत्पार्थ तत्र चैनमवासृजत् +सुमहानपि मत्स्यः सन्स मनोर्मनसस्तदा +आसीद्यथेष्टहार्यश्च स्पर्शगन्धसुखश्च वै +यदा समुद्रे प्रक्षिप्तः स मत्स्यो मनुना तदा +तत एनमिदं वाक्यं स्मयमान इवाब्रवीत् +भगवन्कृता हि मे रक्षा त्वया सर्वा विशेषतः +प्राप्तकालं तु यत्कार्यं त्वया तच्छ्रूयतां मम +अचिराद्भगवन्भौममिदं स्थावरजङ्गमम् +सर्वमेव महाभाग प्रलयं वै गमिष्यति +संप्रक्षालनकालोऽयं लोकानां समुपस्थितः +तस्मात्त्वां बोधयाम्यद्य यत्ते हितमनुत्तमम् +त्रसानां स्थावराणां च यच्चेङ्गं यच्च नेङ्गति +तस्य सर्वस्य संप्राप्तः कालः परमदारुणः +नौश्च कारयितव्या ते दृढा युक्तवटाकरा +तत्र सप्तर्षिभिः सार्धमारुहेथा महामुने +बीजानि चैव सर्वाणि यथोक्तानि मया पुरा +तस्यामारोहयेर्नावि सुसंगुप्तानि भागशः +नौस्थश्च मां प्रतीक्षेथास्तदा मुनिजनप्रिय +आगमिष्याम्यहं शृङ्गी विज्ञेयस्तेन तापस +एवमेतत्त्वया कार्यमापृष्टोऽसि व्रजाम्यहम् +नातिशङ्क्यमिदं चापि वचनं ते ममाभिभो +एवं करिष्य इति तं स मत्स्यं प्रत्यभाषत +जग्मतुश्च यथाकाममनुज्ञाप्य परस्परम् +ततो मनुर्महाराज यथोक्तं मत्स्यकेन ह +बीजान्यादाय सर्वाणि सागरं पुप्लुवे तदा +नावा तु शुभया वीर महोर्मिणमरिंदम +चिन्तयामास च मनुस्तं मत्स्यं पृथिवीपते +स च तच्चिन्तितं ज्ञात्वा मत्स्यः परपुरंजय +शृङ्गी तत्राजगामाशु तदा भरतसत्तम +तं दृष्ट्वा मनुजेन्द्रेन्द्र मनुर्मत्स्यं जलार्णवे +शृङ्गिणं तं यथोक्तेन रूपेणाद्रिमिवोच्छ्रितम् +वटाकरमयं पाशमथ मत्स्यस्य मूर्धनि +मनुर्मनुजशार्दूल तस्मिञ्शृङ्गे न्यवेशयत् +संयतस्तेन पाशेन मत्स्यः परपुरंजय +वेगेन महता नावं प्राकर्षल्लवणाम्भसि +स ततार तया नावा समुद्रं मनुजेश्वर +नृत्यमानमिवोर्मीभिर्गर्जमानमिवाम्भसा +क्षोभ्यमाणा महावातैः सा नौस्तस्मिन्महोदधौ +घूर्णते चपलेव स्त्री मत्ता परपुरंजय +नैव भूमिर्न च दिशः प्रदिशो वा चकाशिरे +सर्वमाम्भसमेवासीत्खं द्यौश्च नरपुंगव +एवंभूते तदा लोके संकुले भरतर्षभ +अदृश्यन्त सप्तर्षयो मनुर्मत्स्यः सहैव ह +एवं बहून्वर्षगणांस्तां नावं सोऽथ मत्स्यकः +चकर्षातन्द्रितो राजंस्तस्मिन्सलिलसंचये +ततो हिमवतः शृङ्गं यत्परं पुरुषर्षभ +तत्राकर्षत्ततो नावं स मत्स्यः कुरुनन्दन +ततोऽब्रवीत्तदा मत्स्यस्तानृषीन्प्रहसञ्शनैः +अस्मिन्हिमवतः शृङ्गे नावं बध्नीत माचिरम् +सा बद्धा तत्र तैस्तूर्णमृषिभिर्भरतर्षभ +नौर्मत्स्यस्य वचः श्रुत्वा शृङ्गे हिमवतस्तदा +तच्च नौबन्धनं नाम शृङ्गं हिमवतः परम् +ख्यातमद्यापि कौन्तेय तद्विद्धि भरतर्षभ +अथाब्रवीदनिमिषस्तानृषीन्सहितांस्तदा +अहं प्रजापतिर्ब्रह्मा मत्परं नाधिगम्यते +मत्स्यरूपेण यूयं च मयास्मान्मोक्षिता भयात् +मनुना च प्रजाः सर्वाः सदेवासुरमानवाः +स्रष्टव्याः सर्वलोकाश्च यच्चेङ्गं यच्च नेङ्गति +तपसा चातितीव्रेण प्रतिभास्य भविष्यति +मत्प्रसादात्प्रजासर्गे न च मोहं गमिष्यति +इत्युक्त्वा वचनं मत्स्यः क्षणेनादर्शनं गतः +स्रष्टुकामः प्रजाश्चापि मनुर्वैवस्वतः स्वयम् +प्रमूढोऽभूत्प्रजासर्गे तपस्तेपे महत्ततः +तपसा महता युक्तः सोऽथ स्रष्टुं प्रचक्रमे +सर्वाः प्रजा मनुः साक्षाद्यथावद्भरतर्षभ +इत्येतन्मात्स्यकं नाम पुराणं परिकीर्तितम् +आख्यानमिदमाख्यातं सर्वपापहरं मया +य इदं शृणुयान्नित्यं मनोश्चरितमादितः +स सुखी सर्वसिद्धार्थः स्वर्गलोकमियान्नरः +वैशंपायन उवाच +ततः स पुनरेवाथ मार्कण्डेयं यशस्विनम् +पप्रच्छ विनयोपेतो धर्मराजो युधिष्ठिरः +नैके युगसहस्रान्तास्त्वया दृष्टा महामुने +न चापीह समः कश्चिदायुषा तव विद्यते +वर्जयित्वा महात्मानं ब्राह्मणं परमेष्ठिनम् +अनन्तरिक्षे लोकेऽस्मिन्देवदानववर्जिते +त्वमेव प्रलये विप्र ब्रह्माणमुपतिष्ठसि +प्रलये चापि निर्वृत्ते प्रबुद्धे च पितामहे +त्वमेव सृज्यमानानि भूतानीह प्रपश्यसि +चतुर्विधानि विप्रर्षे यथावत्परमेष्ठिना +वायुभूता दिशः कृत्वा विक्षिप्यापस्ततस्ततः +त्वया ल���कगुरुः साक्षात्सर्वलोकपितामहः +आराधितो द्विजश्रेष्ठ तत्परेण समाधिना +तस्मात्सर्वान्तको मृत्युर्जरा वा देहनाशिनी +न त्वा विशति विप्रर्षे प्रसादात्परमेष्ठिनः +यदा नैव रविर्नाग्निर्न वायुर्न च चन्द्रमाः +नैवान्तरिक्षं नैवोर्वी शेषं भवति किंचन +तस्मिन्नेकार्णवे लोके नष्टे स्थावरजङ्गमे +नष्टे देवासुरगणे समुत्सन्नमहोरगे +शयानममितात्मानं पद्मे पद्मनिकेतनम् +त्वमेकः सर्वभूतेशं ब्रह्माणमुपतिष्ठसि +एतत्प्रत्यक्षतः सर्वं पूर्ववृत्तं द्विजोत्तम +तस्मादिच्छामहे श्रोतुं सर्वहेत्वात्मिकां कथाम् +अनुभूतं हि बहुशस्त्वयैकेन द्विजोत्तम +न तेऽस्त्यविदितं किंचित्सर्वलोकेषु नित्यदा +मार्कण्डेय उवाच +हन्त ते कथयिष्यामि नमस्कृत्वा स्वयम्भुवे +पुरुषाय पुराणाय शाश्वतायाव्ययाय च +य एष पृथुदीर्घाक्षः पीतवासा जनार्दनः +एष कर्ता विकर्ता च सर्वभावनभूतकृत् +अचिन्त्यं महदाश्चर्यं पवित्रमपि चोत्तमम् +अनादिनिधनं भूतं विश्वमक्षयमव्ययम् +एष कर्ता न क्रियते कारणं चापि पौरुषे +यो ह्येनं पुरुषं वेत्ति देवा अपि न तं विदुः +सर्वमाश्चर्यमेवैतन्निर्वृत्तं राजसत्तम +आदितो मनुजव्याघ्र कृत्स्नस्य जगतः क्षये +चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम् +तस्य तावच्छती संध्या संध्यांशश्च ततः परम् +त्रीणि वर्षसहस्राणि त्रेतायुगमिहोच्यते +तस्य तावच्छती संध्या संध्यांशश्च ततः परम् +तथा वर्षसहस्रे द्वे द्वापरं परिमाणतः +तस्यापि द्विशती संध्या संध्यांशश्च ततः परम् +सहस्रमेकं वर्षाणां ततः कलियुगं स्मृतम् +तस्य वर्षशतं संध्या संध्यांशश्च ततः परम् +संध्यासंध्यांशयोस्तुल्यं प्रमाणमुपधारय +क्षीणे कलियुगे चैव प्रवर्तति कृतं युगम् +एषा द्वादशसाहस्री युगाख्या परिकीर्तिता +एतत्सहस्रपर्यन्तमहो ब्राह्ममुदाहृतम् +विश्वं हि ब्रह्मभवने सर्वशः परिवर्तते +लोकानां मनुजव्याघ्र प्रलयं तं विदुर्बुधाः +अल्पावशिष्टे तु तदा युगान्ते भरतर्षभ +सहस्रान्ते नराः सर्वे प्रायशोऽनृतवादिनः +यज्ञप्रतिनिधिः पार्थ दानप्रतिनिधिस्तथा +व्रतप्रतिनिधिश्चैव तस्मिन्काले प्रवर्तते +ब्राह्मणाः शूद्रकर्माणस्तथा शूद्रा धनार्जकाः +क्षत्रधर्मेण वाप्यत्र वर्तयन्ति गते युगे +निवृत्तयज्ञस्वाध्यायाः पिण्डोदकविवर्जिताः +ब्राह्���णाः सर्वभक्षाश्च भविष्यन्ति कलौ युगे +अजपा ब्राह्मणास्तात शूद्रा जपपरायणाः +विपरीते तदा लोके पूर्वरूपं क्षयस्य तत् +बहवो म्लेच्छराजानः पृथिव्यां मनुजाधिप +मिथ्यानुशासिनः पापा मृषावादपरायणाः +आन्ध्राः शकाः पुलिन्दाश्च यवनाश्च नराधिपाः +काम्बोजा और्णिकाः शूद्रास्तथाभीरा नरोत्तम +न तदा ब्राह्मणः कश्चित्स्वधर्ममुपजीवति +क्षत्रिया अपि वैश्याश्च विकर्मस्था नराधिप +अल्पायुषः स्वल्पबला अल्पतेजःपराक्रमाः +अल्पदेहाल्पसाराश्च तथा सत्याल्पभाषिणः +बहुशून्या जनपदा मृगव्यालावृता दिशः +युगान्ते समनुप्राप्ते वृथा च ब्रह्मचारिणः +भोवादिनस्तथा शूद्रा ब्राह्मणाश्चार्यवादिनः +युगान्ते मनुजव्याघ्र भवन्ति बहुजन्तवः +न तथा घ्राणयुक्ताश्च सर्वगन्धा विशां पते +रसाश्च मनुजव्याघ्र न तथा स्वादुयोगिनः +बहुप्रजा ह्रस्वदेहाः शीलाचारविवर्जिताः +मुखेभगाः स्त्रियो राजन्भविष्यन्ति युगक्षये +अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः +केशशूलाः स्त्रियो राजन्भविष्यन्ति युगक्षये +अल्पक्षीरास्तथा गावो भविष्यन्ति जनाधिप +अल्पपुष्पफलाश्चापि पादपा बहुवायसाः +ब्रह्मवध्यावलिप्तानां तथा मिथ्याभिशंसिनाम् +नृपाणां पृथिवीपाल प्रतिगृह्णन्ति वै द्विजाः +लोभमोहपरीताश्च मिथ्याधर्मध्वजावृताः +भिक्षार्थं पृथिवीपाल चञ्चूर्यन्ते द्विजैर्दिशः +करभारभयात्पुंसो गृहस्थाः परिमोषकाः +मुनिच्छद्माकृतिच्छन्ना वाणिज्यमुपजीवते +मिथ्या च नखरोमाणि धारयन्ति नरास्तदा +अर्थलोभान्नरव्याघ्र वृथा च ब्रह्मचारिणः +आश्रमेषु वृथाचाराः पानपा गुरुतल्पगाः +ऐहलौकिकमीहन्ते मांसशोणितवर्धनम् +बहुपाषण्डसंकीर्णाः परान्नगुणवादिनः +आश्रमा मनुजव्याघ्र न भवन्ति युगक्षये +यथर्तुवर्षी भगवान्न तथा पाकशासनः +न तदा सर्वबीजानि सम्यग्रोहन्ति भारत +अधर्मफलमत्यर्थं तदा भवति चानघ +तथा च पृथिवीपाल यो भवेद्धर्मसंयुतः +अल्पायुः स हि मन्तव्यो न हि धर्मोऽस्ति कश्चन +भूयिष्ठं कूटमानैश्च पण्यं विक्रीणते जनाः +वणिजश्च नरव्याघ्र बहुमाया भवन्त्युत +धर्मिष्ठाः परिहीयन्ते पापीयान्वर्धते जनः +धर्मस्य बलहानिः स्यादधर्मश्च बली तथा +अल्पायुषो दरिद्राश्च धर्मिष्ठा मानवास्तदा +दीर्घायुषः समृद्धाश्च विधर्माणो युगक्षये +अधर्मिष्ठैरुपायैश्च प्र��ा व्यवहरन्त्युत +संचयेनापि चाल्पेन भवन्त्याढ्या मदान्विताः +धनं विश्वासतो न्यस्तं मिथो भूयिष्ठशो नराः +हर्तुं व्यवसिता राजन्मायाचारसमन्विताः +पुरुषादानि सत्त्वानि पक्षिणोऽथ मृगास्तथा +नगराणां विहारेषु चैत्येष्वपि च शेरते +सप्तवर्षाष्टवर्षाश्च स्त्रियो गर्भधरा नृप +दशद्वादशवर्षाणां पुंसां पुत्रः प्रजायते +भवन्ति षोडशे वर्षे नराः पलितिनस्तथा +आयुःक्षयो मनुष्याणां क्षिप्रमेव प्रपद्यते +क्षीणे युगे महाराज तरुणा वृद्धशीलिनः +तरुणानां च यच्छीलं तद्वृद्धेषु प्रजायते +विपरीतास्तदा नार्यो वञ्चयित्वा रहः पतीन् +व्युच्चरन्त्यपि दुःशीला दासैः पशुभिरेव च +तस्मिन्युगसहस्रान्ते संप्राप्ते चायुषः क्षये +अनावृष्टिर्महाराज जायते बहुवार्षिकी +ततस्तान्यल्पसाराणि सत्त्वानि क्षुधितानि च +प्रलयं यान्ति भूयिष्ठं पृथिव्यां पृथिवीपते +ततो दिनकरैर्दीप्तैः सप्तभिर्मनुजाधिप +पीयते सलिलं सर्वं समुद्रेषु सरित्सु च +यच्च काष्ठं तृणं चापि शुष्कं चार्द्रं च भारत +सर्वं तद्भस्मसाद्भूतं दृश्यते भरतर्षभ +ततः संवर्तको वह्निर्वायुना सह भारत +लोकमाविशते पूर्वमादित्यैरुपशोषितम् +ततः स पृथिवीं भित्त्वा समाविश्य रसातलम् +देवदानवयक्षाणां भयं जनयते महत् +निर्दहन्नागलोकं च यच्च किंचित्क्षिताविह +अधस्तात्पृथिवीपाल सर्वं नाशयते क्षणात् +ततो योजनविंशानां सहस्राणि शतानि च +निर्दहत्यशिवो वायुः स च संवर्तकोऽनलः +सदेवासुरगन्धर्वं सयक्षोरगराक्षसम् +ततो दहति दीप्तः स सर्वमेव जगद्विभुः +ततो गजकुलप्रख्यास्तडिन्मालाविभूषिताः +उत्तिष्ठन्ति महामेघा नभस्यद्भुतदर्शनाः +केचिन्नीलोत्पलश्यामाः केचित्कुमुदसंनिभाः +केचित्किञ्जल्कसंकाशाः केचित्पीताः पयोधराः +केचिद्धारिद्रसंकाशाः काकाण्डकनिभास्तथा +केचित्कमलपत्राभाः केचिद्धिङ्गुलकप्रभाः +केचित्पुरवराकाराः केचिद्गजकुलोपमाः +केचिदञ्जनसंकाशाः केचिन्मकरसंस्थिताः +विद्युन्मालापिनद्धाङ्गाः समुत्तिष्ठन्ति वै घनाः +घोररूपा महाराज घोरस्वननिनादिताः +ततो जलधराः सर्वे व्याप्नुवन्ति नभस्तलम् +तैरियं पृथिवी सर्वा सपर्वतवनाकरा +आपूर्यते महाराज सलिलौघपरिप्लुता +ततस्ते जलदा घोरा राविणः पुरुषर्षभ +सर्वतः प्लावयन्त्याशु चोदिताः परमेष्ठिना +वर्षमाणा महत���तोयं पूरयन्तो वसुंधराम् +सुघोरमशिवं रौद्रं नाशयन्ति च पावकम् +ततो द्वादश वर्षाणि पयोदास्त उपप्लवे +धाराभिः पूरयन्तो वै चोद्यमाना महात्मना +ततः समुद्रः स्वां वेलामतिक्रामति भारत +पर्वताश्च विशीर्यन्ते मही चापि विशीर्यते +सर्वतः सहसा भ्रान्तास्ते पयोदा नभस्तलम् +संवेष्टयित्वा नश्यन्ति वायुवेगपराहताः +ततस्तं मारुतं घोरं स्वयम्भूर्मनुजाधिप +आदिपद्मालयो देवः पीत्वा स्वपिति भारत +तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे +नष्टे देवासुरगणे यक्षराक्षसवर्जिते +निर्मनुष्ये महीपाल निःश्वापदमहीरुहे +अनन्तरिक्षे लोकेऽस्मिन्भ्रमाम्येकोऽहमादृतः +एकार्णवे जले घोरे विचरन्पार्थिवोत्तम +अपश्यन्सर्वभूतानि वैक्लव्यमगमं परम् +ततः सुदीर्घं गत्वा तु प्लवमानो नराधिप +श्रान्तः क्वचिन्न शरणं लभाम्यहमतन्द्रितः +ततः कदाचित्पश्यामि तस्मिन्सलिलसंप्लवे +न्यग्रोधं सुमहान्तं वै विशालं पृथिवीपते +शाखायां तस्य वृक्षस्य विस्तीर्णायां नराधिप +पर्यङ्के पृथिवीपाल दिव्यास्तरणसंस्तृते +उपविष्टं महाराज पूर्णेन्दुसदृशाननम् +फुल्लपद्मविशालाक्षं बालं पश्यामि भारत +ततो मे पृथिवीपाल विस्मयः सुमहानभूत् +कथं त्वयं शिशुः शेते लोके नाशमुपागते +तपसा चिन्तयंश्चापि तं शिशुं नोपलक्षये +भूतं भव्यं भविष्यच्च जानन्नपि नराधिप +अतसीपुष्पवर्णाभः श्रीवत्सकृतलक्षणः +साक्षाल्लक्ष्म्या इवावासः स तदा प्रतिभाति मे +ततो मामब्रवीद्बालः स पद्मनिभलोचनः +श्रीवत्सधारी द्युतिमान्वाक्यं श्रुतिसुखावहम् +जानामि त्वा परिश्रान्तं तात विश्रामकाङ्क्षिणम् +मार्कण्डेय इहास्स्व त्वं यावदिच्छसि भार्गव +अभ्यन्तरं शरीरं मे प्रविश्य मुनिसत्तम +आस्स्व भो विहितो वासः प्रसादस्ते कृतो मया +ततो बालेन तेनैवमुक्तस्यासीत्तदा मम +निर्वेदो जीविते दीर्घे मनुष्यत्वे च भारत +ततो बालेन तेनास्यं सहसा विवृतं कृतम् +तस्याहमवशो वक्त्रं दैवयोगात्प्रवेशितः +ततः प्रविष्टस्तत्कुक्षिं सहसा मनुजाधिप +सराष्ट्रनगराकीर्णां कृत्स्नां पश्यामि मेदिनीम् +गङ्गां शतद्रुं सीतां च यमुनामथ कौशिकीम् +चर्मण्वतीं वेत्रवतीं चन्द्रभागां सरस्वतीम् +सिन्धुं चैव विपाशां च नदीं गोदावरीमपि +वस्वोकसारां नलिनीं नर्मदां चैव भारत +नदीं ताम्रां च वेण्णां च पुण्यतोयां शुभावहाम् +सुवेणां कृष्णवेणां च इरामां च महानदीम् +शोणं च पुरुषव्याघ्र विशल्यां कम्पुनामपि +एताश्चान्याश्च नद्योऽहं पृथिव्यां या नरोत्तम +परिक्रामन्प्रपश्यामि तस्य कुक्षौ महात्मनः +ततः समुद्रं पश्यामि यादोगणनिषेवितम् +रत्नाकरममित्रघ्न निधानं पयसो महत् +ततः पश्यामि गगनं चन्द्रसूर्यविराजितम् +जाज्वल्यमानं तेजोभिः पावकार्कसमप्रभैः +पश्यामि च महीं राजन्काननैरुपशोभिताम् +यजन्ते हि तदा राजन्ब्राह्मणा बहुभिः सवैः +क्षत्रियाश्च प्रवर्तन्ते सर्ववर्णानुरञ्जने +वैश्याः कृषिं यथान्यायं कारयन्ति नराधिप +शुश्रूषायां च निरता द्विजानां वृषलास्तथा +ततः परिपतन्राजंस्तस्य कुक्षौ महात्मनः +हिमवन्तं च पश्यामि हेमकूटं च पर्वतम् +निषधं चापि पश्यामि श्वेतं च रजताचितम् +पश्यामि च महीपाल पर्वतं गन्धमादनम् +मन्दरं मनुजव्याघ्र नीलं चापि महागिरिम् +पश्यामि च महाराज मेरुं कनकपर्वतम् +महेन्द्रं चैव पश्यामि विन्ध्यं च गिरिमुत्तमम् +मलयं चापि पश्यामि पारियात्रं च पर्वतम् +एते चान्ये च बहवो यावन्तः पृथिवीधराः +तस्योदरे मया दृष्टाः सर्वरत्नविभूषिताः +सिंहान्व्याघ्रान्वराहांश्च नागांश्च मनुजाधिप +पृथिव्यां यानि चान्यानि सत्त्वानि जगतीपते +तानि सर्वाण्यहं तत्र पश्यन्पर्यचरं तदा +कुक्षौ तस्य नरव्याघ्र प्रविष्टः संचरन्दिशः +शक्रादींश्चापि पश्यामि कृत्स्नान्देवगणांस्तथा +गन्धर्वाप्सरसो यक्षानृषींश्चैव महीपते +दैत्यदानवसंघांश्च कालेयांश्च नराधिप +सिंहिकातनयांश्चापि ये चान्ये सुरशत्रवः +यच्च किंचिन्मया लोके दृष्टं स्थावरजङ्गमम् +तदपश्यमहं सर्वं तस्य कुक्षौ महात्मनः +फलाहारः प्रविचरन्कृत्स्नं जगदिदं तदा +अन्तः शरीरे तस्याहं वर्षाणामधिकं शतम् +न च पश्यामि तस्याहमन्तं देहस्य कुत्रचित् +सततं धावमानश्च चिन्तयानो विशां पते +आसादयामि नैवान्तं तस्य राजन्महात्मनः +ततस्तमेव शरणं गतोऽस्मि विधिवत्तदा +वरेण्यं वरदं देवं मनसा कर्मणैव च +ततोऽहं सहसा राजन्वायुवेगेन निःसृतः +महात्मनो मुखात्तस्य विवृतात्पुरुषोत्तम +ततस्तस्यैव शाखायां न्यग्रोधस्य विशां पते +आस्ते मनुजशार्दूल कृत्स्नमादाय वै जगत् +तेनैव बालवेषेण श्रीवत्सकृतलक्षणम् +आसीनं तं नरव्याघ्र पश्याम्यमिततेजसम् +ततो मामब्रवीद्वीर स बालः ���्रहसन्निव +श्रीवत्सधारी द्युतिमान्पीतवासा महाद्युतिः +अपीदानीं शरीरेऽस्मिन्मामके मुनिसत्तम +उषितस्त्वं सुविश्रान्तो मार्कण्डेय ब्रवीहि मे +मुहूर्तादथ मे दृष्टिः प्रादुर्भूता पुनर्नवा +यया निर्मुक्तमात्मानमपश्यं लब्धचेतसम् +तस्य ताम्रतलौ तात चरणौ सुप्रतिष्ठितौ +सुजातौ मृदुरक्ताभिरङ्गुलीभिरलंकृतौ +प्रयतेन मया मूर्ध्ना गृहीत्वा ह्यभिवन्दितौ +दृष्ट्वापरिमितं तस्य प्रभावममितौजसः +विनयेनाञ्जलिं कृत्वा प्रयत्नेनोपगम्य च +दृष्टो मया स भूतात्मा देवः कमललोचनः +तमहं प्राञ्जलिर्भूत्वा नमस्कृत्येदमब्रुवम् +ज्ञातुमिच्छामि देव त्वां मायां चेमां तवोत्तमाम् +आस्येनानुप्रविष्टोऽहं शरीरं भगवंस्तव +दृष्टवानखिलाँल्लोकान्समस्ताञ्जठरे तव +तव देव शरीरस्था देवदानवराक्षसाः +यक्षगन्धर्वनागाश्च जगत्स्थावरजङ्गमम् +त्वत्प्रसादाच्च मे देव स्मृतिर्न परिहीयते +द्रुतमन्तः शरीरे ते सततं परिधावतः +इच्छामि पुण्डरीकाक्ष ज्ञातुं त्वाहमनिन्दित +इह भूत्वा शिशुः साक्षात्किं भवानवतिष्ठते +पीत्वा जगदिदं विश्वमेतदाख्यातुमर्हसि +किमर्थं च जगत्सर्वं शरीरस्थं तवानघ +कियन्तं च त्वया कालमिह स्थेयमरिंदम +एतदिच्छामि देवेश श्रोतुं ब्राह्मणकाम्यया +त्वत्तः कमलपत्राक्ष विस्तरेण यथातथम् +महद्ध्येतदचिन्त्यं च यदहं दृष्टवान्प्रभो +इत्युक्तः स मया श्रीमान्देवदेवो महाद्युतिः +सान्त्वयन्मामिदं वाक्यमुवाच वदतां वरः +देव उवाच +कामं देवापि मां विप्र न विजानन्ति तत्त्वतः +त्वत्प्रीत्या तु प्रवक्ष्यामि यथेदं विसृजाम्यहम् +पितृभक्तोऽसि विप्रर्षे मां चैव शरणं गतः +अतो दृष्टोऽस्मि ते साक्षाद्ब्रह्मचर्यं च ते महत् +आपो नारा इति प्रोक्ताः संज्ञानाम कृतं मया +तेन नारायणोऽस्म्युक्तो मम तद्ध्ययनं सदा +अहं नारायणो नाम प्रभवः शाश्वतोऽव्ययः +विधाता सर्वभूतानां संहर्ता च द्विजोत्तम +अहं विष्णुरहं ब्रह्मा शक्रश्चाहं सुराधिपः +अहं वैश्रवणो राजा यमः प्रेताधिपस्तथा +अहं शिवश्च सोमश्च कश्यपश्च प्रजापतिः +अहं धाता विधाता च यज्ञश्चाहं द्विजोत्तम +अग्निरास्यं क्षितिः पादौ चन्द्रादित्यौ च लोचने +सदिशं च नभः कायो वायुर्मनसि मे स्थितः +मया क्रतुशतैरिष्टं बहुभिः स्वाप्तदक्षिणैः +यजन्ते वेदविदुषो मां देवयजने स्थितम् +प��थिव्यां क्षत्रियेन्द्राश्च पार्थिवाः स्वर्गकाङ्क्षिणः +यजन्ते मां तथा वैश्याः स्वर्गलोकजिगीषवः +चतुःसमुद्रपर्यन्तां मेरुमन्दरभूषणाम् +शेषो भूत्वाहमेवैतां धारयामि वसुंधराम् +वाराहं रूपमास्थाय मयेयं जगती पुरा +मज्जमाना जले विप्र वीर्येणासीत्समुद्धृता +अग्निश्च वडवावक्त्रो भूत्वाहं द्विजसत्तम +पिबाम्यपः समाविद्धास्ताश्चैव विसृजाम्यहम् +ब्रह्म वक्त्रं भुजौ क्षत्रमूरू मे संश्रिता विशः +पादौ शूद्रा भजन्ते मे विक्रमेण क्रमेण च +ऋग्वेदः सामवेदश्च यजुर्वेदोऽप्यथर्वणः +मत्तः प्रादुर्भवन्त्येते मामेव प्रविशन्ति च +यतयः शान्तिपरमा यतात्मानो मुमुक्षवः +कामक्रोधद्वेषमुक्ता निःसङ्गा वीतकल्मषाः +सत्त्वस्था निरहंकारा नित्यमध्यात्मकोविदाः +मामेव सततं विप्राश्चिन्तयन्त उपासते +अहं संवर्तको ज्योतिरहं संवर्तको यमः +अहं संवर्तकः सूर्यो अहं संवर्तकोऽनिलः +तारारूपाणि दृश्यन्ते यान्येतानि नभस्तले +मम रूपाण्यथैतानि विद्धि त्वं द्विजसत्तम +रत्नाकराः समुद्राश्च सर्व एव चतुर्दिशम् +वसनं शयनं चैव निलयं चैव विद्धि मे +कामं क्रोधं च हर्षं च भयं मोहं तथैव च +ममैव विद्धि रूपाणि सर्वाण्येतानि सत्तम +प्राप्नुवन्ति नरा विप्र यत्कृत्वा कर्मशोभनम् +सत्यं दानं तपश्चोग्रमहिंसा चैव जन्तुषु +मद्विधानेन विहिता मम देहविहारिणः +मयाभिभूतविज्ञाना विचेष्टन्ते न कामतः +सम्यग्वेदमधीयाना यजन्तो विविधैर्मखैः +शान्तात्मानो जितक्रोधाः प्राप्नुवन्ति द्विजातयः +प्राप्तुं न शक्यो यो विद्वन्नरैर्दुष्कृतकर्मभिः +लोभाभिभूतैः कृपणैरनार्यैरकृतात्मभिः +तं मां महाफलं विद्धि पदं सुकृतकर्मणः +दुष्प्रापं विप्रमूढानां मार्गं योगैर्निषेवितम् +यदा यदा च धर्मस्य ग्लानिर्भवति सत्तम +अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् +दैत्या हिंसानुरक्ताश्च अवध्याः सुरसत्तमैः +राक्षसाश्चापि लोकेऽस्मिन्यदोत्पत्स्यन्ति दारुणाः +तदाहं संप्रसूयामि गृहेषु शुभकर्मणाम् +प्रविष्टो मानुषं देहं सर्वं प्रशमयाम्यहम् +सृष्ट्वा देवमनुष्यांश्च गन्धर्वोरगराक्षसान् +स्थावराणि च भूतानि संहराम्यात्ममायया +कर्मकाले पुनर्देहमनुचिन्त्य सृजाम्यहम् +प्रविश्य मानुषं देहं मर्यादाबन्धकारणात् +श्वेतः कृतयुगे वर्णः पीतस्त्रेतायुगे म��� +रक्तो द्वापरमासाद्य कृष्णः कलियुगे तथा +त्रयो भागा ह्यधर्मस्य तस्मिन्काले भवन्त्युत +अन्तकाले च संप्राप्ते कालो भूत्वातिदारुणः +त्रैलोक्यं नाशयाम्येकः कृत्स्नं स्थावरजङ्गमम् +अहं त्रिवर्त्मा सर्वात्मा सर्वलोकसुखावहः +अभिभूः सर्वगोऽनन्तो हृषीकेश उरुक्रमः +कालचक्रं नयाम्येको ब्रह्मन्नहमरूपि वै +शमनं सर्वभूतानां सर्वलोककृतोद्यमम् +एवं प्रणिहितः सम्यङ्मयात्मा मुनिसत्तम +सर्वभूतेषु विप्रेन्द्र न च मां वेत्ति कश्चन +यच्च किंचित्त्वया प्राप्तं मयि क्लेशात्मकं द्विज +सुखोदयाय तत्सर्वं श्रेयसे च तवानघ +यच्च किंचित्त्वया लोके दृष्टं स्थावरजङ्गमम् +विहितः सर्वथैवासौ ममात्मा मुनिसत्तम +अर्धं मम शरीरस्य सर्वलोकपितामहः +अहं नारायणो नाम शङ्खचक्रगदाधरः +यावद्युगानां विप्रर्षे सहस्रपरिवर्तनम् +तावत्स्वपिमि विश्वात्मा सर्वलोकपितामहः +एवं सर्वमहं कालमिहासे मुनिसत्तम +अशिशुः शिशुरूपेण यावद्ब्रह्मा न बुध्यते +मया च विप्र दत्तोऽयं वरस्ते ब्रह्मरूपिणा +असकृत्परितुष्टेन विप्रर्षिगणपूजित +सर्वमेकार्णवं दृष्ट्वा नष्टं स्थावरजङ्गमम् +विक्लवोऽसि मया ज्ञातस्ततस्ते दर्शितं जगत् +अभ्यन्तरं शरीरस्य प्रविष्टोऽसि यदा मम +दृष्ट्वा लोकं समस्तं च विस्मितो नावबुध्यसे +ततोऽसि वक्त्राद्विप्रर्षे द्रुतं निःसारितो मया +आख्यातस्ते मया चात्मा दुर्ज्ञेयोऽपि सुरासुरैः +यावत्स भगवान्ब्रह्मा न बुध्यति महातपाः +तावत्त्वमिह विप्रर्षे विश्रब्धश्चर वै सुखम् +ततो विबुद्धे तस्मिंस्तु सर्वलोकपितामहे +एकीभूतो हि स्रक्ष्यामि शरीराद्द्विजसत्तम +आकाशं पृथिवीं ज्योतिर्वायुं सलिलमेव च +लोके यच्च भवेच्छेषमिह स्थावरजङ्गमम् +मार्कण्डेय उवाच +इत्युक्त्वान्तर्हितस्तात स देवः परमाद्भुतः +प्रजाश्चेमाः प्रपश्यामि विचित्रा बहुधाकृताः +एतद्दृष्टं मया राजंस्तस्मिन्प्राप्ते युगक्षये +आश्चर्यं भरतश्रेष्ठ सर्वधर्मभृतां वर +यः स देवो मया दृष्टः पुरा पद्मनिभेक्षणः +स एष पुरुषव्याघ्र संबन्धी ते जनार्दनः +अस्यैव वरदानाद्धि स्मृतिर्न प्रजहाति माम् +दीर्घमायुश्च कौन्तेय स्वच्छन्दमरणं तथा +स एष कृष्णो वार्ष्णेयः पुराणपुरुषो विभुः +आस्ते हरिरचिन्त्यात्मा क्रीडन्निव महाभुजः +एष धाता विधाता च संहर्ता चैव सात्वत��� +श्रीवत्सवक्षा गोविन्दः प्रजापतिपतिः प्रभुः +दृष्ट्वेमं वृष्णिशार्दूलं स्मृतिर्मामियमागता +आदिदेवमजं विष्णुं पुरुषं पीतवाससम् +सर्वेषामेव भूतानां पिता माता च माधवः +गच्छध्वमेनं शरणं शरण्यं कौरवर्षभाः +वैशंपायन उवाच +एवमुक्तास्तु ते पार्था यमौ च पुरुषर्षभौ +द्रौपद्या कृष्णया सार्धं नमश्चक्रुर्जनार्दनम् +स चैतान्पुरुषव्याघ्र साम्ना परमवल्गुना +सान्त्वयामास मानार्हान्मन्यमानो यथाविधि +युधिष्ठिरस्तु कौन्तेयो मार्कण्डेयं महामुनिम् +पुनः पप्रच्छ साम्राज्ये भविष्यां जगतो गतिम् +आश्चर्यभूतं भवतः श्रुतं नो वदतां वर +मुने भार्गव यद्वृत्तं युगादौ प्रभवाप्ययौ +अस्मिन्कलियुगेऽप्यस्ति पुनः कौतूहलं मम +समाकुलेषु धर्मेषु किं नु शेषं भविष्यति +किंवीर्या मानवास्तत्र किमाहारविहारिणः +किमायुषः किंवसना भविष्यन्ति युगक्षये +कां च काष्ठां समासाद्य पुनः संपत्स्यते कृतम् +विस्तरेण मुने ब्रूहि विचित्राणीह भाषसे +इत्युक्तः स मुनिश्रेष्ठः पुनरेवाभ्यभाषत +रमयन्वृष्णिशार्दूलं पाण्डवांश्च महामुनिः +मार्कण्डेय उवाच +भविष्यं सर्वलोकस्य वृत्तान्तं भरतर्षभ +कलुषं कालमासाद्य कथ्यमानं निबोध मे +कृते चतुष्पात्सकलो निर्व्याजोपाधिवर्जितः +वृषः प्रतिष्ठितो धर्मो मनुष्येष्वभवत्पुरा +अधर्मपादविद्धस्तु त्रिभिरंशैः प्रतिष्ठितः +त्रेतायां द्वापरेऽर्धेन व्यामिश्रो धर्म उच्यते +त्रिभिरंशैरधर्मस्तु लोकानाक्रम्य तिष्ठति +चतुर्थांशेन धर्मस्तु मनुष्यानुपतिष्ठति +आयुर्वीर्यमथो बुद्धिर्बलं तेजश्च पाण्डव +मनुष्याणामनुयुगं ह्रसतीति निबोध मे +राजानो ब्राह्मणा वैश्याः शूद्राश्चैव युधिष्ठिर +व्याजैर्धर्मं चरिष्यन्ति धर्मवैतंसिका नराः +सत्यं संक्षेप्स्यते लोके नरैः पण्डितमानिभिः +सत्यहान्या ततस्तेषामायुरल्पं भविष्यति +आयुषः प्रक्षयाद्विद्यां न शक्ष्यन्त्युपशिक्षितुम् +विद्याहीनानविज्ञानाल्लोभोऽप्यभिभविष्यति +लोभक्रोधपरा मूढाः कामसक्ताश्च मानवाः +वैरबद्धा भविष्यन्ति परस्परवधेप्सवः +ब्राह्मणाः क्षत्रिया वैश्याः संकीर्यन्तः परस्परम् +शूद्रतुल्या भविष्यन्ति तपःसत्यविवर्जिताः +अन्त्या मध्या भविष्यन्ति मध्याश्चान्तावसायिनः +ईदृशो भविता लोको युगान्ते पर्युपस्थिते +वस्त्राणां प्��वरा शाणी धान्यानां कोरदूषकाः +भार्यामित्राश्च पुरुषा भविष्यन्ति युगक्षये +मत्स्यामिषेण जीवन्तो दुहन्तश्चाप्यजैडकम् +गोषु नष्टासु पुरुषा भविष्यन्ति युगक्षये +अन्योन्यं परिमुष्णन्तो हिंसयन्तश्च मानवाः +अजपा नास्तिकाः स्तेना भविष्यन्ति युगक्षये +सरित्तीरेषु कुद्दालैर्वापयिष्यन्ति चौषधीः +ताश्चाप्यल्पफलास्तेषां भविष्यन्ति युगक्षये +श्राद्धे दैवे च पुरुषा ये च नित्यं धृतव्रताः +तेऽपि लोभसमायुक्ता भोक्ष्यन्तीह परस्परम् +पिता पुत्रस्य भोक्ता च पितुः पुत्रस्तथैव च +अतिक्रान्तानि भोज्यानि भविष्यन्ति युगक्षये +न व्रतानि चरिष्यन्ति ब्राह्मणा वेदनिन्दकाः +न यक्ष्यन्ति न होष्यन्ति हेतुवादविलोभिताः +निम्ने कृषिं करिष्यन्ति योक्ष्यन्ति धुरि धेनुकाः +एकहायनवत्सांश्च वाहयिष्यन्ति मानवाः +पुत्रः पितृवधं कृत्वा पिता पुत्रवधं तथा +निरुद्वेगो बृहद्वादी न निन्दामुपलप्स्यते +म्लेच्छभूतं जगत्सर्वं निष्क्रियं यज्ञवर्जितम् +भविष्यति निरानन्दमनुत्सवमथो तथा +प्रायशः कृपणानां हि तथा बन्धुमतामपि +विधवानां च वित्तानि हरिष्यन्तीह मानवाः +अल्पवीर्यबलाः स्तब्धा लोभमोहपरायणाः +तत्कथादानसंतुष्टा दुष्टानामपि मानवाः +परिग्रहं करिष्यन्ति पापाचारपरिग्रहाः +संघातयन्तः कौन्तेय राजानः पापबुद्धयः +परस्परवधोद्युक्ता मूर्खाः पण्डितमानिनः +भविष्यन्ति युगस्यान्ते क्षत्रिया लोककण्टकाः +अरक्षितारो लुब्धाश्च मानाहंकारदर्पिताः +केवलं दण्डरुचयो भविष्यन्ति युगक्षये +आक्रम्याक्रम्य साधूनां दारांश्चैव धनानि च +भोक्ष्यन्ते निरनुक्रोशा रुदतामपि भारत +न कन्यां याचते कश्चिन्नापि कन्या प्रदीयते +स्वयंग्राहा भविष्यन्ति युगान्ते पर्युपस्थिते +राजानश्चाप्यसंतुष्टाः परार्थान्मूढचेतसः +सर्वोपायैर्हरिष्यन्ति युगान्ते पर्युपस्थिते +म्लेच्छीभूतं जगत्सर्वं भविष्यति च भारत +हस्तो हस्तं परिमुषेद्युगान्ते पर्युपस्थिते +सत्यं संक्षिप्यते लोके नरैः पण्डितमानिभिः +स्थविरा बालमतयो बालाः स्थविरबुद्धयः +भीरवः शूरमानीनः शूरा भीरुविषादिनः +न विश्वसन्ति चान्योन्यं युगान्ते पर्युपस्थिते +एकाहार्यं जगत्सर्वं लोभमोहव्यवस्थितम् +अधर्मो वर्धति महान्न च धर्मः प्रवर्तते +ब्राह्मणाः क्षत्रिया वैश्या न शिष���यन्ति जनाधिप +एकवर्णस्तदा लोको भविष्यति युगक्षये +न क्षंस्यति पिता पुत्रं पुत्रश्च पितरं तथा +भार्या च पतिशुश्रूषां न करिष्यति काचन +ये यवान्ना जनपदा गोधूमान्नास्तथैव च +तान्देशान्संश्रयिष्यन्ति युगान्ते पर्युपस्थिते +स्वैराहाराश्च पुरुषा योषितश्च विशां पते +अन्योन्यं न सहिष्यन्ति युगान्ते पर्युपस्थिते +म्लेच्छभूतं जगत्सर्वं भविष्यति युधिष्ठिर +न श्राद्धैर्हि पितॄंश्चापि तर्पयिष्यन्ति मानवाः +न कश्चित्कस्यचिच्छ्रोता न कश्चित्कस्यचिद्गुरुः +तमोग्रस्तस्तदा लोको भविष्यति नराधिप +परमायुश्च भविता तदा वर्षाणि षोडश +ततः प्राणान्विमोक्ष्यन्ति युगान्ते पर्युपस्थिते +पञ्चमे वाथ षष्ठे वा वर्षे कन्या प्रसूयते +सप्तवर्षाष्टवर्षाश्च प्रजास्यन्ति नरास्तदा +पत्यौ स्त्री तु तदा राजन्पुरुषो वा स्त्रियं प्रति +युगान्ते राजशार्दूल न तोषमुपयास्यति +अल्पद्रव्या वृथालिङ्गा हिंसा च प्रभविष्यति +न कश्चित्कस्यचिद्दाता भविष्यति युगक्षये +अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः +केशशूलाः स्त्रियश्चापि भविष्यन्ति युगक्षये +म्लेच्छाः क्रूराः सर्वभक्षा दारुणाः सर्वकर्मसु +भाविनः पश्चिमे काले मनुष्या नात्र संशयः +क्रयविक्रयकाले च सर्वः सर्वस्य वञ्चनम् +युगान्ते भरतश्रेष्ठ वृत्तिलोभात्करिष्यति +ज्ञानानि चाप्यविज्ञाय करिष्यन्ति क्रियास्तथा +आत्मच्छन्देन वर्तन्ते युगान्ते पर्युपस्थिते +स्वभावात्क्रूरकर्माणश्चान्योन्यमभिशङ्किनः +भवितारो जनाः सर्वे संप्राप्ते युगसंक्षये +आरामांश्चैव वृक्षांश्च नाशयिष्यन्ति निर्व्यथाः +भविता संक्षयो लोके जीवितस्य च देहिनाम् +तथा लोभाभिभूताश्च चरिष्यन्ति महीमिमाम् +ब्राह्मणाश्च भविष्यन्ति ब्रह्मस्वानि च भुञ्जते +हाहाकृता द्विजाश्चैव भयार्ता वृषलार्दिताः +त्रातारमलभन्तो वै भ्रमिष्यन्ति महीमिमाम् +जीवितान्तकरा रौद्राः क्रूराः प्राणिविहिंसकाः +यदा भविष्यन्ति नरास्तदा संक्षेप्स्यते युगम् +आश्रयिष्यन्ति च नदीः पर्वतान्विषमाणि च +प्रधावमाना वित्रस्ता द्विजाः कुरुकुलोद्वह +दस्युप्रपीडिता राजन्काका इव द्विजोत्तमाः +कुराजभिश्च सततं करभारप्रपीडिताः +धैर्यं त्यक्त्वा महीपाल दारुणे युगसंक्षये +विकर्माणि करिष्यन्ति शूद्राणां परिचारकाः +शूद्र�� धर्मं प्रवक्ष्यन्ति ब्राह्मणाः पर्युपासकाः +श्रोतारश्च भविष्यन्ति प्रामाण्येन व्यवस्थिताः +विपरीतश्च लोकोऽयं भविष्यत्यधरोत्तरः +एडूकान्पूजयिष्यन्ति वर्जयिष्यन्ति देवताः +शूद्राः परिचरिष्यन्ति न द्विजान्युगसंक्षये +आश्रमेषु महर्षीणां ब्राह्मणावसथेषु च +देवस्थानेषु चैत्येषु नागानामालयेषु च +एडूकचिह्ना पृथिवी न देवगृहभूषिता +भविष्यति युगे क्षीणे तद्युगान्तस्य लक्षणम् +यदा रौद्रा धर्महीना मांसादाः पानपास्तथा +भविष्यन्ति नरा नित्यं तदा संक्षेप्स्यते युगम् +पुष्पे पुष्पं यदा राजन्फले फलमुपाश्रितम् +प्रजास्यति महाराज तदा संक्षेप्स्यते युगम् +अकालवर्षी पर्जन्यो भविष्यति गते युगे +अक्रमेण मनुष्याणां भविष्यति तदा क्रिया +विरोधमथ यास्यन्ति वृषला ब्राह्मणैः सह +मही म्लेच्छसमाकीर्णा भविष्यति ततोऽचिरात् +करभारभयाद्विप्रा भजिष्यन्ति दिशो दश +निर्विशेषा जनपदा नरावृष्टिभिरर्दिताः +आश्रमानभिपत्स्यन्ति फलमूलोपजीविनः +एवं पर्याकुले लोके मर्यादा न भविष्यति +न स्थास्यन्त्युपदेशे च शिष्या विप्रियकारिणः +आचार्योपनिधिश्चैव वत्स्यते तदनन्तरम् +अर्थयुक्त्या प्रवत्स्यन्ति मित्रसंबन्धिबान्धवाः +अभावः सर्वभूतानां युगान्ते च भविष्यति +दिशः प्रज्वलिताः सर्वा नक्षत्राणि चलानि च +ज्योतींषि प्रतिकूलानि वाताः पर्याकुलास्तथा +उल्कापाताश्च बहवो महाभयनिदर्शकाः +षड्भिरन्यैश्च सहितो भास्करः प्रतपिष्यति +तुमुलाश्चापि निर्ह्रादा दिग्दाहाश्चापि सर्वशः +कबन्धान्तर्हितो भानुरुदयास्तमये तदा +अकालवर्षी च तदा भविष्यति सहस्रदृक् +सस्यानि च न रोक्ष्यन्ति युगान्ते पर्युपस्थिते +अभीक्ष्णं क्रूरवादिन्यः परुषा रुदितप्रियाः +भर्तॄणां वचने चैव न स्थास्यन्ति तदा स्त्रियः +पुत्राश्च मातापितरौ हनिष्यन्ति युगक्षये +सूदयिष्यन्ति च पतीन्स्त्रियः पुत्रानपाश्रिताः +अपर्वणि महाराज सूर्यं राहुरुपैष्यति +युगान्ते हुतभुक्चापि सर्वतः प्रज्वलिष्यति +पानीयं भोजनं चैव याचमानास्तदाध्वगाः +न लप्स्यन्ते निवासं च निरस्ताः पथि शेरते +निर्घातवायसा नागाः शकुनाः समृगद्विजाः +रूक्षा वाचो विमोक्ष्यन्ति युगान्ते पर्युपस्थिते +मित्रसंबन्धिनश्चापि संत्यक्ष्यन्ति नरास्तदा +जनं परिजनं चापि युगान्ते पर्युप��्थिते +अथ देशान्दिशश्चापि पत्तनानि पुराणि च +क्रमशः संश्रयिष्यन्ति युगान्ते पर्युपस्थिते +हा तात हा सुतेत्येवं तदा वाचः सुदारुणाः +विक्रोशमानश्चान्योन्यं जनो गां पर्यटिष्यति +ततस्तुमुलसंघाते वर्तमाने युगक्षये +द्विजातिपूर्वको लोकः क्रमेण प्रभविष्यति +ततः कालान्तरेऽन्यस्मिन्पुनर्लोकविवृद्धये +भविष्यति पुनर्दैवमनुकूलं यदृच्छया +यदा चन्द्रश्च सूर्यश्च तथा तिष्यबृहस्पती +एकराशौ समेष्यन्ति प्रपत्स्यति तदा कृतम् +कालवर्षी च पर्जन्यो नक्षत्राणि शुभानि च +प्रदक्षिणा ग्रहाश्चापि भविष्यन्त्यनुलोमगाः +क्षेमं सुभिक्षमारोग्यं भविष्यति निरामयम् +कल्किर्विष्णुयशा नाम द्विजः कालप्रचोदितः +उत्पत्स्यते महावीर्यो महाबुद्धिपराक्रमः +संभूतः संभलग्रामे ब्राह्मणावसथे शुभे +मनसा तस्य सर्वाणि वाहनान्यायुधानि च +उपस्थास्यन्ति योधाश्च शस्त्राणि कवचानि च +स धर्मविजयी राजा चक्रवर्ती भविष्यति +स चेमं संकुलं लोकं प्रसादमुपनेष्यति +उत्थितो ब्राह्मणो दीप्तः क्षयान्तकृदुदारधीः +स संक्षेपो हि सर्वस्य युगस्य परिवर्तकः +स सर्वत्र गतान्क्षुद्रान्ब्राह्मणैः परिवारितः +उत्सादयिष्यति तदा सर्वान्म्लेच्छगणान्द्विजः +मार्कण्डेय उवाच +ततश्चोरक्षयं कृत्वा द्विजेभ्यः पृथिवीमिमाम् +वाजिमेधे महायज्ञे विधिवत्कल्पयिष्यति +स्थापयित्वा स मर्यादाः स्वयम्भुविहिताः शुभाः +वनं पुण्ययशःकर्मा जरावान्संश्रयिष्यति +तच्छीलमनुवर्त्स्यन्ते मनुष्या लोकवासिनः +विप्रैश्चोरक्षये चैव कृते क्षेमं भविष्यति +कृष्णाजिनानि शक्तीश्च त्रिशूलान्यायुधानि च +स्थापयन्विप्रशार्दूलो देशेषु विजितेषु च +संस्तूयमानो विप्रेन्द्रैर्मानयानो द्विजोत्तमान् +कल्किश्चरिष्यति महीं सदा दस्युवधे रतः +हा तात हा सुतेत्येवं तास्ता वाचः सुदारुणाः +विक्रोशमानान्सुभृशं दस्यून्नेष्यति संक्षयम् +ततोऽधर्मविनाशो वै धर्मवृद्धिश्च भारत +भविष्यति कृते प्राप्ते क्रियावांश्च जनस्तथा +आरामाश्चैव चैत्याश्च तटाकान्यवटास्तथा +यज्ञक्रियाश्च विविधा भविष्यन्ति कृते युगे +ब्राह्मणाः साधवश्चैव मुनयश्च तपस्विनः +आश्रमाः सहपाषण्डाः स्थिताः सत्ये जनाः प्रजाः +जास्यन्ति सर्वबीजानि उप्यमानानि चैव ह +सर्वेष्वृतुषु राजेन्द्र सर्वं सस्यं भवि��्यति +नरा दानेषु निरता व्रतेषु नियमेषु च +जपयज्ञपरा विप्रा धर्मकामा मुदा युताः +पालयिष्यन्ति राजानो धर्मेणेमां वसुंधराम् +व्यवहाररता वैश्या भविष्यन्ति कृते युगे +षट्कर्मनिरता विप्राः क्षत्रिया रक्षणे रताः +शुश्रूषायां रताः शूद्रास्तथा वर्णत्रयस्य च +एष धर्मः कृतयुगे त्रेतायां द्वापरे तथा +पश्चिमे युगकाले च यः स ते संप्रकीर्तितः +सर्वलोकस्य विदिता युगसंख्या च पाण्डव +एतत्ते सर्वमाख्यातमतीतानागतं मया +वायुप्रोक्तमनुस्मृत्य पुराणमृषिसंस्तुतम् +एवं संसारमार्गा मे बहुशश्चिरजीविना +दृष्टाश्चैवानुभूताश्च तांस्ते कथितवानहम् +इदं चैवापरं भूयः सह भ्रातृभिरच्युत +धर्मसंशयमोक्षार्थं निबोध वचनं मम +धर्मे त्वयात्मा संयोज्यो नित्यं धर्मभृतां वर +धर्मात्मा हि सुखं राजा प्रेत्य चेह च नन्दति +निबोध च शुभां वाणीं यां प्रवक्ष्यामि तेऽनघ +न ब्राह्मणे परिभवः कर्तव्यस्ते कदाचन +ब्राह्मणो रुषितो हन्यादपि लोकान्प्रतिज्ञया +वैशंपायन उवाच +मार्कण्डेयवचः श्रुत्वा कुरूणां प्रवरो नृपः +उवाच वचनं धीमान्परमं परमद्युतिः +कस्मिन्धर्मे मया स्थेयं प्रजाः संरक्षता मुने +कथं च वर्तमानो वै न च्यवेयं स्वधर्मतः +मार्कण्डेय उवाच +दयावान्सर्वभूतेषु हितो रक्तोऽनसूयकः +अपत्यानामिव स्वेषां प्रजानां रक्षणे रतः +चर धर्मं त्यजाधर्मं पितॄन्देवांश्च पूजय +प्रमादाद्यत्कृतं तेऽभूत्संयग्दानेन तज्जय +अलं ते मानमाश्रित्य सततं परवान्भव +विजित्य पृथिवीं सर्वां मोदमानः सुखी भव +एष भूतो भविष्यश्च धर्मस्ते समुदीरितः +न तेऽस्त्यविदितं किंचिदतीतानागतं भुवि +तस्मादिमं परिक्लेशं त्वं तात हृदि मा कृथाः +एष कालो महाबाहो अपि सर्वदिवौकसाम् +मुह्यन्ति हि प्रजास्तात कालेनाभिप्रचोदिताः +मा च तेऽत्र विचारो भूद्यन्मयोक्तं तवानघ +अतिशङ्क्य वचो ह्येतद्धर्मलोपो भवेत्तव +जातोऽसि प्रथिते वंशे कुरूणां भरतर्षभ +कर्मणा मनसा वाचा सर्वमेतत्समाचर +युधिष्ठिर उवाच +यत्त्वयोक्तं द्विजश्रेष्ठ वाक्यं श्रुतिमनोहरम् +तथा करिष्ये यत्नेन भवतः शासनं विभो +न मे लोभोऽस्ति विप्रेन्द्र न भयं न च मत्सरः +करिष्यामि हि तत्सर्वमुक्तं यत्ते मयि प्रभो +वैशंपायन उवाच +श्रुत्वा तु वचनं तस्य पाण्डवस्य महात्मनः +प्रहृष्टाः पाण्डवा राजन्सहिताः शार्ङ्गधन्व���ा +तथा कथां शुभां श्रुत्वा मार्कण्डेयस्य धीमतः +विस्मिताः समपद्यन्त पुराणस्य निवेदनात् +वैशंपायन उवाच +भूय एव ब्राह्मणमहाभाग्यं वक्तुमर्हसीत्यब्रवीत्पाण्डवेयो मार्कण्डेयम् +अथाचष्ट मार्कण्डेयः +अयोध्यायामिक्ष्वाकुकुलोत्पन्नः पार्थिवः परिक्षिन्नाम मृगयामगमत् +तमेकाश्वेन मृगमनुसरन्तं मृगो दूरमपाहरत् +अथाध्वनि जातश्रमः क्षुत्तृष्णाभिभूतश्च कस्मिंश्चिदुद्देशे नीलं वनषण्डमपश्यत् +तच्च विवेश +ततस्तस्य वनषण्डस्य मध्येऽतीव रमणीयं सरो दृष्ट्वा साश्व एव व्यगाहत +अथाश्वस्तः स बिसमृणालमश्वस्याग्रे निक्षिप्य पुष्करिणीतीरे समाविशत् +ततः शयानो मधुरं गीतशब्दमशृणोत् +स श्रुत्वाचिन्तयत् +नेह मनुष्यगतिं पश्यामि +कस्य खल्वयं गीतशब्द इति +अथापश्यत्कन्यां परमरूपदर्शनीयां पुष्पाण्यवचिन्वतीं गायन्तीं च +अथ सा राज्ञः समीपे पर्यक्रामत् +तामब्रवीद्राजा +कस्यासि सुभगे त्वमिति +सा प्रत्युवाच +कन्यास्मीति +तां राजोवाच +अर्थी त्वयाहमिति +अथोवाच कन्या +समयेनाहं शक्या त्वया लब्धुम् +नान्यथेति +तां राजा समयमपृच्छत् +ततः कन्येदमुवाच +उदकं मे न दर्शयितव्यमिति +स राजा बाढमित्युक्त्वा तां समागम्य तया सहास्ते +तत्रैवासीने राजनि सेनान्वगच्छत् +पदेनानुपदं दृष्ट्वा राजानं परिवार्यातिष्ठत् +पर्याश्वस्तश्च राजा तयैव सह शिबिकया प्रायादविघाटितया +स्वनगरमनुप्राप्य रहसि तया सह रमन्नास्ते +नान्यत्किंचनापश्यत् +अथ प्रधानामात्यस्तस्याभ्याशचराः स्त्रियोऽपृच्छत् +किमत्र प्रयोजनं वर्तत इति +अथाब्रुवंस्ताः स्त्रियः +अपूर्वमिव पश्याम उदकं नात्र नीयतेति +अथामात्योऽनुदकं वनं कारयित्वोदारवृक्षं बहुमूलपुष्पफलं रहस्युपगम्य राजानमब्रवीत् +वनमिदमुदारमनुदकम् +साध्वत्र रम्यतामिति +स तस्य वचनात्तयैव सह देव्या तद्वनं प्राविशत् +स कदाचित्तस्मिन्वने रम्ये तयैव सह व्यवहरत् +अथ क्षुत्तृष्णार्दितः श्रान्तोऽतिमात्रमतिमुक्तागारमपश्यत् +तत्प्रविश्य राजा सह प्रियया सुधातलसुकृतां विमलसलिलपूर्णां वापीमपश्यत् +दृष्ट्वैव च तां तस्या एव तीरे सहैव तया देव्या व्यतिष्ठत् +अथ तां देवीं स राजाब्रवीत् +साध्ववतर वापीसलिलमिति +सा तद्वचः श्रुत्वावतीर्य वापीं न्यमज्जत् +न पुनरुदमज्जत् +तां मृगयमाणो राजा नापश्यत् +व��पीमपि निःस्राव्य मण्डूकं श्वभ्रमुखे दृष्ट्वा क्रुद्ध आज्ञापयामास +सर्वमण्डूकवधः क्रियतामिति +यो मयार्थी स मृतकैर्मण्डूकैरुपायनैर्मामुपतिष्ठेदिति +अथ मण्डूकवधे घोरे क्रियमाणे दिक्षु सर्वासु मण्डूकान्भयमाविशत् +ते भीता मण्डूकराज्ञे यथावृत्तं न्यवेदयन् +ततो मण्डूकराट्तापसवेषधारी राजानमभ्यगच्छत् +उपेत्य चैनमुवाच +मा राजन्क्रोधवशं गमः +प्रसादं कुरु +नार्हसि मण्डूकानामनपराधिनां वधं कर्तुमिति +श्लोकौ चात्र भवतः +मा मण्डूकाञ्जिघांस त्वं कोपं संधारयाच्युत +प्रक्षीयते धनोद्रेको जनानामविजानताम् +प्रतिजानीहि नैतांस्त्वं प्राप्य क्रोधं विमोक्ष्यसे +अलं कृत्वा तवाधर्मं मण्डूकैः किं हतैर्हि ते +तमेवंवादिनमिष्टजनशोकपरीतात्मा राजा प्रोवाच +न हि क्षम्यते तन्मया +हनिष्याम्येतान् +एतैर्दुरात्मभिः प्रिया मे भक्षिता +सर्वथैव मे वध्या मण्डूकाः +नार्हसि विद्वन्मामुपरोद्धुमिति +स तद्वाक्यमुपलभ्य व्यथितेन्द्रियमनाः प्रोवाच +प्रसीद राजन् +अहमायुर्नाम मण्डूकराजः +मम सा दुहिता सुशोभना नाम +तस्या दौःशील्यमेतत् +बहवो हि राजानस्तया विप्रलब्धपूर्वा इति +तमब्रवीद्राजा +तयास्म्यर्थी +सा मे दीयतामिति +अथैनां राज्ञे पितादात् +अब्रवीच्चैनाम् +एनं राजानं शुश्रूषस्वेति +स उवाच दुहितरम् +यस्मात्त्वया राजानो विप्रलब्धास्तस्मादब्रह्मण्यानि तवापत्यानि भविष्यन्त्यनृतकत्वात्तवेति +स च राजा तामुपलभ्य तस्यां सुरतगुणनिबद्धहृदयो लोकत्रयैश्वर्यमिवोपलभ्य हर्षबाष्पकलया वाचा प्रणिपत्याभिपूज्य मण्डूकराजानमब्रवीत् +अनुगृहीतोऽस्मीति +स च मण्डूकराजो जामातरमनुज्ञाप्य यथागतमगच्छत् +अथ कस्यचित्कालस्य तस्यां कुमारास्त्रयस्तस्य राज्ञः संबभूवुः शलो दलो बलश्चेति +ततस्तेषां ज्येष्ठं शलं समये पिता राज्येऽभिषिच्य तपसि धृतात्मा वनं जगाम +अथ कदाचिच्छलो मृगयामचरत् +मृगं चासाद्य रथेनान्वधावत् +सूतं चोवाच +शीघ्रं मां वहस्वेति +स तथोक्तः सूतो राजानमब्रवीत् +मा क्रियतामनुबन्धः +नैष शक्यस्त्वया मृगो ग्रहीतुं यद्यपि ते रथे युक्तौ वाम्यौ स्यातामिति +ततोऽब्रवीद्राजा सूतम् +आचक्ष्व मे वाम्यौ +हन्मि वा त्वामिति +स एवमुक्तो राजभयभीतो वामदेवशापभीतश्च सन्नाचख्यौ राज्ञे +वामदेवस्याश्वौ वाम्यौ मनोजवाविति +अथैनमेवं ब्रुवाणमब्रवीद्राजा +वामदेवाश्रमं याहीति +स गत्वा वामदेवाश्रमं तमृषिमब्रवीत् +भगवन्मृगो मया विद्धः पलायते +तं संभावयेयम् +अर्हसि मे वाम्यौ दातुमिति +तमब्रवीदृषिः +ददानि ते वाम्यौ +कृतकार्येण भवता ममैव निर्यात्यौ क्षिप्रमिति +स च तावश्वौ प्रतिगृह्यानुज्ञाप्य चर्षिं प्रायाद्वाम्यसंयुक्तेन रथेन मृगं प्रति +गच्छंश्चाब्रवीत्सूतम् +अश्वरत्नाविमावयोग्यौ ब्राह्मणानाम् +नैतौ प्रतिदेयौ वामदेवायेति +एवमुक्त्वा मृगमवाप्य स्वनगरमेत्याश्वावन्तःपुरेऽस्थापयत् +अथर्षिश्चिन्तयामास +तरुणो राजपुत्रः कल्याणं पत्रमासाद्य रमते +न मे प्रतिनिर्यातयति +अहो कष्टमिति +मनसा निश्चित्य मासि पूर्णे शिष्यमब्रवीत् +गच्छात्रेय +राजानं ब्रूहि +यदि पर्याप्तं निर्यातयोपाध्यायवाम्याविति +स गत्वैवं तं राजानमब्रवीत् +तं राजा प्रत्युवाच +राज्ञामेतद्वाहनम् +अनर्हा ब्राह्मणा रत्नानामेवंविधानाम् +किं च ब्राह्मणानामश्वैः कार्यम् +साधु प्रतिगम्यतामिति +स गत्वैवमुपाध्यायायाचष्ट +तच्छ्रुत्वा वचनमप्रियं वामदेवः क्रोधपरीतात्मा स्वयमेव राजानमभिगम्याश्वार्थमभ्यचोदयत् +न चादाद्राजा +वामदेव उवाच +प्रयच्छ वाम्यौ मम पार्थिव त्वं; कृतं हि ते कार्यमन्यैरशक्यम् +मा त्वा वधीद्वरुणो घोरपाशै;र्ब्रह्मक्षत्रस्यान्तरे वर्तमानः +राजोवाच +अनड्वाहौ सुव्रतौ साधु दान्ता;वेतद्विप्राणां वाहनं वामदेव +ताभ्यां याहि त्वं यत्र कामो महर्षे; छन्दांसि वै त्वादृशं संवहन्ति +वामदेव उवाच +छन्दांसि वै मादृशं संवहन्ति; लोकेऽमुष्मिन्पार्थिव यानि सन्ति +अस्मिंस्तु लोके मम यानमेत;दस्मद्विधानामपरेषां च राजन् +राजोवाच +चत्वारो वा गर्दभास्त्वां वहन्तु; श्रेष्ठाश्वतर्यो हरयो वा तुरंगाः +तैस्त्वं याहि क्षत्रियस्यैष वाहो; मम वाम्यौ न तवैतौ हि विद्धि +वामदेव उवाच +घोरं व्रतं ब्राह्मणस्यैतदाहु;रेतद्राजन्यदिहाजीवमानः +अयस्मया घोररूपा महान्तो; वहन्तु त्वां शितशूलाश्चतुर्धा +राजोवाच +ये त्वा विदुर्ब्राह्मणं वामदेव; वाचा हन्तुं मनसा कर्मणा वा +ते त्वां सशिष्यमिह पातयन्तु; मद्वाक्यनुन्नाः शितशूलासिहस्ताः +वामदेव उवाच +नानुयोगा ब्राह्मणानां भवन्ति; वाचा राजन्मनसा कर्मणा वा +यस्त्वेवं ब्रह्म तपसान्वेति विद्वां;स्तेन श्रेष्ठो भवति हि जीवमानः +मार्कण्डेय उवाच +एवमुक्ते वामदेवेन राज;न्समुत्तस्थू राक्षसा घोररूपाः +तैः शूलहस्तैर्वध्यमानः स राजा; प्रोवाचेदं वाक्यमुच्चैस्तदानीम् +इक्ष्वाकवो यदि ब्रह्मन्दलो वा; विधेया मे यदि वान्ये विशोऽपि +नोत्स्रक्ष्येऽहं वामदेवस्य वाम्यौ; नैवंविधा धर्मशीला भवन्ति +एवं ब्रुवन्नेव स यातुधानै;र्हतो जगामाशु महीं क्षितीशः +ततो विदित्वा नृपतिं निपातित;मिक्ष्वाकवो वै दलमभ्यषिञ्चन् +राज्ये तदा तत्र गत्वा स विप्रः; प्रोवाचेदं वचनं वामदेवः +दलं राजानं ब्राह्मणानां हि देय;मेवं राजन्सर्वधर्मेषु दृष्टम् +बिभेषि चेत्त्वमधर्मान्नरेन्द्र; प्रयच्छ मे शीघ्रमेवाद्य वाम्यौ +एतच्छ्रुत्वा वामदेवस्य वाक्यं; स पार्थिवः सूतमुवाच रोषात् +एकं हि मे सायकं चित्ररूपं; दिग्धं विषेणाहर संगृहीतम् +येन विद्धो वामदेवः शयीत; संदश्यमानः श्वभिरार्तरूपः +वामदेव उवाच +जानामि पुत्रं दशवर्षं तवाहं; जातं महिष्यां श्येनजितं नरेन्द्र +तं जहि त्वं मद्वचनात्प्रणुन्न;स्तूर्णं प्रियं सायकैर्घोररूपैः +मार्कण्डेय उवाच +एवमुक्तो वामदेवेन राज;न्नन्तःपुरे राजपुत्रं जघान +स सायकस्तिग्मतेजा विसृष्टः; श्रुत्वा दलस्तच्च वाक्यं बभाषे +इक्ष्वाकवो हन्त चरामि वः प्रियं; निहन्मीमं विप्रमद्य प्रमथ्य +आनीयतामपरस्तिग्मतेजाः; पश्यध्वं मे वीर्यमद्य क्षितीशाः +वामदेव उवाच +यं त्वमेनं सायकं घोररूपं; विषेण दिग्धं मम संदधासि +न त्वमेनं शरवर्यं विमोक्तुं; संधातुं वा शक्ष्यसि मानवेन्द्र +राजोवाच +इक्ष्वाकवः पश्यत मां गृहीतं; न वै शक्नोम्येष शरं विमोक्तुम् +न चास्य कर्तुं नाशमभ्युत्सहामि; आयुष्मान्वै जीवतु वामदेवः +वामदेव उवाच +संस्पृशैनां महिषीं सायकेन; ततस्तस्मादेनसो मोक्ष्यसे त्वम् +मार्कण्डेय उवाच +ततस्तथा कृतवान्पार्थिवस्तु; ततो मुनिं राजपुत्री बभाषे +यथा युक्तं वामदेवाहमेनं; दिने दिने संविशन्ती व्यशंसम् +ब्राह्मणेभ्यो मृगयन्ती सूनृतानि; तथा ब्रह्मन्पुण्यलोकं लभेयम् +वामदेव उवाच +त्वया त्रातं राजकुलं शुभेक्षणे; वरं वृणीष्वाप्रतिमं ददानि ते +प्रशाधीमं स्वजनं राजपुत्रि; इक्ष्वाकुराज्यं सुमहच्चाप्यनिन्द्ये +राजपुत्र्युवाच +वरं वृणे भगवन्नेकमेव; विमुच्यतां किल्बिषादद्य भर्ता +शिवेन चाध्याहि सपुत्रबान्धवं; वरो वृतो ह्येष मया द्विजाग्र्य +मार्कण्डेय उवाच +श्रुत्वा वचः स मुनी राजपुत्र्या;स्तथास्त्विति प्राह कुरुप्रवीर +ततः स राजा मुदितो बभूव; वाम्यौ चास्मै संप्रददौ प्रणम्य +वैशंपायन उवाच +मार्कण्डेयमृषयः पाण्डवाश्च पर्यपृच्छन् +अस्ति कश्चिद्भवतश्चिरजाततर इति +स तानुवाच +अस्ति खलु राजर्षिरिन्द्रद्युम्नो नाम क्षीणपुण्यस्त्रिदिवात्प्रच्युतः +कीर्तिस्ते व्युच्छिन्नेति +स मामुपातिष्ठत् +अथ प्रत्यभिजानाति मां भवानिति +तमहमब्रुवम् +न वयं रासायनिकाः शरीरोपतापेनात्मनः समारभामहेऽर्थानामनुष्ठानम् +अस्ति खलु हिमवति प्राकारकर्णो नामोलूकः +स भवन्तं यदि जानीयात् +प्रकृष्टे चाध्वनि हिमवान् +तत्रासौ प्रतिवसतीति +स मामश्वो भूत्वा तत्रावहद्यत्र बभूवोलूकः +अथैनं स राजर्षिः पर्यपृच्छत् +प्रत्यभिजानाति मां भवानिति +स मुहूर्तं ध्यात्वाब्रवीदेनम् +नाभिजाने भवन्तमिति +स एवमुक्तो राजर्षिरिन्द्रद्युम्नः पुनस्तमुलूकमब्रवीत् +अस्ति कश्चिद्भवतश्चिरजाततर इति +स एवमुक्तोऽब्रवीदेनम् +अस्ति खल्विन्द्रद्युम्नसरो नाम +तस्मिन्नाडीजङ्घो नाम बकः प्रतिवसति +सोऽस्मत्तश्चिरजाततरः +तं पृच्छेति +तत इन्द्रद्युम्नो मां चोलूकं चादाय तत्सरोऽगच्छद्यत्रासौ नाडीजङ्घो नाम बको बभूव +सोऽस्माभिः पृष्टः +भवानिन्द्रद्युम्नं राजानं प्रत्यभिजानातीति +स एवमुक्तोऽब्रवीन्मुहूर्तं ध्यात्वा +नाभिजानाम्यहमिन्द्रद्युम्नं राजानमिति +ततः सोऽस्माभिः पृष्टः +अस्ति कश्चिदन्यो भवतश्चिरजाततर इति +स नोऽब्रवीदस्ति खल्विहैव सरस्यकूपारो नाम कच्छपः प्रतिवसति +स मत्तश्चिरजाततर इति +स यदि कथंचिदभिजानीयादिमं राजानं तमकूपारं पृच्छाम इति +ततः स बकस्तमकूपारं कच्छपं विज्ञापयामास +अस्त्यस्माकमभिप्रेतं भवन्तं कंचिदर्थमभिप्रष्टुम् +साध्वागम्यतां तावदिति +एतच्छ्रुत्वा स कच्छपस्तस्मात्सरस उत्थायाभ्यगच्छद्यत्र तिष्ठामो वयं तस्य सरसस्तीरे +आगतं चैनं वयमपृच्छाम +भवानिन्द्रद्युम्नं राजानमभिजानातीति +स मुहूर्तं ध्यात्वा बाष्पपूर्णनयन उद्विग्नहृदयो वेपमानो विसंज्ञकल्पः प्राञ्जलिरब्रवीत् +किमहमेनं न प्रत्यभिजानामि +अहं ह्यनेन सहस्रकृत्वः पूर्वमग्निचितिषूपहितपूर्वः +सरश्चेदमस्य दक्षिणादत्ताभिर्गोभिरतिक्रममाणाभिः कृतम् +अत्र चाहं प्रतिवसामीति +अथैतत्कच्छपेनोदाहृतं श्रुत्वा समनन्तरं देवलोकाद्देवरथः प्रादुरासीत् +वाचश्चाश्रूयन्तेन्द्रद्युम्नं प्रति +प्रस्तुतस्ते स्वर्गः +यथोचितं स्थानमभिपद्यस्व +कीर्तिमानसि +अव्यग्रो याहीति +दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः +यावत्स शब्दो भवति तावत्पुरुष उच्यते +अकीर्तिः कीर्त्यते यस्य लोके भूतस्य कस्यचित् +पतत्येवाधमाँल्लोकान्यावच्छब्दः स कीर्त्यते +तस्मात्कल्याणवृत्तः स्यादत्यन्ताय नरो भुवि +विहाय वृत्तं पापिष्ठं धर्ममेवाभिसंश्रयेत् +इत्येतच्छ्रुत्वा स राजाब्रवीत् +तिष्ठ तावद्यावदिदानीमिमौ वृद्धौ यथास्थानं प्रतिपादयामीति +स मां प्राकारकर्णं चोलूकं यथोचिते स्थाने प्रतिपाद्य तेनैव यानेन संसिद्धो यथोचितं स्थानं प्रतिपन्नः +एतन्मयानुभूतं चिरजीविना दृष्टमिति पाण्डवानुवाच मार्कण्डेयः +पाण्डवाश्चोचुः प्रीताः +साधु +शोभनं कृतं भवता राजानमिन्द्रद्युम्नं स्वर्गलोकाच्च्युतं स्वे स्थाने स्वर्गे पुनः प्रतिपादयतेति +अथैनानब्रवीदसौ +ननु देवकीपुत्रेणापि कृष्णेन नरके मज्जमानो राजर्षिर्नृगस्तस्मात्कृच्छ्रात्समुद्धृत्य पुनः स्वर्गं प्रतिपादित इति +वैशंपायन उवाच +युधिष्ठिरो धर्मराजः पप्रच्छ भरतर्षभ +मार्कण्डेयं तपोवृद्धं दीर्घायुषमकल्मषम् +विदितास्तव धर्मज्ञ देवदानवराक्षसाः +राजवंशाश्च विविधा ऋषिवंशाश्च शाश्वताः +न तेऽस्त्यविदितं किंचिदस्मिँल्लोके द्विजोत्तम +कथां वेत्सि मुने दिव्यां मनुष्योरगरक्षसाम् +एतदिच्छाम्यहं श्रोतुं तत्त्वेन कथितं द्विज +कुवलाश्व इति ख्यात इक्ष्वाकुरपराजितः +कथं नाम विपर्यासाद्धुन्धुमारत्वमागतः +एतदिच्छामि तत्त्वेन ज्ञातुं भार्गवसत्तम +विपर्यस्तं यथा नाम कुवलाश्वस्य धीमतः +मार्कण्डेय उवाच +हन्त ते कथयिष्यामि शृणु राजन्युधिष्ठिर +धर्मिष्ठमिदमाख्यानं धुन्धुमारस्य तच्छृणु +यथा स राजा इक्ष्वाकुः कुवलाश्वो महीपतिः +धुन्धुमारत्वमगमत्तच्छृणुष्व महीपते +महर्षिर्विश्रुतस्तात उत्तङ्क इति भारत +मरुधन्वसु रम्येषु आश्रमस्तस्य कौरव +उत्तङ्कस्तु महाराज तपोऽतप्यत्सुदुश्चरम् +आरिराधयिषुर्विष्णुं बहून्वर्षगणान्विभो +तस्य प्रीतः स भगवान्साक्षाद्दर्शनमेयिवान् +दृष्ट्वैव चर्षिः प्रह्वस्तं तुष्टाव विविधैः स्तवैः +त्वया देव प्रजाः सर्वाः सदेवासुरमानवाः +स्थावराणि च भूतानि जङ्गमानि तथैव च +ब्रह्म वेदाश्च वेद्यं च त्वया सृष्टं महाद्युते +शिरस्ते गगनं देव नेत्रे शशिदिवाकरौ +निःश्वासः पवनश्चापि तेजोऽग्निश्च तवाच्युत +बाहवस्ते दिशः सर्वाः कुक्षिश्चापि महार्णवः +ऊरू ते पर्वता देव खं नाभिर्मधुसूदन +पादौ ते पृथिवी देवी रोमाण्योषधयस्तथा +इन्द्रसोमाग्निवरुणा देवासुरमहोरगाः +प्रह्वास्त्वामुपतिष्ठन्ति स्तुवन्तो विविधैः स्तवैः +त्वया व्याप्तानि सर्वाणि भूतानि भुवनेश्वर +योगिनः सुमहावीर्याः स्तुवन्ति त्वां महर्षयः +त्वयि तुष्टे जगत्स्वस्थं त्वयि क्रुद्धे महद्भयम् +भयानामपनेतासि त्वमेकः पुरुषोत्तम +देवानां मानुषाणां च सर्वभूतसुखावहः +त्रिभिर्विक्रमणैर्देव त्रयो लोकास्त्वयाहृताः +असुराणां समृद्धानां विनाशश्च त्वया कृतः +तव विक्रमणैर्देवा निर्वाणमगमन्परम् +पराभवं च दैत्येन्द्रास्त्वयि क्रुद्धे महाद्युते +त्वं हि कर्ता विकर्ता च भूतानामिह सर्वशः +आराधयित्वा त्वां देवाः सुखमेधन्ति सर्वशः +एवं स्तुतो हृषीकेश उत्तङ्केन महात्मना +उत्तङ्कमब्रवीद्विष्णुः प्रीतस्तेऽहं वरं वृणु +उत्तङ्क उवाच +पर्याप्तो मे वरो ह्येष यदहं दृष्टवान्हरिम् +पुरुषं शाश्वतं दिव्यं स्रष्टारं जगतः प्रभुम् +विष्णुरुवाच +प्रीतस्तेऽहमलौल्येन भक्त्या च द्विजसत्तम +अवश्यं हि त्वया ब्रह्मन्मत्तो ग्राह्यो वरो द्विज +एवं संछन्द्यमानस्तु वरेण हरिणा तदा +उत्तङ्कः प्राञ्जलिर्वव्रे वरं भरतसत्तम +यदि मे भगवान्प्रीतः पुण्डरीकनिभेक्षणः +धर्मे सत्ये दमे चैव बुद्धिर्भवतु मे सदा +अभ्यासश्च भवेद्भक्त्या त्वयि नित्यं महेश्वर +विष्णुरुवाच +सर्वमेतद्धि भविता मत्प्रसादात्तव द्विज +प्रतिभास्यति योगश्च येन युक्तो दिवौकसाम् +त्रयाणामपि लोकानां महत्कार्यं करिष्यसि +उत्सादनार्थं लोकानां धुन्धुर्नाम महासुरः +तपस्यति तपो घोरं शृणु यस्तं हनिष्यति +बृहदश्व इति ख्यातो भविष्यति महीपतिः +तस्य पुत्रः शुचिर्दान्तः कुवलाश्व इति श्रुतः +स योगबलमास्थाय मामकं पार्थिवोत्तमः +शासनात्तव विप्रर्षे धुन्धुमारो भविष्यति +मार्कण्डेय उवाच +उत्तङ्कमेवमुक्त्वा तु विष्णुरन्तरधीयत +मार्कण्डेय उवाच +इक्ष्वाकौ संस्थिते राजञ्शशादः पृथिवीमिमाम् +प्राप्तः परम���र्मात्मा सोऽयोध्यायां नृपोऽभवत् +शशादस्य तु दायादः ककुत्स्थो नाम वीर्यवान् +अनेनाश्चापि काकुत्स्थः पृथुश्चानेनसः सुतः +विष्वगश्वः पृथोः पुत्रस्तस्मादार्द्रस्तु जज्ञिवान् +आर्द्रस्य युवनाश्वस्तु श्रावस्तस्तस्य चात्मजः +जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता +श्रावस्तस्य तु दायादो बृहदश्वो महाबलः +बृहदश्वसुतश्चापि कुवलाश्व इति स्मृतः +कुवलाश्वस्य पुत्राणां सहस्राण्येकविंशतिः +सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः +कुवलाश्वस्तु पितृतो गुणैरभ्यधिकोऽभवत् +समये तं ततो राज्ये बृहदश्वोऽभ्यषेचयत् +कुवलाश्वं महाराज शूरमुत्तमधार्मिकम् +पुत्रसंक्रामितश्रीस्तु बृहदश्वो महीपतिः +जगाम तपसे धीमांस्तपोवनममित्रहा +अथ शुश्राव राजर्षिं तमुत्तङ्को युधिष्ठिर +वनं संप्रस्थितं राजन्बृहदश्वं द्विजोत्तमः +तमुत्तङ्को महातेजाः सर्वास्त्रविदुषां वरम् +न्यवारयदमेयात्मा समासाद्य नरोत्तमम् +उत्तङ्क उवाच +भवता रक्षणं कार्यं तत्तावत्कर्तुमर्हसि +निरुद्विग्ना वयं राजंस्त्वत्प्रसादाद्वसेमहि +त्वया हि पृथिवी राजन्रक्ष्यमाणा महात्मना +भविष्यति निरुद्विग्ना नारण्यं गन्तुमर्हसि +पालने हि महान्धर्मः प्रजानामिह दृश्यते +न तथा दृश्यतेऽरण्ये मा ते भूद्बुद्धिरीदृशी +ईदृशो न हि राजेन्द्र धर्मः क्वचन दृश्यते +प्रजानां पालने यो वै पुरा राजर्षिभिः कृतः +रक्षितव्याः प्रजा राज्ञा तास्त्वं रक्षितुमर्हसि +निरुद्विग्नस्तपश्चर्तुं न हि शक्नोमि पार्थिव +ममाश्रमसमीपे वै समेषु मरुधन्वसु +समुद्रो वालुकापूर्ण उज्जानक इति स्मृतः +बहुयोजनविस्तीर्णो बहुयोजनमायतः +तत्र रौद्रो दानवेन्द्रो महावीर्यपराक्रमः +मधुकैटभयोः पुत्रो धुन्धुर्नाम सुदारुणः +अन्तर्भूमिगतो राजन्वसत्यमितविक्रमः +तं निहत्य महाराज वनं त्वं गन्तुमर्हसि +शेते लोकविनाशाय तप आस्थाय दारुणम् +त्रिदशानां विनाशाय लोकानां चापि पार्थिव +अवध्यो देवतानां स दैत्यानामथ रक्षसाम् +नागानामथ यक्षाणां गन्धर्वाणां च सर्वशः +अवाप्य स वरं राजन्सर्वलोकपितामहात् +तं विनाशय भद्रं ते मा ते बुद्धिरतोऽन्यथा +प्राप्स्यसे महतीं कीर्तिं शाश्वतीमव्ययां ध्रुवाम् +क्रूरस्य स्वपतस्तस्य वालुकान्तर्हितस्य वै +संवत्सरस्य पर्यन्ते निःश्वासः संप्रवर्���ते +यदा तदा भूश्चलति सशैलवनकानना +तस्य निःश्वासवातेन रज उद्धूयते महत् +आदित्यपथमावृत्य सप्ताहं भूमिकम्पनम् +सविस्फुलिङ्गं सज्वालं सधूमं ह्यतिदारुणम् +तेन राजन्न शक्नोमि तस्मिन्स्थातुं स्व आश्रमे +तं विनाशय राजेन्द्र लोकानां हितकाम्यया +लोकाः स्वस्था भवन्त्वद्य तस्मिन्विनिहतेऽसुरे +त्वं हि तस्य विनाशाय पर्याप्त इति मे मतिः +तेजसा तव तेजश्च विष्णुराप्याययिष्यति +विष्णुना च वरो दत्तो मम पूर्वं ततो वधे +यस्तं महासुरं रौद्रं वधिष्यति महीपतिः +तेजस्तं वैष्णवमिति प्रवेक्ष्यति दुरासदम् +तत्तेजस्त्वं समाधाय राजेन्द्र भुवि दुःसहम् +तं निषूदय संदुष्टं दैत्यं रौद्रपराक्रमम् +न हि धुन्धुर्महातेजास्तेजसाल्पेन शक्यते +निर्दग्धुं पृथिवीपाल स हि वर्षशतैरपि +मार्कण्डेय उवाच +स एवमुक्तो राजर्षिरुत्तङ्केनापराजितः +उत्तङ्कं कौरवश्रेष्ठ कृताञ्जलिरथाब्रवीत् +न तेऽभिगमनं ब्रह्मन्मोघमेतद्भविष्यति +पुत्रो ममायं भगवन्कुवलाश्व इति स्मृतः +धृतिमान्क्षिप्रकारी च वीर्येणाप्रतिमो भुवि +प्रियं वै सर्वमेतत्ते करिष्यति न संशयः +पुत्रैः परिवृतः सर्वैः शूरैः परिघबाहुभिः +विसर्जयस्व मां ब्रह्मन्न्यस्तशस्त्रोऽस्मि सांप्रतम् +तथास्त्विति च तेनोक्तो मुनिनामिततेजसा +स तमादिश्य तनयमुत्तङ्काय महात्मने +क्रियतामिति राजर्षिर्जगाम वनमुत्तमम् +युधिष्ठिर उवाच +क एष भगवन्दैत्यो महावीर्यस्तपोधन +कस्य पुत्रोऽथ नप्ता वा एतदिच्छामि वेदितुम् +एवं महाबलो दैत्यो न श्रुतो मे तपोधन +एतदिच्छामि भगवन्याथातथ्येन वेदितुम् +सर्वमेव महाप्राज्ञ विस्तरेण तपोधन +मार्कण्डेय उवाच +शृणु राजन्निदं सर्वं यथावृत्तं नराधिप +एकार्णवे तदा घोरे नष्टे स्थावरजङ्गमे +प्रनष्टेषु च भूतेषु सर्वेषु भरतर्षभ +प्रभवः सर्वभूतानां शाश्वतः पुरुषोऽव्ययः +सुष्वाप भगवान्विष्णुरप्शय्यामेक एव ह +नागस्य भोगे महति शेषस्यामिततेजसः +लोककर्ता महाभाग भगवानच्युतो हरिः +नागभोगेन महता परिरभ्य महीमिमाम् +स्वपतस्तस्य देवस्य पद्मं सूर्यसमप्रभम् +नाभ्यां विनिःसृतं तत्र यत्रोत्पन्नः पितामहः +साक्षाल्लोकगुरुर्ब्रह्मा पद्मे सूर्येन्दुसप्रभे +चतुर्वेदश्चतुर्मूर्तिस्तथैव च चतुर्मुखः +स्वप्रभावाद्दुराधर्षो महाबलपराक्रमः +कस्यचित्त्वथ कालस्य दानवौ वीर्यवत्तरौ +मधुश्च कैटभश्चैव दृष्टवन्तौ हरिं प्रभुम् +शयानं शयने दिव्ये नागभोगे महाद्युतिम् +बहुयोजनविस्तीर्णे बहुयोजनमायते +किरीटकौस्तुभधरं पीतकौशेयवाससम् +दीप्यमानं श्रिया राजंस्तेजसा वपुषा तथा +सहस्रसूर्यप्रतिममद्भुतोपमदर्शनम् +विस्मयः सुमहानासीन्मधुकैटभयोस्तदा +दृष्ट्वा पितामहं चैव पद्मे पद्मनिभेक्षणम् +वित्रासयेतामथ तौ ब्रह्माणममितौजसम् +वित्रास्यमानो बहुशो ब्रह्मा ताभ्यां महायशाः +अकम्पयत्पद्मनालं ततोऽबुध्यत केशवः +अथापश्यत गोविन्दो दानवौ वीर्यवत्तरौ +दृष्ट्वा तावब्रवीद्देवः स्वागतं वां महाबलौ +ददानि वां वरं श्रेष्ठं प्रीतिर्हि मम जायते +तौ प्रहस्य हृषीकेशं महावीर्यौ महासुरौ +प्रत्यब्रूतां महाराज सहितौ मधुसूदनम् +आवां वरय देव त्वं वरदौ स्वः सुरोत्तम +दातारौ स्वो वरं तुभ्यं तद्ब्रवीह्यविचारयन् +भगवानुवाच +प्रतिगृह्णे वरं वीरावीप्सितश्च वरो मम +युवां हि वीर्यसंपन्नौ न वामस्ति समः पुमान् +वध्यत्वमुपगच्छेतां मम सत्यपराक्रमौ +एतदिच्छाम्यहं कामं प्राप्तुं लोकहिताय वै +मधुकैटभावूचतुः +अनृतं नोक्तपूर्वं नौ स्वैरेष्वपि कुतोऽन्यथा +सत्ये धर्मे च निरतौ विद्ध्यावां पुरुषोत्तम +बले रूपे च वीर्ये च शमे च न समोऽस्ति नौ +धर्मे तपसि दाने च शीलसत्त्वदमेषु च +उपप्लवो महानस्मानुपावर्तत केशव +उक्तं प्रतिकुरुष्व त्वं कालो हि दुरतिक्रमः +आवामिच्छावहे देव कृतमेकं त्वया विभो +अनावृतेऽस्मिन्नाकाशे वधं सुरवरोत्तम +पुत्रत्वमभिगच्छाव तव चैव सुलोचन +वर एष वृतो देव तद्विद्धि सुरसत्तम +भगवानुवाच +बाढमेवं करिष्यामि सर्वमेतद्भविष्यति +मार्कण्डेय उवाच +विचिन्त्य त्वथ गोविन्दो नापश्यद्यदनावृतम् +अवकाशं पृथिव्यां वा दिवि वा मधुसूदनः +स्वकावनावृतावूरू दृष्ट्वा देववरस्तदा +मधुकैटभयो राजञ्शिरसी मधुसूदनः +चक्रेण शितधारेण न्यकृन्तत महायशाः +मार्कण्डेय उवाच +धुन्धुर्नाम महातेजास्तयोः पुत्रो महाद्युतिः +स तपोऽतप्यत महन्महावीर्यपराक्रमः +अतिष्ठदेकपादेन कृशो धमनिसंततः +तस्मै ब्रह्मा ददौ प्रीतो वरं वव्रे स च प्रभो +देवदानवयक्षाणां सर्पगन्धर्वरक्षसाम् +अवध्योऽहं भवेयं वै वर एष वृतो मया +एवं भवतु गच्छेति तमुवाच पितामहः +स एवमुक्तस्तत्पादौ मूर्ध्ना स्पृश्य जगाम ह +स तु धुन्धुर्वरं लब्ध्वा महावीर्यपराक्रमः +अनुस्मरन्पितृवधं ततो विष्णुमुपाद्रवत् +स तु देवान्सगन्धर्वाञ्जित्वा धुन्धुरमर्षणः +बबाध सर्वानसकृद्देवान्विष्णुं च वै भृशम् +समुद्रो वालुकापूर्ण उज्जानक इति स्मृतः +आगम्य च स दुष्टात्मा तं देशं भरतर्षभ +बाधते स्म परं शक्त्या तमुत्तङ्काश्रमं प्रभो +अन्तर्भूमिगतस्तत्र वालुकान्तर्हितस्तदा +मधुकैटभयोः पुत्रो धुन्धुर्भीमपराक्रमः +शेते लोकविनाशाय तपोबलसमाश्रितः +उत्तङ्कस्याश्रमाभ्याशे निःश्वसन्पावकार्चिषः +एतस्मिन्नेव काले तु सभृत्यबलवाहनः +कुवलाश्वो नरपतिरन्वितो बलशालिनाम् +सहस्रैरेकविंशत्या पुत्राणामरिमर्दनः +प्रायादुत्तङ्कसहितो धुन्धोस्तस्य निवेशनम् +तमाविशत्ततो विष्णुर्भगवांस्तेजसा प्रभुः +उत्तङ्कस्य नियोगेन लोकानां हितकाम्यया +तस्मिन्प्रयाते दुर्धर्षे दिवि शब्दो महानभूत् +एष श्रीमान्नृपसुतो धुन्धुमारो भविष्यति +दिव्यैश्च पुष्पैस्तं देवाः समन्तात्पर्यवाकिरन् +देवदुन्दुभयश्चैव नेदुः स्वयमुदीरिताः +शीतश्च वायुः प्रववौ प्रयाणे तस्य धीमतः +विपांसुलां महीं कुर्वन्ववर्ष च सुरेश्वरः +अन्तरिक्षे विमानानि देवतानां युधिष्ठिर +तत्रैव समदृश्यन्त धुन्धुर्यत्र महासुरः +कुवलाश्वस्य धुन्धोश्च युद्धकौतूहलान्विताः +देवगन्धर्वसहिताः समवैक्षन्महर्षयः +नारायणेन कौरव्य तेजसाप्यायितस्तदा +स गतो नृपतिः क्षिप्रं पुत्रैस्तैः सर्वतोदिशम् +अर्णवं खानयामास कुवलाश्वो महीपतिः +कुवलाश्वस्य पुत्रैस्तु तस्मिन्वै वालुकार्णवे +सप्तभिर्दिवसैः खात्वा दृष्टो धुन्धुर्महाबलः +आसीद्घोरं वपुस्तस्य वालुकान्तर्हितं महत् +दीप्यमानं यथा सूर्यस्तेजसा भरतर्षभ +ततो धुन्धुर्महाराज दिशमाश्रित्य पश्चिमाम् +सुप्तोऽभूद्राजशार्दूल कालानलसमद्युतिः +कुवलाश्वस्य पुत्रैस्तु सर्वतः परिवारितः +अभिद्रुतः शरैस्तीक्ष्णैर्गदाभिर्मुसलैरपि +पट्टिशैः परिघैः प्रासैः खड्गैश्च विमलैः शितैः +स वध्यमानः संक्रुद्धः समुत्तस्थौ महाबलः +क्रुद्धश्चाभक्षयत्तेषां शस्त्राणि विविधानि च +आस्याद्वमन्पावकं स संवर्तकसमं तदा +तान्सर्वान्नृपतेः पुत्रानदहत्स्वेन तेजसा +मुखजेनाग्निना क्रुद्धो लोकानुद्वर्तयन्निव +क्षणेन राजशार्दूल पुरेव कपिलः प्रभुः +सगरस्यात्मजान्क्रुद्धस्तदद्भुतमिवाभवत् +तेषु क्रोधाग्निदग्धेषु तदा भरतसत्तम +तं प्रबुद्धं महात्मानं कुम्भकर्णमिवापरम् +आससाद महातेजाः कुवलाश्वो महीपतिः +तस्य वारि महाराज सुस्राव बहु देहतः +तदापीयत तत्तेजो राजा वारिमयं नृप +योगी योगेन वह्निं च शमयामास वारिणा +ब्रह्मास्त्रेण तदा राजा दैत्यं क्रूरपराक्रमम् +ददाह भरतश्रेष्ठ सर्वलोकाभयाय वै +सोऽस्त्रेण दग्ध्वा राजर्षिः कुवलाश्वो महासुरम् +सुरशत्रुममित्रघ्नस्त्रिलोकेश इवापरः +धुन्धुमार इति ख्यातो नाम्ना समभवत्ततः +प्रीतैश्च त्रिदशैः सर्वैर्महर्षिसहितैस्तदा +वरं वृणीष्वेत्युक्तः स प्राञ्जलिः प्रणतस्तदा +अतीव मुदितो राजन्निदं वचनमब्रवीत् +दद्यां वित्तं द्विजाग्र्येभ्यः शत्रूणां चापि दुर्जयः +सख्यं च विष्णुना मे स्याद्भूतेष्वद्रोह एव च +धर्मे रतिश्च सततं स्वर्गे वासस्तथाक्षयः +तथास्त्विति ततो देवैः प्रीतैरुक्तः स पार्थिवः +ऋषिभिश्च सगन्धर्वैरुत्तङ्केन च धीमता +सभाज्य चैनं विविधैराशीर्वादैस्ततो नृपम् +देवा महर्षयश्चैव स्वानि स्थानानि भेजिरे +तस्य पुत्रास्त्रयः शिष्टा युधिष्ठिर तदाभवन् +दृढाश्वः कपिलाश्वश्च चन्द्राश्वश्चैव भारत +तेभ्यः परम्परा राजन्निक्ष्वाकूणां महात्मनाम् +एवं स निहतस्तेन कुवलाश्वेन सत्तम +धुन्धुर्दैत्यो महावीर्यो मधुकैटभयोः सुतः +कुवलाश्वस्तु नृपतिर्धुन्धुमार इति स्मृतः +नाम्ना च गुणसंयुक्तस्तदा प्रभृति सोऽभवत् +एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि +धौन्धुमारमुपाख्यानं प्रथितं यस्य कर्मणा +इदं तु पुण्यमाख्यानं विष्णोः समनुकीर्तनम् +शृणुयाद्यः स धर्मात्मा पुत्रवांश्च भवेन्नरः +आयुष्मान्धृतिमांश्चैव श्रुत्वा भवति पर्वसु +न च व्याधिभयं किंचित्प्राप्नोति विगतज्वरः +वैशंपायन उवाच +ततो युधिष्ठिरो राजा मार्कण्डेयं महाद्युतिम् +पप्रच्छ भरतश्रेष्ठो धर्मप्रश्नं सुदुर्वचम् +श्रोतुमिच्छामि भगवन्स्त्रीणां माहात्म्यमुत्तमम् +कथ्यमानं त्वया विप्र सूक्ष्मं धर्मं च तत्त्वतः +प्रत्यक्षेण हि विप्रर्षे देवा दृश्यन्ति सत्तम +सूर्याचन्द्रमसौ वायुः पृथिवी वह्निरेव च +पिता माता च भगवन्गाव एव च सत्तम +यच्चान्यदेव विहितं तच्चापि भृगुनन्दन +मन्येऽहं गुरुवत्सर्वमेकपत्न्यस्तथा स्त्रियः +पतिव्रतानां शुश्रूषा दु��्करा प्रतिभाति मे +पतिव्रतानां माहात्म्यं वक्तुमर्हसि नः प्रभो +निरुध्य चेन्द्रियग्रामं मनः संरुध्य चानघ +पतिं दैवतवच्चापि चिन्तयन्त्यः स्थिता हि याः +भगवन्दुष्करं ह्येतत्प्रतिभाति मम प्रभो +मातापितृषु शुश्रूषा स्त्रीणां भर्तृषु च द्विज +स्त्रीणां धर्मात्सुघोराद्धि नान्यं पश्यामि दुष्करम् +साध्वाचाराः स्त्रियो ब्रह्मन्यत्कुर्वन्ति सदादृताः +दुष्करं बत कुर्वन्ति पितरो मातरश्च वै +एकपत्न्यश्च या नार्यो याश्च सत्यं वदन्त्युत +कुक्षिणा दश मासांश्च गर्भं संधारयन्ति याः +नार्यः कालेन संभूय किमद्भुततरं ततः +संशयं परमं प्राप्य वेदनामतुलामपि +प्रजायन्ते सुतान्नार्यो दुःखेन महता विभो +पुष्णन्ति चापि महता स्नेहेन द्विजसत्तम +ये च क्रूरेषु सर्वेषु वर्तमाना जुगुप्सिताः +स्वकर्म कुर्वन्ति सदा दुष्करं तच्च मे मतम् +क्षत्रधर्मसमाचारं तथ्यं चाख्याहि मे द्विज +धर्मः सुदुर्लभो विप्र नृशंसेन दुरात्मना +एतदिच्छामि भगवन्प्रश्नं प्रश्नविदां वर +श्रोतुं भृगुकुलश्रेष्ठ शुश्रूषे तव सुव्रत +मार्कण्डेय उवाच +हन्त ते सर्वमाख्यास्ये प्रश्नमेतं सुदुर्वचम् +तत्त्वेन भरतश्रेष्ठ गदतस्तन्निबोध मे +मातरं सदृशीं तात पितॄनन्ये च मन्यते +दुष्करं कुरुते माता विवर्धयति या प्रजाः +तपसा देवतेज्याभिर्वन्दनेन तितिक्षया +अभिचारैरुपायैश्च ईहन्ते पितरः सुतान् +एवं कृच्छ्रेण महता पुत्रं प्राप्य सुदुर्लभम् +चिन्तयन्ति सदा वीर कीदृशोऽयं भविष्यति +आशंसते च पुत्रेषु पिता माता च भारत +यशः कीर्तिमथैश्वर्यं प्रजा धर्मं तथैव च +तयोराशां तु सफलां यः करोति स धर्मवित् +पिता माता च राजेन्द्र तुष्यतो यस्य नित्यदा +इह प्रेत्य च तस्याथ कीर्तिर्धर्मश्च शाश्वतः +नैव यज्ञः स्त्रियः कश्चिन्न श्राद्धं नोपवासकम् +या तु भर्तरि शुश्रूषा तया स्वर्गमुपाश्नुते +एतत्प्रकरणं राजन्नधिकृत्य युधिष्ठिर +प्रतिव्रतानां नियतं धर्मं चावहितः शृणु +मार्कण्डेय उवाच +कश्चिद्द्विजातिप्रवरो वेदाध्यायी तपोधनः +तपस्वी धर्मशीलश्च कौशिको नाम भारत +साङ्गोपनिषदान्वेदानधीते द्विजसत्तमः +स वृक्षमूले कस्मिंश्चिद्वेदानुच्चारयन्स्थितः +उपरिष्टाच्च वृक्षस्य बलाका संन्यलीयत +तया पुरीषमुत्सृष्टं ब्राह्मणस्य तदोपरि +तामवेक्ष्य ततः क्रुद्धः समपध्यायत द्विजः +भृशं क्रोधाभिभूतेन बलाका सा निरीक्षिता +अपध्याता च विप्रेण न्यपतद्वसुधातले +बलाकां पतितां दृष्ट्वा गतसत्त्वामचेतनाम् +कारुण्यादभिसंतप्तः पर्यशोचत तां द्विजः +अकार्यं कृतवानस्मि रागद्वेषबलात्कृतः +इत्युक्त्वा बहुशो विद्वान्ग्रामं भैक्षाय संश्रितः +ग्रामे शुचीनि प्रचरन्कुलानि भरतर्षभ +प्रविष्टस्तत्कुलं यत्र पूर्वं चरितवांस्तु सः +देहीति याचमानो वै तिष्ठेत्युक्तः स्त्रिया ततः +शौचं तु यावत्कुरुते भाजनस्य कुटुम्बिनी +एतस्मिन्नन्तरे राजन्क्षुधासंपीडितो भृशम् +भर्ता प्रविष्टः सहसा तस्या भरतसत्तम +सा तु दृष्ट्वा पतिं साध्वी ब्राह्मणं व्यपहाय तम् +पाद्यमाचमनीयं च ददौ भर्त्रे तथासनम् +प्रह्वा पर्यचरच्चापि भर्तारमसितेक्षणा +आहारेणाथ भक्ष्यैश्च वाक्यैः सुमधुरैस्तथा +उच्छिष्टं भुञ्जते भर्तुः सा तु नित्यं युधिष्ठिर +दैवतं च पतिं मेने भर्तुश्चित्तानुसारिणी +न कर्मणा न मनसा नात्यश्नान्नापि चापिबत् +तं सर्वभावोपगता पतिशुश्रूषणे रता +साध्वाचारा शुचिर्दक्षा कुटुम्बस्य हितैषिणी +भर्तुश्चापि हितं यत्तत्सततं सानुवर्तते +देवतातिथिभृत्यानां श्वश्रूश्वशुरयोस्तथा +शुश्रूषणपरा नित्यं सततं संयतेन्द्रिया +सा ब्राह्मणं तदा दृष्ट्वा संस्थितं भैक्षकाङ्क्षिणम् +कुर्वती पतिशुश्रूषां सस्माराथ शुभेक्षणा +व्रीडिता साभवत्साध्वी तदा भरतसत्तम +भिक्षामादाय विप्राय निर्जगाम यशस्विनी +ब्राह्मण उवाच +किमिदं भवति त्वं मां तिष्ठेत्युक्त्वा वराङ्गने +उपरोधं कृतवती न विसर्जितवत्यसि +मार्कण्डेय उवाच +ब्राह्मणं क्रोधसंतप्तं ज्वलन्तमिव तेजसा +दृष्ट्वा साध्वी मनुष्येन्द्र सान्त्वपूर्वं वचोऽब्रवीत् +क्षन्तुमर्हसि मे विप्र भर्ता मे दैवतं महत् +स चापि क्षुधितः श्रान्तः प्राप्तः शुश्रूषितो मया +ब्राह्मण उवाच +ब्राह्मणा न गरीयांसो गरीयांस्ते पतिः कृतः +गृहस्थधर्मे वर्तन्ती ब्राह्मणानवमन्यसे +इन्द्रोऽप्येषां प्रणमते किं पुनर्मानुषा भुवि +अवलिप्ते न जानीषे वृद्धानां न श्रुतं त्वया +ब्राह्मणा ह्यग्निसदृशा दहेयुः पृथिवीमपि +स्त्र्युवाच +नावजानाम्यहं विप्रान्देवैस्तुल्यान्मनस्विनः +अपराधमिमं विप्र क्षन्तुमर्हसि मेऽनघ +जानामि तेजो विप्राणां महाभाग्यं च धीमताम् +अपेयः सागरः क्रोधात्कृतो हि लवणोदकः +तथैव दीप्ततपसां मुनीनां भावितात्मनाम् +येषां क्रोधाग्निरद्यापि दण्डके नोपशाम्यति +ब्राह्मणानां परिभवाद्वातापिश्च दुरात्मवान् +अगस्त्यमृषिमासाद्य जीर्णः क्रूरो महासुरः +प्रभावा बहवश्चापि श्रूयन्ते ब्रह्मवादिनाम् +क्रोधः सुविपुलो ब्रह्मन्प्रसादश्च महात्मनाम् +अस्मिंस्त्वतिक्रमे ब्रह्मन्क्षन्तुमर्हसि मेऽनघ +पतिशुश्रूषया धर्मो यः स मे रोचते द्विज +दैवतेष्वपि सर्वेषु भर्ता मे दैवतं परम् +अविशेषेण तस्याहं कुर्यां धर्मं द्विजोत्तम +शुश्रूषायाः फलं पश्य पत्युर्ब्राह्मण यादृशम् +बलाका हि त्वया दग्धा रोषात्तद्विदितं मम +क्रोधः शत्रुः शरीरस्थो मनुष्याणां द्विजोत्तम +यः क्रोधमोहौ त्यजति तं देवा ब्राह्मणं विदुः +यो वदेदिह सत्यानि गुरुं संतोषयेत च +हिंसितश्च न हिंसेत तं देवा ब्राह्मणं विदुः +जितेन्द्रियो धर्मपरः स्वाध्यायनिरतः शुचिः +कामक्रोधौ वशे यस्य तं देवा ब्राह्मणं विदुः +यस्य चात्मसमो लोको धर्मज्ञस्य मनस्विनः +सर्वधर्मेषु च रतस्तं देवा ब्राह्मणं विदुः +योऽध्यापयेदधीयीत यजेद्वा याजयीत वा +दद्याद्वापि यथाशक्ति तं देवा ब्राह्मणं विदुः +ब्रह्मचारी च वेदान्यो अधीयीत द्विजोत्तमः +स्वाध्याये चाप्रमत्तो वै तं देवा ब्राह्मणं विदुः +यद्ब्राह्मणानां कुशलं तदेषां परिकीर्तयेत् +सत्यं तथा व्याहरतां नानृते रमते मनः +धनं तु ब्राह्मणस्याहुः स्वाध्यायं दममार्जवम् +इन्द्रियाणां निग्रहं च शाश्वतं द्विजसत्तम +सत्यार्जवे धर्ममाहुः परं धर्मविदो जनाः +दुर्ज्ञेयः शाश्वतो धर्मः स तु सत्ये प्रतिष्ठितः +श्रुतिप्रमाणो धर्मः स्यादिति वृद्धानुशासनम् +बहुधा दृश्यते धर्मः सूक्ष्म एव द्विजोत्तम +भवानपि च धर्मज्ञः स्वाध्यायनिरतः शुचिः +न तु तत्त्वेन भगवन्धर्मान्वेत्सीति मे मतिः +मातापितृभ्यां शुश्रूषुः सत्यवादी जितेन्द्रियः +मिथिलायां वसन्व्याधः स ते धर्मान्प्रवक्ष्यति +तत्र गच्छस्व भद्रं ते यथाकामं द्विजोत्तम +अत्युक्तमपि मे सर्वं क्षन्तुमर्हस्यनिन्दित +स्त्रियो ह्यवध्याः सर्वेषां ये धर्मविदुषो जनाः +ब्राह्मण उवाच +प्रीतोऽस्मि तव भद्रं ते गतः क्रोधश्च शोभने +उपालम्भस्त्वया ह्युक्तो मम निःश्रेयसं परम् +स्वस्ति तेऽस्तु गमिष्यामि साधयिष्यामि शोभने +मार्कण्डेय उवा��� +तया विसृष्टो निर्गम्य स्वमेव भवनं ययौ +विनिन्दन्स द्विजोऽऽत्मानं कौशिको नरसत्तम +मार्कण्डेय उवाच +चिन्तयित्वा तदाश्चर्यं स्त्रिया प्रोक्तमशेषतः +विनिन्दन्स द्विजोऽऽत्मानमागस्कृत इवाबभौ +चिन्तयानः स धर्मस्य सूक्ष्मां गतिमथाब्रवीत् +श्रद्दधानेन भाव्यं वै गच्छामि मिथिलामहम् +कृतात्मा धर्मवित्तस्यां व्याधो निवसते किल +तं गच्छाम्यहमद्यैव धर्मं प्रष्टुं तपोधनम् +इति संचिन्त्य मनसा श्रद्दधानः स्त्रिया वचः +बलाकाप्रत्ययेनासौ धर्म्यैश्च वचनैः शुभैः +संप्रतस्थे स मिथिलां कौतूहलसमन्वितः +अतिक्रामन्नरण्यानि ग्रामांश्च नगराणि च +ततो जगाम मिथिलां जनकेन सुरक्षिताम् +धर्मसेतुसमाकीर्णां यज्ञोत्सववतीं शुभाम् +गोपुराट्टालकवतीं गृहप्राकारशोभिताम् +प्रविश्य स पुरीं रम्यां विमानैर्बहुभिर्वृताम् +पण्यैश्च बहुभिर्युक्तां सुविभक्तमहापथाम् +अश्वै रथैस्तथा नागैर्यानैश्च बहुभिर्वृताम् +हृष्टपुष्टजनाकीर्णां नित्योत्सवसमाकुलाम् +सोऽपश्यद्बहुवृत्तान्तां ब्राह्मणः समतिक्रमन् +धर्मव्याधमपृच्छच्च स चास्य कथितो द्विजैः +अपश्यत्तत्र गत्वा तं सूनामध्ये व्यवस्थितम् +मार्गमाहिषमांसानि विक्रीणन्तं तपस्विनम् +आकुलत्वात्तु क्रेतॄणामेकान्ते संस्थितो द्विजः +स तु ज्ञात्वा द्विजं प्राप्तं सहसा संभ्रमोत्थितः +आजगाम यतो विप्रः स्थित एकान्त आसने +व्याध उवाच +अभिवादये त्वा भगवन्स्वागतं ते द्विजोत्तम +अहं व्याधस्तु भद्रं ते किं करोमि प्रशाधि माम् +एकपत्न्या यदुक्तोऽसि गच्छ त्वं मिथिलामिति +जानाम्येतदहं सर्वं यदर्थं त्वमिहागतः +मार्कण्डेय उवाच +श्रुत्वा तु तस्य तद्वाक्यं स विप्रो भृशहर्षितः +द्वितीयमिदमाश्चर्यमित्यचिन्तयत द्विजः +अदेशस्थं हि ते स्थानमिति व्याधोऽब्रवीद्द्विजम् +गृहं गच्छाव भगवन्यदि रोचयसेऽनघ +बाढमित्येव संहृष्टो विप्रो वचनमब्रवीत् +अग्रतस्तु द्विजं कृत्वा स जगाम गृहान्प्रति +प्रविश्य च गृहं रम्यमासनेनाभिपूजितः +पाद्यमाचमनीयं च प्रतिगृह्य द्विजोत्तमः +ततः सुखोपविष्टस्तं व्याधं वचनमब्रवीत् +कर्मैतद्वै न सदृशं भवतः प्रतिभाति मे +अनुतप्ये भृशं तात तव घोरेण कर्मणा +व्याध उवाच +कुलोचितमिदं कर्म पितृपैतामहं मम +वर्तमानस्य मे धर्मे स्वे मन्युं मा कृथा द्विज +धात्रा तु व���हितं पूर्वं कर्म स्वं पालयाम्यहम् +प्रयत्नाच्च गुरू वृद्धौ शुश्रूषेऽहं द्विजोत्तम +सत्यं वदे नाभ्यसूये यथाशक्ति ददामि च +देवतातिथिभृत्यानामवशिष्टेन वर्तये +न कुत्सयाम्यहं किंचिन्न गर्हे बलवत्तरम् +कृतमन्वेति कर्तारं पुरा कर्म द्विजोत्तम +कृषिगोरक्ष्यवाणिज्यमिह लोकस्य जीवनम् +दण्डनीतिस्त्रयी विद्या तेन लोका भवन्त्युत +कर्म शूद्रे कृषिर्वैश्ये संग्रामः क्षत्रिये स्मृतः +ब्रह्मचर्यं तपो मन्त्राः सत्यं च ब्राह्मणे सदा +राजा प्रशास्ति धर्मेण स्वकर्मनिरताः प्रजाः +विकर्माणश्च ये केचित्तान्युनक्ति स्वकर्मसु +भेतव्यं हि सदा राज्ञां प्रजानामधिपा हि ते +मारयन्ति विकर्मस्थं लुब्धा मृगमिवेषुभिः +जनकस्येह विप्रर्षे विकर्मस्थो न विद्यते +स्वकर्मनिरता वर्णाश्चत्वारोऽपि द्विजोत्तम +स एष जनको राजा दुर्वृत्तमपि चेत्सुतम् +दण्ड्यं दण्डे निक्षिपति तथा न ग्लाति धार्मिकम् +सुयुक्तचारो नृपतिः सर्वं धर्मेण पश्यति +श्रीश्च राज्यं च दण्डश्च क्षत्रियाणां द्विजोत्तम +राजानो हि स्वधर्मेण श्रियमिच्छन्ति भूयसीम् +सर्वेषामेव वर्णानां त्राता राजा भवत्युत +परेण हि हतान्ब्रह्मन्वराहमहिषानहम् +न स्वयं हन्मि विप्रर्षे विक्रीणामि सदा त्वहम् +न भक्षयामि मांसानि ऋतुगामी तथा ह्यहम् +सदोपवासी च तथा नक्तभोजी तथा द्विज +अशीलश्चापि पुरुषो भूत्वा भवति शीलवान् +प्राणिहिंसारतश्चापि भवते धार्मिकः पुनः +व्यभिचारान्नरेन्द्राणां धर्मः संकीर्यते महान् +अधर्मो वर्धते चापि संकीर्यन्ते तथा प्रजाः +उरुण्डा वामनाः कुब्जाः स्थूलशीर्षास्तथैव च +क्लीबाश्चान्धाश्च जायन्ते बधिरा लम्बचूचुकाः +पार्थिवानामधर्मत्वात्प्रजानामभवः सदा +स एष राजा जनकः सर्वं धर्मेण पश्यति +अनुगृह्णन्प्रजाः सर्वाः स्वधर्मनिरताः सदा +ये चैव मां प्रशंसन्ति ये च निन्दन्ति मानवाः +सर्वान्सुपरिणीतेन कर्मणा तोषयाम्यहम् +ये जीवन्ति स्वधर्मेण संभुञ्जन्ते च पार्थिवाः +न किंचिदुपजीवन्ति दक्षा उत्थानशीलिनः +शक्त्यान्नदानं सततं तितिक्षा धर्मनित्यता +यथार्हं प्रतिपूजा च सर्वभूतेषु वै दया +त्यागान्नान्यत्र मर्त्यानां गुणास्तिष्ठन्ति पूरुषे +मृषावादं परिहरेत्कुर्यात्प्रियमयाचितः +न च कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत् +प्रिये नात���भृशं हृष्येदप्रिये न च संज्वरेत् +न मुह्येदर्थकृच्छ्रेषु न च धर्मं परित्यजेत् +कर्म चेत्किंचिदन्यत्स्यादितरन्न समाचरेत् +यत्कल्याणमभिध्यायेत्तत्रात्मानं नियोजयेत् +न पापं प्रति पापः स्यात्साधुरेव सदा भवेत् +आत्मनैव हतः पापो यः पापं कर्तुमिच्छति +कर्म चैतदसाधूनां वृजिनानामसाधुवत् +न धर्मोऽस्तीति मन्वानाः शुचीनवहसन्ति ये +अश्रद्दधाना धर्मस्य ते नश्यन्ति न संशयः +महादृतिरिवाध्मातः पापो भवति नित्यदा +मूढानामवलिप्तानामसारं भाषितं भवेत् +दर्शयत्यन्तरात्मानं दिवा रूपमिवांशुमान् +न लोके राजते मूर्खः केवलात्मप्रशंसया +अपि चेह मृजा हीनः कृतविद्यः प्रकाशते +अब्रुवन्कस्यचिन्निन्दामात्मपूजामवर्णयन् +न कश्चिद्गुणसंपन्नः प्रकाशो भुवि दृश्यते +विकर्मणा तप्यमानः पापाद्विपरिमुच्यते +नैतत्कुर्यां पुनरिति द्वितीयात्परिमुच्यते +कर्मणा येन तेनेह पापाद्द्विजवरोत्तम +एवं श्रुतिरियं ब्रह्मन्धर्मेषु परिदृश्यते +पापान्यबुद्ध्वेह पुरा कृतानि; प्राग्धर्मशीलो विनिहन्ति पश्चात् +धर्मो ब्रह्मन्नुदते पूरुषाणां; यत्कुर्वते पापमिह प्रमादात् +पापं कृत्वा हि मन्येत नाहमस्मीति पूरुषः +चिकीर्षेदेव कल्याणं श्रद्दधानोऽनसूयकः +वसनस्येव छिद्राणि साधूनां विवृणोति यः +पापं चेत्पुरुषः कृत्वा कल्याणमभिपद्यते +मुच्यते सर्वपापेभ्यो महाभ्रैरिव चन्द्रमाः +यथादित्यः समुद्यन्वै तमः सर्वं व्यपोहति +एवं कल्याणमातिष्ठन्सर्वपापैः प्रमुच्यते +पापानां विद्ध्यधिष्ठानं लोभमेव द्विजोत्तम +लुब्धाः पापं व्यवस्यन्ति नरा नातिबहुश्रुताः +अधर्मा धर्मरूपेण तृणैः कूपा इवावृताः +तेषां दमः पवित्राणि प्रलापा धर्मसंश्रिताः +सर्वं हि विद्यते तेषु शिष्टाचारः सुदुर्लभः +मार्कण्डेय उवाच +स तु विप्रो महाप्राज्ञो धर्मव्याधमपृच्छत +शिष्टाचारं कथमहं विद्यामिति नरोत्तम +एतन्महामते व्याध प्रब्रवीहि यथातथम् +व्याध उवाच +यज्ञो दानं तपो वेदाः सत्यं च द्विजसत्तम +पञ्चैतानि पवित्राणि शिष्टाचारेषु नित्यदा +कामक्रोधौ वशे कृत्वा दम्भं लोभमनार्जवम् +धर्म इत्येव संतुष्टास्ते शिष्टाः शिष्टसंमताः +न तेषां विद्यतेऽवृत्तं यज्ञस्वाध्यायशीलिनाम् +आचारपालनं चैव द्वितीयं शिष्टलक्षणम् +गुरुशुश्रूषणं सत्यमक्रोधो दानमेव च +एतच्��तुष्टयं ब्रह्मञ्शिष्टाचारेषु नित्यदा +शिष्टाचारे मनः कृत्वा प्रतिष्ठाप्य च सर्वशः +यामयं लभते तुष्टिं सा न शक्या ह्यतोऽन्यथा +वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः +दमस्योपनिषत्त्यागः शिष्टाचारेषु नित्यदा +ये तु धर्ममसूयन्ते बुद्धिमोहान्विता नराः +अपथा गच्छतां तेषामनुयातापि पीड्यते +ये तु शिष्टाः सुनियताः श्रुतित्यागपरायणाः +धर्म्यं पन्थानमारूढाः सत्यधर्मपरायणाः +नियच्छन्ति परां बुद्धिं शिष्टाचारान्विता नराः +उपाध्यायमते युक्ताः स्थित्या धर्मार्थदर्शिनः +नास्तिकान्भिन्नमर्यादान्क्रूरान्पापमतौ स्थितान् +त्यज ताञ्ज्ञानमाश्रित्य धार्मिकानुपसेव्य च +कामलोभग्रहाकीर्णां पञ्चेन्द्रियजलां नदीम् +नावं धृतिमयीं कृत्वा जन्मदुर्गाणि संतर +क्रमेण संचितो धर्मो बुद्धियोगमयो महान् +शिष्टाचारे भवेत्साधू रागः शुक्लेव वाससि +अहिंसा सत्यवचनं सर्वभूतहितं परम् +अहिंसा परमो धर्मः स च सत्ये प्रतिष्ठितः +सत्ये कृत्वा प्रतिष्ठां तु प्रवर्तन्ते प्रवृत्तयः +सत्यमेव गरीयस्तु शिष्टाचारनिषेवितम् +आचारश्च सतां धर्मः सन्तश्चाचारलक्षणाः +यो यथाप्रकृतिर्जन्तुः स्वां स्वां प्रकृतिमश्नुते +पापात्मा क्रोधकामादीन्दोषानाप्नोत्यनात्मवान् +आरम्भो न्याययुक्तो यः स हि धर्म इति स्मृतः +अनाचारस्त्वधर्मेति एतच्छिष्टानुशासनम् +अक्रुध्यन्तोऽनसूयन्तो निरहंकारमत्सराः +ऋजवः शमसंपन्नाः शिष्टाचारा भवन्ति ते +त्रैविद्यवृद्धाः शुचयो वृत्तवन्तो मनस्विनः +गुरुशुश्रूषवो दान्ताः शिष्टाचारा भवन्त्युत +तेषामदीनसत्त्वानां दुष्कराचारकर्मणाम् +स्वैः कर्मभिः सत्कृतानां घोरत्वं संप्रणश्यति +तं सदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम् +धर्मं धर्मेण पश्यन्तः स्वर्गं यान्ति मनीषिणः +आस्तिका मानहीनाश्च द्विजातिजनपूजकाः +श्रुतवृत्तोपसंपन्नाः ते सन्तः स्वर्गगामिनः +वेदोक्तः परमो धर्मो धर्मशास्त्रेषु चापरः +शिष्टाचीर्णश्च शिष्टानां त्रिविधं धर्मलक्षणम् +पारणं चापि विद्यानां तीर्थानामवगाहनम् +क्षमा सत्यार्जवं शौचं शिष्टाचारनिदर्शनम् +सर्वभूतदयावन्तो अहिंसानिरताः सदा +परुषं न प्रभाषन्ते सदा सन्तो द्विजप्रियाः +शुभानामशुभानां च कर्मणां फलसंचये +विपाकमभिजानन्ति ते शिष्टाः शिष्टसंमताः +न्यायोपेता गुणोपेताः सर्वलोकहितैषिणः +सन्तः स्वर्गजितः शुक्लाः संनिविष्टाश्च सत्पथे +दातारः संविभक्तारो दीनानुग्रहकारिणः +सर्वभूतदयावन्तस्ते शिष्टाः शिष्टसंमताः +सर्वपूज्याः श्रुतधनास्तथैव च तपस्विनः +दाननित्याः सुखाँल्लोकानाप्नुवन्तीह च श्रियम् +पीडया च कलत्रस्य भृत्यानां च समाहिताः +अतिशक्त्या प्रयच्छन्ति सन्तः सद्भिः समागताः +लोकयात्रां च पश्यन्तो धर्ममात्महितानि च +एवं सन्तो वर्तमाना एधन्ते शाश्वतीः समाः +अहिंसा सत्यवचनमानृशंस्यमथार्जवम् +अद्रोहो नातिमानश्च ह्रीस्तितिक्षा दमः शमः +धीमन्तो धृतिमन्तश्च भूतानामनुकम्पकाः +अकामद्वेषसंयुक्तास्ते सन्तो लोकसत्कृताः +त्रीण्येव तु पदान्याहुः सतां वृत्तमनुत्तमम् +न द्रुह्येच्चैव दद्याच्च सत्यं चैव सदा वदेत् +सर्वत्र च दयावन्तः सन्तः करुणवेदिनः +गच्छन्तीह सुसंतुष्टा धर्म्यं पन्थानमुत्तमम् +शिष्टाचारा महात्मानो येषां धर्मः सुनिश्चितः +अनसूया क्षमा शान्तिः संतोषः प्रियवादिता +कामक्रोधपरित्यागः शिष्टाचारनिषेवणम् +कर्मणा श्रुतसंपन्नं सतां मार्गमनुत्तमम् +शिष्टाचारं निषेवन्ते नित्यं धर्मेष्वतन्द्रिताः +प्रज्ञाप्रासादमारुह्य मुह्यतो महतो जनान् +प्रेक्षन्तो लोकवृत्तानि विविधानि द्विजोत्तम +अतिपुण्यानि पापानि तानि द्विजवरोत्तम +एतत्ते सर्वमाख्यातं यथाप्रज्ञं यथाश्रुतम् +शिष्टाचारगुणान्ब्रह्मन्पुरस्कृत्य द्विजर्षभ +मार्कण्डेय उवाच +स तु विप्रमथोवाच धर्मव्याधो युधिष्ठिर +यदहं ह्याचरे कर्म घोरमेतदसंशयम् +विधिस्तु बलवान्ब्रह्मन्दुस्तरं हि पुराकृतम् +पुराकृतस्य पापस्य कर्मदोषो भवत्ययम् +दोषस्यैतस्य वै ब्रह्मन्विघाते यत्नवानहम् +विधिना विहिते पूर्वं निमित्तं घातको भवेत् +निमित्तभूता हि वयं कर्मणोऽस्य द्विजोत्तम +येषां हतानां मांसानि विक्रीणामो वयं द्विज +तेषामपि भवेद्धर्म उपभोगेन भक्षणात् +देवतातिथिभृत्यानां पितॄणां प्रतिपूजनात् +ओषध्यो वीरुधश्चापि पशवो मृगपक्षिणः +अन्नाद्यभूता लोकस्य इत्यपि श्रूयते श्रुतिः +आत्ममांसप्रदानेन शिबिरौशीनरो नृपः +स्वर्गं सुदुर्लभं प्राप्तः क्षमावान्द्विजसत्तम +राज्ञो महानसे पूर्वं रन्तिदेवस्य वै द्विज +द्वे सहस्रे तु वध्येते पशूनामन्वहं तदा +समांसं ददतो ह्यन्नं रन्तिदेवस्य नित्यशः +अतुला कीर्तिरभवन्नृपस्य द्विजसत्तम +चातुर्मास्येषु पशवो वध्यन्त इति नित्यशः +अग्नयो मांसकामाश्च इत्यपि श्रूयते श्रुतिः +यज्ञेषु पशवो ब्रह्मन्वध्यन्ते सततं द्विजैः +संस्कृताः किल मन्त्रैश्च तेऽपि स्वर्गमवाप्नुवन् +यदि नैवाग्नयो ब्रह्मन्मांसकामाभवन्पुरा +भक्ष्यं नैव भवेन्मांसं कस्यचिद्द्विजसत्तम +अत्रापि विधिरुक्तश्च मुनिभिर्मांसभक्षणे +देवतानां पितॄणां च भुङ्क्ते दत्त्वा तु यः सदा +यथाविधि यथाश्रद्धं न स दुष्यति भक्षणात् +अमांसाशी भवत्येवमित्यपि श्रूयते श्रुतिः +भार्यां गच्छन्ब्रह्मचारी ऋतौ भवति ब्राह्मणः +सत्यानृते विनिश्चित्य अत्रापि विधिरुच्यते +सौदासेन पुरा राज्ञा मानुषा भक्षिता द्विज +शापाभिभूतेन भृशमत्र किं प्रतिभाति ते +स्वधर्म इति कृत्वा तु न त्यजामि द्विजोत्तम +पुराकृतमिति ज्ञात्वा जीवाम्येतेन कर्मणा +स्वकर्म त्यजतो ब्रह्मन्नधर्म इह दृश्यते +स्वकर्मनिरतो यस्तु स धर्म इति निश्चयः +पूर्वं हि विहितं कर्म देहिनं न विमुञ्चति +धात्रा विधिरयं दृष्टो बहुधा कर्मनिर्णये +द्रष्टव्यं तु भवेत्प्राज्ञ क्रूरे कर्मणि वर्तता +कथं कर्म शुभं कुर्यां कथं मुच्ये पराभवात् +कर्मणस्तस्य घोरस्य बहुधा निर्णयो भवेत् +दाने च सत्यवाक्ये च गुरुशुश्रूषणे तथा +द्विजातिपूजने चाहं धर्मे च निरतः सदा +अतिवादातिमानाभ्यां निवृत्तोऽस्मि द्विजोत्तम +कृषिं साध्विति मन्यन्ते तत्र हिंसा परा स्मृता +कर्षन्तो लाङ्गलैः पुंसो घ्नन्ति भूमिशयान्बहून् +जीवानन्यांश्च बहुशस्तत्र किं प्रतिभाति ते +धान्यबीजानि यान्याहुर्व्रीह्यादीनि द्विजोत्तम +सर्वाण्येतानि जीवानि तत्र किं प्रतिभाति ते +अध्याक्रम्य पशूंश्चापि घ्नन्ति वै भक्षयन्ति च +वृक्षानथौषधीश्चैव छिन्दन्ति पुरुषा द्विज +जीवा हि बहवो ब्रह्मन्वृक्षेषु च फलेषु च +उदके बहवश्चापि तत्र किं प्रतिभाति ते +सर्वं व्याप्तमिदं ब्रह्मन्प्राणिभिः प्राणिजीवनैः +मत्स्या ग्रसन्ते मत्स्यांश्च तत्र किं प्रतिभाति ते +सत्त्वैः सत्त्वानि जीवन्ति बहुधा द्विजसत्तम +प्राणिनोऽन्योन्यभक्षाश्च तत्र किं प्रतिभाति ते +चङ्क्रम्यमाणा जीवांश्च धरणीसंश्रितान्बहून् +पद्भ्यां घ्नन्ति नरा विप्र तत्र किं प्रतिभाति ते +उपविष्टाः शयानाश्च घ्नन्ति जीवाननेक���ः +ज्ञानविज्ञानवन्तश्च तत्र किं प्रतिभाति ते +जीवैर्ग्रस्तमिदं सर्वमाकाशं पृथिवी तथा +अविज्ञानाच्च हिंसन्ति तत्र किं प्रतिभाति ते +अहिंसेति यदुक्तं हि पुरुषैर्विस्मितैः पुरा +के न हिंसन्ति जीवान्वै लोकेऽस्मिन्द्विजसत्तम +बहु संचिन्त्य इह वै नास्ति कश्चिदहिंसकः +अहिंसायां तु निरता यतयो द्विजसत्तम +कुर्वन्त्येव हि हिंसां ते यत्नादल्पतरा भवेत् +आलक्ष्याश्चैव पुरुषाः कुले जाता महागुणाः +महाघोराणि कर्माणि कृत्वा लज्जन्ति वै न च +सुहृदः सुहृदोऽन्यांश्च दुर्हृदश्चापि दुर्हृदः +सम्यक्प्रवृत्तान्पुरुषान्न सम्यगनुपश्यतः +समृद्धैश्च न नन्दन्ति बान्धवा बान्धवैरपि +गुरूंश्चैव विनिन्दन्ति मूढाः पण्डितमानिनः +बहु लोके विपर्यस्तं दृश्यते द्विजसत्तम +धर्मयुक्तमधर्मं च तत्र किं प्रतिभाति ते +वक्तुं बहुविधं शक्यं धर्माधर्मेषु कर्मसु +स्वकर्मनिरतो यो हि स यशः प्राप्नुयान्महत् +मार्कण्डेय उवाच +धर्मव्याधस्तु निपुणं पुनरेव युधिष्ठिर +विप्रर्षभमुवाचेदं सर्वधर्मभृतां वरः +श्रुतिप्रमाणो धर्मो हि वृद्धानामिति भाषितम् +सूक्ष्मा गतिर्हि धर्मस्य बहुशाखा ह्यनन्तिका +प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत् +अनृतं च भवेत्सत्यं सत्यं चैवानृतं भवेत् +यद्भूतहितमत्यन्तं तत्सत्यमिति धारणा +विपर्ययकृतोऽधर्मः पश्य धर्मस्य सूक्ष्मताम् +यत्करोत्यशुभं कर्म शुभं वा द्विजसत्तम +अवश्यं तत्समाप्नोति पुरुषो नात्र संशयः +विषमां च दशां प्राप्य देवान्गर्हति वै भृशम् +आत्मनः कर्मदोषाणि न विजानात्यपण्डितः +मूढो नैकृतिकश्चापि चपलश्च द्विजोत्तम +सुखदुःखविपर्यासो यदा समुपपद्यते +नैनं प्रज्ञा सुनीतं वा त्रायते नैव पौरुषम् +यो यमिच्छेद्यथा कामं तं तं कामं समश्नुयात् +यदि स्यादपराधीनं पुरुषस्य क्रियाफलम् +संयताश्चापि दक्षाश्च मतिमन्तश्च मानवाः +दृश्यन्ते निष्फलाः सन्तः प्रहीणाः सर्वकर्मभिः +भूतानामपरः कश्चिद्धिंसायां सततोत्थितः +वञ्चनायां च लोकस्य स सुखेनेह जीवति +अचेष्टमानमासीनं श्रीः कंचिदुपतिष्ठति +कश्चित्कर्माणि कुर्वन्हि न प्राप्यमधिगच्छति +देवानिष्ट्वा तपस्तप्त्वा कृपणैः पुत्रगृद्धिभिः +दशमासधृता गर्भे जायन्ते कुलपांसनाः +अपरे धनधान्यैश्च भोगैश्च पितृसंचितैः +विपुलैरभिजायन्ते लब्धास���तैरेव मङ्गलैः +कर्मजा हि मनुष्याणां रोगा नास्त्यत्र संशयः +आधिभिश्चैव बाध्यन्ते व्याधैः क्षुद्रमृगा इव +ते चापि कुशलैर्वैद्यैर्निपुणैः संभृतौषधैः +व्याधयो विनिवार्यन्ते मृगा व्याधैरिव द्विज +येषामस्ति च भोक्तव्यं ग्रहणीदोषपीडिताः +न शक्नुवन्ति ते भोक्तुं पश्य धर्मभृतां वर +अपरे बाहुबलिनः क्लिश्यन्ते बहवो जनाः +दुःखेन चाधिगच्छन्ति भोजनं द्विजसत्तम +इति लोकमनाक्रन्दं मोहशोकपरिप्लुतम् +स्रोतसासकृदाक्षिप्तं ह्रियमाणं बलीयसा +न म्रियेयुर्न जीर्येयुः सर्वे स्युः सार्वकामिकाः +नाप्रियं प्रतिपश्येयुर्वशित्वं यदि वै भवेत् +उपर्युपरि लोकस्य सर्वो गन्तुं समीहते +यतते च यथाशक्ति न च तद्वर्तते तथा +बहवः संप्रदृश्यन्ते तुल्यनक्षत्रमङ्गलाः +महच्च फलवैषम्यं दृश्यते कर्मसंधिषु +न कश्चिदीशते ब्रह्मन्स्वयंग्राहस्य सत्तम +कर्मणां प्राकृतानां वै इह सिद्धिः प्रदृश्यते +यथा श्रुतिरियं ब्रह्मञ्जीवः किल सनातनः +शरीरमध्रुवं लोके सर्वेषां प्राणिनामिह +वध्यमाने शरीरे तु देहनाशो भवत्युत +जीवः संक्रमतेऽन्यत्र कर्मबन्धनिबन्धनः +ब्राह्मण उवाच +कथं धर्मभृतां श्रेष्ठ जीवो भवति शाश्वतः +एतदिच्छाम्यहं ज्ञातुं तत्त्वेन वदतां वर +व्याध उवाच +न जीवनाशोऽस्ति हि देहभेदे; मिथ्यैतदाहुर्म्रियतेति मूढाः +जीवस्तु देहान्तरितः प्रयाति; दशार्धतैवास्य शरीरभेदः +अन्यो हि नाश्नाति कृतं हि कर्म; स एव कर्ता सुखदुःखभागी +यत्तेन किंचिद्धि कृतं हि कर्म; तदश्नुते नास्ति कृतस्य नाशः +अपुण्यशीलाश्च भवन्ति पुण्या; नरोत्तमाः पापकृतो भवन्ति +नरोऽनुयातस्त्विह कर्मभिः स्वै;स्ततः समुत्पद्यति भावितस्तैः +ब्राह्मण उवाच +कथं संभवते योनौ कथं वा पुण्यपापयोः +जातीः पुण्या ह्यपुण्याश्च कथं गच्छति सत्तम +व्याध उवाच +गर्भाधानसमायुक्तं कर्मेदं संप्रदृश्यते +समासेन तु ते क्षिप्रं प्रवक्ष्यामि द्विजोत्तम +यथा संभृतसंभारः पुनरेव प्रजायते +शुभकृच्छुभयोनीषु पापकृत्पापयोनिषु +शुभैः प्रयोगैर्देवत्वं व्यामिश्रैर्मानुषो भवेत् +मोहनीयैर्वियोनीषु त्वधोगामी च किल्बिषैः +जातिमृत्युजरादुःखैः सततं समभिद्रुतः +संसारे पच्यमानश्च दोषैरात्मकृतैर्नरः +तिर्यग्योनिसहस्राणि गत्वा नरकमेव च +जीवाः संपरिवर्तन्ते कर्मबन्धनिबन्धनाः +जन्त��स्तु कर्मभिस्तैस्तैः स्वकृतैः प्रेत्य दुःखितः +तद्दुःखप्रतिघातार्थमपुण्यां योनिमश्नुते +ततः कर्म समादत्ते पुनरन्यन्नवं बहु +पच्यते तु पुनस्तेन भुक्त्वापथ्यमिवातुरः +अजस्रमेव दुःखार्तोऽदुःखितः सुखसंज्ञितः +ततोऽनिवृत्तबन्धत्वात्कर्मणामुदयादपि +परिक्रामति संसारे चक्रवद्बहुवेदनः +स चेन्निवृत्तबन्धस्तु विशुद्धश्चापि कर्मभिः +प्राप्नोति सुकृताँल्लोकान्यत्र गत्वा न शोचति +पापं कुर्वन्पापवृत्तः पापस्यान्तं न गच्छति +तस्मात्पुण्यं यतेत्कर्तुं वर्जयेत च पातकम् +अनसूयुः कृतज्ञश्च कल्याणान्येव सेवते +सुखानि धर्ममर्थं च स्वर्गं च लभते नरः +संस्कृतस्य हि दान्तस्य नियतस्य यतात्मनः +प्राज्ञस्यानन्तरा वृत्तिरिह लोके परत्र च +सतां धर्मेण वर्तेत क्रियां शिष्टवदाचरेत् +असंक्लेशेन लोकस्य वृत्तिं लिप्सेत वै द्विज +सन्ति ह्यागतविज्ञानाः शिष्टाः शास्त्रविचक्षणाः +स्वधर्मेण क्रिया लोके कर्मणः सोऽप्यसंकरः +प्राज्ञो धर्मेण रमते धर्मं चैवोपजीवति +तस्य धर्मादवाप्तेषु धनेषु द्विजसत्तम +तस्यैव सिञ्चते मूलं गुणान्पश्यति यत्र वै +धर्मात्मा भवति ह्येवं चित्तं चास्य प्रसीदति +स मैत्रजनसंतुष्ट इह प्रेत्य च नन्दति +शब्दं स्पर्शं तथा रूपं गन्धानिष्टांश्च सत्तम +प्रभुत्वं लभते चापि धर्मस्यैतत्फलं विदुः +धर्मस्य च फलं लब्ध्वा न तृप्यति महाद्विज +अतृप्यमाणो निर्वेदमादत्ते ज्ञानचक्षुषा +प्रज्ञाचक्षुर्नर इह दोषं नैवानुरुध्यते +विरज्यति यथाकामं न च धर्मं विमुञ्चति +सर्वत्यागे च यतते दृष्ट्वा लोकं क्षयात्मकम् +ततो मोक्षे प्रयतते नानुपायादुपायतः +एवं निर्वेदमादत्ते पापं कर्म जहाति च +धार्मिकश्चापि भवति मोक्षं च लभते परम् +तपो निःश्रेयसं जन्तोस्तस्य मूलं शमो दमः +तेन सर्वानवाप्नोति कामान्यान्मनसेच्छति +इन्द्रियाणां निरोधेन सत्येन च दमेन च +ब्रह्मणः पदमाप्नोति यत्परं द्विजसत्तम +ब्राह्मण उवाच +इन्द्रियाणि तु यान्याहुः कानि तानि यतव्रत +निग्रहश्च कथं कार्यो निग्रहस्य च किं फलम् +कथं च फलमाप्नोति तेषां धर्मभृतां वर +एतदिच्छामि तत्त्वेन धर्मं ज्ञातुं सुधार्मिक +मार्कण्डेय उवाच +एवमुक्तस्तु विप्रेण धर्मव्याधो युधिष्ठिर +प्रत्युवाच यथा विप्रं तच्छृणुष्व नराधिप +व्याध उवाच +विज्ञानार्थं मनुष्याणां मनः पूर्वं प्रवर्तते +तत्प्राप्य कामं भजते क्रोधं च द्विजसत्तम +ततस्तदर्थं यतते कर्म चारभते महत् +इष्टानां रूपगन्धानामभ्यासं च निषेवते +ततो रागः प्रभवति द्वेषश्च तदनन्तरम् +ततो लोभः प्रभवति मोहश्च तदनन्तरम् +तस्य लोभाभिभूतस्य रागद्वेषहतस्य च +न धर्मे जायते बुद्धिर्व्याजाद्धर्मं करोति च +व्याजेन चरते धर्ममर्थं व्याजेन रोचते +व्याजेन सिध्यमानेषु धनेषु द्विजसत्तम +तत्रैव रमते बुद्धिस्ततः पापं चिकीर्षति +सुहृद्भिर्वार्यमाणश्च पण्डितैश्च द्विजोत्तम +उत्तरं श्रुतिसंबद्धं ब्रवीति श्रुतियोजितम् +अधर्मस्त्रिविधस्तस्य वर्धते रागदोषतः +पापं चिन्तयते चापि ब्रवीति च करोति च +तस्याधर्मप्रवृत्तस्य गुणा नश्यन्ति साधवः +एकशीलाश्च मित्रत्वं भजन्ते पापकर्मिणः +स तेनासुखमाप्नोति परत्र च विहन्यते +पापात्मा भवति ह्येवं धर्मलाभं तु मे शृणु +यस्त्वेतान्प्रज्ञया दोषान्पूर्वमेवानुपश्यति +कुशलः सुखदुःखेषु साधूंश्चाप्युपसेवते +तस्य साधुसमारम्भाद्बुद्धिर्धर्मेषु जायते +ब्राह्मण उवाच +ब्रवीषि सूनृतं धर्मं यस्य वक्ता न विद्यते +दिव्यप्रभावः सुमहानृषिरेव मतोऽसि मे +व्याध उवाच +ब्राह्मणा वै महाभागाः पितरोऽग्रभुजः सदा +तेषां सर्वात्मना कार्यं प्रियं लोके मनीषिणा +यत्तेषां च प्रियं तत्ते वक्ष्यामि द्विजसत्तम +नमस्कृत्वा ब्राह्मणेभ्यो ब्राह्मीं विद्यां निबोध मे +इदं विश्वं जगत्सर्वमजय्यं चापि सर्वशः +महाभूतात्मकं ब्रह्मन्नातः परतरं भवेत् +महाभूतानि खं वायुरग्निरापस्तथा च भूः +शब्दः स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणाः +तेषामपि गुणाः सर्वे गुणवृत्तिः परस्परम् +पूर्वपूर्वगुणाः सर्वे क्रमशो गुणिषु त्रिषु +षष्ठस्तु चेतना नाम मन इत्यभिधीयते +सप्तमी तु भवेद्बुद्धिरहंकारस्ततः परम् +इन्द्रियाणि च पञ्चैव रजः सत्त्वं तमस्तथा +इत्येष सप्तदशको राशिरव्यक्तसंज्ञकः +सर्वैरिहेन्द्रियार्थैस्तु व्यक्ताव्यक्तैः सुसंवृतः +चतुर्विंशक इत्येष व्यक्ताव्यक्तमयो गुणः +एतत्ते सर्वमाख्यातं किं भूयो श्रोतुमिच्छसि +मार्कण्डेय उवाच +एवमुक्तः स विप्रस्तु धर्मव्याधेन भारत +कथामकथयद्भूयो मनसः प्रीतिवर्धनीम् +ब्राह्मण +महाभूतानि यान्याहुः पञ्च धर्मविदां वर +एकैकस्य गुणान्सम्यक्पञ्चानामपि मे वद +व्��ाध उवाच +भूमिरापस्तथा ज्योतिर्वायुराकाशमेव च +गुणोत्तराणि सर्वाणि तेषां वक्ष्यामि ते गुणान् +भूमिः पञ्चगुणा ब्रह्मन्नुदकं च चतुर्गुणम् +गुणास्त्रयस्तेजसि च त्रयश्चाकाशवातयोः +शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः +एते गुणाः पञ्च भूमेः सर्वेभ्यो गुणवत्तराः +शब्दः स्पर्शश्च रूपं च रसश्चापि द्विजोत्तम +अपामेते गुणा ब्रह्मन्कीर्तितास्तव सुव्रत +शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः +शब्दः स्पर्शश्च वायौ तु शब्द आकाश एव च +एते पञ्चदश ब्रह्मन्गुणा भूतेषु पञ्चसु +वर्तन्ते सर्वभूतेषु येषु लोकाः प्रतिष्ठिताः +अन्योन्यं नातिवर्तन्ते संपच्च भवति द्विज +यदा तु विषमीभावमाचरन्ति चराचराः +तदा देही देहमन्यं व्यतिरोहति कालतः +आनुपूर्व्या विनश्यन्ति जायन्ते चानुपूर्वशः +तत्र तत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः +यैरावृतमिदं सर्वं जगत्स्थावरजङ्गमम् +इन्द्रियैः सृज्यते यद्यत्तत्तद्व्यक्तमिति स्मृतम् +अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम् +यथास्वं ग्राहकान्येषां शब्दादीनामिमानि तु +इन्द्रियाणि यदा देही धारयन्निह तप्यते +लोके विततमात्मानं लोकं चात्मनि पश्यति +परावरज्ञः सक्तः सन्सर्वभूतानि पश्यति +पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा +ब्रह्मभूतस्य संयोगो नाशुभेनोपपद्यते +ज्ञानमूलात्मकं क्लेशमतिवृत्तस्य मोहजम् +लोको बुद्धिप्रकाशेन ज्ञेयमार्गेण दृश्यते +अनादिनिधनं जन्तुमात्मयोनिं सदाव्ययम् +अनौपम्यममूर्तं च भगवानाह बुद्धिमान् +तपोमूलमिदं सर्वं यन्मां विप्रानुपृच्छसि +इन्द्रियाण्येव तत्सर्वं यत्स्वर्गनरकावुभौ +निगृहीतविसृष्टानि स्वर्गाय नरकाय च +एष योगविधिः कृत्स्नो यावदिन्द्रियधारणम् +एतन्मूलं हि तपसः कृत्स्नस्य नरकस्य च +इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम् +संनियम्य तु तान्येव ततः सिद्धिमवाप्नुते +षण्णामात्मनि नित्यानामैश्वर्यं योऽधिगच्छति +न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रियः +रथः शरीरं पुरुषस्य दृष्ट;मात्मा नियन्तेन्द्रियाण्याहुरश्वान् +तैरप्रमत्तः कुशली सदश्वै;र्दान्तैः सुखं याति रथीव धीरः +षण्णामात्मनि नित्यानामिन्द्रियाणां प्रमाथिनाम् +यो धीरो धारयेद्रश्मीन्स स्यात्परमसारथिः +इन्द्रियाणां प्रसृष्टानां हयानामिव ���र्त्मसु +धृतिं कुर्वीत सारथ्ये धृत्या तानि जयेद्ध्रुवम् +इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते +तदस्य हरते बुद्धिं नावं वायुरिवाम्भसि +येषु विप्रतिपद्यन्ते षट्सु मोहात्फलागमे +तेष्वध्यवसिताध्यायी विन्दते ध्यानजं फलम् +मार्कण्डेय उवाच +एवं तु सूक्ष्मे कथिते धर्मव्याधेन भारत +ब्राह्मणः स पुनः सूक्ष्मं पप्रच्छ सुसमाहितः +ब्राह्मण उवाच +सत्त्वस्य रजसश्चैव तमसश्च यथातथम् +गुणांस्तत्त्वेन मे ब्रूहि यथावदिह पृच्छतः +व्याध उवाच +हन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि +एषां गुणान्पृथक्त्वेन निबोध गदतो मम +मोहात्मकं तमस्तेषां रज एषां प्रवर्तकम् +प्रकाशबहुलत्वाच्च सत्त्वं ज्याय इहोच्यते +अविद्याबहुलो मूढः स्वप्नशीलो विचेतनः +दुर्दृशीकस्तमोध्वस्तः सक्रोधस्तामसोऽलसः +प्रवृत्तवाक्यो मन्त्री च योऽनुराग्यभ्यसूयकः +विवित्समानो विप्रर्षे स्तब्धो मानी स राजसः +प्रकाशबहुलो धीरो निर्विवित्सोऽनसूयकः +अक्रोधनो नरो धीमान्दान्तश्चैव स सात्त्विकः +सात्त्विकस्त्वथ संबुद्धो लोकवृत्तेन क्लिश्यते +यदा बुध्यति बोद्धव्यं लोकवृत्तं जुगुप्सते +वैराग्यस्य हि रूपं तु पूर्वमेव प्रवर्तते +मृदुर्भवत्यहंकारः प्रसीदत्यार्जवं च यत् +ततोऽस्य सर्वद्वंद्वानि प्रशाम्यन्ति परस्परम् +न चास्य संयमो नाम क्वचिद्भवति कश्चन +शूद्रयोनौ हि जातस्य सद्गुणानुपतिष्ठतः +वैश्यत्वं भवति ब्रह्मन्क्षत्रियत्वं तथैव च +आर्जवे वर्तमानस्य ब्राह्मण्यमभिजायते +गुणास्ते कीर्तिताः सर्वे किं भूयः श्रोतुमिच्छसि +ब्राह्मण उवाच +पार्थिवं धातुमासाद्य शारीरोऽग्निः कथं भवेत् +अवकाशविशेषेण कथं वर्तयतेऽनिलः +मार्कण्डेय उवाच +प्रश्नमेतं समुद्दिष्टं ब्राह्मणेन युधिष्ठिर +व्याधः स कथयामास ब्राह्मणाय महात्मने +व्याध उवाच +मूर्धानमाश्रितो वह्निः शरीरं परिपालयन् +प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टते +भूतं भव्यं भविष्यच्च सर्वं प्राणे प्रतिष्ठितम् +श्रेष्ठं तदेव भूतानां ब्रह्मज्योतिरुपास्महे +स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः +मनो बुद्धिरहंकारो भूतानां विषयश्च सः +एवं त्विह स सर्वत्र प्राणेन परिपाल्यते +पृष्ठतस्तु समानेन स्वां स्वां गतिमुपाश्रितः +बस्तिमूले गुदे चैव पावकः समुपाश्रितः +वहन्मूत्रं पुरीषं चाप्यपानः परिवर्तते +प्रयत्ने कर्मणि बले य एकस्त्रिषु वर्तते +उदान इति तं प्राहुरध्यात्मविदुषो जनाः +संधौ संधौ संनिविष्टः सर्वेष्वपि तथानिलः +शरीरेषु मनुष्याणां व्यान इत्युपदिष्यते +धातुष्वग्निस्तु विततः स तु वायुसमीरितः +रसान्धातूंश्च दोषांश्च वर्तयन्परिधावति +प्राणानां संनिपातात्तु संनिपातः प्रजायते +ऊष्मा चाग्निरिति ज्ञेयो योऽन्नं पचति देहिनाम् +अपानोदानयोर्मध्ये प्राणव्यानौ समाहितौ +समन्वितस्त्वधिष्ठानं सम्यक्पचति पावकः +तस्यापि पायुपर्यन्तस्तथा स्याद्गुदसंज्ञितः +स्रोतांसि तस्माज्जायन्ते सर्वप्राणेषु देहिनाम् +अग्निवेगवहः प्राणो गुदान्ते प्रतिहन्यते +स ऊर्ध्वमागम्य पुनः समुत्क्षिपति पावकम् +पक्वाशयस्त्वधो नाभ्या ऊर्ध्वमामाशयः स्थितः +नाभिमध्ये शरीरस्य प्राणाः सर्वे प्रतिष्ठिताः +प्रवृत्ता हृदयात्सर्वास्तिर्यगूर्ध्वमधस्तथा +वहन्त्यन्नरसान्नाड्यो दश प्राणप्रचोदिताः +योगिनामेष मार्गस्तु येन गच्छन्ति तत्परम् +जितक्लमासना धीरा मूर्धन्यात्मानमादधुः +एवं सर्वेषु विततौ प्राणापानौ हि देहिषु +एकादशविकारात्मा कलासंभारसंभृतः +मूर्तिमन्तं हि तं विद्धि नित्यं कर्मजितात्मकम् +तस्मिन्यः संस्थितो ह्यग्निर्नित्यं स्थाल्यामिवाहितः +आत्मानं तं विजानीहि नित्यं योगजितात्मकम् +देवो यः संस्थितस्तस्मिन्नब्बिन्दुरिव पुष्करे +क्षेत्रज्ञं तं विजानीहि नित्यं त्यागजितात्मकम् +जीवात्मकानि जानीहि रजः सत्त्वं तमस्तथा +जीवमात्मगुणं विद्धि तथात्मानं परात्मकम् +सचेतनं जीवगुणं वदन्ति; स चेष्टते चेष्टयते च सर्वम् +ततः परं क्षेत्रविदो वदन्ति; प्राकल्पयद्यो भुवनानि सप्त +एवं सर्वेषु भूतेषु भूतात्मा न प्रकाशते +दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया ज्ञानवेदिभिः +चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् +प्रसन्नात्मात्मनि स्थित्वा सुखमानन्त्यमश्नुते +लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत् +निवाते वा यथा दीपो दीप्येत्कुशलदीपितः +पूर्वरात्रे परे चैव युञ्जानः सततं मनः +लघ्वाहारो विशुद्धात्मा पश्यन्नात्मानमात्मनि +प्रदीप्तेनेव दीपेन मनोदीपेन पश्यति +दृष्ट्वात्मानं निरात्मानं तदा स तु विमुच्यते +सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः +एतत्पवित्रं यज्ञानां तप��� वै संक्रमो मतः +नित्यं क्रोधात्तपो रक्षेच्छ्रियं रक्षेत मत्सरात् +विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः +आनृशंस्यं परो धर्मः क्षमा च परमं बलम् +आत्मज्ञानं परं ज्ञानं परं सत्यव्रतं व्रतम् +सत्यस्य वचनं श्रेयः सत्यं ज्ञानं हितं भवेत् +यद्भूतहितमत्यन्तं तद्वै सत्यं परं मतम् +यस्य सर्वे समारम्भाः निराशीर्बन्धनाः सदा +त्यागे यस्य हुतं सर्वं स त्यागी स च बुद्धिमान् +यतो न गुरुरप्येनं च्यावयेदुपपादयन् +तं विद्याद्ब्रह्मणो योगं वियोगं योगसंज्ञितम् +न हिंस्यात्सर्वभूतानि मैत्रायणगतश्चरेत् +नेदं जीवितमासाद्य वैरं कुर्वीत केनचित् +आकिंचन्यं सुसंतोषो निराशित्वमचापलम् +एतदेव परं ज्ञानं सदात्मज्ञानमुत्तमम् +परिग्रहं परित्यज्य भव बुद्ध्या यतव्रतः +अशोकं स्थानमातिष्ठेन्निश्चलं प्रेत्य चेह च +तपोनित्येन दान्तेन मुनिना संयतात्मना +अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना +गुणागुणमनासङ्गमेककार्यमनन्तरम् +एतद्ब्राह्मण ते वृत्तमाहुरेकपदं सुखम् +परित्यजति यो दुःखं सुखं चाप्युभयं नरः +ब्रह्म प्राप्नोति सोऽत्यन्तमसङ्गेन च गच्छति +यथाश्रुतमिदं सर्वं समासेन द्विजोत्तम +एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि +मार्कण्डेय उवाच +एवं संकथिते कृत्स्ने मोक्षधर्मे युधिष्ठिर +दृढं प्रीतमना विप्रो धर्मव्याधमुवाच ह +न्याययुक्तमिदं सर्वं भवता परिकीर्तितम् +न तेऽस्त्यविदितं किंचिद्धर्मेष्विह हि दृश्यते +व्याध उवाच +प्रत्यक्षं मम यो धर्मस्तं पश्य द्विजसत्तम +येन सिद्धिरियं प्राप्ता मया ब्राह्मणपुंगव +उत्तिष्ठ भगवन्क्षिप्रं प्रविश्याभ्यन्तरं गृहम् +द्रष्टुमर्हसि धर्मज्ञ मातरं पितरं च मे +मार्कण्डेय उवाच +इत्युक्तः स प्रविश्याथ ददर्श परमार्चितम् +सौधं हृद्यं चतुःशालमतीव च मनोहरम् +देवतागृहसंकाशं दैवतैश्च सुपूजितम् +शयनासनसंबाधं गन्धैश्च परमैर्युतम् +तत्र शुक्लाम्बरधरौ पितरावस्य पूजितौ +कृताहारौ सुतुष्टौ तावुपविष्टौ वरासने +धर्मव्याधस्तु तौ दृष्ट्वा पादेषु शिरसापतत् +वृद्धावूचतुः +उत्तिष्ठोत्तिष्ठ धर्मज्ञ धर्मस्त्वामभिरक्षतु +प्रीतौ स्वस्तव शौचेन दीर्घमायुरवाप्नुहि +सत्पुत्रेण त्वया पुत्र नित्यकालं सुपूजितौ +न तेऽन्यद्दैवतं किंचिद्दैवतेष्वपि वर्तते +प्रयतत्वाद्द्विज��तीनां दमेनासि समन्वितः +पितुः पितामहा ये च तथैव प्रपितामहाः +प्रीतास्ते सततं पुत्र दमेनावां च पूजया +मनसा कर्मणा वाचा शुश्रूषा नैव हीयते +न चान्या वितथा बुद्धिर्दृश्यते सांप्रतं तव +जामदग्न्येन रामेण यथा वृद्धौ सुपूजितौ +तथा त्वया कृतं सर्वं तद्विशिष्टं च पुत्रक +मार्कण्डेय उवाच +ततस्तं ब्राह्मणं ताभ्यां धर्मव्याधो न्यवेदयत् +तौ स्वागतेन तं विप्रमर्चयामासतुस्तदा +प्रतिगृह्य च तां पूजां द्विजः पप्रच्छ तावुभौ +सपुत्राभ्यां सभृत्याभ्यां कच्चिद्वां कुशलं गृहे +अनामयं च वां कच्चित्सदैवेह शरीरयोः +वृद्धावूचतुः +कुशलं नो गृहे विप्र भृत्यवर्गे च सर्वशः +कच्चित्त्वमप्यविघ्नेन संप्राप्तो भगवन्निह +मार्कण्डेय उवाच +बाढमित्येव तौ विप्रः प्रत्युवाच मुदान्वितः +धर्मव्याधस्तु तं विप्रमर्थवद्वाक्यमब्रवीत् +पिता माता च भगवन्नेतौ मे दैवतं परम् +यद्दैवतेभ्यः कर्तव्यं तदेताभ्यां करोम्यहम् +त्रयस्त्रिंशद्यथा देवाः सर्वे शक्रपुरोगमाः +संपूज्याः सर्वलोकस्य तथा वृद्धाविमौ मम +उपहारानाहरन्तो देवतानां यथा द्विजाः +कुर्वते तद्वदेताभ्यां करोम्यहमतन्द्रितः +एतौ मे परमं ब्रह्मन्पिता माता च दैवतम् +एतौ पुष्पैः फलै रत्नैस्तोषयामि सदा द्विज +एतावेवाग्नयो मह्यं यान्वदन्ति मनीषिणः +यज्ञा वेदाश्च चत्वारः सर्वमेतौ मम द्विज +एतदर्थं मम प्राणा भार्या पुत्राः सुहृज्जनाः +सपुत्रदारः शुश्रूषां नित्यमेव करोम्यहम् +स्वयं च स्नापयाम्येतौ तथा पादौ प्रधावये +आहारं संप्रयच्छामि स्वयं च द्विजसत्तम +अनुकूलाः कथा वच्मि विप्रियं परिवर्जयन् +अधर्मेणापि संयुक्तं प्रियमाभ्यां करोम्यहम् +धर्ममेव गुरुं ज्ञात्वा करोमि द्विजसत्तम +अतन्द्रितः सदा विप्र शुश्रूषां वै करोम्यहम् +पञ्चैव गुरवो ब्रह्मन्पुरुषस्य बुभूषतः +पिता माताग्निरात्मा च गुरुश्च द्विजसत्तम +एतेषु यस्तु वर्तेत सम्यगेव द्विजोत्तम +भवेयुरग्नयस्तस्य परिचीर्णास्तु नित्यशः +गार्हस्थ्ये वर्तमानस्य धर्म एष सनातनः +मार्कण्डेय उवाच +गुरू निवेद्य विप्राय तौ मातापितरावुभौ +पुनरेव स धर्मात्मा व्याधो ब्राह्मणमब्रवीत् +प्रवृत्तचक्षुर्जातोऽस्मि संपश्य तपसो बलम् +यदर्थमुक्तोऽसि तया गच्छस्व मिथिलामिति +पतिशुश्रूषपरया दान्तया सत्यशीलया +मिथिलायां वसन्व्���ाधः स ते धर्मान्प्रवक्ष्यति +ब्राह्मण उवाच +पतिव्रतायाः सत्यायाः शीलाढ्याया यतव्रत +संस्मृत्य वाक्यं धर्मज्ञ गुणवानसि मे मतः +व्याध उवाच +यत्तदा त्वं द्विजश्रेष्ठ तयोक्तो मां प्रति प्रभो +दृष्टमेतत्तया सम्यगेकपत्न्या न संशयः +त्वदनुग्रहबुद्ध्या तु विप्रैतद्दर्शितं मया +वाक्यं च शृणु मे तात यत्ते वक्ष्ये हितं द्विज +त्वया विनिकृता माता पिता च द्विजसत्तम +अनिसृष्टोऽसि निष्क्रान्तो गृहात्ताभ्यामनिन्दित +वेदोच्चारणकार्यार्थमयुक्तं तत्त्वया कृतम् +तव शोकेन वृद्धौ तावन्धौ जातौ तपस्विनौ +तौ प्रसादयितुं गच्छ मा त्वा धर्मोऽत्यगान्महान् +तपस्वी त्वं महात्मा च धर्मे च निरतः सदा +सर्वमेतदपार्थं ते क्षिप्रं तौ संप्रसादय +श्रद्दधस्व मम ब्रह्मन्नान्यथा कर्तुमर्हसि +गम्यतामद्य विप्रर्षे श्रेयस्ते कथयाम्यहम् +ब्राह्मण उवाच +यदेतदुक्तं भवता सर्वं सत्यमसंशयम् +प्रीतोऽस्मि तव धर्मज्ञ साध्वाचार गुणान्वित +व्याध उवाच +दैवतप्रतिमो हि त्वं यस्त्वं धर्ममनुव्रतः +पुराणं शाश्वतं दिव्यं दुष्प्रापमकृतात्मभिः +अतन्द्रितः कुरु क्षिप्रं मातापित्रोर्हि पूजनम् +अतः परमहं धर्मं नान्यं पश्यामि कंचन +ब्राह्मण उवाच +इहाहमागतो दिष्ट्या दिष्ट्या मे संगतं त्वया +ईदृशा दुर्लभा लोके नरा धर्मप्रदर्शकाः +एको नरसहस्रेषु धर्मविद्विद्यते न वा +प्रीतोऽस्मि तव सत्येन भद्रं ते पुरुषोत्तम +पतमानो हि नरके भवतास्मि समुद्धृतः +भवितव्यमथैवं च यद्दृष्टोऽसि मयानघ +राजा ययातिर्दौहित्रैः पतितस्तारितो यथा +सद्भिः पुरुषशार्दूल तथाहं भवता त्विह +मातापितृभ्यां शुश्रूषां करिष्ये वचनात्तव +नाकृतात्मा वेदयति धर्माधर्मविनिश्चयम् +दुर्ज्ञेयः शाश्वतो धर्मः शूद्रयोनौ हि वर्तता +न त्वां शूद्रमहं मन्ये भवितव्यं हि कारणम् +येन कर्मविपाकेन प्राप्तेयं शूद्रता त्वया +एतदिच्छामि विज्ञातुं तत्त्वेन हि महामते +कामया ब्रूहि मे तथ्यं सर्वं त्वं प्रयतात्मवान् +व्याध उवाच +अनतिक्रमणीया हि ब्राह्मणा वै द्विजोत्तम +शृणु सर्वमिदं वृत्तं पूर्वदेहे ममानघ +अहं हि ब्राह्मणः पूर्वमासं द्विजवरात्मज +वेदाध्यायी सुकुशलो वेदाङ्गानां च पारगः +आत्मदोषकृतैर्ब्रह्मन्नवस्थां प्राप्तवानिमाम् +कश्चिद्राजा मम सखा धनुर्वेदपरायणः +संसर्गाद्धनुषि ���्रेष्ठस्ततोऽहमभवं द्विज +एतस्मिन्नेव काले तु मृगयां निर्गतो नृपः +सहितो योधमुख्यैश्च मन्त्रिभिश्च सुसंवृतः +ततोऽभ्यहन्मृगांस्तत्र सुबहूनाश्रमं प्रति +अथ क्षिप्तः शरो घोरो मयापि द्विजसत्तम +ताडितश्च मुनिस्तेन शरेणानतपर्वणा +भूमौ निपतितो ब्रह्मन्नुवाच प्रतिनादयन् +नापराध्याम्यहं किंचित्केन पापमिदं कृतम् +मन्वानस्तं मृगं चाहं संप्राप्तः सहसा मुनिम् +अपश्यं तमृषिं विद्धं शरेणानतपर्वणा +तमुग्रतपसं विप्रं निष्टनन्तं महीतले +अकार्यकरणाच्चापि भृशं मे व्यथितं मनः +अजानता कृतमिदं मयेत्यथ तमब्रुवम् +क्षन्तुमर्हसि मे ब्रह्मन्निति चोक्तो मया मुनिः +ततः प्रत्यब्रवीद्वाक्यमृषिर्मां क्रोधमूर्छितः +व्याधस्त्वं भविता क्रूर शूद्रयोनाविति द्विज +व्याध उवाच +एवं शप्तोऽहमृषिणा तदा द्विजवरोत्तम +अभिप्रसादयमृषिं गिरा वाक्यविशारदम् +अजानता मयाकार्यमिदमद्य कृतं मुने +क्षन्तुमर्हसि तत्सर्वं प्रसीद भगवन्निति +ऋषिरुवाच +नान्यथा भविता शाप एवमेतदसंशयम् +आनृशंस्यादहं किंचित्कर्तानुग्रहमद्य ते +शूद्रयोनौ वर्तमानो धर्मज्ञो भविता ह्यसि +मातापित्रोश्च शुश्रूषां करिष्यसि न संशयः +तया शुश्रूषया सिद्धिं महतीं समवाप्स्यसि +जातिस्मरश्च भविता स्वर्गं चैव गमिष्यसि +शापक्षयान्ते निर्वृत्ते भवितासि पुनर्द्विजः +व्याध उवाच +एवं शप्तः पुरा तेन ऋषिणास्म्युग्रतेजसा +प्रसादश्च कृतस्तेन ममैवं द्विपदां वर +शरं चोद्धृतवानस्मि तस्य वै द्विजसत्तम +आश्रमं च मया नीतो न च प्राणैर्व्ययुज्यत +एतत्ते सर्वमाख्यातं यथा मम पुराभवत् +अभितश्चापि गन्तव्यं मया स्वर्गं द्विजोत्तम +ब्राह्मण उवाच +एवमेतानि पुरुषा दुःखानि च सुखानि च +प्राप्नुवन्ति महाबुद्धे नोत्कण्ठां कर्तुमर्हसि +दुष्करं हि कृतं तात जानता जातिमात्मनः +कर्मदोषश्च वै विद्वन्नात्मजातिकृतेन वै +कंचित्कालं मृष्यतां वै ततोऽसि भविता द्विजः +सांप्रतं च मतो मेऽसि ब्राह्मणो नात्र संशयः +ब्राह्मणः पतनीयेषु वर्तमानो विकर्मसु +दाम्भिको दुष्कृतप्रायः शूद्रेण सदृशो भवेत् +यस्तु शूद्रो दमे सत्ये धर्मे च सततोत्थितः +तं ब्राह्मणमहं मन्ये वृत्तेन हि भवेद्द्विजः +कर्मदोषेण विषमां गतिमाप्नोति दारुणाम् +क्षीणदोषमहं मन्ये चाभितस्त्वां नरोत्तम +कर्तुमर्हसि नोत्क��्ठां त्वद्विधा ह्यविषादिनः +लोकवृत्तान्तवृत्तज्ञा नित्यं धर्मपरायणाः +व्याध उवाच +प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः +एतद्विज्ञानसामर्थ्यं न बालैः समतां व्रजेत् +अनिष्टसंप्रयोगाच्च विप्रयोगात्प्रियस्य च +मानुषा मानसैर्दुःखैर्युज्यन्ते अल्पबुद्धयः +गुणैर्भूतानि युज्यन्ते वियुज्यन्ते तथैव च +सर्वाणि नैतदेकस्य शोकस्थानं हि विद्यते +अनिष्टेनान्वितं पश्यंस्तथा क्षिप्रं विरज्यते +ततश्च प्रतिकुर्वन्ति यदि पश्यन्त्युपक्रमम् +शोचतो न भवेत्किंचित्केवलं परितप्यते +परित्यजन्ति ये दुःखं सुखं वाप्युभयं नराः +त एव सुखमेधन्ते ज्ञानतृप्ता मनीषिणः +असंतोषपरा मूढाः संतोषं यान्ति पण्डिताः +असंतोषस्य नास्त्यन्तस्तुष्टिस्तु परमं सुखम् +न शोचन्ति गताध्वानः पश्यन्तः परमां गतिम् +न विषादे मनः कार्यं विषादो विषमुत्तमम् +मारयत्यकृतप्रज्ञं बालं क्रुद्ध इवोरगः +यं विषादोऽभिभवति विषमे समुपस्थिते +तेजसा तस्य हीनस्य पुरुषार्थो न विद्यते +अवश्यं क्रियमाणस्य कर्मणो दृश्यते फलम् +न हि निर्वेदमागम्य किंचित्प्राप्नोति शोभनम् +अथाप्युपायं पश्येत दुःखस्य परिमोक्षणे +अशोचन्नारभेतैव युक्तश्चाव्यसनी भवेत् +भूतेष्वभावं संचिन्त्य ये तु बुद्धेः परं गताः +न शोचन्ति कृतप्रज्ञाः पश्यन्तः परमां गतिम् +न शोचामि च वै विद्वन्कालाकाङ्क्षी स्थितोऽस्म्यहम् +एतैर्निदर्शनैर्ब्रह्मन्नावसीदामि सत्तम +ब्राह्मण उवाच +कृतप्रज्ञोऽसि मेधावी बुद्धिश्च विपुला तव +नाहं भवन्तं शोचामि ज्ञानतृप्तोऽसि धर्मवित् +आपृच्छे त्वां स्वस्ति तेऽस्तु धर्मस्त्वा परिरक्षतु +अप्रमादस्तु कर्तव्यो धर्मे धर्मभृतां वर +मार्कण्डेय उवाच +बाढमित्येव तं व्याधः कृताञ्जलिरुवाच ह +प्रदक्षिणमथो कृत्वा प्रस्थितो द्विजसत्तमः +स तु गत्वा द्विजः सर्वां शुश्रूषां कृतवांस्तदा +मातापितृभ्यां वृद्धाभ्यां यथान्यायं सुसंशितः +एतत्ते सर्वमाख्यातं निखिलेन युधिष्ठिर +पृष्टवानसि यं तात धर्मं धर्मभृतां वर +पतिव्रताया माहात्म्यं ब्राह्मणस्य च सत्तम +मातापित्रोश्च शुश्रूषा व्याधे धर्मश्च कीर्तितः +युधिष्ठिर उवाच +अत्यद्भुतमिदं ब्रह्मन्धर्माख्यानमनुत्तमम् +सर्वधर्मभृतां श्रेष्ठ कथितं द्विजसत्तम +सुखश्रव्यतया विद्वन्मुहूर्तमिव मे गतम् +न हि तृप्तोऽस्मि भगवञ्शृण्वानो धर्ममुत्तमम् +वैशंपायन उवाच +श्रुत्वेमां धर्मसंयुक्तां धर्मराजः कथां शुभाम् +पुनः पप्रच्छ तमृषिं मार्कण्डेयं तपस्विनम् +युधिष्ठिर उवाच +कथमग्निर्वनं यातः कथं चाप्यङ्गिराः पुरा +नष्टेऽग्नौ हव्यमवहदग्निर्भूत्वा महानृषिः +अग्निर्यदा त्वेक एव बहुत्वं चास्य कर्मसु +दृश्यते भगवन्सर्वमेतदिच्छामि वेदितुम् +कुमारश्च यथोत्पन्नो यथा चाग्नेः सुतोऽभवत् +यथा रुद्राच्च संभूतो गङ्गायां कृत्तिकासु च +एतदिच्छाम्यहं त्वत्तः श्रोतुं भार्गवनन्दन +कौतूहलसमाविष्टो यथातथ्यं महामुने +मार्कण्डेय उवाच +अत्राप्युदाहरन्तीममितिहासं पुरातनम् +यथा क्रुद्धो हुतवहस्तपस्तप्तुं वनं गतः +यथा च भगवानग्निः स्वयमेवाङ्गिराभवत् +संतापयन्स्वप्रभया नाशयंस्तिमिराणि च +आश्रमस्थो महाभागो हव्यवाहं विशेषयन् +तथा स भूत्वा तु तदा जगत्सर्वं प्रकाशयन् +तपश्चरंश्च हुतभुक्संतप्तस्तस्य तेजसा +भृशं ग्लानश्च तेजस्वी न स किंचित्प्रजज्ञिवान् +अथ संचिन्तयामास भगवान्हव्यवाहनः +अन्योऽग्निरिह लोकानां ब्रह्मणा संप्रवर्तितः +अग्नित्वं विप्रनष्टं हि तप्यमानस्य मे तपः +कथमग्निः पुनरहं भवेयमिति चिन्त्य सः +अपश्यदग्निवल्लोकांस्तापयन्तं महामुनिम् +सोपासर्पच्छनैर्भीतस्तमुवाच तदाङ्गिराः +शीघ्रमेव भवस्वाग्निस्त्वं पुनर्लोकभावनः +विज्ञातश्चासि लोकेषु त्रिषु संस्थानचारिषु +त्वमग्ने प्रथमः सृष्टो ब्रह्मणा तिमिरापहः +स्वस्थानं प्रतिपद्यस्व शीघ्रमेव तमोनुद +अग्निरुवाच +नष्टकीर्तिरहं लोके भवाञ्जातो हुताशनः +भवन्तमेव ज्ञास्यन्ति पावकं न तु मां जनाः +निक्षिपाम्यहमग्नित्वं त्वमग्निः प्रथमो भव +भविष्यामि द्वितीयोऽहं प्राजापत्यक एव च +अङ्गिरा उवाच +कुरु पुण्यं प्रजास्वर्ग्यं भवाग्निस्तिमिरापहः +मां च देव कुरुष्वाग्ने प्रथमं पुत्रमञ्जसा +मार्कण्डेय उवाच +तच्छ्रुत्वाङ्गिरसो वाक्यं जातवेदास्तथाकरोत् +राजन्बृहस्पतिर्नाम तस्याप्यङ्गिरसः सुतः +ज्ञात्वा प्रथमजं तं तु वह्नेराङ्गिरसं सुतम् +उपेत्य देवाः पप्रच्छुः कारणं तत्र भारत +स तु पृष्टस्तदा देवैस्ततः कारणमब्रवीत् +प्रत्यगृह्णंस्तु देवाश्च तद्वचोऽङ्गिरसस्तदा +अत्र नानाविधानग्नीन्प्रवक्ष्यामि महाप्रभान् +कर्मभिर्बहुभिः ख्यातान्��ानात्वं ब्राह्मणेष्विह +मार्कण्डेय उवाच +ब्रह्मणो यस्तृतीयस्तु पुत्रः कुरुकुलोद्वह +तस्यापवसुता भार्या प्रजास्तस्यापि मे शृणु +बृहज्ज्योतिर्बृहत्कीर्तिर्बृहद्ब्रह्मा बृहन्मनाः +बृहन्मन्त्रो बृहद्भासस्तथा राजन्बृहस्पतिः +प्रजासु तासु सर्वासु रूपेणाप्रतिमाभवत् +देवी भानुमती नाम प्रथमाङ्गिरसः सुता +भूतानामेव सर्वेषां यस्यां रागस्तदाभवत् +रागाद्रागेति यामाहुर्द्वितीयाङ्गिरसः सुता +यां कपर्दिसुतामाहुर्दृश्यादृश्येति देहिनः +तनुत्वात्सा सिनीवाली तृतीयाङ्गिरसः सुता +पश्यत्यर्चिष्मती भाभिर्हविर्भिश्च हविष्मती +षष्ठीमङ्गिरसः कन्यां पुण्यामाहुर्हविष्मतीम् +महामखेष्वाङ्गिरसी दीप्तिमत्सु महामती +महामतीति विख्याता सप्तमी कथ्यते सुता +यां तु दृष्ट्वा भगवतीं जनः कुहुकुहायते +एकानंशेति यामाहुः कुहूमङ्गिरसः सुताम् +मार्कण्डेय उवाच +बृहस्पतेश्चान्द्रमसी भार्याभूद्या यशस्विनी +अग्नीन्साजनयत्पुण्यान्षडेकां चापि पुत्रिकाम् +आहुतिष्वेव यस्याग्नेर्हविषाज्यं विधीयते +सोऽग्निर्बृहस्पतेः पुत्रः शंयुर्नाम महाप्रभः +चातुर्मास्येषु यस्येष्ट्यामश्वमेधेऽग्रजः पशुः +दीप्तो ज्वालैरनेकाभैरग्निरेकोऽथ वीर्यवान् +शंयोरप्रतिमा भार्या सत्या सत्या च धर्मजा +अग्निस्तस्य सुतो दीप्तस्तिस्रः कन्याश्च सुव्रताः +प्रथमेनाज्यभागेन पूज्यते योऽग्निरध्वरे +अग्निस्तस्य भरद्वाजः प्रथमः पुत्र उच्यते +पौर्णमास्येषु सर्वेषु हविषाज्यं स्रुवोद्यतम् +भरतो नामतः सोऽग्निर्द्वितीयः शंयुतः सुतः +तिस्रः कन्या भवन्त्यन्या यासां स भरतः पतिः +भरतस्तु सुतस्तस्य भरत्येका च पुत्रिका +भरतो भरतस्याग्नेः पावकस्तु प्रजापतेः +महानत्यर्थमहितस्तथा भरतसत्तम +भरद्वाजस्य भार्या तु वीरा वीरश्च पिण्डदः +प्राहुराज्येन तस्येज्यां सोमस्येव द्विजाः शनैः +हविषा यो द्वितीयेन सोमेन सह युज्यते +रथप्रभू रथध्वानः कुम्भरेताः स उच्यते +सरय्वां जनयत्सिद्धिं भानुं भाभिः समावृणोत् +आग्नेयमानयन्नित्यमाह्वानेष्वेष कथ्यते +यस्तु न च्यवते नित्यं यशसा वर्चसा श्रिया +अग्निर्निश्च्यवनो नाम पृथिवीं स्तौति केवलम् +विपाप्मा कलुषैर्मुक्तो विशुद्धश्चार्चिषा ज्वलन् +विपापोऽग्निः सुतस्तस्य सत्यः समयकर्मसु +आक्रोशतां हि भ���तानां यः करोति हि निष्कृतिम् +अग्निः स निष्कृतिर्नाम शोभयत्यभिसेवितः +अनुकूजन्ति येनेह वेदनार्ताः स्वयं जनाः +तस्य पुत्रः स्वनो नाम पावकः स रुजस्करः +यस्तु विश्वस्य जगतो बुद्धिमाक्रम्य तिष्ठति +तं प्राहुरध्यात्मविदो विश्वजिन्नाम पावकम् +अन्तराग्निः श्रितो यो हि भुक्तं पचति देहिनाम् +स यज्ञे विश्वभुङ्नाम सर्वलोकेषु भारत +ब्रह्मचारी यतात्मा च सततं विपुलव्रतः +ब्राह्मणाः पूजयन्त्येनं पाकयज्ञेषु पावकम् +प्रथितो गोपतिर्नाम नदी यस्याभवत्प्रिया +तस्मिन्सर्वाणि कर्माणि क्रियन्ते कर्मकर्तृभिः +वडवामुखः पिबत्यम्भो योऽसौ परमदारुणः +ऊर्ध्वभागूर्ध्वभाङ्नाम कविः प्राणाश्रितस्तु सः +उदग्द्वारं हविर्यस्य गृहे नित्यं प्रदीयते +ततः स्विष्टं भवेदाज्यं स्विष्टकृत्परमः स्मृतः +यः प्रशान्तेषु भूतेषु मन्युर्भवति पावकः +क्रोधस्य तु रसो जज्ञे मन्यती चाथ पुत्रिका +स्वाहेति दारुणा क्रूरा सर्वभूतेषु तिष्ठति +त्रिदिवे यस्य सदृशो नास्ति रूपेण कश्चन +अतुल्यत्वात्कृतो देवैर्नाम्ना कामस्तु पावकः +संहर्षाद्धारयन्क्रोधं धन्वी स्रग्वी रथे स्थितः +समरे नाशयेच्छत्रूनमोघो नाम पावकः +उक्थो नाम महाभाग त्रिभिरुक्थैरभिष्टुतः +महावाचं त्वजनयत्सकामाश्वं हि यं विदुः +मार्कण्डेय उवाच +काश्यपो ह्यथ वासिष्ठः प्राणश्च प्राणपुत्रकः +अग्निराङ्गिरसश्चैव च्यवनस्त्रिषुवर्चकः +अचरन्त तपस्तीव्रं पुत्रार्थे बहुवार्षिकम् +पुत्रं लभेम धर्मिष्ठं यशसा ब्रह्मणा समम् +महाव्याहृतिभिर्ध्यातः पञ्चभिस्तैस्तदा त्वथ +जज्ञे तेजोमयोऽर्चिष्मान्पञ्चवर्णः प्रभावनः +समिद्धोऽग्निः शिरस्तस्य बाहू सूर्यनिभौ तथा +त्वङ्नेत्रे च सुवर्णाभे कृष्णे जङ्घे च भारत +पञ्चवर्णः स तपसा कृतस्तैः पञ्चभिर्जनैः +पाञ्चजन्यः श्रुतो वेदे पञ्चवंशकरस्तु सः +दश वर्षसहस्राणि तपस्तप्त्वा महातपाः +जनयत्पावकं घोरं पितॄणां स प्रजाः सृजन् +बृहद्रथंतरं मूर्ध्नो वक्त्राच्च तरसाहरौ +शिवं नाभ्यां बलादिन्द्रं वाय्वग्नी प्राणतोऽसृजत् +बाहुभ्यामनुदात्तौ च विश्वे भूतानि चैव ह +एतान्सृष्ट्वा ततः पञ्च पितॄणामसृजत्सुतान् +बृहदूर्जस्य प्रणिधिः काश्यपस्य बृहत्तरः +भानुरङ्गिरसो वीरः पुत्रो वर्चस्य सौभरः +प्राणस्य चानुदात्तश्च व्याख्याताः पञ्च वंशजाः +देवान्यज्ञमुषश्चान्यान्सृजन्पञ्चदशोत्तरान् +अभीममतिभीमं च भीमं भीमबलाबलम् +एतान्यज्ञमुषः पञ्च देवानभ्यसृजत्तपः +सुमित्रं मित्रवन्तं च मित्रज्ञं मित्रवर्धनम् +मित्रधर्माणमित्येतान्देवानभ्यसृजत्तपः +सुरप्रवीरं वीरं च सुकेशं च सुवर्चसम् +सुराणामपि हन्तारं पञ्चैतानसृजत्तपः +त्रिविधं संस्थिता ह्येते पञ्च पञ्च पृथक्पृथक् +मुष्णन्त्यत्र स्थिता ह्येते स्वर्गतो यज्ञयाजिनः +तेषामिष्टं हरन्त्येते निघ्नन्ति च महद्भुवि +स्पर्धया हव्यवाहानां निघ्नन्त्येते हरन्ति च +हविर्वेद्यां तदादानं कुशलैः संप्रवर्तितम् +तदेते नोपसर्पन्ति यत्र चाग्निः स्थितो भवेत् +चितोऽग्निरुद्वहन्यज्ञं पक्षाभ्यां तान्प्रबाधते +मन्त्रैः प्रशमिता ह्येते नेष्टं मुष्णन्ति यज्ञियम् +बृहदुक्थतपस्यैव पुत्रो भूमिमुपाश्रितः +अग्निहोत्रे हूयमाने पृथिव्यां सद्भिरिज्यते +रथंतरश्च तपसः पुत्रोऽग्निः परिपठ्यते +मित्रविन्दाय वै तस्य हविरध्वर्यवो विदुः +मुमुदे परमप्रीतः सह पुत्रैर्महायशाः +मार्कण्डेय उवाच +गुरुभिर्नियमैर्युक्तो भरतो नाम पावकः +अग्निः पुष्टिमतिर्नाम तुष्टः पुष्टिं प्रयच्छति +भरत्येष प्रजाः सर्वास्ततो भरत उच्यते +अग्निर्यस्तु शिवो नाम शक्तिपूजापरश्च सः +दुःखार्तानां स सर्वेषां शिवकृत्सततं शिवः +तपसस्तु फलं दृष्ट्वा संप्रवृद्धं तपो महत् +उद्धर्तुकामो मतिमान्पुत्रो जज्ञे पुरंदरः +ऊष्मा चैवोष्मणो जज्ञे सोऽग्निर्भूतेषु लक्ष्यते +अग्निश्चापि मनुर्नाम प्राजापत्यमकारयत् +शंभुमग्निमथ प्राहुर्ब्राह्मणा वेदपारगाः +आवसथ्यं द्विजाः प्राहुर्दीप्तमग्निं महाप्रभम् +ऊर्जस्करान्हव्यवाहान्सुवर्णसदृशप्रभान् +अग्निस्तपो ह्यजनयत्पञ्च यज्ञसुतानिह +प्रशान्तेऽग्निर्महाभाग परिश्रान्तो गवांपतिः +असुराञ्जनयन्घोरान्मर्त्यांश्चैव पृथग्विधान् +तपसश्च मनुं पुत्रं भानुं चाप्यङ्गिरासृजत् +बृहद्भानुं तु तं प्राहुर्ब्राह्मणा वेदपारगाः +भानोर्भार्या सुप्रजा तु बृहद्भासा तु सोमजा +असृजेतां तु षट्पुत्राञ्शृणु तासां प्रजाविधिम् +दुर्बलानां तु भूतानां तनुं यः संप्रयच्छति +तमग्निं बलदं प्राहुः प्रथमं भानुतः सुतम् +यः प्रशान्तेषु भूतेषु मन्युर्भवति दारुणः +अग्निः स मन्युमान्नाम द्वितीयो भानुतः सुतः +दर्शे च पौर्णमासे च यस्येह हविरुच्यते +विष्णुर्नामेह योऽग्निस्तु धृतिमान्नाम सोऽङ्गिराः +इन्द्रेण सहितं यस्य हविराग्रयणं स्मृतम् +अग्निराग्रयणो नाम भानोरेवान्वयस्तु सः +चातुर्मास्येषु नित्यानां हविषां यो निरग्रहः +चतुर्भिः सहितः पुत्रैर्भानोरेवान्वयस्तु सः +निशां त्वजनयत्कन्यामग्नीषोमावुभौ तथा +मनोरेवाभवद्भार्या सुषुवे पञ्च पावकान् +पूज्यते हविषाग्र्येण चातुर्मास्येषु पावकः +पर्जन्यसहितः श्रीमानग्निर्वैश्वानरस्तु सः +अस्य लोकस्य सर्वस्य यः पतिः परिपठ्यते +सोऽग्निर्विश्वपतिर्नाम द्वितीयो वै मनोः सुतः +ततः स्विष्टं भवेदाज्यं स्विष्टकृत्परमः स्मृतः +कन्या सा रोहिणी नाम हिरण्यकशिपोः सुता +कर्मणासौ बभौ भार्या स वह्निः स प्रजापतिः +प्राणमाश्रित्य यो देहं प्रवर्तयति देहिनाम् +तस्य संनिहितो नाम शब्दरूपस्य साधनः +शुक्लकृष्णगतिर्देवो यो बिभर्ति हुताशनम् +अकल्मषः कल्मषाणां कर्ता क्रोधाश्रितस्तु सः +कपिलं परमर्षिं च यं प्राहुर्यतयः सदा +अग्निः स कपिलो नाम सांख्ययोगप्रवर्तकः +अग्निर्यच्छति भूतानि येन भूतानि नित्यदा +कर्मस्विह विचित्रेषु सोऽग्रणीर्वह्निरुच्यते +इमानन्यान्समसृजत्पावकान्प्रथितान्भुवि +अग्निहोत्रस्य दुष्टस्य प्रायश्चित्तार्थमुल्बणान् +संस्पृशेयुर्यदान्योन्यं कथंचिद्वायुनाग्नयः +इष्टिरष्टाकपालेन कार्या वै शुचयेऽग्नये +दक्षिणाग्निर्यदा द्वाभ्यां संसृजेत तदा किल +इष्टिरष्टाकपालेन कार्या वै वीतयेऽग्नये +यद्यग्नयो हि स्पृश्येयुर्निवेशस्था दवाग्निना +इष्टिरष्टाकपालेन कार्या तु शुचयेऽग्नये +अग्निं रजस्वला चेत्स्त्री संस्पृशेदग्निहोत्रिकम् +इष्टिरष्टाकपालेन कार्या दस्युमतेऽग्नये +मृतः श्रूयेत यो जीवन्परेयुः पशवो यथा +इष्टिरष्टाकपालेन कर्तव्याभिमतेऽग्नये +आर्तो न जुहुयादग्निं त्रिरात्रं यस्तु ब्राह्मणः +इष्टिरष्टाकपालेन कार्या स्यादुत्तराग्नये +दर्शं च पौर्णमासं च यस्य तिष्ठेत्प्रतिष्ठितम् +इष्टिरष्टाकपालेन कार्या पथिकृतेऽग्नये +सूतिकाग्निर्यदा चाग्निं संस्पृशेदग्निहोत्रिकम् +इष्टिरष्टाकपालेन कार्या चाग्निमतेऽग्नये +मार्कण्डेय उवाच +आपस्य मुदिता भार्या सहस्य परमा प्रिया +भूपतिर्भुवभर्ता च जनयत्पावकं परम् +भूतानां चापि सर्वे��ां यं प्राहुः पावकं पतिम् +आत्मा भुवनभर्तेति सान्वयेषु द्विजातिषु +महतां चैव भूतानां सर्वेषामिह यः पतिः +भगवान्स महातेजा नित्यं चरति पावकः +अग्निर्गृहपतिर्नाम नित्यं यज्ञेषु पूज्यते +हुतं वहति यो हव्यमस्य लोकस्य पावकः +अपां गर्भो महाभागः सहपुत्रो महाद्भुतः +भूपतिर्भुवभर्ता च महतः पतिरुच्यते +दहन्मृतानि भूतानि तस्याग्निर्भरतोऽभवत् +अग्निष्टोमे च नियतः क्रतुश्रेष्ठो भरस्य तु +आयान्तं नियतं दृष्ट्वा प्रविवेशार्णवं भयात् +देवास्तं नाधिगच्छन्ति मार्गमाणा यथादिशम् +दृष्ट्वा त्वग्निरथर्वाणं ततो वचनमब्रवीत् +देवानां वह हव्यं त्वमहं वीर सुदुर्बलः +अथर्वन्गच्छ मध्वक्षं प्रियमेतत्कुरुष्व मे +प्रेष्य चाग्निरथर्वाणमन्यं देशं ततोऽगमत् +मत्स्यास्तस्य समाचख्युः क्रुद्धस्तानग्निरब्रवीत् +भक्ष्या वै विविधैर्भावैर्भविष्यथ शरीरिणाम् +अथर्वाणं तथा चापि हव्यवाहोऽब्रवीद्वचः +अनुनीयमानोऽपि भृशं देववाक्याद्धि तेन सः +नैच्छद्वोढुं हविः सर्वं शरीरं च समत्यजत् +स तच्छरीरं संत्यज्य प्रविवेश धरां तदा +भूमिं स्पृष्ट्वासृजद्धातून्पृथक्पृथगतीव हि +आस्यात्सुगन्धि तेजश्च अस्थिभ्यो देवदारु च +श्लेष्मणः स्फटिकं तस्य पित्तान्मरकतं तथा +यकृत्कृष्णायसं तस्य त्रिभिरेव बभुः प्रजाः +नखास्तस्याभ्रपटलं शिराजालानि विद्रुमम् +शरीराद्विविधाश्चान्ये धातवोऽस्याभवन्नृप +एवं त्यक्त्वा शरीरं तु परमे तपसि स्थितः +भृग्वङ्गिरादिभिर्भूयस्तपसोत्थापितस्तदा +भृशं जज्वाल तेजस्वी तपसाप्यायितः शिखी +दृष्ट्वा ऋषीन्भयाच्चापि प्रविवेश महार्णवम् +तस्मिन्नष्टे जगद्भीतमथर्वाणमथाश्रितम् +अर्चयामासुरेवैनमथर्वाणं सुरर्षयः +अथर्वा त्वसृजल्लोकानात्मनालोक्य पावकम् +मिषतां सर्वभूतानामुन्ममाथ महार्णवम् +एवमग्निर्भगवता नष्टः पूर्वमथर्वणा +आहूतः सर्वभूतानां हव्यं वहति सर्वदा +एवं त्वजनयद्धिष्ण्यान्वेदोक्तान्विबुधान्बहून् +विचरन्विविधान्देशान्भ्रममाणस्तु तत्र वै +सिन्धुवर्जं पञ्च नद्यो देविकाथ सरस्वती +गङ्गा च शतकुम्भा च शरयूर्गण्डसाह्वया +चर्मण्वती मही चैव मेध्या मेधातिथिस्तथा +ताम्रावती वेत्रवती नद्यस्तिस्रोऽथ कौशिकी +तमसा नर्मदा चैव नदी गोदावरी तथा +वेण्णा प्रवेणी भीमा च मेद्रथा चैव भारत +भारती सुप���रयोगा च कावेरी मुर्मुरा तथा +कृष्णा च कृष्णवेण्णा च कपिला शोण एव च +एता नद्यस्तु धिष्ण्यानां मातरो याः प्रकीर्तिताः +अद्भुतस्य प्रिया भार्या तस्याः पुत्रो विडूरथः +यावन्तः पावकाः प्रोक्ताः सोमास्तावन्त एव च +अत्रेश्चाप्यन्वये जाता ब्रह्मणो मानसाः प्रजाः +अत्रिः पुत्रान्स्रष्टुकामस्तानेवात्मन्यधारयत् +तस्य तद्ब्रह्मणः कायान्निर्हरन्ति हुताशनाः +एवमेते महात्मानः कीर्तितास्तेऽग्नयो मया +अप्रमेया यथोत्पन्नाः श्रीमन्तस्तिमिरापहाः +अद्भुतस्य तु माहात्म्यं यथा वेदेषु कीर्तितम् +तादृशं विद्धि सर्वेषामेको ह्येष हुताशनः +एक एवैष भगवान्विज्ञेयः प्रथमोऽङ्गिराः +बहुधा निःसृतः कायाज्ज्योतिष्टोमः क्रतुर्यथा +इत्येष वंशः सुमहानग्नीनां कीर्तितो मया +पावितो विविधैर्मन्त्रैर्हव्यं वहति देहिनाम् +मार्कण्डेय उवाच +अग्नीनां विविधो वंशः कीर्तितस्ते मयानघ +शृणु जन्म तु कौरव्य कार्त्तिकेयस्य धीमतः +अद्भुतस्याद्भुतं पुत्रं प्रवक्ष्याम्यमितौजसम् +जातं सप्तर्षिभार्याभिर्ब्रह्मण्यं कीर्तिवर्धनम् +देवासुराः पुरा यत्ता विनिघ्नन्तः परस्परम् +तत्राजयन्सदा देवान्दानवा घोररूपिणः +वध्यमानं बलं दृष्ट्वा बहुशस्तैः पुरंदरः +स्वसैन्यनायकार्थाय चिन्तामाप भृशं तदा +देवसेनां दानवैर्यो भग्नां दृष्ट्वा महाबलः +पालयेद्वीर्यमाश्रित्य स ज्ञेयः पुरुषो मया +स शैलं मानसं गत्वा ध्यायन्नर्थमिमं भृशम् +शुश्रावार्तस्वरं घोरमथ मुक्तं स्त्रिया तदा +अभिधावतु मा कश्चित्पुरुषस्त्रातु चैव ह +पतिं च मे प्रदिशतु स्वयं वा पतिरस्तु मे +पुरंदरस्तु तामाह मा भैर्नास्ति भयं तव +एवमुक्त्वा ततोऽपश्यत्केशिनं स्थितमग्रतः +किरीटिनं गदापाणिं धातुमन्तमिवाचलम् +हस्ते गृहीत्वा तां कन्यामथैनं वासवोऽब्रवीत् +अनार्यकर्मन्कस्मात्त्वमिमां कन्यां जिहीर्षसि +वज्रिणं मां विजानीहि विरमास्याः प्रबाधनात् +केश्युवाच +विसृजस्व त्वमेवैनां शक्रैषा प्रार्थिता मया +क्षमं ते जीवतो गन्तुं स्वपुरं पाकशासन +मार्कण्डेय उवाच +एवमुक्त्वा गदां केशी चिक्षेपेन्द्रवधाय वै +तामापतन्तीं चिच्छेद मध्ये वज्रेण वासवः +अथास्य शैलशिखरं केशी क्रुद्धो व्यवासृजत् +तदापतन्तं संप्रेक्ष्य शैलशृङ्गं शतक्रतुः +बिभेद राजन्वज्रेण भुवि तन्निपपात ह +पतत��� तु तदा केशी तेन शृङ्गेण ताडितः +हित्वा कन्यां महाभागां प्राद्रवद्भृशपीडितः +अपयातेऽसुरे तस्मिंस्तां कन्यां वासवोऽब्रवीत् +कासि कस्यासि किं चेह कुरुषे त्वं शुभानने +कन्योवाच +अहं प्रजापतेः कन्या देवसेनेति विश्रुता +भगिनी दैत्यसेना मे सा पूर्वं केशिना हृता +सहैवावां भगिन्यौ तु सखीभिः सह मानसम् +आगच्छावेह रत्यर्थमनुज्ञाप्य प्रजापतिम् +नित्यं चावां प्रार्थयते हर्तुं केशी महासुरः +इच्छत्येनं दैत्यसेना न त्वहं पाकशासन +सा हृता तेन भगवन्मुक्ताहं त्वद्बलेन तु +त्वया देवेन्द्र निर्दिष्टं पतिमिच्छामि दुर्जयम् +इन्द्र उवाच +मम मातृष्वसेया त्वं माता दाक्षायणी मम +आख्यातं त्वहमिच्छामि स्वयमात्मबलं त्वया +कन्योवाच +अबलाहं महाबाहो पतिस्तु बलवान्मम +वरदानात्पितुर्भावी सुरासुरनमस्कृतः +इन्द्र उवाच +कीदृशं वै बलं देवि पत्युस्तव भविष्यति +एतदिच्छाम्यहं श्रोतुं तव वाक्यमनिन्दिते +कन्योवाच +देवदानवयक्षाणां किंनरोरगरक्षसाम् +जेता स दृष्टो दुष्टानां महावीर्यो महाबलः +यस्तु सर्वाणि भूतानि त्वया सह विजेष्यति +स हि मे भविता भर्ता ब्रह्मण्यः कीर्तिवर्धनः +मार्कण्डेय उवाच +इन्द्रस्तस्या वचः श्रुत्वा दुःखितोऽचिन्तयद्भृशम् +अस्या देव्याः पतिर्नास्ति यादृशं संप्रभाषते +अथापश्यत्स उदये भास्करं भास्करद्युतिः +सोमं चैव महाभागं विशमानं दिवाकरम् +अमावास्यां संप्रवृत्तं मुहूर्तं रौद्रमेव च +देवासुरं च संग्रामं सोऽपश्यदुदये गिरौ +लोहितैश्च घनैर्युक्तां पूर्वां संध्यां शतक्रतुः +अपश्यल्लोहितोदं च भगवान्वरुणालयम् +भृगुभिश्चाङ्गिरोभिश्च हुतं मन्त्रैः पृथग्विधैः +हव्यं गृहीत्वा वह्निं च प्रविशन्तं दिवाकरम् +पर्व चैव चतुर्विंशं तदा सूर्यमुपस्थितम् +तथा धर्मगतं रौद्रं सोमं सूर्यगतं च तम् +समालोक्यैकतामेव शशिनो भास्करस्य च +समवायं तु तं रौद्रं दृष्ट्वा शक्रो व्यचिन्तयत् +एष रौद्रश्च संघातो महान्युक्तश्च तेजसा +सोमस्य वह्निसूर्याभ्यामद्भुतोऽयं समागमः +जनयेद्यं सुतं सोमः सोऽस्या देव्याः पतिर्भवेत् +अग्निश्चैतैर्गुणैर्युक्तः सर्वैरग्निश्च देवता +एष चेज्जनयेद्गर्भं सोऽस्या देव्याः पतिर्भवेत् +एवं संचिन्त्य भगवान्ब्रह्मलोकं तदा गतः +गृहीत्वा देवसेनां तामवन्दत्स पितामहम् +उवाच चास्या देव्यास्त्वं साधु शूरं पतिं दिश +ब्रह्मोवाच +यथैतच्चिन्तितं कार्यं त्वया दानवसूदन +तथा स भविता गर्भो बलवानुरुविक्रमः +स भविष्यति सेनानीस्त्वया सह शतक्रतो +अस्या देव्याः पतिश्चैव स भविष्यति वीर्यवान् +मार्कण्डेय उवाच +एतच्छ्रुत्वा नमस्तस्मै कृत्वासौ सह कन्यया +तत्राभ्यगच्छद्देवेन्द्रो यत्र देवर्षयोऽभवन् +वसिष्ठप्रमुखा मुख्या विप्रेन्द्राः सुमहाव्रताः +भागार्थं तपसोपात्तं तेषां सोमं तथाध्वरे +पिपासवो ययुर्देवाः शतक्रतुपुरोगमाः +इष्टिं कृत्वा यथान्यायं सुसमिद्धे हुताशने +जुहुवुस्ते महात्मानो हव्यं सर्वदिवौकसाम् +समाहूतो हुतवहः सोऽद्भुतः सूर्यमण्डलात् +विनिःसृत्याययौ वह्निर्वाग्यतो विधिवत्प्रभुः +आगम्याहवनीयं वै तैर्द्विजैर्मन्त्रतो हुतम् +स तत्र विविधं हव्यं प्रतिगृह्य हुताशनः +ऋषिभ्यो भरतश्रेष्ठ प्रायच्छत दिवौकसाम् +निष्क्रामंश्चाप्यपश्यत्स पत्नीस्तेषां महात्मनाम् +स्वेष्वाश्रमेषूपविष्टाः स्नायन्तीश्च यथासुखम् +रुक्मवेदिनिभास्तास्तु चन्द्रलेखा इवामलाः +हुताशनार्चिप्रतिमाः सर्वास्तारा इवाद्भुताः +स तद्गतेन मनसा बभूव क्षुभितेन्द्रियः +पत्नीर्दृष्ट्वा द्विजेन्द्राणां वह्निः कामवशं ययौ +स भूयश्चिन्तयामास न न्याय्यं क्षुभितोऽस्मि यत् +साध्वीः पत्नीर्द्विजेन्द्राणामकामाः कामयाम्यहम् +नैताः शक्या मया द्रष्टुं स्प्रष्टुं वाप्यनिमित्ततः +गार्हपत्यं समाविश्य तस्मात्पश्याम्यभीक्ष्णशः +संस्पृशन्निव सर्वास्ताः शिखाभिः काञ्चनप्रभाः +पश्यमानश्च मुमुदे गार्हपत्यं समाश्रितः +निरुष्य तत्र सुचिरमेवं वह्निर्वशं गतः +मनस्तासु विनिक्षिप्य कामयानो वराङ्गनाः +कामसंतप्तहृदयो देहत्यागे सुनिश्चितः +अलाभे ब्राह्मणस्त्रीणामग्निर्वनमुपागतः +स्वाहा तं दक्षदुहिता प्रथमं कामयत्तदा +सा तस्य छिद्रमन्वैच्छच्चिरात्प्रभृति भामिनी +अप्रमत्तस्य देवस्य न चापश्यदनिन्दिता +सा तं ज्ञात्वा यथावत्तु वह्निं वनमुपागतम् +तत्त्वतः कामसंतप्तं चिन्तयामास भामिनी +अहं सप्तर्षिपत्नीनां कृत्वा रूपाणि पावकम् +कामयिष्यामि कामार्तं तासां रूपेण मोहितम् +एवं कृते प्रीतिरस्य कामावाप्तिश्च मे भवेत् +मार्कण्डेय उवाच +शिवा भार्या त्वङ्गिरसः शीलरूपगुणान्विता +तस्याः सा प्रथमं रूपं कृत्व�� देवी जनाधिप +जगाम पावकाभ्याशं तं चोवाच वराङ्गना +मामग्ने कामसंतप्तां त्वं कामयितुमर्हसि +करिष्यसि न चेदेवं मृतां मामुपधारय +अहमङ्गिरसो भार्या शिवा नाम हुताशन +सखीभिः सहिता प्राप्ता मन्त्रयित्वा विनिश्चयम् +अग्निरुवाच +कथं मां त्वं विजानीषे कामार्तमितराः कथम् +यास्त्वया कीर्तिताः सर्वाः सप्तर्षीणां प्रियाः स्त्रियः +शिवोवाच +अस्माकं त्वं प्रियो नित्यं बिभीमस्तु वयं तव +त्वच्चित्तमिङ्गितैर्ज्ञात्वा प्रेषितास्मि तवान्तिकम् +मैथुनायेह संप्राप्ता कामं प्राप्तं द्रुतं चर +मातरो मां प्रतीक्षन्ते गमिष्यामि हुताशन +मार्कण्डेय उवाच +ततोऽग्निरुपयेमे तां शिवां प्रीतिमुदायुतः +प्रीत्या देवी च संयुक्ता शुक्रं जग्राह पाणिना +अचिन्तयन्ममेदं ये रूपं द्रक्ष्यन्ति कानने +ते ब्राह्मणीनामनृतं दोषं वक्ष्यन्ति पावके +तस्मादेतद्रक्ष्यमाणा गरुडी संभवाम्यहम् +वनान्निर्गमनं चैव सुखं मम भविष्यति +सुपर्णी सा तदा भूत्वा निर्जगाम महावनात् +अपश्यत्पर्वतं श्वेतं शरस्तम्बैः सुसंवृतम् +दृष्टीविषैः सप्तशीर्षैर्गुप्तं भोगिभिरद्भुतैः +रक्षोभिश्च पिशाचैश्च रौद्रैर्भूतगणैस्तथा +राक्षसीभिश्च संपूर्णमनेकैश्च मृगद्विजैः +सा तत्र सहसा गत्वा शैलपृष्ठं सुदुर्गमम् +प्राक्षिपत्काञ्चने कुण्डे शुक्रं सा त्वरिता सती +शिष्टानामपि सा देवी सप्तर्षीणां महात्मनाम् +पत्नीसरूपतां कृत्वा कामयामास पावकम् +दिव्यरूपमरुन्धत्याः कर्तुं न शकितं तया +तस्यास्तपःप्रभावेण भर्तृशुश्रूषणेन च +षट्कृत्वस्तत्तु निक्षिप्तमग्ने रेतः कुरूत्तम +तस्मिन्कुण्डे प्रतिपदि कामिन्या स्वाहया तदा +तत्स्कन्नं तेजसा तत्र संभृतं जनयत्सुतम् +ऋषिभिः पूजितं स्कन्नमनयत्स्कन्दतां ततः +षट्शिरा द्विगुणश्रोत्रो द्वादशाक्षिभुजक्रमः +एकग्रीवस्त्वेककायः कुमारः समपद्यत +द्वितीयायामभिव्यक्तस्तृतीयायां शिशुर्बभौ +अङ्गप्रत्यङ्गसंभूतश्चतुर्थ्यामभवद्गुहः +लोहिताभ्रेण महता संवृतः सह विद्युता +लोहिताभ्रे सुमहति भाति सूर्य इवोदितः +गृहीतं तु धनुस्तेन विपुलं लोमहर्षणम् +न्यस्तं यत्त्रिपुरघ्नेन सुरारिविनिकृन्तनम् +तद्गृहीत्वा धनुःश्रेष्ठं ननाद बलवांस्तदा +संमोहयन्निवेमान्स त्रीँल्लोकान्सचराचरान् +तस्य तं निनदं श्रुत्वा महामेघौघनि���्वनम् +उत्पेततुर्महानागौ चित्रश्चैरावतश्च ह +तावापतन्तौ संप्रेक्ष्य स बालार्कसमद्युतिः +द्वाभ्यां गृहीत्वा पाणिभ्यां शक्तिं चान्येन पाणिना +अपरेणाग्निदायादस्ताम्रचूडं भुजेन सः +महाकायमुपश्लिष्टं कुक्कुटं बलिनां वरम् +गृहीत्वा व्यनदद्भीमं चिक्रीड च महाबलः +द्वाभ्यां भुजाभ्यां बलवान्गृहीत्वा शङ्खमुत्तमम् +प्राध्मापयत भूतानां त्रासनं बलिनामपि +द्वाभ्यां भुजाभ्यामाकाशं बहुशो निजघान सः +क्रीडन्भाति महासेनस्त्रीँल्लोकान्वदनैः पिबन् +पर्वताग्रेऽप्रमेयात्मा रश्मिमानुदये यथा +स तस्य पर्वतस्याग्रे निषण्णोऽद्भुतविक्रमः +व्यलोकयदमेयात्मा मुखैर्नानाविधैर्दिशः +स पश्यन्विविधान्भावांश्चकार निनदं पुनः +तस्य तं निनदं श्रुत्वा न्यपतन्बहुधा जनाः +भीताश्चोद्विग्नमनसस्तमेव शरणं ययुः +ये तु तं संश्रिता देवं नानावर्णास्तदा जनाः +तानप्याहुः पारिषदान्ब्राह्मणाः सुमहाबलान् +स तूत्थाय महाबाहुरुपसान्त्व्य च ताञ्जनान् +धनुर्विकृष्य व्यसृजद्बाणाञ्श्वेते महागिरौ +बिभेद स शरैः शैलं क्रौञ्चं हिमवतः सुतम् +तेन हंसाश्च गृध्राश्च मेरुं गच्छन्ति पर्वतम् +स विशीर्णोऽपतच्छैलो भृशमार्तस्वरान्रुवन् +तस्मिन्निपतिते त्वन्ये नेदुः शैला भृशं भयात् +स तं नादं भृशार्तानां श्रुत्वापि बलिनां वरः +न प्राव्यथदमेयात्मा शक्तिमुद्यम्य चानदत् +सा तदा विपुला शक्तिः क्षिप्ता तेन महात्मना +बिभेद शिखरं घोरं श्वेतस्य तरसा गिरेः +स तेनाभिहतो दीनो गिरिः श्वेतोऽचलैः सह +उत्पपात महीं त्यक्त्वा भीतस्तस्मान्महात्मनः +ततः प्रव्यथिता भूमिर्व्यशीर्यत समन्ततः +आर्ता स्कन्दं समासाद्य पुनर्बलवती बभौ +पर्वताश्च नमस्कृत्य तमेव पृथिवीं गताः +अथायमभजल्लोकः स्कन्दं शुक्लस्य पञ्चमीम् +मार्कण्डेय उवाच +ऋषयस्तु महाघोरान्दृष्ट्वोत्पातान्पृथग्विधान् +अकुर्वञ्शान्तिमुद्विग्ना लोकानां लोकभावनाः +निवसन्ति वने ये तु तस्मिंश्चैत्ररथे जनाः +तेऽब्रुवन्नेष नोऽनर्थः पावकेनाहृतो महान् +संगम्य षड्भिः पत्नीभिः सप्तर्षीणामिति स्म ह +अपरे गरुडीमाहुस्त्वयानर्थोऽयमाहृतः +यैर्दृष्टा सा तदा देवी तस्या रूपेण गच्छती +न तु तत्स्वाहया कर्म कृतं जानाति वै जनः +सुपर्णी तु वचः श्रुत्वा ममायं तनयस्त्विति +उपगम्य शनैः स्कन्दमाहाहं ज��नी तव +अथ सप्तर्षयः श्रुत्वा जातं पुत्रं महौजसम् +तत्यजुः षट्तदा पत्नीर्विना देवीमरुन्धतीम् +षड्भिरेव तदा जातमाहुस्तद्वनवासिनः +सप्तर्षीनाह च स्वाहा मम पुत्रोऽयमित्युत +अहं जाने नैतदेवमिति राजन्पुनः पुनः +विश्वामित्रस्तु कृत्वेष्टिं सप्तर्षीणां महामुनिः +पावकं कामसंतप्तमदृष्टः पृष्ठतोऽन्वगात् +तत्तेन निखिलं सर्वमवबुद्धं यथातथम् +विश्वामित्रस्तु प्रथमं कुमारं शरणं गतः +स्तवं दिव्यं संप्रचक्रे महासेनस्य चापि सः +मङ्गलानि च सर्वाणि कौमाराणि त्रयोदश +जातकर्मादिकास्तस्य क्रियाश्चक्रे महामुनिः +षड्वक्त्रस्य तु माहात्म्यं कुक्कुटस्य च साधनम् +शक्त्या देव्याः साधनं च तथा पारिषदामपि +विश्वामित्रश्चकारैतत्कर्म लोकहिताय वै +तस्मादृषिः कुमारस्य विश्वामित्रोऽभवत्प्रियः +अन्वजानाच्च स्वाहाया रूपान्यत्वं महामुनिः +अब्रवीच्च मुनीन्सर्वान्नापराध्यन्ति वै स्त्रियः +श्रुत्वा तु तत्त्वतस्तस्मात्ते पत्नीः सर्वतोऽत्यजन् +स्कन्दं श्रुत्वा ततो देवा वासवं सहिताब्रुवन् +अविषह्यबलं स्कन्दं जहि शक्राशु माचिरम् +यदि वा न निहंस्येनमद्येन्द्रोऽयं भविष्यति +त्रैलोक्यं संनिगृह्यास्मांस्त्वां च शक्र महाबलः +स तानुवाच व्यथितो बालोऽयं सुमहाबलः +स्रष्टारमपि लोकानां युधि विक्रम्य नाशयेत् +सर्वास्त्वद्याभिगच्छन्तु स्कन्दं लोकस्य मातरः +कामवीर्या घ्नन्तु चैनं तथेत्युक्त्वा च ता ययुः +तमप्रतिबलं दृष्ट्वा विषण्णवदनास्तु ताः +अशक्योऽयं विचिन्त्यैवं तमेव शरणं ययुः +ऊचुश्चापि त्वमस्माकं पुत्रोऽस्माभिर्धृतं जगत् +अभिनन्दस्व नः सर्वाः प्रस्नुताः स्नेहविक्लवाः +ताः संपूज्य महासेनः कामांश्चासां प्रदाय सः +अपश्यदग्निमायान्तं पितरं बलिनां बली +स तु संपूजितस्तेन सह मातृगणेन ह +परिवार्य महासेनं रक्षमाणः स्थितः स्थिरम् +सर्वासां या तु मातॄणां नारी क्रोधसमुद्भवा +धात्री सा पुत्रवत्स्कन्दं शूलहस्ताभ्यरक्षत +लोहितस्योदधेः कन्या क्रूरा लोहितभोजना +परिष्वज्य महासेनं पुत्रवत्पर्यरक्षत +अग्निर्भूत्वा नैगमेयश्छागवक्त्रो बहुप्रजः +रमयामास शैलस्थं बालं क्रीडनकैरिव +मार्कण्डेय उवाच +ग्रहाः सोपग्रहाश्चैव ऋषयो मातरस्तथा +हुताशनमुखाश्चापि दीप्ताः पारिषदां गणाः +एते चान्ये च बहवो घोरास्त्रिदिववासिनः +परिवार्य महासेनं स्थिता मातृगणैः सह +संदिग्धं विजयं दृष्ट्वा विजयेप्सुः सुरेश्वरः +आरुह्यैरावतस्कन्धं प्रययौ दैवतैः सह +विजिघांसुर्महासेनमिन्द्रस्तूर्णतरं ययौ +उग्रं तच्च महावेगं देवानीकं महाप्रभम् +विचित्रध्वजसंनाहं नानावाहनकार्मुकम् +प्रवराम्बरसंवीतं श्रिया जुष्टमलंकृतम् +विजिघांसुं तदायान्तं कुमारः शक्रमभ्ययात् +विनदन्पथि शक्रस्तु द्रुतं याति महाबलः +संहर्षयन्देवसेनां जिघांसुः पावकात्मजम् +संपूज्यमानस्त्रिदशैस्तथैव परमर्षिभिः +समीपमुपसंप्राप्तः कार्त्तिकेयस्य वासवः +सिंहनादं ततश्चक्रे देवेशः सहितः सुरैः +गुहोऽपि शब्दं तं श्रुत्वा व्यनदत्सागरो यथा +तस्य शब्देन महता समुद्धूतोदधिप्रभम् +बभ्राम तत्र तत्रैव देवसैन्यमचेतनम् +जिघांसूनुपसंप्राप्तान्देवान्दृष्ट्वा स पावकिः +विससर्ज मुखात्क्रुद्धः प्रवृद्धाः पावकार्चिषः +ता देवसैन्यान्यदहन्वेष्टमानानि भूतले +ते प्रदीप्तशिरोदेहाः प्रदीप्तायुधवाहनाः +प्रच्युताः सहसा भान्ति चित्रास्तारागणा इव +दह्यमानाः प्रपन्नास्ते शरणं पावकात्मजम् +देवा वज्रधरं त्यक्त्वा ततः शान्तिमुपागताः +त्यक्तो देवैस्ततः स्कन्दे वज्रं शक्रोऽभ्यवासृजत् +तद्विसृष्टं जघानाशु पार्श्वं स्कन्दस्य दक्षिणम् +बिभेद च महाराज पार्श्वं तस्य महात्मनः +वज्रप्रहारात्स्कन्दस्य संजातः पुरुषोऽपरः +युवा काञ्चनसंनाहः शक्तिधृग्दिव्यकुण्डलः +यद्वज्रविशनाज्जातो विशाखस्तेन सोऽभवत् +तं जातमपरं दृष्ट्वा कालानलसमद्युतिम् +भयादिन्द्रस्ततः स्कन्दं प्राञ्जलिः शरणं गतः +तस्याभयं ददौ स्कन्दः सहसैन्यस्य सत्तम +ततः प्रहृष्टास्त्रिदशा वादित्राण्यभ्यवादयन् +मार्कण्डेय उवाच +स्कन्दस्य पार्षदान्घोराञ्शृणुष्वाद्भुतदर्शनान् +वज्रप्रहारात्स्कन्दस्य जज्ञुस्तत्र कुमारकाः +ये हरन्ति शिशूञ्जातान्गर्भस्थांश्चैव दारुणाः +वज्रप्रहारात्कन्याश्च जज्ञिरेऽस्य महाबलाः +कुमाराश्च विशाखं तं पितृत्वे समकल्पयन् +स भूत्वा भगवान्संख्ये रक्षंश्छागमुखस्तदा +वृतः कन्यागणैः सर्वैरात्मनीनैश्च पुत्रकैः +मातॄणां प्रेक्षतीनां च भद्रशाखश्च कौशलः +ततः कुमारपितरं स्कन्दमाहुर्जना भुवि +रुद्रमग्निमुमां स्वाहां प्रदेशेषु महाबलाम् +यजन्ति पुत्रकामाश्च पुत्रिण��्च सदा जनाः +यास्तास्त्वजनयत्कन्यास्तपो नाम हुताशनः +किं करोमीति ताः स्कन्दं संप्राप्ताः समभाषत +मातर ऊचुः +भवेम सर्वलोकस्य वयं मातर उत्तमाः +प्रसादात्तव पूज्याश्च प्रियमेतत्कुरुष्व नः +मार्कण्डेय उवाच +सोऽब्रवीद्बाढमित्येवं भविष्यध्वं पृथग्विधाः +अशिवाश्च शिवाश्चैव पुनः पुनरुदारधीः +ततः संकल्प्य पुत्रत्वे स्कंदं मातृगणोऽगमत् +काकी च हलिमा चैव रुद्राथ बृहली तथा +आर्या पलाला वै मित्रा सप्तैताः शिशुमातरः +एतासां वीर्यसंपन्नः शिशुर्नामातिदारुणः +स्कन्दप्रसादजः पुत्रो लोहिताक्षो भयंकरः +एष वीराष्टकः प्रोक्तः स्कन्दमातृगणोद्भवः +छागवक्त्रेण सहितो नवकः परिकीर्त्यते +षष्ठं छागमयं वक्त्रं स्कन्दस्यैवेति विद्धि तत् +षट्शिरोऽभ्यन्तरं राजन्नित्यं मातृगणार्चितम् +षण्णां तु प्रवरं तस्य शीर्षाणामिह शब्द्यते +शक्तिं येनासृजद्दिव्यां भद्रशाख इति स्म ह +इत्येतद्विविधाकारं वृत्तं शुक्लस्य पञ्चमीम् +तत्र युद्धं महाघोरं वृत्तं षष्ठ्यां जनाधिप +मार्कण्डेय उवाच +उपविष्टं ततः स्कन्दं हिरण्यकवचस्रजम् +हिरण्यचूडमुकुटं हिरण्याक्षं महाप्रभम् +लोहिताम्बरसंवीतं तीक्ष्णदंष्ट्रं मनोरमम् +सर्वलक्षणसंपन्नं त्रैलोक्यस्यापि सुप्रियम् +ततस्तं वरदं शूरं युवानं मृष्टकुण्डलम् +अभजत्पद्मरूपा श्रीः स्वयमेव शरीरिणी +श्रिया जुष्टः पृथुयशाः स कुमारवरस्तदा +निषण्णो दृश्यते भूतैः पौर्णमास्यां यथा शशी +अपूजयन्महात्मानो ब्राह्मणास्तं महाबलम् +इदमाहुस्तदा चैव स्कन्दं तत्र महर्षयः +हिरण्यवर्ण भद्रं ते लोकानां शंकरो भव +त्वया षड्रात्रजातेन सर्वे लोका वशीकृताः +अभयं च पुनर्दत्तं त्वयैवैषां सुरोत्तम +तस्मादिन्द्रो भवानस्तु त्रैलोक्यस्याभयंकरः +स्कन्द उवाच +किमिन्द्रः सर्वलोकानां करोतीह तपोधनाः +कथं देवगणांश्चैव पाति नित्यं सुरेश्वरः +ऋषय ऊचुः +इन्द्रो दिशति भूतानां बलं तेजः प्रजाः सुखम् +तुष्टः प्रयच्छति तथा सर्वान्दायान्सुरेश्वरः +दुर्वृत्तानां संहरति वृत्तस्थानां प्रयच्छति +अनुशास्ति च भूतानि कार्येषु बलसूदनः +असूर्ये च भवेत्सूर्यस्तथाचन्द्रे च चन्द्रमाः +भवत्यग्निश्च वायुश्च पृथिव्यापश्च कारणैः +एतदिन्द्रेण कर्तव्यमिन्द्रे हि विपुलं बलम् +त्वं च वीर बलश्रेष्ठस्तस्मादिन्द्रो भवस्�� नः +शक्र उवाच +भवस्वेन्द्रो महाबाहो सर्वेषां नः सुखावहः +अभिषिच्यस्व चैवाद्य प्राप्तरूपोऽसि सत्तम +स्कन्द उवाच +शाधि त्वमेव त्रैलोक्यमव्यग्रो विजये रतः +अहं ते किंकरः शक्र न ममेन्द्रत्वमीप्सितम् +शक्र उवाच +बलं तवाद्भुतं वीर त्वं देवानामरीञ्जहि +अवज्ञास्यन्ति मां लोका वीर्येण तव विस्मिताः +इन्द्रत्वेऽपि स्थितं वीर बलहीनं पराजितम् +आवयोश्च मिथो भेदे प्रयतिष्यन्त्यतन्द्रिताः +भेदिते च त्वयि विभो लोको द्वैधमुपेष्यति +द्विधाभूतेषु लोकेषु निश्चितेष्वावयोस्तथा +विग्रहः संप्रवर्तेत भूतभेदान्महाबल +तत्र त्वं मां रणे तात यथाश्रद्धं विजेष्यसि +तस्मादिन्द्रो भवानद्य भविता मा विचारय +स्कन्द उवाच +त्वमेव राजा भद्रं ते त्रैलोक्यस्य ममैव च +करोमि किं च ते शक्र शासनं तद्ब्रवीहि मे +शक्र उवाच +यदि सत्यमिदं वाक्यं निश्चयाद्भाषितं त्वया +यदि वा शासनं स्कन्द कर्तुमिच्छसि मे शृणु +अभिषिच्यस्व देवानां सेनापत्ये महाबल +अहमिन्द्रो भविष्यामि तव वाक्यान्महाबल +स्कन्द उवाच +दानवानां विनाशाय देवानामर्थसिद्धये +गोब्राह्मणस्य त्राणार्थं सेनापत्येऽभिषिञ्च माम् +मार्कण्डेय उवाच +सोऽभिषिक्तो मघवता सर्वैर्देवगणैः सह +अतीव शुशुभे तत्र पूज्यमानो महर्षिभिः +तस्य तत्काञ्चनं छत्रं ध्रियमाणं व्यरोचत +यथैव सुसमिद्धस्य पावकस्यात्ममण्डलम् +विश्वकर्मकृता चास्य दिव्या माला हिरण्मयी +आबद्धा त्रिपुरघ्नेन स्वयमेव यशस्विना +आगम्य मनुजव्याघ्र सह देव्या परंतप +अर्चयामास सुप्रीतो भगवान्गोवृषध्वजः +रुद्रमग्निं द्विजाः प्राहू रुद्रसूनुस्ततस्तु सः +रुद्रेण शुक्रमुत्सृष्टं तच्छ्वेतः पर्वतोऽभवत् +पावकस्येन्द्रियं श्वेते कृत्तिकाभिः कृतं नगे +पूज्यमानं तु रुद्रेण दृष्ट्वा सर्वे दिवौकसः +रुद्रसूनुं ततः प्राहुर्गुहं गुणवतां वरम् +अनुप्रविश्य रुद्रेण वह्निं जातो ह्ययं शिशुः +तत्र जातस्ततः स्कन्दो रुद्रसूनुस्ततोऽभवत् +रुद्रस्य वह्नेः स्वाहायाः षण्णां स्त्रीणां च तेजसा +जातः स्कन्दः सुरश्रेष्ठो रुद्रसूनुस्ततोऽभवत् +अरजे वाससी रक्ते वसानः पावकात्मजः +भाति दीप्तवपुः श्रीमान्रक्ताभ्राभ्यामिवांशुमान् +कुक्कुटश्चाग्निना दत्तस्तस्य केतुरलंकृतः +रथे समुच्छ्रितो भाति कालाग्निरिव लोहितः +विवेश कवचं चास्य शरी���ं सहजं ततः +युध्यमानस्य देवस्य प्रादुर्भवति तत्सदा +शक्तिर्वर्म बलं तेजः कान्तत्वं सत्यमक्षतिः +ब्रह्मण्यत्वमसंमोहो भक्तानां परिरक्षणम् +निकृन्तनं च शत्रूणां लोकानां चाभिरक्षणम् +स्कन्देन सह जातानि सर्वाण्येव जनाधिप +एवं देवगणैः सर्वैः सोऽभिषिक्तः स्वलंकृतः +बभौ प्रतीतः सुमनाः परिपूर्णेन्दुदर्शनः +इष्टैः स्वाध्यायघोषैश्च देवतूर्यरवैरपि +देवगन्धर्वगीतैश्च सर्वैरप्सरसां गणैः +एतैश्चान्यैश्च विविधैर्हृष्टतुष्टैरलंकृतैः +क्रीडन्निव तदा देवैरभिषिक्तः स पावकिः +अभिषिक्तं महासेनमपश्यन्त दिवौकसः +विनिहत्य तमः सूर्यं यथेहाभ्युदितं तथा +अथैनमभ्ययुः सर्वा देवसेनाः सहस्रशः +अस्माकं त्वं पतिरिति ब्रुवाणाः सर्वतोदिशम् +ताः समासाद्य भगवान्सर्वभूतगणैर्वृतः +अर्चितश्च स्तुतश्चैव सान्त्वयामास ता अपि +शतक्रतुश्चाभिषिच्य स्कन्दं सेनापतिं तदा +सस्मार तां देवसेनां या सा तेन विमोक्षिता +अयं तस्याः पतिर्नूनं विहितो ब्रह्मणा स्वयम् +इति चिन्त्यानयामास देवसेनां स्वलंकृताम् +स्कन्दं चोवाच बलभिदियं कन्या सुरोत्तम +अजाते त्वयि निर्दिष्टा तव पत्नी स्वयंभुवा +तस्मात्त्वमस्या विधिवत्पाणिं मन्त्रपुरस्कृतम् +गृहाण दक्षिणं देव्याः पाणिना पद्मवर्चसम् +एवमुक्तः स जग्राह तस्याः पाणिं यथाविधि +बृहस्पतिर्मन्त्रविधिं जजाप च जुहाव च +एवं स्कन्दस्य महिषीं देवसेनां विदुर्बुधाः +षष्ठीं यां ब्राह्मणाः प्राहुर्लक्ष्मीमाशां सुखप्रदाम् +सिनीवालीं कुहूं चैव सद्वृत्तिमपराजिताम् +यदा स्कन्दः पतिर्लब्धः शाश्वतो देवसेनया +तदा तमाश्रयल्लक्ष्मीः स्वयं देवी शरीरिणी +श्रीजुष्टः पञ्चमीं स्कन्दस्तस्माच्छ्रीपञ्चमी स्मृता +षष्ठ्यां कृतार्थोऽभूद्यस्मात्तस्मात्षष्ठी महातिथिः +मार्कण्डेय उवाच +श्रिया जुष्टं महासेनं देवसेनापतिं कृतम् +सप्तर्षिपत्न्यः षड्देव्यस्तत्सकाशमथागमन् +ऋषिभिः संपरित्यक्ता धर्मयुक्ता महाव्रताः +द्रुतमागम्य चोचुस्ता देवसेनापतिं प्रभुम् +वयं पुत्र परित्यक्ता भर्तृभिर्देवसंमितैः +अकारणाद्रुषा तात पुण्यस्थानात्परिच्युताः +अस्माभिः किल जातस्त्वमिति केनाप्युदाहृतम् +असत्यमेतत्संश्रुत्य तस्मान्नस्त्रातुमर्हसि +अक्षयश्च भवेत्स्वर्गस्त्वत्प्रसादाद्धि नः प्रभो +त्वां पुत्रं चाप्यभीप्सामः कृत्वैतदनृणो भव +स्कन्द उवाच +मातरो हि भवत्यो मे सुतो वोऽहमनिन्दिताः +यच्चाभीप्सथ तत्सर्वं संभविष्यति वस्तथा +मार्कण्डेय उवाच +एवमुक्ते ततः शक्रं किं कार्यमिति सोऽब्रवीत् +उक्तः स्कन्देन ब्रूहीति सोऽब्रवीद्वासवस्ततः +अभिजित्स्पर्धमाना तु रोहिण्या कन्यसी स्वसा +इच्छन्ती ज्येष्ठतां देवी तपस्तप्तुं वनं गता +तत्र मूढोऽस्मि भद्रं ते नक्षत्रं गगनाच्च्युतम् +कालं त्विमं परं स्कन्द ब्रह्मणा सह चिन्तय +धनिष्ठादिस्तदा कालो ब्रह्मणा परिनिर्मितः +रोहिण्याद्योऽभवत्पूर्वमेवं संख्या समाभवत् +एवमुक्ते तु शक्रेण त्रिदिवं कृत्तिका गताः +नक्षत्रं शकटाकारं भाति तद्वह्निदैवतम् +विनता चाब्रवीत्स्कन्दं मम त्वं पिण्डदः सुतः +इच्छामि नित्यमेवाहं त्वया पुत्र सहासितुम् +स्कन्द उवाच +एवमस्तु नमस्तेऽस्तु पुत्रस्नेहात्प्रशाधि माम् +स्नुषया पूज्यमाना वै देवि वत्स्यसि नित्यदा +मार्कण्डेय उवाच +अथ मातृगणः सर्वः स्कन्दं वचनमब्रवीत् +वयं सर्वस्य लोकस्य मातरः कविभिः स्तुताः +इच्छामो मातरस्तुभ्यं भवितुं पूजयस्व नः +स्कन्द उवाच +मातरस्तु भवत्यो मे भवतीनामहं सुतः +उच्यतां यन्मया कार्यं भवतीनामथेप्सितम् +मातर ऊचुः +यास्तु ता मातरः पूर्वं लोकस्यास्य प्रकल्पिताः +अस्माकं तद्भवेत्स्थानं तासां चैव न तद्भवेत् +भवेम पूज्या लोकस्य न ताः पूज्याः सुरर्षभ +प्रजास्माकं हृतास्ताभिस्त्वत्कृते ताः प्रयच्छ नः +स्कन्द उवाच +दत्ताः प्रजा न ताः शक्या भवतीभिर्निषेवितुम् +अन्यां वः कां प्रयच्छामि प्रजां यां मनसेच्छथ +मातर ऊचुः +इच्छाम तासां मातॄणां प्रजा भोक्तुं प्रयच्छ नः +त्वया सह पृथग्भूता ये च तासामथेश्वराः +स्कन्द उवाच +प्रजा वो दद्मि कष्टं तु भवतीभिरुदाहृतम् +परिरक्षत भद्रं वः प्रजाः साधु नमस्कृताः +मातर ऊचुः +परिरक्षाम भद्रं ते प्रजाः स्कन्द यथेच्छसि +त्वया नो रोचते स्कन्द सहवासश्चिरं प्रभो +स्कन्द उवाच +यावत्षोडश वर्षाणि भवन्ति तरुणाः प्रजाः +प्रबाधत मनुष्याणां तावद्रूपैः पृथग्विधैः +अहं च वः प्रदास्यामि रौद्रमात्मानमव्ययम् +परमं तेन सहिता सुखं वत्स्यथ पूजिताः +मार्कण्डेय उवाच +ततः शरीरात्स्कन्दस्य पुरुषः काञ्चनप्रभः +भोक्तुं प्रजाः स मर्त्यानां निष्पपात महाबलः +अपतत्स तदा भूमौ विसंज���ञोऽथ क्षुधान्वितः +स्कन्देन सोऽभ्यनुज्ञातो रौद्ररूपोऽभवद्ग्रहः +स्कन्दापस्मारमित्याहुर्ग्रहं तं द्विजसत्तमाः +विनता तु महारौद्रा कथ्यते शकुनिग्रहः +पूतनां राक्षसीं प्राहुस्तं विद्यात्पूतनाग्रहम् +कष्टा दारुणरूपेण घोररूपा निशाचरी +पिशाची दारुणाकारा कथ्यते शीतपूतना +गर्भान्सा मानुषीणां तु हरते घोरदर्शना +अदितिं रेवतीं प्राहुर्ग्रहस्तस्यास्तु रैवतः +सोऽपि बालाञ्शिशून्घोरो बाधते वै महाग्रहः +दैत्यानां या दितिर्माता तामाहुर्मुखमण्डिकाम् +अत्यर्थं शिशुमांसेन संप्रहृष्टा दुरासदा +कुमाराश्च कुमार्यश्च ये प्रोक्ताः स्कन्दसंभवाः +तेऽपि गर्भभुजः सर्वे कौरव्य सुमहाग्रहाः +तासामेव कुमारीणां पतयस्ते प्रकीर्तिताः +अज्ञायमाना गृह्णन्ति बालकान्रौद्रकर्मिणः +गवां माता तु या प्राज्ञैः कथ्यते सुरभिर्नृप +शकुनिस्तामथारुह्य सह भुङ्क्ते शिशून्भुवि +सरमा नाम या माता शुनां देवी जनाधिप +सापि गर्भान्समादत्ते मानुषीणां सदैव हि +पादपानां च या माता करञ्जनिलया हि सा +करञ्जे तां नमस्यन्ति तस्मात्पुत्रार्थिनो नराः +इमे त्वष्टादशान्ये वै ग्रहा मांसमधुप्रियाः +द्विपञ्चरात्रं तिष्ठन्ति सततं सूतिकागृहे +कद्रूः सूक्ष्मवपुर्भूत्वा गर्भिणीं प्रविशेद्यदा +भुङ्क्ते सा तत्र तं गर्भं सा तु नागं प्रसूयते +गन्धर्वाणां तु या माता सा गर्भं गृह्य गच्छति +ततो विलीनगर्भा सा मानुषी भुवि दृश्यते +या जनित्री त्वप्सरसां गर्भमास्ते प्रगृह्य सा +उपविष्टं ततो गर्भं कथयन्ति मनीषिणः +लोहितस्योदधेः कन्या धात्री स्कन्दस्य सा स्मृता +लोहितायनिरित्येवं कदम्बे सा हि पूज्यते +पुरुषेषु यथा रुद्रस्तथार्या प्रमदास्वपि +आर्या माता कुमारस्य पृथक्कामार्थमिज्यते +एवमेते कुमाराणां मया प्रोक्ता महाग्रहाः +यावत्षोडश वर्षाणि अशिवास्ते शिवास्ततः +ये च मातृगणाः प्रोक्ताः पुरुषाश्चैव ये ग्रहाः +सर्वे स्कन्दग्रहा नाम ज्ञेया नित्यं शरीरिभिः +तेषां प्रशमनं कार्यं स्नानं धूपमथाञ्जनम् +बलिकर्मोपहारश्च स्कन्दस्येज्या विशेषतः +एवमेतेऽर्चिताः सर्वे प्रयच्छन्ति शुभं नृणाम् +आयुर्वीर्यं च राजेन्द्र सम्यक्पूजानमस्कृताः +ऊर्ध्वं तु षोडशाद्वर्षाद्ये भवन्ति ग्रहा नृणाम् +तानहं संप्रवक्ष्यामि नमस्कृत्य महेश्वरम् +यः पश्यति नर�� देवाञ्जाग्रद्वा शयितोऽपि वा +उन्माद्यति स तु क्षिप्रं तं तु देवग्रहं विदुः +आसीनश्च शयानश्च यः पश्यति नरः पितॄन् +उन्माद्यति स तु क्षिप्रं स ज्ञेयस्तु पितृग्रहः +अवमन्यति यः सिद्धान्क्रुद्धाश्चापि शपन्ति यम् +उन्माद्यति स तु क्षिप्रं ज्ञेयः सिद्धग्रहस्तु सः +उपाघ्राति च यो गन्धान्रसांश्चापि पृथग्विधान् +उन्माद्यति स तु क्षिप्रं स ज्ञेयो राक्षसो ग्रहः +गन्धर्वाश्चापि यं दिव्याः संस्पृशन्ति नरं भुवि +उन्माद्यति स तु क्षिप्रं ग्रहो गान्धर्व एव सः +आविशन्ति च यं यक्षाः पुरुषं कालपर्यये +उन्माद्यति स तु क्षिप्रं ज्ञेयो यक्षग्रहस्तु सः +अधिरोहन्ति यं नित्यं पिशाचाः पुरुषं क्वचित् +उन्माद्यति स तु क्षिप्रं पैशाचं तं ग्रहं विदुः +यस्य दोषैः प्रकुपितं चित्तं मुह्यति देहिनः +उन्माद्यति स तु क्षिप्रं साधनं तस्य शास्त्रतः +वैक्लव्याच्च भयाच्चैव घोराणां चापि दर्शनात् +उन्माद्यति स तु क्षिप्रं सत्त्वं तस्य तु साधनम् +कश्चित्क्रीडितुकामो वै भोक्तुकामस्तथापरः +अभिकामस्तथैवान्य इत्येष त्रिविधो ग्रहः +यावत्सप्ततिवर्षाणि भवन्त्येते ग्रहा नृणाम् +अतः परं देहिनां तु ग्रहतुल्यो भवेज्ज्वरः +अप्रकीर्णेन्द्रियं दान्तं शुचिं नित्यमतन्द्रितम् +आस्तिकं श्रद्दधानं च वर्जयन्ति सदा ग्रहाः +इत्येष ते ग्रहोद्देशो मानुषाणां प्रकीर्तितः +न स्पृशन्ति ग्रहा भक्तान्नरान्देवं महेश्वरम् +मार्कण्डेय उवाच +यदा स्कन्देन मातॄणामेवमेतत्प्रियं कृतम् +अथैनमब्रवीत्स्वाहा मम पुत्रस्त्वमौरसः +इच्छाम्यहं त्वया दत्तां प्रीतिं परमदुर्लभाम् +तामब्रवीत्ततः स्कन्दः प्रीतिमिच्छसि कीदृशीम् +स्वाहोवाच +दक्षस्याहं प्रिया कन्या स्वाहा नाम महाभुज +बाल्यात्प्रभृति नित्यं च जातकामा हुताशने +न च मां कामिनीं पुत्र सम्यग्जानाति पावकः +इच्छामि शाश्वतं वासं वस्तुं पुत्र सहाग्निना +स्कन्द उवाच +हव्यं कव्यं च यत्किंचिद्द्विजा मन्त्रपुरस्कृतम् +होष्यन्त्यग्नौ सदा देवि स्वाहेत्युक्त्वा समुद्यतम् +अद्य प्रभृति दास्यन्ति सुवृत्ताः सत्पथे स्थिताः +एवमग्निस्त्वया सार्धं सदा वत्स्यति शोभने +मार्कण्डेय उवाच +एवमुक्ता ततः स्वाहा तुष्टा स्कन्देन पूजिता +पावकेन समायुक्ता भर्त्रा स्कन्दमपूजयत् +ततो ब्रह्मा महासेनं प्रजापतिरथा��्रवीत् +अभिगच्छ महादेवं पितरं त्रिपुरार्दनम् +रुद्रेणाग्निं समाविश्य स्वाहामाविश्य चोमया +हितार्थं सर्वलोकानां जातस्त्वमपराजितः +उमायोन्यां च रुद्रेण शुक्रं सिक्तं महात्मना +आस्ते गिरौ निपतितं मिञ्जिकामिञ्जिकं यतः +संभूतं लोहितोदे तु शुक्रशेषमवापतत् +सूर्यरश्मिषु चाप्यन्यदन्यच्चैवापतद्भुवि +आसक्तमन्यद्वृक्षेषु तदेवं पञ्चधापतत् +त एते विविधाकारा गणा ज्ञेया मनीषिभिः +तव पारिषदा घोरा य एते पिशिताशनाः +एवमस्त्विति चाप्युक्त्वा महासेनो महेश्वरम् +अपूजयदमेयात्मा पितरं पितृवत्सलः +अर्कपुष्पैस्तु ते पञ्च गणाः पूज्या धनार्थिभिः +व्याधिप्रशमनार्थं च तेषां पूजां समाचरेत् +मिञ्जिकामिञ्जिकं चैव मिथुनं रुद्रसंभवम् +नमस्कार्यं सदैवेह बालानां हितमिच्छता +स्त्रियो मानुषमांसादा वृद्धिका नाम नामतः +वृक्षेषु जातास्ता देव्यो नमस्कार्याः प्रजार्थिभिः +एवमेते पिशाचानामसंख्येया गणाः स्मृताः +घण्टायाः सपताकायाः शृणु मे संभवं नृप +ऐरावतस्य घण्टे द्वे वैजयन्त्याविति श्रुते +गुहस्य ते स्वयं दत्ते शक्रेणानाय्य धीमता +एका तत्र विशाखस्य घण्टा स्कन्दस्य चापरा +पताका कार्त्तिकेयस्य विशाखस्य च लोहिता +यानि क्रीडनकान्यस्य देवैर्दत्तानि वै तदा +तैरेव रमते देवो महासेनो महाबलः +स संवृतः पिशाचानां गणैर्देवगणैस्तथा +शुशुभे काञ्चने शैले दीप्यमानः श्रिया वृतः +तेन वीरेण शुशुभे स शैलः शुभकाननः +आदित्येनेवांशुमता मन्दरश्चारुकन्दरः +संतानकवनैः फुल्लैः करवीरवनैरपि +पारिजातवनैश्चैव जपाशोकवनैस्तथा +कदम्बतरुषण्डैश्च दिव्यैर्मृगगणैरपि +दिव्यैः पक्षिगणैश्चैव शुशुभे श्वेतपर्वतः +तत्र देवगणाः सर्वे सर्वे चैव महर्षयः +मेघतूर्यरवाश्चैव क्षुब्धोदधिसमस्वनाः +तत्र दिव्याश्च गन्धर्वा नृत्यन्त्यप्सरसस्तथा +हृष्टानां तत्र भूतानां श्रूयते निनदो महान् +एवं सेन्द्रं जगत्सर्वं श्वेतपर्वतसंस्थितम् +प्रहृष्टं प्रेक्षते स्कन्दं न च ग्लायति दर्शनात् +मार्कण्डेय उवाच +यदाभिषिक्तो भगवान्सेनापत्येन पावकिः +तदा संप्रस्थितः श्रीमान्हृष्टो भद्रवटं हरः +रथेनादित्यवर्णेन पार्वत्या सहितः प्रभुः +सहस्रं तस्य सिंहानां तस्मिन्युक्तं रथोत्तमे +उत्पपात दिवं शुभ्रं कालेनाभिप्रचोदितः +ते पिबन्त इवाकाशं त्रासयन्���श्चराचरान् +सिंहा नभस्यगच्छन्त नदन्तश्चारुकेसराः +तस्मिन्रथे पशुपतिः स्थितो भात्युमया सह +विद्युता सहितः सूर्यः सेन्द्रचापे घने यथा +अग्रतस्तस्य भगवान्धनेशो गुह्यकैः सह +आस्थाय रुचिरं याति पुष्पकं नरवाहनः +ऐरावतं समास्थाय शक्रश्चापि सुरैः सह +पृष्ठतोऽनुययौ यान्तं वरदं वृषभध्वजम् +जम्भकैर्यक्षरक्षोभिः स्रग्विभिः समलंकृतः +यात्यमोघो महायक्षो दक्षिणं पक्षमास्थितः +तस्य दक्षिणतो देवा मरुतश्चित्रयोधिनः +गच्छन्ति वसुभिः सार्धं रुद्रैश्च सह संगताः +यमश्च मृत्युना सार्धं सर्वतः परिवारितः +घोरैर्व्याधिशतैर्याति घोररूपवपुस्तथा +यमस्य पृष्ठतश्चैव घोरस्त्रिशिखरः शितः +विजयो नाम रुद्रस्य याति शूलः स्वलंकृतः +तमुग्रपाशो वरुणो भगवान्सलिलेश्वरः +परिवार्य शनैर्याति यादोभिर्विविधैर्वृतः +पृष्ठतो विजयस्यापि याति रुद्रस्य पट्टिशः +गदामुसलशक्त्याद्यैर्वृतः प्रहरणोत्तमैः +पट्टिशं त्वन्वगाद्राजंश्छत्रं रौद्रं महाप्रभम् +कमण्डलुश्चाप्यनु तं महर्षिगणसंवृतः +तस्य दक्षिणतो भाति दण्डो गच्छञ्श्रिया वृतः +भृग्वङ्गिरोभिः सहितो देवैश्चाप्यभिपूजितः +एषां तु पृष्ठतो रुद्रो विमले स्यन्दने स्थितः +याति संहर्षयन्सर्वांस्तेजसा त्रिदिवौकसः +ऋषयश्चैव देवाश्च गन्धर्वा भुजगास्तथा +नद्यो नदा द्रुमाश्चैव तथैवाप्सरसां गणाः +नक्षत्राणि ग्रहाश्चैव देवानां शिशवश्च ये +स्त्रियश्च विविधाकारा यान्ति रुद्रस्य पृष्ठतः +सृजन्त्यः पुष्पवर्षाणि चारुरूपा वराङ्गनाः +पर्जन्यश्चाप्यनुययौ नमस्कृत्य पिनाकिनम् +छत्रं तु पाण्डुरं सोमस्तस्य मूर्धन्यधारयत् +चामरे चापि वायुश्च गृहीत्वाग्निश्च विष्ठितौ +शक्रश्च पृष्ठतस्तस्य याति राजञ्श्रिया वृतः +सह राजर्षिभिः सर्वैः स्तुवानो वृषकेतनम् +गौरी विद्याथ गान्धारी केशिनी मित्रसाह्वया +सावित्र्या सह सर्वास्ताः पार्वत्या यान्ति पृष्ठतः +तत्र विद्यागणाः सर्वे ये केचित्कविभिः कृताः +यस्य कुर्वन्ति वचनं सेन्द्रा देवाश्चमूमुखे +स गृहीत्वा पताकां तु यात्यग्रे राक्षसो ग्रहः +व्यापृतस्तु श्मशाने यो नित्यं रुद्रस्य वै सखा +पिङ्गलो नाम यक्षेन्द्रो लोकस्यानन्ददायकः +एभिः स सहितस्तत्र ययौ देवो यथासुखम् +अग्रतः पृष्ठतश्चैव न हि तस्य गतिर्ध्रुवा +रुद्रं सत्कर्मभि��्मर्त्याः पूजयन्तीह दैवतम् +शिवमित्येव यं प्राहुरीशं रुद्रं पिनाकिनम् +भावैस्तु विविधाकारैः पूजयन्ति महेश्वरम् +देवसेनापतिस्त्वेवं देवसेनाभिरावृतः +अनुगच्छति देवेशं ब्रह्मण्यः कृत्तिकासुतः +अथाब्रवीन्महासेनं महादेवो बृहद्वचः +सप्तमं मारुतस्कन्धं रक्ष नित्यमतन्द्रितः +स्कन्द उवाच +सप्तमं मारुतस्कन्धं पालयिष्याम्यहं प्रभो +यदन्यदपि मे कार्यं देव तद्वद माचिरम् +रुद्र उवाच +कार्येष्वहं त्वया पुत्र संद्रष्टव्यः सदैव हि +दर्शनान्मम भक्त्या च श्रेयः परमवाप्स्यसि +मार्कण्डेय उवाच +इत्युक्त्वा विससर्जैनं परिष्वज्य महेष्वरः +विसर्जिते ततः स्कन्दे बभूवौत्पातिकं महत् +सहसैव महाराज देवान्सर्वान्प्रमोहयत् +जज्वाल खं सनक्षत्रं प्रमूढं भुवनं भृशम् +चचाल व्यनदच्चोर्वी तमोभूतं जगत्प्रभो +ततस्तद्दारुणं दृष्ट्वा क्षुभितः शंकरस्तदा +उमा चैव महाभागा देवाश्च समहर्षयः +ततस्तेषु प्रमूढेषु पर्वताम्बुदसंनिभम् +नानाप्रहरणं घोरमदृश्यत महद्बलम् +तद्धि घोरमसंख्येयं गर्जच्च विविधा गिरः +अभ्यद्रवद्रणे देवान्भगवन्तं च शंकरम् +तैर्विसृष्टान्यनीकेषु बाणजालान्यनेकशः +पर्वताश्च शतघ्न्यश्च प्रासाश्च परिघा गदाः +निपतद्भिश्च तैर्घोरैर्देवानीकं महायुधैः +क्षणेन व्यद्रवत्सर्वं विमुखं चाप्यदृश्यत +निकृत्तयोधनागाश्वं कृत्तायुधमहारथम् +दानवैरर्दितं सैन्यं देवानां विमुखं बभौ +असुरैर्वध्यमानं तत्पावकैरिव काननम् +अपतद्दग्धभूयिष्ठं महाद्रुमवनं यथा +ते विभिन्नशिरोदेहाः प्रच्यवन्ते दिवौकसः +न नाथमध्यगच्छन्त वध्यमाना महारणे +अथ तद्विद्रुतं सैन्यं दृष्ट्वा देवः पुरंदरः +आश्वासयन्नुवाचेदं बलवद्दानवार्दितम् +भयं त्यजत भद्रं वः शूराः शस्त्राणि गृह्णत +कुरुध्वं विक्रमे बुद्धिं मा वः काचिद्व्यथा भवेत् +जयतैनान्सुदुर्वृत्तान्दानवान्घोरदर्शनान् +अभिद्रवत भद्रं वो मया सह महासुरान् +शक्रस्य वचनं श्रुत्वा समाश्वस्ता दिवौकसः +दानवान्प्रत्ययुध्यन्त शक्रं कृत्वा व्यपाश्रयम् +ततस्ते त्रिदशाः सर्वे मरुतश्च महाबलाः +प्रत्युद्ययुर्महावेगाः साध्याश्च वसुभिः सह +तैर्विसृष्टान्यनीकेषु क्रुद्धैः शस्त्राणि संयुगे +शराश्च दैत्यकायेषु पिबन्ति स्मासृगुल्बणम् +तेषां देहान्विनिर्भिद्य शरास्ते निशि���ास्तदा +निष्पतन्तो अदृश्यन्त नगेभ्य इव पन्नगाः +तानि दैत्यशरीराणि निर्भिन्नानि स्म सायकैः +अपतन्भूतले राजंश्छिन्नाभ्राणीव सर्वशः +ततस्तद्दानवं सैन्यं सर्वैर्देवगणैर्युधि +त्रासितं विविधैर्बाणैः कृतं चैव पराङ्मुखम् +अथोत्क्रुष्टं तदा हृष्टैः सर्वैर्देवैरुदायुधैः +संहतानि च तूर्याणि तदा सर्वाण्यनेकशः +एवमन्योन्यसंयुक्तं युद्धमासीत्सुदारुणम् +देवानां दानवानां च मांसशोणितकर्दमम् +अनयो देवलोकस्य सहसैव व्यदृश्यत +तथा हि दानवा घोरा विनिघ्नन्ति दिवौकसः +ततस्तूर्यप्रणादाश्च भेरीणां च महास्वनाः +बभूवुर्दानवेन्द्राणां सिंहनादाश्च दारुणाः +अथ दैत्यबलाद्घोरान्निष्पपात महाबलः +दानवो महिषो नाम प्रगृह्य विपुलं गिरिम् +ते तं घनैरिवादित्यं दृष्ट्वा संपरिवारितम् +समुद्यतगिरिं राजन्व्यद्रवन्त दिवौकसः +अथाभिद्रुत्य महिषो देवांश्चिक्षेप तं गिरिम् +पतता तेन गिरिणा देवसैन्यस्य पार्थिव +भीमरूपेण निहतमयुतं प्रापतद्भुवि +अथ तैर्दानवैः सार्धं महिषस्त्रासयन्सुरान् +अभ्यद्रवद्रणे तूर्णं सिंहः क्षुद्रमृगानिव +तमापतन्तं महिषं दृष्ट्वा सेन्द्रा दिवौकसः +व्यद्रवन्त रणे भीता विशीर्णायुधकेतनाः +ततः स महिषः क्रुद्धस्तूर्णं रुद्ररथं ययौ +अभिद्रुत्य च जग्राह रुद्रस्य रथकूबरम् +यदा रुद्ररथं क्रुद्धो महिषः सहसा गतः +रेसतू रोदसी गाढं मुमुहुश्च महर्षयः +व्यनदंश्च महाकाया दैत्या जलधरोपमाः +आसीच्च निश्चितं तेषां जितमस्माभिरित्युत +तथाभूते तु भगवान्नावधीन्महिषं रणे +सस्मार च तदा स्कन्दं मृत्युं तस्य दुरात्मनः +महिषोऽपि रथं दृष्ट्वा रौद्रं रुद्रस्य नानदत् +देवान्संत्रासयंश्चापि दैत्यांश्चापि प्रहर्षयन् +ततस्तस्मिन्भये घोरे देवानां समुपस्थिते +आजगाम महासेनः क्रोधात्सूर्य इव ज्वलन् +लोहिताम्बरसंवीतो लोहितस्रग्विभूषणः +लोहितास्यो महाबाहुर्हिरण्यकवचः प्रभुः +रथमादित्यसंकाशमास्थितः कनकप्रभम् +तं दृष्ट्वा दैत्यसेना सा व्यद्रवत्सहसा रणे +स चापि तां प्रज्वलितां महिषस्य विदारिणीम् +मुमोच शक्तिं राजेन्द्र महासेनो महाबलः +सा मुक्ताभ्यहनच्छक्तिर्महिषस्य शिरो महत् +पपात भिन्ने शिरसि महिषस्त्यक्तजीवितः +क्षिप्ताक्षिप्ता तु सा शक्तिर्हत्वा शत्रून्सहस्रशः +स्कन्दहस्तमनुप्राप्ता दृश्य���े देवदानवैः +प्रायः शरैर्विनिहता महासेनेन धीमता +शेषा दैत्यगणा घोरा भीतास्त्रस्ता दुरासदैः +स्कन्दस्य पार्षदैर्हत्वा भक्षिताः शतसंघशः +दानवान्भक्षयन्तस्ते प्रपिबन्तश्च शोणितम् +क्षणान्निर्दानवं सर्वमकार्षुर्भृशहर्षिताः +तमांसीव यथा सूर्यो वृक्षानग्निर्घनान्खगः +तथा स्कन्दोऽजयच्छत्रून्स्वेन वीर्येण कीर्तिमान् +संपूज्यमानस्त्रिदशैरभिवाद्य महेश्वरम् +शुशुभे कृत्तिकापुत्रः प्रकीर्णांशुरिवांशुमान् +नष्टशत्रुर्यदा स्कन्दः प्रयातश्च महेश्वरम् +अथाब्रवीन्महासेनं परिष्वज्य पुरंदरः +ब्रह्मदत्तवरः स्कन्द त्वयायं महिषो हतः +देवास्तृणमया यस्य बभूवुर्जयतां वर +सोऽयं त्वया महाबाहो शमितो देवकण्टकः +शतं महिषतुल्यानां दानवानां त्वया रणे +निहतं देवशत्रूणां यैर्वयं पूर्वतापिताः +तावकैर्भक्षिताश्चान्ये दानवाः शतसंघशः +अजेयस्त्वं रणेऽरीणामुमापतिरिव प्रभुः +एतत्ते प्रथमं देव ख्यातं कर्म भविष्यति +त्रिषु लोकेषु कीर्तिश्च तवाक्षय्या भविष्यति +वशगाश्च भविष्यन्ति सुरास्तव सुरात्मज +महासेनेत्येवमुक्त्वा निवृत्तः सह दैवतैः +अनुज्ञातो भगवता त्र्यम्बकेन शचीपतिः +गतो भद्रवटं रुद्रो निवृत्ताश्च दिवौकसः +उक्ताश्च देवा रुद्रेण स्कन्दं पश्यत मामिव +स हत्वा दानवगणान्पूज्यमानो महर्षिभिः +एकाह्नैवाजयत्सर्वं त्रैलोक्यं वह्निनन्दनः +स्कन्दस्य य इदं जन्म पठते सुसमाहितः +स पुष्टिमिह संप्राप्य स्कन्दसालोक्यतामियात् +वैशंपायन उवाच +उपासीनेषु विप्रेषु पाण्डवेषु महात्मसु +द्रौपदी सत्यभामा च विविशाते तदा समम् +जाहस्यमाने सुप्रीते सुखं तत्र निषीदतुः +चिरस्य दृष्ट्वा राजेन्द्र तेऽन्योन्यस्य प्रियंवदे +कथयामासतुश्चित्राः कथाः कुरुयदुक्षिताम् +अथाब्रवीत्सत्यभामा कृष्णस्य महिषी प्रिया +सात्राजिती याज्ञसेनीं रहसीदं सुमध्यमा +केन द्रौपदि वृत्तेन पाण्डवानुपतिष्ठसि +लोकपालोपमान्वीरान्यूनः परमसंमतान् +कथं च वशगास्तुभ्यं न कुप्यन्ति च ते शुभे +तव वश्या हि सततं पाण्डवाः प्रियदर्शने +मुखप्रेक्षाश्च ते सर्वे तत्त्वमेतद्ब्रवीहि मे +व्रतचर्या तपो वापि स्नानमन्त्रौषधानि वा +विद्यावीर्यं मूलवीर्यं जपहोमस्तथागदाः +मम आचक्ष्व पाञ्चालि यशस्यं भगवेदनम् +येन कृष्णे भवेन्नित्यं मम कृष्णो वशानुगः +एवमुक्त्वा सत्यभामा विरराम यशस्विनी +पतिव्रता महाभागा द्रौपदी प्रत्युवाच ताम् +असत्स्त्रीणां समाचारं सत्ये मामनुपृच्छसि +असदाचरिते मार्गे कथं स्यादनुकीर्तनम् +अनुप्रश्नः संशयो वा नैतत्त्वय्युपपद्यते +तथा ह्युपेता बुद्ध्या त्वं कृष्णस्य महिषी प्रिया +यदैव भर्ता जानीयान्मन्त्रमूलपरां स्त्रियम् +उद्विजेत तदैवास्याः सर्पाद्वेश्मगतादिव +उद्विग्नस्य कुतः शान्तिरशान्तस्य कुतः सुखम् +न जातु वशगो भर्ता स्त्रियाः स्यान्मन्त्रकारणात् +अमित्रप्रहितांश्चापि गदान्परमदारुणान् +मूलप्रवादैर्हि विषं प्रयच्छन्ति जिघांसवः +जिह्वया यानि पुरुषस्त्वचा वाप्युपसेवते +तत्र चूर्णानि दत्तानि हन्युः क्षिप्रमसंशयम् +जलोदरसमायुक्ताः श्वित्रिणः पलितास्तथा +अपुमांसः कृताः स्त्रीभिर्जडान्धबधिरास्तथा +पापानुगास्तु पापास्ताः पतीनुपसृजन्त्युत +न जातु विप्रियं भर्तुः स्त्रिया कार्यं कथंचन +वर्ताम्यहं तु यां वृत्तिं पाण्डवेषु महात्मसु +तां सर्वां शृणु मे सत्यां सत्यभामे यशस्विनि +अहंकारं विहायाहं कामक्रोधौ च सर्वदा +सदारान्पाण्डवान्नित्यं प्रयतोपचराम्यहम् +प्रणयं प्रतिसंगृह्य निधायात्मानमात्मनि +शुश्रूषुर्निरभीमाना पतीनां चित्तरक्षिणी +दुर्व्याहृताच्छङ्कमाना दुःस्थिताद्दुरवेक्षितात् +दुरासिताद्दुर्व्रजितादिङ्गिताध्यासितादपि +सूर्यवैश्वानरनिभान्सोमकल्पान्महारथान् +सेवे चक्षुर्हणः पार्थानुग्रतेजःप्रतापिनः +देवो मनुष्यो गन्धर्वो युवा चापि स्वलंकृतः +द्रव्यवानभिरूपो वा न मेऽन्यः पुरुषो मतः +नाभुक्तवति नास्नाते नासंविष्टे च भर्तरि +न संविशामि नाश्नामि सदा कर्मकरेष्वपि +क्षेत्राद्वनाद्वा ग्रामाद्वा भर्तारं गृहमागतम् +प्रत्युत्थायाभिनन्दामि आसनेनोदकेन च +प्रमृष्टभाण्डा मृष्टान्ना काले भोजनदायिनी +संयता गुप्तधान्या च सुसंमृष्टनिवेशना +अतिरस्कृतसंभाषा दुःस्त्रियो नानुसेवती +अनुकूलवती नित्यं भवाम्यनलसा सदा +अनर्मे चापि हसनं द्वारि स्थानमभीक्ष्णशः +अवस्करे चिरस्थानं निष्कुटेषु च वर्जये +अतिहासातिरोषौ च क्रोधस्थानं च वर्जये +निरताहं सदा सत्ये भर्तॄणामुपसेवने +सर्वथा भर्तृरहितं न ममेष्टं कथंचन +यदा प्रवसते भर्ता कुटुम्बार्थेन केनचित् +सुमनोवर्णकापेता भवामि व्��तचारिणी +यच्च भर्ता न पिबति यच्च भर्ता न खादति +यच्च नाश्नाति मे भर्ता सर्वं तद्वर्जयाम्यहम् +यथोपदेशं नियता वर्तमाना वराङ्गने +स्वलंकृता सुप्रयता भर्तुः प्रियहिते रता +ये च धर्माः कुटुम्बेषु श्वश्र्वा मे कथिताः पुरा +भिक्षाबलिश्राद्धमिति स्थालीपाकाश्च पर्वसु +मान्यानां मानसत्कारा ये चान्ये विदिता मया +तान्सर्वाननुवर्तामि दिवारात्रमतन्द्रिता +विनयान्नियमांश्चापि सदा सर्वात्मना श्रिता +मृदून्सतः सत्यशीलान्सत्यधर्मानुपालिनः +आशीविषानिव क्रुद्धान्पतीन्परिचराम्यहम् +पत्याश्रयो हि मे धर्मो मतः स्त्रीणां सनातनः +स देवः सा गतिर्नान्या तस्य का विप्रियं चरेत् +अहं पतीन्नातिशये नात्यश्ने नातिभूषये +नापि परिवदे श्वश्रूं सर्वदा परियन्त्रिता +अवधानेन सुभगे नित्योत्थानतयैव च +भर्तारो वशगा मह्यं गुरुशुश्रूषणेन च +नित्यमार्यामहं कुन्तीं वीरसूं सत्यवादिनीम् +स्वयं परिचराम्येका स्नानाच्छादनभोजनैः +नैतामतिशये जातु वस्त्रभूषणभोजनैः +नापि परिवदे चाहं तां पृथां पृथिवीसमाम् +अष्टावग्रे ब्राह्मणानां सहस्राणि स्म नित्यदा +भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने +अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः +त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः +दशान्यानि सहस्राणि येषामन्नं सुसंस्कृतम् +ह्रियते रुक्मपात्रीभिर्यतीनामूर्ध्वरेतसाम् +तान्सर्वानग्रहारेण ब्राह्मणान्ब्रह्मवादिनः +यथार्हं पूजयामि स्म पानाच्छादनभोजनैः +शतं दासीसहस्राणि कौन्तेयस्य महात्मनः +कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलंकृताः +महार्हमाल्याभरणाः सुवर्णाश्चन्दनोक्षिताः +मणीन्हेम च बिभ्रत्यो नृत्यगीतविशारदाः +तासां नाम च रूपं च भोजनाच्छादनानि च +सर्वासामेव वेदाहं कर्म चैव कृताकृतम् +शतं दासीसहस्राणि कुन्तीपुत्रस्य धीमतः +पात्रीहस्ता दिवारात्रमतिथीन्भोजयन्त्युत +शतमश्वसहस्राणि दश नागायुतानि च +युधिष्ठिरस्यानुयात्रमिन्द्रप्रस्थनिवासिनः +एतदासीत्तदा राज्ञो यन्महीं पर्यपालयत् +येषां संख्याविधिं चैव प्रदिशामि शृणोमि च +अन्तःपुराणां सर्वेषां भृत्यानां चैव सर्वशः +आ गोपालाविपालेभ्यः सर्वं वेद कृताकृतम् +सर्वं राज्ञः समुदयमायं च व्ययमेव च +एकाहं वेद्मि कल्याणि पाण्डवानां यशस्विनाम् +मयि सर्वं समास���्य कुटुम्बं भरतर्षभाः +उपासनरताः सर्वे घटन्ते स्म शुभानने +तमहं भारमासक्तमनाधृष्यं दुरात्मभिः +सुखं सर्वं परित्यज्य रात्र्यहानि घटामि वै +अधृष्यं वरुणस्येव निधिपूर्णमिवोदधिम् +एकाहं वेद्मि कोशं वै पतीनां धर्मचारिणाम् +अनिशायां निशायां च सहायाः क्षुत्पिपासयोः +आराधयन्त्याः कौरव्यांस्तुल्या रात्रिरहश्च मे +प्रथमं प्रतिबुध्यामि चरमं संविशामि च +नित्यकालमहं सत्ये एतत्संवननं मम +एतज्जानाम्यहं कर्तुं भर्तृसंवननं महत् +असत्स्त्रीणां समाचारं नाहं कुर्यां न कामये +तच्छ्रुत्वा धर्मसहितं व्याहृतं कृष्णया तदा +उवाच सत्या सत्कृत्य पाञ्चालीं धर्मचारिणीम् +अभिपन्नास्मि पाञ्चालि याज्ञसेनि क्षमस्व मे +कामकारः सखीनां हि सोपहासं प्रभाषितुम् +द्रौपद्युवाच +इमं तु ते मार्गमपेतदोषं; वक्ष्यामि चित्तग्रहणाय भर्तुः +यस्मिन्यथावत्सखि वर्तमाना; भर्तारमाच्छेत्स्यसि कामिनीभ्यः +नैतादृशं दैवतमस्ति सत्ये; सर्वेषु लोकेषु सदैवतेषु +यथा पतिस्तस्य हि सर्वकामा; लभ्याः प्रसादे कुपितश्च हन्यात् +तस्मादपत्यं विविधाश्च भोगाः; शय्यासनान्यद्भुतदर्शनानि +वस्त्राणि माल्यानि तथैव गन्धाः; स्वर्गश्च लोको विषमा च कीर्तिः +सुखं सुखेनेह न जातु लभ्यं; दुःखेन साध्वी लभते सुखानि +सा कृष्णमाराधय सौहृदेन; प्रेम्णा च नित्यं प्रतिकर्मणा च +तथाशनैश्चारुभिरग्र्यमाल्यै;र्दाक्षिण्ययोगैर्विविधैश्च गन्धैः +अस्याः प्रियोऽस्मीति यथा विदित्वा; त्वामेव संश्लिष्यति सर्वभावैः +श्रुत्वा स्वरं द्वारगतस्य भर्तुः; प्रत्युत्थिता तिष्ठ गृहस्य मध्ये +दृष्ट्वा प्रविष्टं त्वरितासनेन; पाद्येन चैव प्रतिपूजय त्वम् +संप्रेषितायामथ चैव दास्या;मुत्थाय सर्वं स्वयमेव कुर्याः +जानातु कृष्णस्तव भावमेतं; सर्वात्मना मां भजतीति सत्ये +त्वत्संनिधौ यत्कथयेत्पतिस्ते; यद्यप्यगुह्यं परिरक्षितव्यम् +काचित्सपत्नी तव वासुदेवं; प्रत्यादिशेत्तेन भवेद्विरागः +प्रियांश्च रक्तांश्च हितांश्च भर्तु;स्तान्भोजयेथा विविधैरुपायैः +द्वेष्यैरपक्षैरहितैश्च तस्य; भिद्यस्व नित्यं कुहकोद्धतैश्च +मदं प्रमादं पुरुषेषु हित्वा; संयच्छ भावं प्रतिगृह्य मौनम् +प्रद्युम्नसाम्बावपि ते कुमारौ; नोपासितव्यौ रहिते कदाचित् +महाकुलीनाभिरपापिकाभिः; स्त्रीभिः सतीभिस्तव सख्यमस्तु +चण्डाश्च शौण्डाश्च महाशनाश्च; चौराश्च दुष्टाश्चपलाश्च वर्ज्याः +एतद्यशस्यं भगवेदनं च; स्वर्ग्यं तथा शत्रुनिबर्हणं च +महार्हमाल्याभरणाङ्गरागा; भर्तारमाराधय पुण्यगन्धा +वैशंपायन उवाच +मार्कण्डेयादिभिर्विप्रैः पाण्डवैश्च महात्मभिः +कथाभिरनुकूलाभिः सहासित्वा जनार्दनः +ततस्तैः संविदं कृत्वा यथावन्मधुसूदनः +आरुरुक्षू रथं सत्यामाह्वयामास केशवः +सत्यभामा ततस्तत्र स्वजित्वा द्रुपदात्मजाम् +उवाच वचनं हृद्यं यथाभावसमाहितम् +कृष्णे मा भूत्तवोत्कण्ठा मा व्यथा मा प्रजागरः +भर्तृभिर्देवसंकाशैर्जितां प्राप्स्यसि मेदिनीम् +न ह्येवं शीलसंपन्ना नैवं पूजितलक्षणाः +प्राप्नुवन्ति चिरं क्लेशं यथा त्वमसितेक्षणे +अवश्यं च त्वया भूमिरियं निहतकण्टका +भर्तृभिः सह भोक्तव्या निर्द्वंद्वेति श्रुतं मया +धार्तराष्ट्रवधं कृत्वा वैराणि प्रतियात्य च +युधिष्ठिरस्थां पृथिवीं द्रष्टासि द्रुपदात्मजे +यास्ताः प्रव्राजमानां त्वां प्राहसन्दर्पमोहिताः +ताः क्षिप्रं हतसंकल्पा द्रक्ष्यसि त्वं कुरुस्त्रियः +तव दुःखोपपन्नाया यैराचरितमप्रियम् +विद्धि संप्रस्थितान्सर्वांस्तान्कृष्णे यमसादनम् +पुत्रस्ते प्रतिविन्ध्यश्च सुतसोमस्तथा विभुः +श्रुतकर्मार्जुनिश्चैव शतानीकश्च नाकुलिः +सहदेवाच्च यो जातः श्रुतसेनस्तवात्मजः +सर्वे कुशलिनो वीराः कृतास्त्राश्च सुतास्तव +अभिमन्युरिव प्रीता द्वारवत्यां रता भृशम् +त्वमिवैषां सुभद्रा च प्रीत्या सर्वात्मना स्थिता +प्रीयते भावनिर्द्वंद्वा तेभ्यश्च विगतज्वरा +भेजे सर्वात्मना चैव प्रद्युम्नजननी तथा +भानुप्रभृतिभिश्चैनान्विशिनष्टि च केशवः +भोजनाच्छादने चैषां नित्यं मे श्वशुरः स्थितः +रामप्रभृतयः सर्वे भजन्त्यन्धकवृष्णयः +तुल्यो हि प्रणयस्तेषां प्रद्युम्नस्य च भामिनि +एवमादि प्रियं प्रीत्या हृद्यमुक्त्वा मनोनुगम् +गमनाय मनश्चक्रे वासुदेवरथं प्रति +तां कृष्णां कृष्णमहिषी चकाराभिप्रदक्षिणम् +आरुरोह रथं शौरेः सत्यभामा च भामिनी +स्मयित्वा तु यदुश्रेष्ठो द्रौपदीं परिसान्त्व्य च +उपावर्त्य ततः शीघ्रैर्हयैः प्रायात्परंतपः +जनमेजय उवाच +एवं वने वर्तमाना नराग्र्याः; शीतोष्णवातातपकर्शिताङ्गाः +सरस्तदासाद्य वनं च पुण्यं; ततः परं किमकुर्वन्�� पार्थाः +वैशंपायन उवाच +सरस्तदासाद्य तु पाण्डुपुत्रा; जनं समुत्सृज्य विधाय चैषाम् +वनानि रम्याण्यथ पर्वतांश्च; नदीप्रदेशांश्च तदा विचेरुः +तथा वने तान्वसतः प्रवीरा;न्स्वाध्यायवन्तश्च तपोधनाश्च +अभ्याययुर्वेदविदः पुराणा;स्तान्पूजयामासुरथो नराग्र्याः +ततः कदाचित्कुशलः कथासु; विप्रोऽभ्यगच्छद्भुवि कौरवेयान् +स तैः समेत्याथ यदृच्छयैव; वैचित्रवीर्यं नृपमभ्यगच्छत् +अथोपविष्टः प्रतिसत्कृतश्च; वृद्धेन राज्ञा कुरुसत्तमेन +प्रचोदितः सन्कथयां बभूव; धर्मानिलेन्द्रप्रभवान्यमौ च +कृशांश्च वातातपकर्शिताङ्गा;न्दुःखस्य चोग्रस्य मुखे प्रपन्नान् +तां चाप्यनाथामिव वीरनाथां; कृष्णां परिक्लेशगुणेन युक्ताम् +ततः कथां तस्य निशम्य राजा; वैचित्रवीर्यः कृपयाभितप्तः +वने स्थितान्पार्थिवपुत्रपौत्रा;ञ्श्रुत्वा तदा दुःखनदीं प्रपन्नान् +प्रोवाच दैन्याभिहतान्तरात्मा; निःश्वासबाष्पोपहतः स पार्थान् +वाचं कथंचित्स्थिरतामुपेत्य; तत्सर्वमात्मप्रभवं विचिन्त्य +कथं नु सत्यः शुचिरार्यवृत्तो; ज्येष्ठः सुतानां मम धर्मराजः +अजातशत्रुः पृथिवीतलस्थः; शेते पुरा राङ्कवकूटशायी +प्रबोध्यते मागधसूतपूगै;र्नित्यं स्तुवद्भिः स्वयमिन्द्रकल्पः +पतत्रिसंघैः स जघन्यरात्रे; प्रबोध्यते नूनमिडातलस्थः +कथं नु वातातपकर्शिताङ्गो; वृकोदरः कोपपरिप्लुताङ्गः +शेते पृथिव्यामतथोचिताङ्गः; कृष्णासमक्षं वसुधातलस्थः +तथार्जुनः सुकुमारो मनस्वी; वशे स्थितो धर्मसुतस्य राज्ञः +विदूयमानैरिव सर्वगात्रै;र्ध्रुवं न शेते वसतीरमर्षात् +यमौ च कृष्णां च युधिष्ठिरं च; भीमं च दृष्ट्वा सुखविप्रयुक्तान् +विनिःश्वसन्सर्प इवोग्रतेजा; ध्रुवं न शेते वसतीरमर्षात् +तथा यमौ चाप्यसुखौ सुखार्हौ; समृद्धरूपावमरौ दिवीव +प्रजागरस्थौ ध्रुवमप्रशान्तौ; धर्मेण सत्येन च वार्यमाणौ +समीरणेनापि समो बलेन; समीरणस्यैव सुतो बलीयान् +स धर्मपाशेन सितोग्रतेजा; ध्रुवं विनिःश्वस्य सहत्यमर्षम् +स चापि भूमौ परिवर्तमानो; वधं सुतानां मम काङ्क्षमाणः +सत्येन धर्मेण च वार्यमाणः; कालं प्रतीक्षत्यधिको रणेऽन्यैः +अजातशत्रौ तु जिते निकृत्या; दुःशासनो यत्परुषाण्यवोचत् +तानि प्रविष्टानि वृकोदराङ्गं; दहन्ति मर्माग्निरिवेन्धनानि +न पापकं ध्यास्यति धर्मपुत्रो; धनंजयश्चाप्यनुवर्तते तम् +अरण्यवासेन विवर्धते तु; भीमस्य कोपोऽग्निरिवानिलेन +स तेन कोपेन विदीर्यमाणः; करं करेणाभिनिपीड्य वीरः +विनिःश्वसत्युष्णमतीव घोरं; दहन्निवेमान्मम पुत्रपौत्रान् +गाण्डीवधन्वा च वृकोदरश्च; संरम्भिणावन्तककालकल्पौ +न शेषयेतां युधि शत्रुसेनां; शरान्किरन्तावशनिप्रकाशान् +दुर्योधनः शकुनिः सूतपुत्रो; दुःशासनश्चापि सुमन्दचेताः +मधु प्रपश्यन्ति न तु प्रपातं; वृकोदरं चैव धनंजयं च +शुभाशुभं पुरुषः कर्म कृत्वा; प्रतीक्षते तस्य फलं स्म कर्ता +स तेन युज्यत्यवशः फलेन; मोक्षः कथं स्यात्पुरुषस्य तस्मात् +क्षेत्रे सुकृष्टे ह्युपिते च बीजे; देवे च वर्षत्यृतुकालयुक्तम् +न स्यात्फलं तस्य कुतः प्रसिद्धि;रन्यत्र दैवादिति चिन्तयामि +कृतं मताक्षेण यथा न साधु; साधुप्रवृत्तेन च पाण्डवेन +मया च दुष्पुत्रवशानुगेन; यथा कुरूणामयमन्तकालः +ध्रुवं प्रवास्यत्यसमीरितोऽपि; ध्रुवं प्रजास्यत्युत गर्भिणी या +ध्रुवं दिनादौ रजनीप्रणाश;स्तथा क्षपादौ च दिनप्रणाशः +क्रियेत कस्मान्न परे च कुर्यु;र्वित्तं न दद्युः पुरुषाः कथंचित् +प्राप्यार्थकालं च भवेदनर्थः; कथं नु तत्स्यादिति तत्कुतः स्यात् +कथं न भिद्येत न च स्रवेत; न च प्रसिच्येदिति रक्षितव्यम् +अरक्ष्यमाणः शतधा विशीर्ये;द्ध्रुवं न नाशोऽस्ति कृतस्य लोके +गतो ह्यरण्यादपि शक्रलोकं; धनंजयः पश्यत वीर्यमस्य +अस्त्राणि दिव्यानि चतुर्विधानि; ज्ञात्वा पुनर्लोकमिमं प्रपन्नः +स्वर्गं हि गत्वा सशरीर एव; को मानुषः पुनरागन्तुमिच्छेत् +अन्यत्र कालोपहताननेका;न्समीक्षमाणस्तु कुरून्मुमूर्षून् +धनुर्ग्राहश्चार्जुनः सव्यसाची; धनुश्च तद्गाण्डिवं लोकसारम् +अस्त्राणि दिव्यानि च तानि तस्य; त्रयस्य तेजः प्रसहेत को नु +निशम्य तद्वचनं पार्थिवस्य; दुर्योधनो रहिते सौबलश्च +अबोधयत्कर्णमुपेत्य सर्वं; स चाप्यहृष्टोऽभवदल्पचेताः +वैशंपायन उवाच +धृतराष्ट्रस्य तद्वाक्यं निशम्य सहसौबलः +दुर्योधनमिदं काले कर्णो वचनमब्रवीत् +प्रव्राज्य पाण्डवान्वीरान्स्वेन वीर्येण भारत +भुङ्क्ष्वेमां पृथिवीमेको दिवं शम्बरहा यथा +प्राच्याश्च दाक्षिणात्याश्च प्रतीच्योदीच्यवासिनः +कृताः करप्रदाः सर्वे राजानस्ते नराधिप +या हि सा दीप्यमानेव पाण्डवान्भजते पुरा +साद्य लक्ष्मीस्त्वया राजन्नवाप्ता भ्रातृभिः सह +इन्द्रप्रस्थगते यां तां दीप्यमानां युधिष्ठिरे +अपश्याम श्रियं राजन्नचिरं शोककर्शिताः +सा तु बुद्धिबलेनेयं राज्ञस्तस्माद्युधिष्ठिरात् +त्वयाक्षिप्ता महाबाहो दीप्यमानेव दृश्यते +तथैव तव राजेन्द्र राजानः परवीरहन् +शासनेऽधिष्ठिताः सर्वे किं कुर्म इति वादिनः +तवाद्य पृथिवी राजन्निखिला सागराम्बरा +सपर्वतवना देवी सग्रामनगराकरा +नानावनोद्देशवती पत्तनैरुपशोभिता +वन्द्यमानो द्विजै राजन्पूज्यमानश्च राजभिः +पौरुषाद्दिवि देवेषु भ्राजसे रश्मिवानिव +रुद्रैरिव यमो राजा मरुद्भिरिव वासवः +कुरुभिस्त्वं वृतो राजन्भासि नक्षत्रराडिव +ये स्म ते नाद्रियन्तेऽऽज्ञा नोद्विजन्ते कदा च न +पश्यामस्ताञ्श्रिया हीनान्पाण्डवान्वनवासिनः +श्रूयन्ते हि महाराज सरो द्वैतवनं प्रति +वसन्तः पाण्डवाः सार्धं ब्राह्मणैर्वनवासिभिः +स प्रयाहि महाराज श्रिया परमया युतः +प्रतपन्पाण्डुपुत्रांस्त्वं रश्मिवानिव तेजसा +स्थितो राज्ये च्युतान्राज्याच्छ्रिया हीनाञ्श्रिया वृतः +असमृद्धान्समृद्धार्थः पश्य पाण्डुसुतान्नृप +महाभिजनसंपन्नं भद्रे महति संस्थितम् +पाण्डवास्त्वाभिवीक्षन्तां ययातिमिव नाहुषम् +यां श्रियं सुहृदश्चैव दुर्हृदश्च विशां पते +पश्यन्ति पुरुषे दीप्तां सा समर्था भवत्युत +समस्थो विषमस्थान्हि दुर्हृदो योऽभिवीक्षते +जगतीस्थानिवाद्रिस्थः किं ततः परमं सुखम् +न पुत्रधनलाभेन न राज्येनापि विन्दति +प्रीतिं नृपतिशार्दूल याममित्राघदर्शनात् +किं नु तस्य सुखं न स्यादाश्रमे यो धनंजयम् +अभिवीक्षेत सिद्धार्थो वल्कलाजिनवाससम् +सुवाससो हि ते भार्या वल्कलाजिनवाससम् +पश्यन्त्वसुखितां कृष्णां सा च निर्विद्यतां पुनः +विनिन्दतां तथात्मानं जीवितं च धनच्युता +न तथा हि सभामध्ये तस्या भवितुमर्हति +वैमनस्यं यथा दृष्ट्वा तव भार्याः स्वलंकृताः +एवमुक्त्वा तु राजानं कर्णः शकुनिना सह +तूष्णीं बभूवतुरुभौ वाक्यान्ते जनमेजय +वैशंपायन उवाच +कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्तदा +हृष्टो भूत्वा पुनर्दीन इदं वचनमब्रवीत् +ब्रवीषि यदिदं कर्ण सर्वं मे मनसि स्थितम् +न त्वभ्यनुज्ञां लप्स्यामि गमने यत्र पाण्डवाः +परिदेवति तान्वीरान्धृतराष्ट्रो महीपतिः +मन्यतेऽभ्यधिकांश्चापि तपोयोगेन पाण्डवान् +अथ वाप्यनुबुध्येत नृपोऽस्माकं चिकीर्षितम् +एवमप्यायतिं रक्षन्नाभ्यनुज्ञातुमर्हति +न हि द्वैतवने किंचिद्विद्यतेऽन्यत्प्रयोजनम् +उत्सादनमृते तेषां वनस्थानां मम द्विषाम् +जानासि हि यथा क्षत्ता द्यूतकाल उपस्थिते +अब्रवीद्यच्च मां त्वां च सौबलं च वचस्तदा +तानि पूर्वाणि वाक्यानि यच्चान्यत्परिदेवितम् +विचिन्त्य नाधिगच्छामि गमनायेतराय वा +ममापि हि महान्हर्षो यदहं भीमफल्गुनौ +क्लिष्टावरण्ये पश्येयं कृष्णया सहिताविति +न तथा प्राप्नुयां प्रीतिमवाप्य वसुधामपि +दृष्ट्वा यथा पाण्डुसुतान्वल्कलाजिनवाससः +किं नु स्यादधिकं तस्माद्यदहं द्रुपदात्मजाम् +द्रौपदीं कर्ण पश्येयं काषायवसनां वने +यदि मां धर्मराजश्च भीमसेनश्च पाण्डवः +युक्तं परमया लक्ष्म्या पश्येतां जीवितं भवेत् +उपायं न तु पश्यामि येन गच्छेम तद्वनम् +यथा चाभ्यनुजानीयाद्गच्छन्तं मां महीपतिः +स सौबलेन सहितस्तथा दुःशासनेन च +उपायं पश्य निपुणं येन गच्छेम तद्वनम् +अहमप्यद्य निश्चित्य गमनायेतराय वा +काल्यमेव गमिष्यामि समीपं पार्थिवस्य ह +मयि तत्रोपविष्टे तु भीष्मे च कुरुसत्तमे +उपायो यो भवेद्दृष्टस्तं ब्रूयाः सहसौबलः +ततो भीष्मस्य राज्ञश्च निशम्य गमनं प्रति +व्यवसायं करिष्येऽहमनुनीय पितामहम् +तथेत्युक्त्वा तु ते सर्वे जग्मुरावसथान्प्रति +व्युषितायां रजन्यां तु कर्णो राजानमभ्ययात् +ततो दुर्योधनं कर्णः प्रहसन्निदमब्रवीत् +उपायः परिदृष्टोऽयं तं निबोध जनेश्वर +घोषा द्वैतवने सर्वे त्वत्प्रतीक्षा नराधिप +घोषयात्रापदेशेन गमिष्यामो न संशयः +उचितं हि सदा गन्तुं घोषयात्रां विशां पते +एवं च त्वां पिता राजन्समनुज्ञातुमर्हति +तथा कथयमानौ तौ घोषयात्राविनिश्चयम् +गान्धारराजः शकुनिः प्रत्युवाच हसन्निव +उपायोऽयं मया दृष्टो गमनाय निरामयः +अनुज्ञास्यति नो राजा चोदयिष्यति चाप्युत +घोषा द्वैतवने सर्वे त्वत्प्रतीक्षा नराधिप +घोषयात्रापदेशेन गमिष्यामो न संशयः +ततः प्रहसिताः सर्वे तेऽन्योन्यस्य तलान्ददुः +तदेव च विनिश्चित्य ददृशुः कुरुसत्तमम् +वैशंपायन उवाच +धृतराष्ट्रं ततः सर्वे ददृशुर्जनमेजय +पृष्ट्वा सुखमथो राज्ञः पृष्ट्वा राज्ञा च भारत +ततस्तैर्विहितः पूर्वं समङ्गो नाम बल्लवः +समीपस्थास्तदा गावो धृतराष्ट्रे न्यवेदयत् +अनन��तरं च राधेयः शकुनिश्च विशां पते +आहतुः पार्थिवश्रेष्ठं धृतराष्ट्रं जनाधिपम् +रमणीयेषु देशेषु घोषाः संप्रति कौरव +स्मारणासमयः प्राप्तो वत्सानामपि चाङ्कनम् +मृगया चोचिता राजन्नस्मिन्काले सुतस्य ते +दुर्योधनस्य गमनं त्वमनुज्ञातुमर्हसि +धृतराष्ट्र उवाच +मृगया शोभना तात गवां च समवेक्षणम् +विश्रम्भस्तु न गन्तव्यो बल्लवानामिति स्मरे +ते तु तत्र नरव्याघ्राः समीप इति नः श्रुतम् +अतो नाभ्यनुजानामि गमनं तत्र वः स्वयम् +छद्मना निर्जितास्ते हि कर्शिताश्च महावने +तपोनित्याश्च राधेय समर्थाश्च महारथाः +धर्मराजो न संक्रुध्येद्भीमसेनस्त्वमर्षणः +यज्ञसेनस्य दुहिता तेज एव तु केवलम् +यूयं चाप्यपराध्येयुर्दर्पमोहसमन्विताः +ततो विनिर्दहेयुस्ते तपसा हि समन्विताः +अथ वा सायुधा वीरा मन्युनाभिपरिप्लुताः +सहिता बद्धनिस्त्रिंशा दहेयुः शस्त्रतेजसा +अथ यूयं बहुत्वात्तानारभध्वं कथंचन +अनार्यं परमं तत्स्यादशक्यं तच्च मे मतम् +उषितो हि महाबाहुरिन्द्रलोके धनंजयः +दिव्यान्यस्त्राण्यवाप्याथ ततः प्रत्यागतो वनम् +अकृतास्त्रेण पृथिवी जिता बीभत्सुना पुरा +किं पुनः स कृतास्त्रोऽद्य न हन्याद्वो महारथः +अथ वा मद्वचः श्रुत्वा तत्र यत्ता भविष्यथ +उद्विग्नवासो विश्रम्भाद्दुःखं तत्र भविष्यति +अथ वा सैनिकाः केचिदपकुर्युर्युधिष्ठिरे +तदबुद्धिकृतं कर्म दोषमुत्पादयेच्च वः +तस्माद्गच्छन्तु पुरुषाः स्मारणायाप्तकारिणः +न स्वयं तत्र गमनं रोचये तव भारत +शकुनिरुवाच +धर्मज्ञः पाण्डवो ज्येष्ठः प्रतिज्ञातं च संसदि +तेन द्वादश वर्षाणि वस्तव्यानीति भारत +अनुवृत्ताश्च ते सर्वे पाण्डवा धर्मचारिणः +युधिष्ठिरश्च कौन्तेयो न नः कोपं करिष्यति +मृगयां चैव नो गन्तुमिच्छा संवर्धते भृशम् +स्मारणं च चिकीर्षामो न तु पाण्डवदर्शनम् +न चानार्यसमाचारः कश्चित्तत्र भविष्यति +न च तत्र गमिष्यामो यत्र तेषां प्रतिश्रयः +वैशंपायन उवाच +एवमुक्तः शकुनिना धृतराष्ट्रो जनेश्वरः +दुर्योधनं सहामात्यमनुजज्ञे न कामतः +अनुज्ञातस्तु गान्धारिः कर्णेन सहितस्तदा +निर्ययौ भरतश्रेष्ठो बलेन महता वृतः +दुःशासनेन च तथा सौबलेन च देविना +संवृतो भ्रातृभिश्चान्यैः स्त्रीभिश्चापि सहस्रशः +तं निर्यान्तं महाबाहुं द्रष्टुं द्वैतवनं सरः +पौराश्चानुययुः सर्वे सहदारा वनं च तत् +अष्टौ रथसहस्राणि त्रीणि नागायुतानि च +पत्तयो बहुसाहस्रा हयाश्च नवतिः शताः +शकटापणवेश्याश्च वणिजो बन्दिनस्तथा +नराश्च मृगयाशीलाः शतशोऽथ सहस्रशः +ततः प्रयाणे नृपतेः सुमहानभवत्स्वनः +प्रावृषीव महावायोरुद्धतस्य विशां पते +गव्यूतिमात्रे न्यवसद्राजा दुर्योधनस्तदा +प्रयातो वाहनैः सर्वैस्ततो द्वैतवनं सरः +वैशंपायन उवाच +अथ दुर्योधनो राजा तत्र तत्र वने वसन् +जगाम घोषानभितस्तत्र चक्रे निवेशनम् +रमणीये समाज्ञाते सोदके समहीरुहे +देशे सर्वगुणोपेते चक्रुरावसथं नराः +तथैव तत्समीपस्थान्पृथगावसथान्बहून् +कर्णस्य शकुनेश्चैव भ्रातॄणां चैव सर्वशः +ददर्श स तदा गावः शतशोऽथ सहस्रशः +अङ्कैर्लक्षैश्च ताः सर्वा लक्षयामास पार्थिवः +अङ्कयामास वत्सांश्च जज्ञे चोपसृतास्त्वपि +बालवत्साश्च या गावः कालयामास ता अपि +अथ स स्मारणं कृत्वा लक्षयित्वा त्रिहायनान् +वृतो गोपालकैः प्रीतो व्यहरत्कुरुनन्दनः +स च पौरजनः सर्वः सैनिकाश्च सहस्रशः +यथोपजोषं चिक्रीडुर्वने तस्मिन्यथामराः +ततो गोपाः प्रगातारः कुशला नृत्तवादिते +धार्तराष्ट्रमुपातिष्ठन्कन्याश्चैव स्वलंकृताः +स स्त्रीगणवृतो राजा प्रहृष्टः प्रददौ वसु +तेभ्यो यथार्हमन्नानि पानानि विविधानि च +ततस्ते सहिताः सर्वे तरक्षून्महिषान्मृगान् +गवयर्क्षवराहांश्च समन्तात्पर्यकालयन् +स ताञ्शरैर्विनिर्भिन्दन्गजान्बध्नन्महावने +रमणीयेषु देशेषु ग्राहयामास वै मृगान् +गोरसानुपयुञ्जान उपभोगांश्च भारत +पश्यन्सुरमणीयानि पुष्पितानि वनानि च +मत्तभ्रमरजुष्टानि बर्हिणाभिरुतानि च +अगच्छदानुपूर्व्येण पुण्यं द्वैतवनं सरः +ऋद्ध्या परमया युक्तो महेन्द्र इव वज्रभृत् +यदृच्छया च तदहो धर्मपुत्रो युधिष्ठिरः +ईजे राजर्षियज्ञेन सद्यस्केन विशां पते +दिव्येन विधिना राजा वन्येन कुरुसत्तमः +कृत्वा निवेशमभितः सरसस्तस्य कौरवः +द्रौपद्या सहितो धीमान्धर्मपत्न्या नराधिपः +ततो दुर्योधनः प्रेष्यानादिदेश सहानुजः +आक्रीडावसथाः क्षिप्रं क्रियन्तामिति भारत +ते तथेत्येव कौरव्यमुक्त्वा वचनकारिणः +चिकीर्षन्तस्तदाक्रीडाञ्जग्मुर्द्वैतवनं सरः +सेनाग्रं धार्तराष्ट्रस्य प्राप्तं द्वैतवनं सरः +प्रविशन्तं वनद्वारि गन्धर्वाः समवारयन् +तत्र गन्धर्वराजो वै पूर्वमेव विशां पते +कुबेरभवनाद्राजन्नाजगाम गणावृतः +गणैरप्सरसां चैव त्रिदशानां तथात्मजैः +विहारशीलः क्रीडार्थं तेन तत्संवृतं सरः +तेन तत्संवृतं दृष्ट्वा ते राजपरिचारकाः +प्रतिजग्मुस्ततो राजन्यत्र दुर्योधनो नृपः +स तु तेषां वचः श्रुत्वा सैनिकान्युद्धदुर्मदान् +प्रेषयामास कौरव्य उत्सारयत तानिति +तस्य तद्वचनं श्रुत्वा राज्ञः सेनाग्रयायिनः +सरो द्वैतवनं गत्वा गन्धर्वानिदमब्रुवन् +राजा दुर्योधनो नाम धृतराष्ट्रसुतो बली +विजिहीर्षुरिहायाति तदर्थमपसर्पत +एवमुक्तास्तु गन्धर्वाः प्रहसन्तो विशां पते +प्रत्यब्रुवंस्तान्पुरुषानिदं सुपरुषं वचः +न चेतयति वो राजा मन्दबुद्धिः सुयोधनः +योऽस्मानाज्ञापयत्येवं वश्यानिव दिवौकसः +यूयं मुमूर्षवश्चापि मन्दप्रज्ञा न संशयः +ये तस्य वचनादेवमस्मान्ब्रूत विचेतसः +गच्छत त्वरिताः सर्वे यत्र राजा स कौरवः +द्वेष्यं माद्यैव गच्छध्वं धर्मराजनिवेशनम् +एवमुक्तास्तु गन्धर्वै राज्ञः सेनाग्रयायिनः +संप्राद्रवन्यतो राजा धृतराष्ट्रसुतोऽभवत् +वैशंपायन उवाच +ततस्ते सहिताः सर्वे दुर्योधनमुपागमन् +अब्रुवंश्च महाराज यदूचुः कौरवं प्रति +गन्धर्वैर्वारिते सैन्ये धार्तराष्ट्रः प्रतापवान् +अमर्षपूर्णः सैन्यानि प्रत्यभाषत भारत +शासतैनानधर्मज्ञान्मम विप्रियकारिणः +यदि प्रक्रीडितो देवैः सर्वैः सह शतक्रतुः +दुर्योधनवचः श्रुत्वा धार्तराष्ट्रा महाबलाः +सर्व एवाभिसंनद्धा योधाश्चापि सहस्रशः +ततः प्रमथ्य गन्धर्वांस्तद्वनं विविशुर्बलात् +सिंहनादेन महता पूरयन्तो दिशो दश +ततोऽपरैरवार्यन्त गन्धर्वैः कुरुसैनिकाः +ते वार्यमाणा गन्धर्वैः साम्नैव वसुधाधिप +ताननादृत्य गन्धर्वांस्तद्वनं विविशुर्महत् +यदा वाचा न तिष्ठन्ति धार्तराष्ट्राः सराजकाः +ततस्ते खेचराः सर्वे चित्रसेने न्यवेदयन् +गन्धर्वराजस्तान्सर्वानब्रवीत्कौरवान्प्रति +अनार्याञ्शासतेत्येवं चित्रसेनोऽत्यमर्षणः +अनुज्ञातास्तु गन्धर्वाश्चित्रसेनेन भारत +प्रगृहीतायुधाः सर्वे धार्तराष्ट्रानभिद्रवन् +तान्दृष्ट्वा पततः शीघ्रान्गन्धर्वानुद्यतायुधान् +सर्वे ते प्राद्रवन्संख्ये धार्तराष्ट्रस्य पश्यतः +तान्दृष्ट्वा द्रवतः सर्वान्धार्तराष्ट्रान्पराङ्मुखान् +वैकर्तनस्तदा वीरो नासीत्तत्र पराङ्मुखः +आपतन्तीं तु संप्रेक्ष्य गन्धर्वाणां महाचमूम् +महता शरवर्षेण राधेयः प्रत्यवारयत् +क्षुरप्रैर्विशिखैर्भल्लैर्वत्सदन्तैस्तथायसैः +गन्धर्वाञ्शतशोऽभ्यघ्नँल्लघुत्वात्सूतनन्दनः +पातयन्नुत्तमाङ्गानि गन्धर्वाणां महारथः +क्षणेन व्यधमत्सर्वां चित्रसेनस्य वाहिनीम् +ते वध्यमाना गन्धर्वाः सूतपुत्रेण धीमता +भूय एवाभ्यवर्तन्त शतशोऽथ सहस्रशः +गन्धर्वभूता पृथिवी क्षणेन समपद्यत +आपतद्भिर्महावेगैश्चित्रसेनस्य सैनिकैः +अथ दुर्योधनो राजा शकुनिश्चापि सौबलः +दुःशासनो विकर्णश्च ये चान्ये धृतराष्ट्रजाः +न्यहनंस्तत्तदा सैन्यं रथैर्गरुडनिस्वनैः +भूयश्च योधयामासुः कृत्वा कर्णमथाग्रतः +महता रथघोषेण हयचारेण चाप्युत +वैकर्तनं परीप्सन्तो गन्धर्वान्समवारयन् +ततः संन्यपतन्सर्वे गन्धर्वाः कौरवैः सह +तदा सुतुमुलं युद्धमभवल्लोमहर्षणम् +ततस्ते मृदवोऽभूवन्गन्धर्वाः शरपीडिताः +उच्चुक्रुशुश्च कौरव्या गन्धर्वान्प्रेक्ष्य पीडितान् +गन्धर्वांस्त्रासितान्दृष्ट्वा चित्रसेनोऽत्यमर्षणः +उत्पपातासनात्क्रुद्धो वधे तेषां समाहितः +ततो मायास्त्रमास्थाय युयुधे चित्रमार्गवित् +तयामुह्यन्त कौरव्याश्चित्रसेनस्य मायया +एकैको हि तदा योधो धार्तराष्ट्रस्य भारत +पर्यवर्तत गन्धर्वैर्दशभिर्दशभिः सह +ततः संपीड्यमानास्ते बलेन महता तदा +प्राद्रवन्त रणे भीता यत्र राजा युधिष्ठिरः +भज्यमानेष्वनीकेषु धार्तराष्ट्रेषु सर्वशः +कर्णो वैकर्तनो राजंस्तस्थौ गिरिरिवाचलः +दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः +गन्धर्वान्योधयां चक्रुः समरे भृशविक्षताः +सर्व एव तु गन्धर्वाः शतशोऽथ सहस्रशः +जिघांसमानाः सहिताः कर्णमभ्यद्रवन्रणे +असिभिः पट्टिशैः शूलैर्गदाभिश्च महाबलाः +सूतपुत्रं जिघांसन्तः समन्तात्पर्यवारयन् +अन्येऽस्य युगमच्छिन्दन्ध्वजमन्ये न्यपातयन् +ईषामन्ये हयानन्ये सूतमन्ये न्यपातयन् +अन्ये छत्रं वरूथं च बन्धुरं च तथापरे +गन्धर्वा बहुसाहस्राः खण्डशोऽभ्यहनन्रथम् +ततो रथादवप्लुत्य सूतपुत्रोऽसिचर्मभृत् +विकर्णरथमास्थाय मोक्षायाश्वानचोदयत् +वैशंपायन उवाच +गन्धर्वैस्तु महाराज भग्ने कर्णे महारथे +संप्राद्रवच्चमूः सर्वा धार्तराष्ट्रस्य पश्यतः +तान्दृष्ट्वा द्रवतः सर्वान्धार्तराष्ट्रा��्पराङ्मुखान् +दुर्योधनो महाराज नासीत्तत्र पराङ्मुखः +तामापतन्तीं संप्रेक्ष्य गन्धर्वाणां महाचमूम् +महता शरवर्षेण सोऽभ्यवर्षदरिंदमः +अचिन्त्य शरवर्षं तु गन्धर्वास्तस्य तं रथम् +दुर्योधनं जिघांसन्तः समन्तात्पर्यवारयन् +युगमीषां वरूथं च तथैव ध्वजसारथी +अश्वांस्त्रिवेणुं तल्पं च तिलशोऽभ्यहनन्रथम् +दुर्योधनं चित्रसेनो विरथं पतितं भुवि +अभिद्रुत्य महाबाहुर्जीवग्राहमथाग्रहीत् +तस्मिन्गृहीते राजेन्द्र स्थितं दुःशासनं रथे +पर्यगृह्णन्त गन्धर्वाः परिवार्य समन्ततः +विविंशतिं चित्रसेनमादायान्ये प्रदुद्रुवुः +विन्दानुविन्दावपरे राजदारांश्च सर्वशः +सैन्यास्तु धार्तराष्ट्रस्य गन्धर्वैः समभिद्रुताः +पूर्वं प्रभग्नैः सहिताः पाण्डवानभ्ययुस्तदा +शकटापणवेश्याश्च यानयुग्यं च सर्वशः +शरणं पाण्डवाञ्जग्मुर्ह्रियमाणे महीपतौ +प्रियदर्शनो महाबाहुर्धार्तराष्ट्रो महाबलः +गन्धर्वैर्ह्रियते राजा पार्थास्तमनुधावत +दुःशासनो दुर्विषहो दुर्मुखो दुर्जयस्तथा +बद्ध्वा ह्रियन्ते गन्धर्वै राजदाराश्च सर्वशः +इति दुर्योधनामात्याः क्रोशन्तो राजगृद्धिनः +आर्ता दीनस्वराः सर्वे युधिष्ठिरमुपागमन् +तांस्तथा व्यथितान्दीनान्भिक्षमाणान्युधिष्ठिरम् +वृद्धान्दुर्योधनामात्यान्भीमसेनोऽभ्यभाषत +अन्यथा वर्तमानानामर्थो जातोऽयमन्यथा +अस्माभिर्यदनुष्ठेयं गन्धर्वैस्तदनुष्ठितम् +दुर्मन्त्रितमिदं तात राज्ञो दुर्द्यूतदेविनः +द्वेष्टारमन्ये क्लीबस्य पातयन्तीति नः श्रुतम् +तदिदं कृतं नः प्रत्यक्षं गन्धर्वैरतिमानुषम् +दिष्ट्या लोके पुमानस्ति कश्चिदस्मत्प्रिये स्थितः +येनास्माकं हृतो भार आसीनानां सुखावहः +शीतवातातपसहांस्तपसा चैव कर्शितान् +समस्थो विषमस्थान्हि द्रष्टुमिच्छति दुर्मतिः +अधर्मचारिणस्तस्य कौरव्यस्य दुरात्मनः +ये शीलमनुवर्तन्ते ते पश्यन्ति पराभवम् +अधर्मो हि कृतस्तेन येनैतदुपशिक्षितम् +अनृशंसास्तु कौन्तेयास्तस्याध्यक्षान्ब्रवीमि वः +एवं ब्रुवाणं कौन्तेयं भीमसेनममर्षणम् +न कालः परुषस्यायमिति राजाभ्यभाषत +युधिष्ठिर उवाच +अस्मानभिगतांस्तात भयार्ताञ्शरणैषिणः +कौरवान्विषमप्राप्तान्कथं ब्रूयास्त्वमीदृशम् +भवन्ति भेदा ज्ञातीनां कलहाश्च वृकोदर +प्रसक्तानि च वैराणि ज्ञातिधर्मो न नश्यति +यदा तु कश्चिज्ज्ञातीनां बाह्यः प्रार्थयते कुलम् +न मर्षयन्ति तत्सन्तो बाह्येनाभिप्रमर्षणम् +जानाति ह्येष दुर्बुद्धिरस्मानिह चिरोषितान् +स एष परिभूयास्मानकार्षीदिदमप्रियम् +दुर्योधनस्य ग्रहणाद्गन्धर्वेण बलाद्रणे +स्त्रीणां बाह्याभिमर्शाच्च हतं भवति नः कुलम् +शरणं च प्रपन्नानां त्राणार्थं च कुलस्य नः +उत्तिष्ठध्वं नरव्याघ्राः सज्जीभवत माचिरम् +अर्जुनश्च यमौ चैव त्वं च भीमापराजितः +मोक्षयध्वं धार्तराष्ट्रं ह्रियमाणं सुयोधनम् +एते रथा नरव्याघ्राः सर्वशस्त्रसमन्विताः +इन्द्रसेनादिभिः सूतैः संयताः कनकध्वजाः +एतानास्थाय वै तात गन्धर्वान्योद्धुमाहवे +सुयोधनस्य मोक्षाय प्रयतध्वमतन्द्रिताः +य एव कश्चिद्राजन्यः शरणार्थमिहागतम् +परं शक्त्याभिरक्षेत किं पुनस्त्वं वृकोदर +क इहान्यो भवेत्त्राणमभिधावेति चोदितः +प्राञ्जलिं शरणापन्नं दृष्ट्वा शत्रुमपि ध्रुवम् +वरप्रदानं राज्यं च पुत्रजन्म च पाण्डव +शत्रोश्च मोक्षणं क्लेशात्त्रीणि चैकं च तत्समम् +किं ह्यभ्यधिकमेतस्माद्यदापन्नः सुयोधनः +त्वद्बाहुबलमाश्रित्य जीवितं परिमार्गति +स्वयमेव प्रधावेयं यदि न स्याद्वृकोदर +विततोऽयं क्रतुर्वीर न हि मेऽत्र विचारणा +साम्नैव तु यथा भीम मोक्षयेथाः सुयोधनम् +तथा सर्वैरुपायैस्त्वं यतेथाः कुरुनन्दन +न साम्ना प्रतिपद्येत यदि गन्धर्वराडसौ +पराक्रमेण मृदुना मोक्षयेथाः सुयोधनम् +अथासौ मृदुयुद्धेन न मुञ्चेद्भीम कौरवान् +सर्वोपायैर्विमोच्यास्ते निगृह्य परिपन्थिनः +एतावद्धि मया शक्यं संदेष्टुं वै वृकोदर +वैताने कर्मणि तते वर्तमाने च भारत +वैशंपायन उवाच +अजातशत्रोर्वचनं तच्छ्रुत्वा तु धनंजयः +प्रतिजज्ञे गुरोर्वाक्यं कौरवाणां विमोक्षणम् +अर्जुन उवाच +यदि साम्ना न मोक्ष्यन्ति गन्धर्वा धृतराष्ट्रजान् +अद्य गन्धर्वराजस्य भूमिः पास्यति शोणितम् +वैशंपायन उवाच +अर्जुनस्य तु तां श्रुत्वा प्रतिज्ञां सत्यवादिनः +कौरवाणां तदा राजन्पुनः प्रत्यागतं मनः +वैशंपायन उवाच +युधिष्ठिरवचः श्रुत्वा भीमसेनपुरोगमाः +प्रहृष्टवदनाः सर्वे समुत्तस्थुर्नरर्षभाः +अभेद्यानि ततः सर्वे समनह्यन्त भारत +जाम्बूनदविचित्राणि कवचानि महारथाः +ते दंशिता रथैः सर्वे ध्वजिनः सशरासनाः +पाण्डवाः प्र��्यदृश्यन्त ज्वलिता इव पावकाः +तान्रथान्साधु संपन्नान्संयुक्ताञ्जवनैर्हयैः +आस्थाय रथशार्दूलाः शीघ्रमेव ययुस्ततः +ततः कौरवसैन्यानां प्रादुरासीन्महास्वनः +प्रयातान्सहितान्दृष्ट्वा पाण्डुपुत्रान्महारथान् +जितकाशिनश्च खचरास्त्वरिताश्च महारथाः +क्षणेनैव वने तस्मिन्समाजग्मुरभीतवत् +न्यवर्तन्त ततः सर्वे गन्धर्वा जितकाशिनः +दृष्ट्वा रथगतान्वीरान्पाण्डवांश्चतुरो रणे +तांस्तु विभ्राजतो दृष्ट्वा लोकपालानिवोद्यतान् +व्यूढानीका व्यतिष्ठन्त गन्धमादनवासिनः +राज्ञस्तु वचनं श्रुत्वा धर्मराजस्य धीमतः +क्रमेण मृदुना युद्धमुपक्रामन्त भारत +न तु गन्धर्वराजस्य सैनिका मन्दचेतसः +शक्यन्ते मृदुना श्रेयः प्रतिपादयितुं तदा +ततस्तान्युधि दुर्धर्षः सव्यसाची परंतपः +सान्त्वपूर्वमिदं वाक्यमुवाच खचरान्रणे +नैतद्गन्धर्वराजस्य युक्तं कर्म जुगुप्सितम् +परदाराभिमर्शश्च मानुषैश्च समागमः +उत्सृजध्वं महावीर्यान्धृतराष्ट्रसुतानिमान् +दारांश्चैषां विमुञ्चध्वं धर्मराजस्य शासनात् +एवमुक्तास्तु गन्धर्वाः पाण्डवेन यशस्विना +उत्स्मयन्तस्तदा पार्थमिदं वचनमब्रुवन् +एकस्यैव वयं तात कुर्याम वचनं भुवि +यस्य शासनमाज्ञाय चराम विगतज्वराः +तेनैकेन यथादिष्टं तथा वर्ताम भारत +न शास्ता विद्यतेऽस्माकमन्यस्तस्मात्सुरेश्वरात् +एवमुक्तस्तु गन्धर्वैः कुन्तीपुत्रो धनंजयः +गन्धर्वान्पुनरेवेदं वचनं प्रत्यभाषत +यदि साम्ना न मोक्षध्वं गन्धर्वा धृतराष्ट्रजम् +मोक्षयिष्यामि विक्रम्य स्वयमेव सुयोधनम् +एवमुक्त्वा ततः पार्थः सव्यसाची धनंजयः +ससर्ज निशितान्बाणान्खचरान्खचरान्प्रति +तथैव शरवर्षेण गन्धर्वास्ते बलोत्कटाः +पाण्डवानभ्यवर्तन्त पाण्डवाश्च दिवौकसः +ततः सुतुमुलं युद्धं गन्धर्वाणां तरस्विनाम् +बभूव भीमवेगानां पाण्डवानां च भारत +वैशंपायन उवाच +ततो दिव्यास्त्रसंपन्ना गन्धर्वा हेममालिनः +विसृजन्तः शरान्दीप्तान्समन्तात्पर्यवारयन् +चत्वारः पाण्डवा वीरा गन्धर्वाश्च सहस्रशः +रणे संन्यपतन्राजंस्तदद्भुतमिवाभवत् +यथा कर्णस्य च रथो धार्तराष्ट्रस्य चोभयोः +गन्धर्वैः शतशश्छिन्नौ तथा तेषां प्रचक्रिरे +तान्समापततो राजन्गन्धर्वाञ्शतशो रणे +प्रत्यगृह्णन्नरव्याघ्राः शरवर्षैरनेकशः +अवकीर्यम���णाः खगमाः शरवर्षैः समन्ततः +न शेकुः पाण्डुपुत्राणां समीपे परिवर्तितुम् +अभिक्रुद्धानभिप्रेक्ष्य गन्धर्वानर्जुनस्तदा +लक्षयित्वाथ दिव्यानि महास्त्राण्युपचक्रमे +सहस्राणां सहस्रं स प्राहिणोद्यमसादनम् +आग्नेयेनार्जुनः संख्ये गन्धर्वाणां बलोत्कटः +तथा भीमो महेष्वासः संयुगे बलिनां वरः +गन्धर्वाञ्शतशो राजञ्जघान निशितैः शरैः +माद्रीपुत्रावपि तथा युध्यमानौ बलोत्कटौ +परिगृह्याग्रतो राजञ्जघ्नतुः शतशः परान् +ते वध्यमाना गन्धर्वा दिव्यैरस्त्रैर्महात्मभिः +उत्पेतुः खमुपादाय धृतराष्ट्रसुतांस्ततः +तानुत्पतिष्णून्बुद्ध्वा तु कुन्तीपुत्रो धनंजयः +महता शरजालेन समन्तात्पर्यवारयत् +ते बद्धाः शरजालेन शकुन्ता इव पञ्जरे +ववर्षुरर्जुनं क्रोधाद्गदाशक्त्यृष्टिवृष्टिभिः +गदाशक्त्यसिवृष्टीस्ता निहत्य स महास्त्रवित् +गात्राणि चाहनद्भल्लैर्गन्धर्वाणां धनंजयः +शिरोभिः प्रपतद्भिश्च चरणैर्बाहुभिस्तथा +अश्मवृष्टिरिवाभाति परेषामभवद्भयम् +ते वध्यमाना गन्धर्वाः पाण्डवेन महात्मना +भूमिष्ठमन्तरिक्षस्थाः शरवर्षैरवाकिरन् +तेषां तु शरवर्षाणि सव्यसाची परंतपः +अस्त्रैः संवार्य तेजस्वी गन्धर्वान्प्रत्यविध्यत +स्थूणाकर्णेन्द्रजालं च सौरं चापि तथार्जुनः +आग्नेयं चापि सौम्यं च ससर्ज कुरुनन्दनः +ते दह्यमाना गन्धर्वाः कुन्तीपुत्रस्य सायकैः +दैतेया इव शक्रेण विषादमगमन्परम् +ऊर्ध्वमाक्रममाणाश्च शरजालेन वारिताः +विसर्पमाणा भल्लैश्च वार्यन्ते सव्यसाचिना +गन्धर्वांस्त्रासितान्दृष्ट्वा कुन्तीपुत्रेण धीमता +चित्रसेनो गदां गृह्य सव्यसाचिनमाद्रवत् +तस्याभिपततस्तूर्णं गदाहस्तस्य संयुगे +गदां सर्वायसीं पार्थः शरैश्चिच्छेद सप्तधा +स गदां बहुधा दृष्ट्वा कृत्तां बाणैस्तरस्विना +संवृत्य विद्ययात्मानं योधयामास पाण्डवम् +अस्त्राणि तस्य दिव्यानि योधयामास खे स्थितः +गन्धर्वराजो बलवान्माययान्तर्हितस्तदा +अन्तर्हितं समालक्ष्य प्रहरन्तमथार्जुनः +ताडयामास खचरैर्दिव्यास्त्रप्रतिमन्त्रितैः +अन्तर्धानवधं चास्य चक्रे क्रुद्धोऽर्जुनस्तदा +शब्दवेध्यमुपाश्रित्य बहुरूपो धनंजयः +स वध्यमानस्तैरस्त्रैरर्जुनेन महात्मना +अथास्य दर्शयामास तदात्मानं प्रियः सखा +चित्रसेनमथालक्ष्य सखायं युधि दुर्बलम् +संजहारास्त्रमथ तत्प्रसृष्टं पाण्डवर्षभः +दृष्ट्वा तु पाण्डवाः सर्वे संहृतास्त्रं धनंजयम् +संजह्रुः प्रद्रुतानश्वाञ्शरवेगान्धनूंषि च +चित्रसेनश्च भीमश्च सव्यसाची यमावपि +पृष्ट्वा कौशलमन्योन्यं रथेष्वेवावतस्थिरे +वैशंपायन उवाच +ततोऽर्जुनश्चित्रसेनं प्रहसन्निदमब्रवीत् +मध्ये गन्धर्वसैन्यानां महेष्वासो महाद्युतिः +किं ते व्यवसितं वीर कौरवाणां विनिग्रहे +किमर्थं च सदारोऽयं निगृहीतः सुयोधनः +चित्रसेन उवाच +विदितोऽयमभिप्रायस्तत्रस्थेन महात्मना +दुर्योधनस्य पापस्य कर्णस्य च धनंजय +वनस्थान्भवतो ज्ञात्वा क्लिश्यमानाननर्हवत् +इमेऽवहसितुं प्राप्ता द्रौपदीं च यशस्विनीम् +ज्ञात्वा चिकीर्षितं चैषां मामुवाच सुरेश्वरः +गच्छ दुर्योधनं बद्ध्वा सामात्यं त्वमिहानय +धनंजयश्च ते रक्ष्यः सह भ्रातृभिराहवे +स हि प्रियः सखा तुभ्यं शिष्यश्च तव पाण्डवः +वचनाद्देवराजस्य ततोऽस्मीहागतो द्रुतम् +अयं दुरात्मा बद्धश्च गमिष्यामि सुरालयम् +अर्जुन उवाच +उत्सृज्यतां चित्रसेन भ्रातास्माकं सुयोधनः +धर्मराजस्य संदेशान्मम चेदिच्छसि प्रियम् +चित्रसेन उवाच +पापोऽयं नित्यसंदुष्टो न विमोक्षणमर्हति +प्रलब्धा धर्मराजस्य कृष्णायाश्च धनंजय +नेदं चिकीर्षितं तस्य कुन्तीपुत्रो महाव्रतः +जानाति धर्मराजो हि श्रुत्वा कुरु यथेच्छसि +वैशंपायन उवाच +ते सर्व एव राजानमभिजग्मुर्युधिष्ठिरम् +अभिगम्य च तत्सर्वं शशंसुस्तस्य दुष्कृतम् +अजातशत्रुस्तच्छ्रुत्वा गन्धर्वस्य वचस्तदा +मोक्षयामास तान्सर्वान्गन्धर्वान्प्रशशंस च +दिष्ट्या भवद्भिर्बलिभिः शक्तैः सर्वैर्न हिंसितः +दुर्वृत्तो धार्तराष्ट्रोऽयं सामात्यज्ञातिबान्धवः +उपकारो महांस्तात कृतोऽयं मम खेचराः +कुलं न परिभूतं मे मोक्षेणास्य दुरात्मनः +आज्ञापयध्वमिष्टानि प्रीयामो दर्शनेन वः +प्राप्य सर्वानभिप्रायांस्ततो व्रजत माचिरम् +अनुज्ञातास्तु गन्धर्वाः पाण्डुपुत्रेण धीमता +सहाप्सरोभिः संहृष्टाश्चित्रसेनमुखा ययुः +देवराडपि गन्धर्वान्मृतांस्तान्समजीवयत् +दिव्येनामृतवर्षेण ये हताः कौरवैर्युधि +ज्ञातींस्तानवमुच्याथ राजदारांश्च सर्वशः +कृत्वा च दुष्करं कर्म प्रीतियुक्ताश्च पाण्डवाः +सस्त्रीकुमारैः कुरुभिः पूज्यमाना महारथाः +बभ्राजिरे महात्मानः कुरुमध्ये यथाग्नयः +ततो दुर्योधनं मुच्य भ्रातृभिः सहितं तदा +युधिष्ठिरः सप्रणयमिदं वचनमब्रवीत् +मा स्म तात पुनः कार्षीरीदृशं साहसं क्वचित् +न हि साहसकर्तारः सुखमेधन्ति भारत +स्वस्तिमान्सहितः सर्वैर्भ्रातृभिः कुरुनन्दन +गृहान्व्रज यथाकामं वैमनस्यं च मा कृथाः +पाण्डवेनाभ्यनुज्ञातो राजा दुर्योधनस्तदा +विदीर्यमाणो व्रीडेन जगाम नगरं प्रति +तस्मिन्गते कौरवेये कुन्तीपुत्रो युधिष्ठिरः +भ्रातृभिः सहितो वीरः पूज्यमानो द्विजातिभिः +तपोधनैश्च तैः सर्वैर्वृतः शक्र इवामरैः +वने द्वैतवने तस्मिन्विजहार मुदा युतः +जनमेजय उवाच +शत्रुभिर्जितबद्धस्य पाण्डवैश्च महात्मभिः +मोक्षितस्य युधा पश्चान्मानस्थस्य दुरात्मनः +कत्थनस्यावलिप्तस्य गर्वितस्य च नित्यशः +सदा च पौरुषौदार्यैः पाण्डवानवमन्यतः +दुर्योधनस्य पापस्य नित्याहंकारवादिनः +प्रवेशो हास्तिनपुरे दुष्करः प्रतिभाति मे +तस्य लज्जान्वितस्यैव शोकव्याकुलचेतसः +प्रवेशं विस्तरेण त्वं वैशंपायन कीर्तय +वैशंपायन उवाच +धर्मराजनिसृष्टस्तु धार्तराष्ट्रः सुयोधनः +लज्जयाधोमुखः सीदन्नुपासर्पत्सुदुःखितः +स्वपुरं प्रययौ राजा चतुरङ्गबलानुगः +शोकोपहतया बुद्ध्या चिन्तयानः पराभवम् +विमुच्य पथि यानानि देशे सुयवसोदके +संनिविष्टः शुभे रम्ये भूमिभागे यथेप्सितम् +हस्त्यश्वरथपादातं यथास्थानं न्यवेशयत् +अथोपविष्टं राजानं पर्यङ्के ज्वलनप्रभे +उपप्लुतं यथा सोमं राहुणा रात्रिसंक्षये +उपगम्याब्रवीत्कर्णो दुर्योधनमिदं तदा +दिष्ट्या जीवसि गान्धारे दिष्ट्या नः संगमः पुनः +दिष्ट्या त्वया जिताश्चैव गन्धर्वाः कामरूपिणः +दिष्ट्या समग्रान्पश्यामि भ्रातॄंस्ते कुरुनन्दन +विजिगीषून्रणान्मुक्तान्निर्जितारीन्महारथान् +अहं त्वभिद्रुतः सर्वैर्गन्धर्वैः पश्यतस्तव +नाशक्नुवं स्थापयितुं दीर्यमाणां स्ववाहिनीम् +शरक्षताङ्गश्च भृशं व्यपयातोऽभिपीडितः +इदं त्वत्यद्भुतं मन्ये यद्युष्मानिह भारत +अरिष्टानक्षतांश्चापि सदारधनवाहनान् +विमुक्तान्संप्रपश्यामि तस्माद्युद्धादमानुषात् +नैतस्य कर्ता लोकेऽस्मिन्पुमान्विद्येत भारत +यत्कृतं ते महाराज सह भ्रातृभिराहवे +एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा +उवाचावाक्शिरा राजन्बाष्पगद्गदया गिरा +दुर्योधन उवाच +अजानतस्ते राधेय नाभ्यसूयाम्यहं वचः +जानासि त्वं जिताञ्शत्रून्गन्धर्वांस्तेजसा मया +आयोधितास्तु गन्धर्वाः सुचिरं सोदरैर्मम +मया सह महाबाहो कृतश्चोभयतः क्षयः +मायाधिकास्त्वयुध्यन्त यदा शूरा वियद्गताः +तदा नो नसमं युद्धमभवत्सह खेचरैः +पराजयं च प्राप्ताः स्म रणे बन्धनमेव च +सभृत्यामात्यपुत्राश्च सदारधनवाहनाः +उच्चैराकाशमार्गेण ह्रियामस्तैः सुदुःखिताः +अथ नः सैनिकाः केचिदमात्याश्च महारथान् +उपगम्याब्रुवन्दीनाः पाण्डवाञ्शरणप्रदान् +एष दुर्योधनो राजा धार्तराष्ट्रः सहानुजः +सामात्यदारो ह्रियते गन्धर्वैर्दिवमास्थितैः +तं मोक्षयत भद्रं वः सहदारं नराधिपम् +परामर्शो मा भविष्यत्कुरुदारेषु सर्वशः +एवमुक्ते तु धर्मात्मा ज्येष्ठः पाण्डुसुतस्तदा +प्रसाद्य सोदरान्सर्वानाज्ञापयत मोक्षणे +अथागम्य तमुद्देशं पाण्डवाः पुरुषर्षभाः +सान्त्वपूर्वमयाचन्त शक्ताः सन्तो महारथाः +यदा चास्मान्न मुमुचुर्गन्धर्वाः सान्त्विता अपि +ततोऽर्जुनश्च भीमश्च यमजौ च बलोत्कटौ +मुमुचुः शरवर्षाणि गन्धर्वान्प्रत्यनेकशः +अथ सर्वे रणं मुक्त्वा प्रयाताः खचरा दिवम् +अस्मानेवाभिकर्षन्तो दीनान्मुदितमानसाः +ततः समन्तात्पश्यामि शरजालेन वेष्टितम् +अमानुषाणि चास्त्राणि प्रयुञ्जानं धनंजयम् +समावृता दिशो दृष्ट्वा पाण्डवेन शितैः शरैः +धनंजयसखात्मानं दर्शयामास वै तदा +चित्रसेनः पाण्डवेन समाश्लिष्य परंतपः +कुशलं परिपप्रच्छ तैः पृष्टश्चाप्यनामयम् +ते समेत्य तथान्योन्यं संनाहान्विप्रमुच्य च +एकीभूतास्ततो वीरा गन्धर्वाः सह पाण्डवैः +अपूजयेतामन्योन्यं चित्रसेनधनंजयौ +दुर्योधन उवाच +चित्रसेनं समागम्य प्रहसन्नर्जुनस्तदा +इदं वचनमक्लीबमब्रवीत्परवीरहा +भ्रातॄनर्हसि नो वीर मोक्तुं गन्धर्वसत्तम +अनर्हा धर्षणं हीमे जीवमानेषु पाण्डुषु +एवमुक्तस्तु गन्धर्वः पाण्डवेन महात्मना +उवाच यत्कर्ण वयं मन्त्रयन्तो विनिर्गताः +द्रष्टारः स्म सुखाद्धीनान्सदारान्पाण्डवानिति +तस्मिन्नुच्चार्यमाणे तु गन्धर्वेण वचस्यथ +भूमेर्विवरमन्वैच्छं प्रवेष्टुं व्रीडयान्वितः +युधिष्ठिरमथागम्य गन्धर्वाः सह पाण्डवैः +अस्मद्दुर्मन्त्रितं तस्मै बद्धांश्चास्मान्न्यवेदयन् +स्त्रीसमक्षमहं दीनो बद्धः शत्रुवशं ग���ः +युधिष्ठिरस्योपहृतः किं नु दुःखमतः परम् +ये मे निराकृता नित्यं रिपुर्येषामहं सदा +तैर्मोक्षितोऽहं दुर्बुद्धिर्दत्तं तैर्जीवितं च मे +प्राप्तः स्यां यद्यहं वीर वधं तस्मिन्महारणे +श्रेयस्तद्भविता मह्यमेवंभूतं न जीवितम् +भवेद्यशः पृथिव्यां मे ख्यातं गन्धर्वतो वधात् +प्राप्ताश्च लोकाः पुण्याः स्युर्महेन्द्रसदनेऽक्षयाः +यत्त्वद्य मे व्यवसितं तच्छृणुध्वं नरर्षभाः +इह प्रायमुपासिष्ये यूयं व्रजत वै गृहान् +भ्रातरश्चैव मे सर्वे प्रयान्त्वद्य पुरं प्रति +कर्णप्रभृतयश्चैव सुहृदो बान्धवाश्च ये +दुःशासनं पुरस्कृत्य प्रयान्त्वद्य पुरं प्रति +न ह्यहं प्रतियास्यामि पुरं शत्रुनिराकृतः +शत्रुमानापहो भूत्वा सुहृदां मानकृत्तथा +स सुहृच्छोकदो भूत्वा शत्रूणां हर्षवर्धनः +वारणाह्वयमासाद्य किं वक्ष्यामि जनाधिपम् +भीष्मो द्रोणः कृपो द्रौणिर्विदुरः संजयस्तथा +बाह्लीकः सोमदत्तश्च ये चान्ये वृद्धसंमताः +ब्राह्मणाः श्रेणिमुख्याश्च तथोदासीनवृत्तयः +किं मां वक्ष्यन्ति किं चापि प्रतिवक्ष्यामि तानहम् +रिपूणां शिरसि स्थित्वा तथा विक्रम्य चोरसि +आत्मदोषात्परिभ्रष्टः कथं वक्ष्यामि तानहम् +दुर्विनीताः श्रियं प्राप्य विद्यामैश्वर्यमेव च +तिष्ठन्ति न चिरं भद्रे यथाहं मदगर्वितः +अहो बत यथेदं मे कष्टं दुश्चरितं कृतम् +स्वयं दुर्बुद्धिना मोहाद्येन प्राप्तोऽस्मि संशयम् +तस्मात्प्रायमुपासिष्ये न हि शक्ष्यामि जीवितुम् +चेतयानो हि को जीवेत्कृच्छ्राच्छत्रुभिरुद्धृतः +शत्रुभिश्चावहसितो मानी पौरुषवर्जितः +पाण्डवैर्विक्रमाढ्यैश्च सावमानमवेक्षितः +वैशंपायन उवाच +एवं चिन्तापरिगतो दुःशासनमथाब्रवीत् +दुःशासन निबोधेदं वचनं मम भारत +प्रतीच्छ त्वं मया दत्तमभिषेकं नृपो भव +प्रशाधि पृथिवीं स्फीतां कर्णसौबलपालिताम् +भ्रातॄन्पालय विस्रब्धं मरुतो वृत्रहा यथा +बान्धवास्त्वोपजीवन्तु देवा इव शतक्रतुम् +ब्राह्मणेषु सदा वृत्तिं कुर्वीथाश्चाप्रमादतः +बन्धूनां सुहृदां चैव भवेथास्त्वं गतिः सदा +ज्ञातींश्चाप्यनुपश्येथा विष्णुर्देवगणानिव +गुरवः पालनीयास्ते गच्छ पालय मेदिनीम् +नन्दयन्सुहृदः सर्वाञ्शात्रवांश्चावभर्त्सयन् +कण्ठे चैनं परिष्वज्य गम्यतामित्युवाच ह +तस्य तद्वचनं श्रुत्वा दीनो दुःशासनो���ब्रवीत् +अश्रुकण्ठः सुदुःखार्तः प्राञ्जलिः प्रणिपत्य च +सगद्गदमिदं वाक्यं भ्रातरं ज्येष्ठमात्मनः +प्रसीदेत्यपतद्भूमौ दूयमानेन चेतसा +दुःखितः पादयोस्तस्य नेत्रजं जलमुत्सृजन् +उक्तवांश्च नरव्याघ्रो नैतदेवं भविष्यति +विदीर्येत्सनगा भूमिर्द्यौश्चापि शकलीभवेत् +रविरात्मप्रभां जह्यात्सोमः शीतांशुतां त्यजेत् +वायुः शैघ्र्यमथो जह्याद्धिमवांश्च परिव्रजेत् +शुष्येत्तोयं समुद्रेषु वह्निरप्युष्णतां त्यजेत् +न चाहं त्वदृते राजन्प्रशासेयं वसुंधराम् +पुनः पुनः प्रसीदेति वाक्यं चेदमुवाच ह +त्वमेव नः कुले राजा भविष्यसि शतं समाः +एवमुक्त्वा स राजेन्द्र सस्वनं प्ररुरोद ह +पादौ संगृह्य मानार्हौ भ्रातुर्ज्येष्ठस्य भारत +तथा तौ दुःखितौ दृष्ट्वा दुःशासनसुयोधनौ +अभिगम्य व्यथाविष्टः कर्णस्तौ प्रत्यभाषत +विषीदथः किं कौरव्यौ बालिश्यात्प्राकृताविव +न शोकः शोचमानस्य विनिवर्तेत कस्यचित् +यदा च शोचतः शोको व्यसनं नापकर्षति +सामर्थ्यं किं त्वतः शोके शोचमानौ प्रपश्यथः +धृतिं गृह्णीत मा शत्रूञ्शोचन्तौ नन्दयिष्यथः +कर्तव्यं हि कृतं राजन्पाण्डवैस्तव मोक्षणम् +नित्यमेव प्रियं कार्यं राज्ञो विषयवासिभिः +पाल्यमानास्त्वया ते हि निवसन्ति गतज्वराः +नार्हस्येवंगते मन्युं कर्तुं प्राकृतवद्यथा +विषण्णास्तव सोदर्यास्त्वयि प्रायं समास्थिते +उत्तिष्ठ व्रज भद्रं ते समाश्वासय सोदरान् +राजन्नद्यावगच्छामि तवेह लघुसत्त्वताम् +किमत्र चित्रं यद्वीर मोक्षितः पाण्डवैरसि +सद्यो वशं समापन्नः शत्रूणां शत्रुकर्शन +सेनाजीवैश्च कौरव्य तथा विषयवासिभिः +अज्ञातैर्यदि वा ज्ञातैः कर्तव्यं नृपतेः प्रियम् +प्रायः प्रधानाः पुरुषाः क्षोभयन्त्यरिवाहिनीम् +निगृह्यन्ते च युद्धेषु मोक्ष्यन्ते च स्वसैनिकैः +सेनाजीवाश्च ये राज्ञां विषये सन्ति मानवाः +तैः संगम्य नृपार्थाय यतितव्यं यथातथम् +यद्येवं पाण्डवै राजन्भवद्विषयवासिभिः +यदृच्छया मोक्षितोऽद्य तत्र का परिदेवना +न चैतत्साधु यद्राजन्पाण्डवास्त्वां नृपोत्तम +स्वसेनया संप्रयान्तं नानुयान्ति स्म पृष्ठतः +शूराश्च बलवन्तश्च संयुगेष्वपलायिनः +भवतस्ते सभायां वै प्रेष्यतां पूर्वमागताः +पाण्डवेयानि रत्नानि त्वमद्याप्युपभुञ्जसे +सत्त्वस्थान्पाण्डवान्पश्य न ते ��्रायमुपाविशन् +उत्तिष्ठ राजन्भद्रं ते न चिन्तां कर्तुमर्हसि +अवश्यमेव नृपते राज्ञो विषयवासिभिः +प्रियाण्याचरितव्यानि तत्र का परिदेवना +मद्वाक्यमेतद्राजेन्द्र यद्येवं न करिष्यसि +स्थास्यामीह भवत्पादौ शुश्रूषन्नरिमर्दन +नोत्सहे जीवितुमहं त्वद्विहीनो नरर्षभ +प्रायोपविष्टस्तु नृप राज्ञां हास्यो भविष्यसि +वैशंपायन उवाच +एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा +नैवोत्थातुं मनश्चक्रे स्वर्गाय कृतनिश्चयः +वैशंपायन उवाच +प्रायोपविष्टं राजानं दुर्योधनममर्षणम् +उवाच सान्त्वयन्राजञ्शकुनिः सौबलस्तदा +सम्यगुक्तं हि कर्णेन तच्छ्रुतं कौरव त्वया +मयाहृतां श्रियं स्फीतां मोहात्समपहाय किम् +त्वमबुद्ध्या नृपवर प्राणानुत्स्रष्टुमिच्छसि +अद्य चाप्यवगच्छामि न वृद्धाः सेवितास्त्वया +यः समुत्पतितं हर्षं दैन्यं वा न नियच्छति +स नश्यति श्रियं प्राप्य पात्रमाममिवाम्भसि +अतिभीरुमतिक्लीबं दीर्घसूत्रं प्रमादिनम् +व्यसनाद्विषयाक्रान्तं न भजन्ति नृपं श्रियः +सत्कृतस्य हि ते शोको विपरीते कथं भवेत् +मा कृतं शोभनं पार्थैः शोकमालम्ब्य नाशय +यत्र हर्षस्त्वया कार्यः सत्कर्तव्याश्च पाण्डवाः +तत्र शोचसि राजेन्द्र विपरीतमिदं तव +प्रसीद मा त्यजात्मानं तुष्टश्च सुकृतं स्मर +प्रयच्छ राज्यं पार्थानां यशो धर्ममवाप्नुहि +क्रियामेतां समाज्ञाय कृतघ्नो न भविष्यसि +सौभ्रात्रं पाण्डवैः कृत्वा समवस्थाप्य चैव तान् +पित्र्यं राज्यं प्रयच्छैषां ततः सुखमवाप्नुहि +शकुनेस्तु वचः श्रुत्वा दुःशासनमवेक्ष्य च +पादयोः पतितं वीरं विक्लवं भ्रातृसौहृदात् +बाहुभ्यां साधुजाताभ्यां दुःशासनमरिंदमम् +उत्थाप्य संपरिष्वज्य प्रीत्याजिघ्रत मूर्धनि +कर्णसौबलयोश्चापि संस्मृत्य वचनान्यसौ +निर्वेदं परमं गत्वा राजा दुर्योधनस्तदा +व्रीडयाभिपरीतात्मा नैराश्यमगमत्परम् +सुहृदां चैव तच्छ्रुत्वा समन्युरिदमब्रवीत् +न धर्मधनसौख्येन नैश्वर्येण न चाज्ञया +नैव भोगैश्च मे कार्यं मा विहन्यत गच्छत +निश्चितेयं मम मतिः स्थिता प्रायोपवेशने +गच्छध्वं नगरं सर्वे पूज्याश्च गुरवो मम +त एवमुक्ताः प्रत्यूचू राजानमरिमर्दनम् +या गतिस्तव राजेन्द्र सास्माकमपि भारत +कथं वा संप्रवेक्ष्यामस्त्वद्विहीनाः पुरं वयम् +स सुहृद्भिरमात्यैश्च भ्रात���भिः स्वजनेन च +बहुप्रकारमप्युक्तो निश्चयान्न व्यचाल्यत +दर्भप्रस्तरमास्तीर्य निश्चयाद्धृतराष्ट्रजः +संस्पृश्यापः शुचिर्भूत्वा भूतलं समुपाश्रितः +कुशचीराम्बरधरः परं नियममास्थितः +वाग्यतो राजशार्दूलः स स्वर्गगतिकाङ्क्षया +मनसोपचितिं कृत्वा निरस्य च बहिष्क्रियाः +अथ तं निश्चयं तस्य बुद्ध्वा दैतेयदानवाः +पातालवासिनो रौद्राः पूर्वं देवैर्विनिर्जिताः +ते स्वपक्षक्षयं तं तु ज्ञात्वा दुर्योधनस्य वै +आह्वानाय तदा चक्रुः कर्म वैतानसंभवम् +बृहस्पत्युशनोक्तैश्च मन्त्रैर्मन्त्रविशारदाः +अथर्ववेदप्रोक्तैश्च याश्चोपनिषदि क्रियाः +मन्त्रजप्यसमायुक्तास्तास्तदा समवर्तयन् +जुह्वत्यग्नौ हविः क्षीरं मन्त्रवत्सुसमाहिताः +ब्राह्मणा वेदवेदाङ्गपारगाः सुदृढव्रताः +कर्मसिद्धौ तदा तत्र जृम्भमाणा महाद्भुता +कृत्या समुत्थिता राजन्किं करोमीति चाब्रवीत् +आहुर्दैत्याश्च तां तत्र सुप्रीतेनान्तरात्मना +प्रायोपविष्टं राजानं धार्तराष्ट्रमिहानय +तथेति च प्रतिश्रुत्य सा कृत्या प्रययौ तदा +निमेषादगमच्चापि यत्र राजा सुयोधनः +समादाय च राजानं प्रविवेश रसातलम् +दानवानां मुहूर्ताच्च तमानीतं न्यवेदयत् +तमानीतं नृपं दृष्ट्वा रात्रौ संहत्य दानवाः +प्रहृष्टमनसः सर्वे किंचिदुत्फुल्ललोचनाः +साभिमानमिदं वाक्यं दुर्योधनमथाब्रुवन् +दानवा ऊचुः +भोः सुयोधन राजेन्द्र भरतानां कुलोद्वह +शूरैः परिवृतो नित्यं तथैव च महात्मभिः +अकार्षीः साहसमिदं कस्मात्प्रायोपवेशनम् +आत्मत्यागी ह्यवाग्याति वाच्यतां चायशस्करीम् +न हि कार्यविरुद्धेषु बह्वपायेषु कर्मसु +मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः +नियच्छैतां मतिं राजन्धर्मार्थसुखनाशिनीम् +यशःप्रतापधैर्यघ्नीं शत्रूणां हर्षवर्धनीम् +श्रूयतां च प्रभो तत्त्वं दिव्यतां चात्मनो नृप +निर्माणं च शरीरस्य ततो धैर्यमवाप्नुहि +पुरा त्वं तपसास्माभिर्लब्धो देवान्महेश्वरात् +पूर्वकायश्च सर्वस्ते निर्मितो वज्रसंचयैः +अस्त्रैरभेद्यः शस्त्रैश्चाप्यधःकायश्च तेऽनघ +कृतः पुष्पमयो देव्या रूपतः स्त्रीमनोहरः +एवमीश्वरसंयुक्तस्तव देहो नृपोत्तम +देव्या च राजशार्दूल दिव्यस्त्वं हि न मानुषः +क्षत्रियाश्च महावीर्या भगदत्तपुरोगमाः +दिव्यास्त्रविदुषः शूराः क्षप��िष्यन्ति ते रिपून् +तदलं ते विषादेन भयं तव न विद्यते +साह्यार्थं च हि ते वीराः संभूता भुवि दानवाः +भीष्मद्रोणकृपादींश्च प्रवेक्ष्यन्त्यपरेऽसुराः +यैराविष्टा घृणां त्यक्त्वा योत्स्यन्ते तव वैरिभिः +नैव पुत्रान्न च भ्रातॄन्न पितॄन्न च बान्धवान् +नैव शिष्यान्न च ज्ञातीन्न बालान्स्थविरान्न च +युधि संप्रहरिष्यन्तो मोक्ष्यन्ति कुरुसत्तम +निःस्नेहा दानवाविष्टाः समाक्रान्तेऽन्तरात्मनि +प्रहरिष्यन्ति बन्धुभ्यः स्नेहमुत्सृज्य दूरतः +हृष्टाः पुरुषशार्दूलाः कलुषीकृतमानसाः +अविज्ञानविमूढाश्च दैवाच्च विधिनिर्मितात् +व्याभाषमाणाश्चान्योन्यं न मे जीवन्विमोक्ष्यसे +सर्वशस्त्रास्त्रमोक्षेण पौरुषे समवस्थिताः +श्लाघमानाः कुरुश्रेष्ठ करिष्यन्ति जनक्षयम् +तेऽपि शक्त्या महात्मानः प्रतियोत्स्यन्ति पाण्डवाः +वधं चैषां करिष्यन्ति दैवयुक्ता महाबलाः +दैत्यरक्षोगणाश्चापि संभूताः क्षत्रयोनिषु +योत्स्यन्ति युधि विक्रम्य शत्रुभिस्तव पार्थिव +गदाभिर्मुसलैः खड्गैः शस्त्रैरुच्चावचैस्तथा +यच्च तेऽन्तर्गतं वीर भयमर्जुनसंभवम् +तत्रापि विहितोऽस्माभिर्वधोपायोऽर्जुनस्य वै +हतस्य नरकस्यात्मा कर्णमूर्तिमुपाश्रितः +तद्वैरं संस्मरन्वीर योत्स्यते केशवार्जुनौ +स ते विक्रमशौण्डीरो रणे पार्थं विजेष्यति +कर्णः प्रहरतां श्रेष्ठः सर्वांश्चारीन्महारथः +ज्ञात्वैतच्छद्मना वज्री रक्षार्थं सव्यसाचिनः +कुण्डले कवचं चैव कर्णस्यापहरिष्यति +तस्मादस्माभिरप्यत्र दैत्याः शतसहस्रशः +नियुक्ता राक्षसाश्चैव ये ते संशप्तका इति +प्रख्यातास्तेऽर्जुनं वीरं निहनिष्यन्ति मा शुचः +असपत्ना त्वया हीयं भोक्तव्या वसुधा नृप +मा विषादं नयस्वास्मान्नैतत्त्वय्युपपद्यते +विनष्टे त्वयि चास्माकं पक्षो हीयेत कौरव +गच्छ वीर न ते बुद्धिरन्या कार्या कथंचन +त्वमस्माकं गतिर्नित्यं देवतानां च पाण्डवाः +वैशंपायन उवाच +एवमुक्त्वा परिष्वज्य दैत्यास्तं राजकुञ्जरम् +समाश्वास्य च दुर्धर्षं पुत्रवद्दानवर्षभाः +स्थिरां कृत्वा बुद्धिमस्य प्रियाण्युक्त्वा च भारत +गम्यतामित्यनुज्ञाय जयमाप्नुहि चेत्यथ +तैर्विसृष्टं महाबाहुं कृत्या सैवानयत्पुनः +तमेव देशं यत्रासौ तदा प्रायमुपाविशत् +प्रतिनिक्षिप्य तं वीरं कृत्या समभिपूज्य च +अनुज्ञाता च राज्ञा सा तत्रैवान्तरधीयत +गतायामथ तस्यां तु राजा दुर्योधनस्तदा +स्वप्नभूतमिदं सर्वमचिन्तयत भारत +विजेष्यामि रणे पाण्डूनिति तस्याभवन्मतिः +कर्णं संशप्तकांश्चैव पार्थस्यामित्रघातिनः +अमन्यत वधे युक्तान्समर्थांश्च सुयोधनः +एवमाशा दृढा तस्य धार्तराष्ट्रस्य दुर्मतेः +विनिर्जये पाण्डवानामभवद्भरतर्षभ +कर्णोऽप्याविष्टचित्तात्मा नरकस्यान्तरात्मना +अर्जुनस्य वधे क्रूरामकरोत्स मतिं तदा +संशप्तकाश्च ते वीरा राक्षसाविष्टचेतसः +रजस्तमोभ्यामाक्रान्ताः फल्गुनस्य वधैषिणः +भीष्मद्रोणकृपाद्याश्च दानवाक्रान्तचेतसः +न तथा पाण्डुपुत्राणां स्नेहवन्तो विशां पते +न चाचचक्षे कस्मैचिदेतद्राजा सुयोधनः +दुर्योधनं निशान्ते च कर्णो वैकर्तनोऽब्रवीत् +स्मयन्निवाञ्जलिं कृत्वा पार्थिवं हेतुमद्वचः +न मृतो जयते शत्रूञ्जीवन्भद्राणि पश्यति +मृतस्य भद्राणि कुतः कौरवेय कुतो जयः +न कालोऽद्य विषादस्य भयस्य मरणस्य वा +परिष्वज्याब्रवीच्चैनं भुजाभ्यां स महाभुजः +उत्तिष्ठ राजन्किं शेषे कस्माच्छोचसि शत्रुहन् +शत्रून्प्रताप्य वीर्येण स कथं मर्तुमिच्छसि +अथ वा ते भयं जातं दृष्ट्वार्जुनपराक्रमम् +सत्यं ते प्रतिजानामि वधिष्यामि रणेऽर्जुनम् +गते त्रयोदशे वर्षे सत्येनायुधमालभे +आनयिष्याम्यहं पार्थान्वशं तव जनाधिप +एवमुक्तस्तु कर्णेन दैत्यानां वचनात्तथा +प्रणिपातेन चान्येषामुदतिष्ठत्सुयोधनः +दैत्यानां तद्वचः श्रुत्वा हृदि कृत्वा स्थिरां मतिम् +ततो मनुजशार्दूलो योजयामास वाहिनीम् +रथनागाश्वकलिलां पदातिजनसंकुलाम् +गङ्गौघप्रतिमा राजन्प्रयाता सा महाचमूः +श्वेतच्छत्रैः पताकाभिश्चामरैश्च सुपाण्डुरैः +रथैर्नागैः पदातैश्च शुशुभेऽतीव संकुला +व्यपेताभ्रघने काले द्यौरिवाव्यक्तशारदी +जयाशीर्भिर्द्विजेन्द्रैस्तु स्तूयमानोऽधिराजवत् +गृह्णन्नञ्जलिमालाश्च धार्तराष्ट्रो जनाधिपः +सुयोधनो ययावग्रे श्रिया परमया ज्वलन् +कर्णेन सार्धं राजेन्द्र सौबलेन च देविना +दुःशासनादयश्चास्य भ्रातरः सर्व एव ते +भूरिश्रवाः सोमदत्तो महाराजश्च बाह्लिकः +रथैर्नानाविधाकारैर्हयैर्गजवरैस्तथा +प्रयान्तं नृपसिंहं तमनुजग्मुः कुरूद्वहाः +कालेनाल्पेन राजंस्ते विविशुः स्वपुरं तदा +जनमेजय उवाच +वसमानेषु पार्थेषु वने तस्मिन्महात्मसु +धार्तराष्ट्रा महेष्वासाः किमकुर्वन्त सत्तम +कर्णो वैकर्तनश्चापि शकुनिश्च महाबलः +भीष्मद्रोणकृपाश्चैव तन्मे शंसितुमर्हसि +वैशंपायन उवाच +एवं गतेषु पार्थेषु विसृष्टे च सुयोधने +आगते हास्तिनपुरं मोक्षिते पाण्डुनन्दनैः +भीष्मोऽब्रवीन्महाराज धार्तराष्ट्रमिदं वचः +उक्तं तात मया पूर्वं गच्छतस्ते तपोवनम् +गमनं मे न रुचितं तव तन्न कृतं च ते +ततः प्राप्तं त्वया वीर ग्रहणं शत्रुभिर्बलात् +मोक्षितश्चासि धर्मज्ञैः पाण्डवैर्न च लज्जसे +प्रत्यक्षं तव गान्धारे ससैन्यस्य विशां पते +सूतपुत्रोऽपयाद्भीतो गन्धर्वाणां तदा रणात् +क्रोशतस्तव राजेन्द्र ससैन्यस्य नृपात्मज +दृष्टस्ते विक्रमश्चैव पाण्डवानां महात्मनाम् +कर्णस्य च महाबाहो सूतपुत्रस्य दुर्मतेः +न चापि पादभाक्कर्णः पाण्डवानां नृपोत्तम +धनुर्वेदे च शौर्ये च धर्मे वा धर्मवत्सल +तस्य तेऽहं क्षमं मन्ये पाण्डवैस्तैर्महात्मभिः +संधिं संधिविदां श्रेष्ठ कुलस्यास्य विवृद्धये +एवमुक्तस्तु भीष्मेण धार्तराष्ट्रो जनेश्वरः +प्रहस्य सहसा राजन्विप्रतस्थे ससौबलः +तं तु प्रस्थितमाज्ञाय कर्णदुःशासनादयः +अनुजग्मुर्महेष्वासा धार्तराष्ट्रं महाबलम् +तांस्तु संप्रस्थितान्दृष्ट्वा भीष्मः कुरुपितामहः +लज्जया व्रीडितो राजञ्जगाम स्वं निवेशनम् +गते भीष्मे महाराज धार्तराष्ट्रो जनाधिपः +पुनरागम्य तं देशममन्त्रयत मन्त्रिभिः +किमस्माकं भवेच्छ्रेयः किं कार्यमवशिष्यते +कथं नु सुकृतं च स्यान्मन्त्रयामास भारत +कर्ण उवाच +दुर्योधन निबोधेदं यत्त्वा वक्ष्यामि कौरव +श्रुत्वा च तत्तथा सर्वं कर्तुमर्हस्यरिंदम +तवाद्य पृथिवी वीर निःसपत्ना नृपोत्तम +तां पालय यथा शक्रो हतशत्रुर्महामनाः +वैशंपायन उवाच +एवमुक्तस्तु कर्णेन कर्णं राजाब्रवीत्पुनः +न किंचिद्दुर्लभं तस्य यस्य त्वं पुरुषर्षभ +सहायश्चानुरक्तश्च मदर्थं च समुद्यतः +अभिप्रायस्तु मे कश्चित्तं वै शृणु यथातथम् +राजसूयं पाण्डवस्य दृष्ट्वा क्रतुवरं तदा +मम स्पृहा समुत्पन्ना तां संपादय सूतज +एवमुक्तस्ततः कर्णो राजानमिदमब्रवीत् +तवाद्य पृथिवीपाला वश्याः सर्वे नृपोत्तम +आहूयन्तां द्विजवराः संभाराश्च यथाविधि +संभ्रियन्तां कुरुश्रेष्ठ यज्ञोपकरणानि च +ऋत्विजश्च समाहूता यथोक्तं वेदपारगाः +क्रियां कुर्वन्तु ते राजन्यथाशास्त्रमरिंदम +बह्वन्नपानसंयुक्तः सुसमृद्धगुणान्वितः +प्रवर्ततां महायज्ञस्तवापि भरतर्षभ +एवमुक्तस्तु कर्णेन धार्तराष्ट्रो विशां पते +पुरोहितं समानाय्य इदं वचनमब्रवीत् +राजसूयं क्रतुश्रेष्ठं समाप्तवरदक्षिणम् +आहर त्वं मम कृते यथान्यायं यथाक्रमम् +स एवमुक्तो नृपतिमुवाच द्विजपुंगवः +न स शक्यः क्रतुश्रेष्ठो जीवमाने युधिष्ठिरे +आहर्तुं कौरवश्रेष्ठ कुले तव नृपोत्तम +दीर्घायुर्जीवति च वै धृतराष्ट्रः पिता तव +अतश्चापि विरुद्धस्ते क्रतुरेष नृपोत्तम +अस्ति त्वन्यन्महत्सत्रं राजसूयसमं प्रभो +तेन त्वं यज राजेन्द्र शृणु चेदं वचो मम +य इमे पृथिवीपालाः करदास्तव पार्थिव +ते करान्संप्रयच्छन्तु सुवर्णं च कृताकृतम् +तेन ते क्रियतामद्य लाङ्गलं नृपसत्तम +यज्ञवाटस्य ते भूमिः कृष्यतां तेन भारत +तत्र यज्ञो नृपश्रेष्ठ प्रभूतान्नः सुसंस्कृतः +प्रवर्ततां यथान्यायं सर्वतो ह्यनिवारितः +एष ते वैष्णवो नाम यज्ञः सत्पुरुषोचितः +एतेन नेष्टवान्कश्चिदृते विष्णुं पुरातनम् +राजसूयं क्रतुश्रेष्ठं स्पर्धत्येष महाक्रतुः +अस्माकं रोचते चैव श्रेयश्च तव भारत +अविघ्नश्च भवेदेष सफला स्यात्स्पृहा तव +एवमुक्तस्तु तैर्विप्रैर्धार्तराष्ट्रो महीपतिः +कर्णं च सौबलं चैव भ्रातॄंश्चैवेदमब्रवीत् +रोचते मे वचः कृत्स्नं ब्राह्मणानां न संशयः +रोचते यदि युष्माकं तन्मा प्रब्रूत माचिरम् +एवमुक्तास्तु ते सर्वे तथेत्यूचुर्नराधिपम् +संदिदेश ततो राजा व्यापारस्थान्यथाक्रमम् +हलस्य करणे चापि व्यादिष्टाः सर्वशिल्पिनः +यथोक्तं च नृपश्रेष्ठ कृतं सर्वं यथाक्रमम् +वैशंपायन उवाच +ततस्तु शिल्पिनः सर्वे अमात्यप्रवराश्च ह +विदुरश्च महाप्राज्ञो धार्तराष्ट्रे न्यवेदयत् +सज्जं क्रतुवरं राजन्कालप्राप्तं च भारत +सौवर्णं च कृतं दिव्यं लाङ्गलं सुमहाधनम् +एतच्छ्रुत्वा नृपश्रेष्ठो धार्तराष्ट्रो विशां पते +आज्ञापयामास नृपः क्रतुराजप्रवर्तनम् +ततः प्रववृते यज्ञः प्रभूतान्नः सुसंस्कृतः +दीक्षितश्चापि गान्धारिर्यथाशास्त्रं यथाक्रमम् +प्रहृष्टो धृतराष्ट्रोऽभूद्विदुरश्च महायशाः +भीष्मो द्रोणः कृपः कर्णो गान्धारी च यशस्विनी +निमन्त्रणार्थं दूतांश्च प्रेषयामास शीघ्रगान् +पार्थिवानां च राजेन्द्र ब्राह्मणानां तथैव च +ते प्रयाता यथोद्दिष्टं दूतास्त्वरितवाहनाः +तत्र कंचित्प्रयातं तु दूतं दुःशासनोऽब्रवीत् +गच्छ द्वैतवनं शीघ्रं पाण्डवान्पापपूरुषान् +निमन्त्रय यथान्यायं विप्रांस्तस्मिन्महावने +स गत्वा पाण्डवावासमुवाचाभिप्रणम्य तान् +दुर्योधनो महाराज यजते नृपसत्तमः +स्ववीर्यार्जितमर्थौघमवाप्य कुरुनन्दनः +तत्र गच्छन्ति राजानो ब्राह्मणाश्च ततस्ततः +अहं तु प्रेषितो राजन्कौरवेण महात्मना +आमन्त्रयति वो राजा धार्तराष्ट्रो जनेश्वरः +मनोऽभिलषितं राज्ञस्तं क्रतुं द्रष्टुमर्हथ +ततो युधिष्ठिरो राजा तच्छ्रुत्वा दूतभाषितम् +अब्रवीन्नृपशार्दूलो दिष्ट्या राजा सुयोधनः +यजते क्रतुमुख्येन पूर्वेषां कीर्तिवर्धनः +वयमप्युपयास्यामो न त्विदानीं कथंचन +समयः परिपाल्यो नो यावद्वर्षं त्रयोदशम् +श्रुत्वैतद्धर्मराजस्य भीमो वचनमब्रवीत् +तदा तु नृपतिर्गन्ता धर्मराजो युधिष्ठिरः +अस्त्रशस्त्रप्रदीप्तेऽग्नौ यदा तं पातयिष्यति +वर्षात्त्रयोदशादूर्ध्वं रणसत्रे नराधिपः +यदा क्रोधहविर्मोक्ता धार्तराष्ट्रेषु पाण्डवः +आगन्तारस्तदा स्मेति वाच्यस्ते स सुयोधनः +शेषास्तु पाण्डवा राजन्नैवोचुः किंचिदप्रियम् +दूतश्चापि यथावृत्तं धार्तराष्ट्रे न्यवेदयत् +अथाजग्मुर्नरश्रेष्ठा नानाजनपदेश्वराः +ब्राह्मणाश्च महाभागा धार्तराष्ट्रपुरं प्रति +ते त्वर्चिता यथाशास्त्रं यथावर्णं यथाक्रमम् +मुदा परमया युक्ताः प्रीत्या चापि नरेश्वर +धृतराष्ट्रोऽपि राजेन्द्र संवृतः सर्वकौरवैः +हर्षेण महता युक्तो विदुरं प्रत्यभाषत +यथा सुखी जनः सर्वः क्षत्तः स्यादन्नसंयुतः +तुष्येच्च यज्ञसदने तथा क्षिप्रं विधीयताम् +विदुरस्त्वेवमाज्ञप्तः सर्ववर्णानरिंदम +यथाप्रमाणतो विद्वान्पूजयामास धर्मवित् +भक्ष्यभोज्यान्नपानेन माल्यैश्चापि सुगन्धिभिः +वासोभिर्विविधैश्चैव योजयामास हृष्टवत् +कृत्वा ह्यवभृथं वीरो यथाशास्त्रं यथाक्रमम् +सान्त्वयित्वा च राजेन्द्रो दत्त्वा च विविधं वसु +विसर्जयामास नृपान्ब्राह्मणांश्च सहस्रशः +विसर्जयित्वा स नृपान्भ्रातृभिः परिवारितः +विवेश हास्तिनपुरं सहितः कर्णसौबलैः +वैशंपायन उवाच +प्रविशन्तं महाराज सूतास्तुष्टुवुरच्युतम् +जनाश्चापि महेष्वासं तुष्टुवू राजसत्तमम् +लाजैश्चन्दनचूर्णैश्चाप्यवकीर्य जनास्तदा +ऊचुर्दिष्ट्या नृपाविघ्नात्समाप्तोऽयं क्रतुस्तव +अपरे त्वब्रुवंस्तत्र वातिकास्तं महीपतिम् +युधिष्ठिरस्य यज्ञेन न समो ह्येष तु क्रतुः +नैव तस्य क्रतोरेष कलामर्हति षोडशीम् +एवं तत्राब्रुवन्केचिद्वातिकास्तं नरेश्वरम् +सुहृदस्त्वब्रुवंस्तत्र अति सर्वानयं क्रतुः +ययातिर्नहुषश्चापि मान्धाता भरतस्तथा +क्रतुमेनं समाहृत्य पूताः सर्वे दिवं गताः +एता वाचः शुभाः शृण्वन्सुहृदां भरतर्षभ +प्रविवेश पुरं हृष्टः स्ववेश्म च नराधिपः +अभिवाद्य ततः पादौ मातापित्रोर्विशां पते +भीष्मद्रोणकृपाणां च विदुरस्य च धीमतः +अभिवादितः कनीयोभिर्भ्रातृभिर्भ्रातृवत्सलः +निषसादासने मुख्ये भ्रातृभिः परिवारितः +तमुत्थाय महाराज सूतपुत्रोऽब्रवीद्वचः +दिष्ट्या ते भरतश्रेष्ठ समाप्तोऽयं महाक्रतुः +हतेषु युधि पार्थेषु राजसूये तथा त्वया +आहृतेऽहं नरश्रेष्ठ त्वां सभाजयिता पुनः +तमब्रवीन्महाराजो धार्तराष्ट्रो महायशाः +सत्यमेतत्त्वया वीर पाण्डवेषु दुरात्मसु +निहतेषु नरश्रेष्ठ प्राप्ते चापि महाक्रतौ +राजसूये पुनर्वीर त्वं मां संवर्धयिष्यसि +एवमुक्त्वा महाप्राज्ञः कर्णमाश्लिष्य भारत +राजसूयं क्रतुश्रेष्ठं चिन्तयामास कौरवः +सोऽब्रवीत्सुहृदश्चापि पार्श्वस्थान्नृपसत्तमः +कदा तु तं क्रतुवरं राजसूयं महाधनम् +निहत्य पाण्डवान्सर्वानाहरिष्यामि कौरवाः +तमब्रवीत्तदा कर्णः शृणु मे राजकुञ्जर +पादौ न धावये तावद्यावन्न निहतोऽर्जुनः +अथोत्क्रुष्टं महेष्वासैर्धार्तराष्ट्रैर्महारथैः +प्रतिज्ञाते फल्गुनस्य वधे कर्णेन संयुगे +विजितांश्चाप्यमन्यन्त पाण्डवान्धृतराष्ट्रजाः +दुर्योधनोऽपि राजेन्द्र विसृज्य नरपुंगवान् +प्रविवेश गृहं श्रीमान्यथा चैत्ररथं प्रभुः +तेऽपि सर्वे महेष्वासा जग्मुर्वेश्मानि भारत +पाण्डवाश्च महेष्वासा दूतवाक्यप्रचोदिताः +चिन्तयन्तस्तमेवार्थं नालभन्त सुखं क्वचित् +भूयश्च चारै राजेन्द्र प्रवृत्तिरुपपादिता +प्रतिज्ञा सूतपुत्रस्य विजयस्य वधं प्रति +एतच्छ्रुत्वा धर्मसुतः समुद्विग्नो नराधिप +अभेद्यकवचं मत्वा कर्णमद्भुतविक्रमम् +अनुस्मरंश्च संक्लेशान्न शान्तिमुपयाति सः +तस्य चिन्तापरीतस्य बुद्धिर्जज्ञे महात्मनः +बहुव्यालमृग���कीर्णं त्यक्तुं द्वैतवनं वनम् +धार्तराष्ट्रोऽपि नृपतिः प्रशशास वसुंधराम् +भ्रातृभिः सहितो वीरैर्भीष्मद्रोणकृपैस्तथा +संगम्य सूतपुत्रेण कर्णेनाहवशोभिना +दुर्योधनः प्रिये नित्यं वर्तमानो महीपतिः +पूजयामास विप्रेन्द्रान्क्रतुभिर्भूरिदक्षिणैः +भ्रातॄणां च प्रियं राजन्स चकार परंतपः +निश्चित्य मनसा वीरो दत्तभुक्तफलं धनम् +जनमेजय उवाच +दुर्योधनं मोचयित्वा पाण्डुपुत्रा महाबलाः +किमकार्षुर्वने तस्मिंस्तन्ममाख्यातुमर्हसि +वैशंपायन उवाच +ततः शयानं कौन्तेयं रात्रौ द्वैतवने मृगाः +स्वप्नान्ते दर्शयामासुर्बाष्पकण्ठा युधिष्ठिरम् +तानब्रवीत्स राजेन्द्रो वेपमानान्कृताञ्जलीन् +ब्रूत यद्वक्तुकामाः स्थ के भवन्तः किमिष्यते +एवमुक्ताः पाण्डवेन कौन्तेयेन यशस्विना +प्रत्यब्रुवन्मृगास्तत्र हतशेषा युधिष्ठिरम् +वयं मृगा द्वैतवने हतशिष्टाः स्म भारत +नोत्सीदेम महाराज क्रियतां वासपर्ययः +भवन्तो भ्रातरः शूराः सर्व एवास्त्रकोविदाः +कुलान्यल्पावशिष्टानि कृतवन्तो वनौकसाम् +बीजभूता वयं केचिदवशिष्टा महामते +विवर्धेमहि राजेन्द्र प्रसादात्ते युधिष्ठिर +तान्वेपमानान्वित्रस्तान्बीजमात्रावशेषितान् +मृगान्दृष्ट्वा सुदुःखार्तो धर्मराजो युधिष्ठिरः +तांस्तथेत्यब्रवीद्राजा सर्वभूतहिते रतः +तथ्यं भवन्तो ब्रुवते करिष्यामि च तत्तथा +इत्येवं प्रतिबुद्धः स रात्र्यन्ते राजसत्तमः +अब्रवीत्सहितान्भ्रातॄन्दयापन्नो मृगान्प्रति +उक्तो रात्रौ मृगैरस्मि स्वप्नान्ते हतशेषितैः +तनुभूताः स्म भद्रं ते दया नः क्रियतामिति +ते सत्यमाहुः कर्तव्या दयास्माभिर्वनौकसाम् +साष्टमासं हि नो वर्षं यदेनानुपयुञ्ज्महे +पुनर्बहुमृगं रम्यं काम्यकं काननोत्तमम् +मरुभूमेः शिरः ख्यातं तृणबिन्दुसरः प्रति +तत्रेमा वसतीः शिष्टा विहरन्तो रमेमहि +ततस्ते पाण्डवाः शीघ्रं प्रययुर्धर्मकोविदाः +ब्राह्मणैः सहिता राजन्ये च तत्र सहोषिताः +इन्द्रसेनादिभिश्चैव प्रेष्यैरनुगतास्तदा +ते यात्वानुसृतैर्मार्गैः स्वन्नैः शुचिजलान्वितैः +ददृशुः काम्यकं पुण्यमाश्रमं तापसायुतम् +विविशुस्ते स्म कौरव्या वृता विप्रर्षभैस्तदा +तद्वनं भरतश्रेष्ठाः स्वर्गं सुकृतिनो यथा +वैशंपायन उवाच +वने निवसतां तेषां पाण्डवानां महात्मनाम् +वर���षाण्येकादशातीयुः कृच्छ्रेण भरतर्षभ +फलमूलाशनास्ते हि सुखार्हा दुःखमुत्तमम् +प्राप्तकालमनुध्यान्तः सेहुरुत्तमपूरुषाः +युधिष्ठिरस्तु राजर्षिरात्मकर्मापराधजम् +चिन्तयन्स महाबाहुर्भ्रातॄणां दुःखमुत्तमम् +न सुष्वाप सुखं राजा हृदि शल्यैरिवार्पितैः +दौरात्म्यमनुपश्यंस्तत्काले द्यूतोद्भवस्य हि +संस्मरन्परुषा वाचः सूतपुत्रस्य पाण्डवः +निःश्वासपरमो दीनो बिभ्रत्कोपविषं महत् +अर्जुनो यमजौ चोभौ द्रौपदी च यशस्विनी +स च भीमो महातेजाः सर्वेषामुत्तमो बली +युधिष्ठिरमुदीक्षन्तः सेहुर्दुःखमनुत्तमम् +अवशिष्टमल्पकालं मन्वानाः पुरुषर्षभाः +वपुरन्यदिवाकार्षुरुत्साहामर्षचेष्टितैः +कस्यचित्त्वथ कालस्य व्यासः सत्यवतीसुतः +आजगाम महायोगी पाण्डवानवलोककः +तमागतमभिप्रेक्ष्य कुन्तीपुत्रो युधिष्ठिरः +प्रत्युद्गम्य महात्मानं प्रत्यगृह्णाद्यथाविधि +तमासीनमुपासीनः शुश्रूषुर्नियतेन्द्रियः +तोषयन्प्रणिपातेन व्यासं पाण्डवनन्दनः +तानवेक्ष्य कृशान्पौत्रान्वने वन्येन जीवतः +महर्षिरनुकम्पार्थमब्रवीद्बाष्पगद्गदम् +युधिष्ठिर महाबाहो शृणु धर्मभृतां वर +नातप्ततपसः पुत्र प्राप्नुवन्ति महत्सुखम् +सुखदुःखे हि पुरुषः पर्यायेणोपसेवते +नात्यन्तमसुखं कश्चित्प्राप्नोति पुरुषर्षभ +प्रज्ञावांस्त्वेव पुरुषः संयुक्तः परया धिया +उदयास्तमयज्ञो हि न शोचति न हृष्यति +सुखमापतितं सेवेद्दुःखमापतितं सहेत् +कालप्राप्तमुपासीत सस्यानामिव कर्षकः +तपसो हि परं नास्ति तपसा विन्दते महत् +नासाध्यं तपसः किंचिदिति बुध्यस्व भारत +सत्यमार्जवमक्रोधः संविभागो दमः शमः +अनसूयाविहिंसा च शौचमिन्द्रियसंयमः +साधनानि महाराज नराणां पुण्यकर्मणाम् +अधर्मरुचयो मूढास्तिर्यग्गतिपरायणाः +कृच्छ्रां योनिमनुप्राप्य न सुखं विन्दते जनाः +इह यत्क्रियते कर्म तत्परत्रोपभुज्यते +तस्माच्छरीरं युञ्जीत तपसा नियमेन च +यथाशक्ति प्रयच्छेच्च संपूज्याभिप्रणम्य च +काले पात्रे च हृष्टात्मा राजन्विगतमत्सरः +सत्यवादी लभेतायुरनायासमथार्जवी +अक्रोधनोऽनसूयश्च निर्वृतिं लभते पराम् +दान्तः शमपरः शश्वत्परिक्लेशं न विन्दति +न च तप्यति दान्तात्मा दृष्ट्वा परगतां श्रियम् +संविभक्ता च दाता च भोगवान्सुखवान्नरः +भवत्यहिंसकश्चैव परमारोग्यमश्नुते +मान्यान्मानयिता जन्म कुले महति विन्दति +व्यसनैर्न तु संयोगं प्राप्नोति विजितेन्द्रियः +शुभानुशयबुद्धिर्हि संयुक्तः कालधर्मणा +प्रादुर्भवति तद्योगात्कल्याणमतिरेव सः +युधिष्ठिर उवाच +भगवन्दानधर्माणां तपसो वा महामुने +किं स्विद्बहुगुणं प्रेत्य किं वा दुष्करमुच्यते +व्यास उवाच +दानान्न दुष्करतरं पृथिव्यामस्ति किंचन +अर्थे हि महती तृष्णा स च दुःखेन लभ्यते +परित्यज्य प्रियान्प्राणान्धनार्थं हि महाहवम् +प्रविशन्ति नरा वीराः समुद्रमटवीं तथा +कृषिगोरक्ष्यमित्येके प्रतिपद्यन्ति मानवाः +पुरुषाः प्रेष्यतामेके निर्गच्छन्ति धनार्थिनः +तस्य दुःखार्जितस्यैवं परित्यागः सुदुष्करः +न दुष्करतरं दानात्तस्माद्दानं मतं मम +विशेषस्त्वत्र विज्ञेयो न्यायेनोपार्जितं धनम् +पात्रे देशे च काले च साधुभ्यः प्रतिपादयेत् +अन्यायसमुपात्तेन दानधर्मो धनेन यः +क्रियते न स कर्तारं त्रायते महतो भयात् +पात्रे दानं स्वल्पमपि काले दत्तं युधिष्ठिर +मनसा सुविशुद्धेन प्रेत्यानन्तफलं स्मृतम् +अत्राप्युदाहरन्तीममितिहासं पुरातनम् +व्रीहिद्रोणपरित्यागाद्यत्फलं प्राप मुद्गलः +युधिष्ठिर उवाच +व्रीहिद्रोणः परित्यक्तः कथं तेन महात्मना +कस्मै दत्तश्च भगवन्विधिना केन चात्थ मे +प्रत्यक्षधर्मा भगवान्यस्य तुष्टो हि कर्मभिः +सफलं तस्य जन्माहं मन्ये सद्धर्मचारिणः +व्यास उवाच +शिलोञ्छवृत्तिर्धर्मात्मा मुद्गलः संशितव्रतः +आसीद्राजन्कुरुक्षेत्रे सत्यवागनसूयकः +अतिथिव्रती क्रियावांश्च कापोतीं वृत्तिमास्थितः +सत्रमिष्टीकृतं नाम समुपास्ते महातपाः +सपुत्रदारो हि मुनिः पक्षाहारो बभूव सः +कपोतवृत्त्या पक्षेण व्रीहिद्रोणमुपार्जयत् +दर्शं च पौर्णमासं च कुर्वन्विगतमत्सरः +देवतातिथिशेषेण कुरुते देहयापनम् +तस्येन्द्रः सहितो देवैः साक्षात्त्रिभुवनेश्वरः +प्रत्यगृह्णान्महाराज भागं पर्वणि पर्वणि +स पर्वकालं कृत्वा तु मुनिवृत्त्या समन्वितः +अतिथिभ्यो ददावन्नं प्रहृष्टेनान्तरात्मना +व्रीहिद्रोणस्य तदहो ददतोऽन्नं महात्मनः +शिष्टं मात्सर्यहीनस्य वर्धत्यतिथिदर्शनात् +तच्छतान्यपि भुञ्जन्ति ब्राह्मणानां मनीषिणाम् +मुनेस्त्यागविशुद्ध्या तु तदन्नं वृद्धिमृच्छति +तं तु शुश्राव धर्मिष्ठं मुद्गलं संश��तव्रतम् +दुर्वासा नृप दिग्वासास्तमथाभ्याजगाम ह +बिभ्रच्चानियतं वेषमुन्मत्त इव पाण्डव +विकचः परुषा वाचो व्याहरन्विविधा मुनिः +अभिगम्याथ तं विप्रमुवाच मुनिसत्तमः +अन्नार्थिनमनुप्राप्तं विद्धि मां मुनिसत्तम +स्वागतं तेऽस्त्विति मुनिं मुद्गलः प्रत्यभाषत +पाद्यमाचमनीयं च प्रतिवेद्यान्नमुत्तमम् +प्रादात्स तपसोपात्तं क्षुधितायातिथिव्रती +उन्मत्ताय परां श्रद्धामास्थाय स धृतव्रतः +ततस्तदन्नं रसवत्स एव क्षुधयान्वितः +बुभुजे कृत्स्नमुन्मत्तः प्रादात्तस्मै च मुद्गलः +भुक्त्वा चान्नं ततः सर्वमुच्छिष्टेनात्मनस्ततः +अथानुलिलिपेऽङ्गानि जगाम च यथागतम् +एवं द्वितीये संप्राप्ते पर्वकाले मनीषिणः +आगम्य बुभुजे सर्वमन्नमुञ्छोपजीविनः +निराहारस्तु स मुनिरुञ्छमार्जयते पुनः +न चैनं विक्रियां नेतुमशकन्मुद्गलं क्षुधा +न क्रोधो न च मात्सर्यं नावमानो न संभ्रमः +सपुत्रदारमुञ्छन्तमाविवेश द्विजोत्तमम् +तथा तमुञ्छधर्माणं दुर्वासा मुनिसत्तमम् +उपतस्थे यथाकालं षट्कृत्वः कृतनिश्चयः +न चास्य मानसं किंचिद्विकारं ददृशे मुनिः +शुद्धसत्त्वस्य शुद्धं स ददृशे निर्मलं मनः +तमुवाच ततः प्रीतः स मुनिर्मुद्गलं तदा +त्वत्समो नास्ति लोकेऽस्मिन्दाता मात्सर्यवर्जितः +क्षुद्धर्मसंज्ञां प्रणुदत्यादत्ते धैर्यमेव च +विषयानुसारिणी जिह्वा कर्षत्येव रसान्प्रति +आहारप्रभवाः प्राणा मनो दुर्निग्रहं चलम् +मनसश्चेन्द्रियाणां चाप्यैकाग्र्यं निश्चितं तपः +श्रमेणोपार्जितं त्यक्तुं दुःखं शुद्धेन चेतसा +तत्सर्वं भवता साधो यथावदुपपादितम् +प्रीताः स्मोऽनुगृहीताश्च समेत्य भवता सह +इन्द्रियाभिजयो धैर्यं संविभागो दमः शमः +दया सत्यं च धर्मश्च त्वयि सर्वं प्रतिष्ठितम् +जितास्ते कर्मभिर्लोकाः प्राप्तोऽसि परमां गतिम् +अहो दानं विघुष्टं ते सुमहत्स्वर्गवासिभिः +सशरीरो भवान्गन्ता स्वर्गं सुचरितव्रत +इत्येवं वदतस्तस्य तदा दुर्वाससो मुनेः +देवदूतो विमानेन मुद्गलं प्रत्युपस्थितः +हंससारसयुक्तेन किङ्किणीजालमालिना +कामगेन विचित्रेण दिव्यगन्धवता तथा +उवाच चैनं विप्रर्षिं विमानं कर्मभिर्जितम् +समुपारोह संसिद्धिं प्राप्तोऽसि परमां मुने +तमेवंवादिनमृषिर्देवदूतमुवाच ह +इच्छामि भवता प्रोक्तान्गुणान्स्वर्गनिवासिना���् +के गुणास्तत्र वसतां किं तपः कश्च निश्चयः +स्वर्गे स्वर्गसुखं किं च दोषो वा देवदूतक +सतां सप्तपदं मित्रमाहुः सन्तः कुलोचिताः +मित्रतां च पुरस्कृत्य पृच्छामि त्वामहं विभो +यदत्र तथ्यं पथ्यं च तद्ब्रवीह्यविचारयन् +श्रुत्वा तथा करिष्यामि व्यवसायं गिरा तव +देवदूत उवाच +महर्षेऽकार्यबुद्धिस्त्वं यः स्वर्गसुखमुत्तमम् +संप्राप्तं बहु मन्तव्यं विमृशस्यबुधो यथा +उपरिष्टादसौ लोको योऽयं स्वरिति संज्ञितः +ऊर्ध्वगः सत्पथः शश्वद्देवयानचरो मुने +नातप्ततपसः पुंसो नामहायज्ञयाजिनः +नानृता नास्तिकाश्चैव तत्र गच्छन्ति मुद्गल +धर्मात्मानो जितात्मानः शान्ता दान्ता विमत्सराः +दानधर्मरताः पुंसः शूराश्चाहतलक्षणाः +तत्र गच्छन्ति कर्माग्र्यं कृत्वा शमदमात्मकम् +लोकान्पुण्यकृतां ब्रह्मन्सद्भिरासेवितान्नृभिः +देवाः साध्यास्तथा विश्वे मरुतश्च महर्षिभिः +यामा धामाश्च मौद्गल्य गन्धर्वाप्सरसस्तथा +एषां देवनिकायानां पृथक्पृथगनेकशः +भास्वन्तः कामसंपन्ना लोकास्तेजोमयाः शुभाः +त्रयस्त्रिंशत्सहस्राणि योजनानां हिरण्मयः +मेरुः पर्वतराड्यत्र देवोद्यानानि मुद्गल +नन्दनादीनि पुण्यानि विहाराः पुण्यकर्मणाम् +न क्षुत्पिपासे न ग्लानिर्न शीतोष्णभयं तथा +बीभत्समशुभं वापि रोगा वा तत्र केचन +मनोज्ञाः सर्वतो गन्धाः सुखस्पर्शाश्च सर्वशः +शब्दाः श्रुतिमनोग्राह्याः सर्वतस्तत्र वै मुने +न शोको न जरा तत्र नायासपरिदेवने +ईदृशः स मुने लोकः स्वकर्मफलहेतुकः +सुकृतैस्तत्र पुरुषाः संभवन्त्यात्मकर्मभिः +तैजसानि शरीराणि भवन्त्यत्रोपपद्यताम् +कर्मजान्येव मौद्गल्य न मातृपितृजान्युत +न च स्वेदो न दौर्गन्ध्यं पुरीषं मूत्रमेव च +तेषां न च रजो वस्त्रं बाधते तत्र वै मुने +न म्लायन्ति स्रजस्तेषां दिव्यगन्धा मनोरमाः +पर्युह्यन्ते विमानैश्च ब्रह्मन्नेवंविधाश्च ते +ईर्ष्याशोकक्लमापेता मोहमात्सर्यवर्जिताः +सुखं स्वर्गजितस्तत्र वर्तयन्ति महामुने +तेषां तथाविधानां तु लोकानां मुनिपुंगव +उपर्युपरि शक्रस्य लोका दिव्यगुणान्विताः +पुरस्ताद्ब्रह्मणस्तत्र लोकास्तेजोमयाः शुभाः +यत्र यान्त्यृषयो ब्रह्मन्पूताः स्वैः कर्मभिः शुभैः +ऋभवो नाम तत्रान्ये देवानामपि देवताः +तेषां लोकाः परतरे तान्यजन्तीह देवताः +स्वयंप्रभा��्ते भास्वन्तो लोकाः कामदुघाः परे +न तेषां स्त्रीकृतस्तापो न लोकैश्वर्यमत्सरः +न वर्तयन्त्याहुतिभिस्ते नाप्यमृतभोजनाः +तथा दिव्यशरीरास्ते न च विग्रहमूर्तयः +न सुखे सुखकामाश्च देवदेवाः सनातनाः +न कल्पपरिवर्तेषु परिवर्तन्ति ते तथा +जरा मृत्युः कुतस्तेषां हर्षः प्रीतिः सुखं न च +न दुःखं न सुखं चापि रागद्वेषौ कुतो मुने +देवानामपि मौद्गल्य काङ्क्षिता सा गतिः परा +दुष्प्रापा परमा सिद्धिरगम्या कामगोचरैः +त्रयस्त्रिंशदिमे लोकाः शेषा लोका मनीषिभिः +गम्यन्ते नियमैः श्रेष्ठैर्दानैर्वा विधिपूर्वकैः +सेयं दानकृता व्युष्टिरत्र प्राप्ता सुखावहा +तां भुङ्क्ष्व सुकृतैर्लब्धां तपसा द्योतितप्रभः +एतत्स्वर्गसुखं विप्र लोका नानाविधास्तथा +गुणाः स्वर्गस्य प्रोक्तास्ते दोषानपि निबोध मे +कृतस्य कर्मणस्तत्र भुज्यते यत्फलं दिवि +न चान्यत्क्रियते कर्म मूलच्छेदेन भुज्यते +सोऽत्र दोषो मम मतस्तस्यान्ते पतनं च यत् +सुखव्याप्तमनस्कानां पतनं यच्च मुद्गल +असंतोषः परीतापो दृष्ट्वा दीप्ततराः श्रियः +यद्भवत्यवरे स्थाने स्थितानां तच्च दुष्करम् +संज्ञामोहश्च पततां रजसा च प्रधर्षणम् +प्रम्लानेषु च माल्येषु ततः पिपतिषोर्भयम् +आ ब्रह्मभवनादेते दोषा मौद्गल्य दारुणाः +नाकलोके सुकृतिनां गुणास्त्वयुतशो नृणाम् +अयं त्वन्यो गुणः श्रेष्ठश्च्युतानां स्वर्गतो मुने +शुभानुशययोगेन मनुष्येषूपजायते +तत्रापि सुमहाभागः सुखभागभिजायते +न चेत्संबुध्यते तत्र गच्छत्यधमतां ततः +इह यत्क्रियते कर्म तत्परत्रोपभुज्यते +कर्मभूमिरियं ब्रह्मन्फलभूमिरसौ मता +एतत्ते सर्वमाख्यातं यन्मां पृच्छसि मुद्गल +तवानुकम्पया साधो साधु गच्छाम माचिरम् +व्यास उवाच +एतच्छ्रुत्वा तु मौद्गल्यो वाक्यं विममृशे धिया +विमृश्य च मुनिश्रेष्ठो देवदूतमुवाच ह +देवदूत नमस्तेऽस्तु गच्छ तात यथासुखम् +महादोषेण मे कार्यं न स्वर्गेण सुखेन वा +पतनं तन्महद्दुःखं परितापः सुदारुणः +स्वर्गभाजश्च्यवन्तीह तस्मात्स्वर्गं न कामये +यत्र गत्वा न शोचन्ति न व्यथन्ति चलन्ति वा +तदहं स्थानमत्यन्तं मार्गयिष्यामि केवलम् +इत्युक्त्वा स मुनिर्वाक्यं देवदूतं विसृज्य तम् +शिलोञ्छवृत्तिमुत्सृज्य शममातिष्ठदुत्तमम् +तुल्यनिन्दास्तुतिर्भूत्वा समलोष्टाश्मकाञ्चनः +ज्ञानयोगेन शुद्धेन ध्याननित्यो बभूव ह +ध्यानयोगाद्बलं लब्ध्वा प्राप्य चर्द्धिमनुत्तमाम् +जगाम शाश्वतीं सिद्धिं परां निर्वाणलक्षणाम् +तस्मात्त्वमपि कौन्तेय न शोकं कर्तुमर्हसि +राज्यात्स्फीतात्परिभ्रष्टस्तपसा तदवाप्स्यसि +सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् +पर्यायेणोपवर्तन्ते नरं नेमिमरा इव +पितृपैतामहं राज्यं प्राप्स्यस्यमितविक्रम +वर्षात्त्रयोदशादूर्ध्वं व्येतु ते मानसो ज्वरः +वैशंपायन उवाच +एवमुक्त्वा स भगवान्व्यासः पाण्डवनन्दनम् +जगाम तपसे धीमान्पुनरेवाश्रमं प्रति +वैशंपायन उवाच +तस्मिन्बहुमृगेऽरण्ये रममाणा महारथाः +काम्यके भरतश्रेष्ठा विजह्रुस्ते यथामराः +प्रेक्षमाणा बहुविधान्वनोद्देशान्समन्ततः +यथर्तुकालरम्याश्च वनराजीः सुपुष्पिताः +पाण्डवा मृगयाशीलाश्चरन्तस्तन्महावनम् +विजह्रुरिन्द्रप्रतिमाः कंचित्कालमरिंदमाः +ततस्ते यौगपद्येन ययुः सर्वे चतुर्दिशम् +मृगयां पुरुषव्याघ्रा ब्राह्मणार्थे परंतपाः +द्रौपदीमाश्रमे न्यस्य तृणबिन्दोरनुज्ञया +महर्षेर्दीप्ततपसो धौम्यस्य च पुरोधसः +ततस्तु राजा सिन्धूनां वार्द्धक्षत्रिर्महायशाः +विवाहकामः शाल्वेयान्प्रयातः सोऽभवत्तदा +महता परिबर्हेण राजयोग्येन संवृतः +राजभिर्बहुभिः सार्धमुपायात्काम्यकं च सः +तत्रापश्यत्प्रियां भार्यां पाण्डवानां यशस्विनीम् +तिष्ठन्तीमाश्रमद्वारि द्रौपदीं निर्जने वने +विभ्राजमानां वपुषा बिभ्रतीं रूपमुत्तमम् +भ्राजयन्तीं वनोद्देशं नीलाभ्रमिव विद्युतम् +अप्सरा देवकन्या वा माया वा देवनिर्मिता +इति कृत्वाञ्जलिं सर्वे ददृशुस्तामनिन्दिताम् +ततः स राजा सिन्धूनां वार्द्धक्षत्रिर्जयद्रथः +विस्मितस्तामनिन्द्याङ्गीं दृष्ट्वासीद्धृष्टमानसः +स कोटिकाश्यं राजानमब्रवीत्काममोहितः +कस्य त्वेषानवद्याङ्गी यदि वापि न मानुषी +विवाहार्थो न मे कश्चिदिमां दृष्ट्वातिसुन्दरीम् +एतामेवाहमादाय गमिष्यामि स्वमालयम् +गच्छ जानीहि सौम्यैनां कस्य का च कुतोऽपि वा +किमर्थमागता सुभ्रूरिदं कण्टकितं वनम् +अपि नाम वरारोहा मामेषा लोकसुन्दरी +भजेदद्यायतापाङ्गी सुदती तनुमध्यमा +अप्यहं कृतकामः स्यामिमां प्राप्य वरस्त्रियम् +गच्छ जानीहि को न्वस्या नाथ इत्येव कोटिक +स कोटिकाश्यस्तच्छ्रुत्वा रथा��्प्रस्कन्द्य कुण्डली +उपेत्य पप्रच्छ तदा क्रोष्टा व्याघ्रवधूमिव +कोटिकाश्य उवाच +का त्वं कदम्बस्य विनम्य शाखा;मेकाश्रमे तिष्ठसि शोभमाना +देदीप्यमानाग्निशिखेव नक्तं; दोधूयमाना पवनेन सुभ्रूः +अतीव रूपेण समन्विता त्वं; न चाप्यरण्येषु बिभेषि किं नु +देवी नु यक्षी यदि दानवी वा; वराप्सरा दैत्यवराङ्गना वा +वपुष्मती वोरगराजकन्या; वनेचरी वा क्षणदाचरस्त्री +यद्येव राज्ञो वरुणस्य पत्नी; यमस्य सोमस्य धनेश्वरस्य +धातुर्विधातुः सवितुर्विभोर्वा; शक्रस्य वा त्वं सदनात्प्रपन्ना +न ह्येव नः पृच्छसि ये वयं स्म; न चापि जानीम तवेह नाथम् +वयं हि मानं तव वर्धयन्तः; पृच्छाम भद्रे प्रभवं प्रभुं च +आचक्ष्व बन्धूंश्च पतिं कुलं च; तत्त्वेन यच्चेह करोषि कार्यम् +अहं तु राज्ञः सुरथस्य पुत्रो; यं कोटिकाश्येति विदुर्मनुष्याः +असौ तु यस्तिष्ठति काञ्चनाङ्गे; रथे हुतोऽग्निश्चयने यथैव +त्रिगर्तराजः कमलायताक्षि; क्षेमंकरो नाम स एष वीरः +अस्मात्परस्त्वेष महाधनुष्मा;न्पुत्रः कुणिन्दाधिपतेर्वरिष्ठः +निरीक्षते त्वां विपुलायतांसः; सुविस्मितः पर्वतवासनित्यः +असौ तु यः पुष्करिणीसमीपे; श्यामो युवा तिष्ठति दर्शनीयः +इक्ष्वाकुराज्ञः सुबलस्य पुत्रः; स एष हन्ता द्विषतां सुगात्रि +यस्यानुयात्रं ध्वजिनः प्रयान्ति; सौवीरका द्वादश राजपुत्राः +शोणाश्वयुक्तेषु रथेषु सर्वे; मखेषु दीप्ता इव हव्यवाहाः +अङ्गारकः कुञ्जरगुप्तकश्च; शत्रुंजयः संजयसुप्रवृद्धौ +प्रभंकरोऽथ भ्रमरो रविश्च; शूरः प्रतापः कुहरश्च नाम +यं षट्सहस्रा रथिनोऽनुयान्ति; नागा हयाश्चैव पदातिनश्च +जयद्रथो नाम यदि श्रुतस्ते; सौवीरराजः सुभगे स एषः +तस्यापरे भ्रातरोऽदीनसत्त्वा; बलाहकानीकविदारणाध्याः +सौवीरवीराः प्रवरा युवानो; राजानमेते बलिनोऽनुयान्ति +एतैः सहायैरुपयाति राजा; मरुद्गणैरिन्द्र इवाभिगुप्तः +अजानतां ख्यापय नः सुकेशि; कस्यासि भार्या दुहिता च कस्य +वैशंपायन उवाच +अथाब्रवीद्द्रौपदी राजपुत्री; पृष्टा शिबीनां प्रवरेण तेन +अवेक्ष्य मन्दं प्रविमुच्य शाखां; संगृह्णती कौशिकमुत्तरीयम् +बुद्ध्याभिजानामि नरेन्द्रपुत्र; न मादृशी त्वामभिभाष्टुमर्हा +न त्वेह वक्तास्ति तवेह वाक्य;मन्यो नरो वाप्यथ वापि नारी +एका ह्यहं संप्रति तेन वाचं; ददानि वै भद्र निबोध चेदम् +अहं ह्यरण्ये कथमेकमेका; त्वामालपेयं निरता स्वधर्मे +जानामि च त्वां सुरथस्य पुत्रं; यं कोटिकाश्येति विदुर्मनुष्याः +तस्मादहं शैब्य तथैव तुभ्य;माख्यामि बन्धून्प्रति तन्निबोध +अपत्यमस्मि द्रुपदस्य राज्ञः; कृष्णेति मां शैब्य विदुर्मनुष्याः +साहं वृणे पञ्च जनान्पतित्वे; ये खाण्डवप्रस्थगताः श्रुतास्ते +युधिष्ठिरो भीमसेनार्जुनौ च; माद्र्याश्च पुत्रौ पुरुषप्रवीरौ +ते मां निवेश्येह दिशश्चतस्रो; विभज्य पार्था मृगयां प्रयाताः +प्राचीं राजा दक्षिणां भीमसेनो; जयः प्रतीचीं यमजावुदीचीम् +मन्ये तु तेषां रथसत्तमानां; कालोऽभितः प्राप्त इहोपयातुम् +संमानिता यास्यथ तैर्यथेष्टं; विमुच्य वाहानवगाहयध्वम् +प्रियातिथिर्धर्मसुतो महात्मा; प्रीतो भविष्यत्यभिवीक्ष्य युष्मान् +एतावदुक्त्वा द्रुपदात्मजा सा; शैब्यात्मजं चन्द्रमुखी प्रतीता +विवेश तां पर्णकुटीं प्रशस्तां; संचिन्त्य तेषामतिथिस्वधर्मम् +वैशंपायन उवाच +अथासीनेषु सर्वेषु तेषु राजसु भारत +कोटिकाश्यवचः श्रुत्वा शैब्यं सौवीरकोऽब्रवीत् +यदा वाचं व्याहरन्त्यामस्यां मे रमते मनः +सीमन्तिनीनां मुख्यायां विनिवृत्तः कथं भवान् +एतां दृष्ट्वा स्त्रियो मेऽन्या यथा शाखामृगस्त्रियः +प्रतिभान्ति महाबाहो सत्यमेतद्ब्रवीमि ते +दर्शनादेव हि मनस्तया मेऽपहृतं भृशम् +तां समाचक्ष्व कल्याणीं यदि स्याच्छैब्य मानुषी +कोटिकाश्य उवाच +एषा वै द्रौपदी कृष्णा राजपुत्री यशस्विनी +पञ्चानां पाण्डुपुत्राणां महिषी संमता भृशम् +सर्वेषां चैव पार्थानां प्रिया बहुमता सती +तया समेत्य सौवीर सुवीरान्सुसुखी व्रज +वैशंपायन उवाच +एवमुक्तः प्रत्युवाच पश्यामो द्रौपदीमिति +पतिः सौवीरसिन्धूनां दुष्टभावो जयद्रथः +स प्रविश्याश्रमं शून्यं सिंहगोष्ठं वृको यथा +आत्मना सप्तमः कृष्णामिदं वचनमब्रवीत् +कुशलं ते वरारोहे भर्तारस्तेऽप्यनामयाः +येषां कुशलकामासि तेऽपि कच्चिदनामयाः +द्रौपद्युवाच +कौरव्यः कुशली राजा कुन्तीपुत्रो युधिष्ठिरः +अहं च भ्रातरश्चास्य यांश्चान्यान्परिपृच्छसि +पाद्यं प्रतिगृहाणेदमासनं च नृपात्मज +मृगान्पञ्चाशतं चैव प्रातराशं ददानि ते +ऐणेयान्पृषतान्न्यङ्कून्हरिणाञ्शरभाञ्शशान् +ऋश्यान्रुरूञ्शम्बरांश्च गवयांश्च मृगान्बहून् +वराहान्महिषांश्चैव याश्चा��्या मृगजातयः +प्रदास्यति स्वयं तुभ्यं कुन्तीपुत्रो युधिष्ठिरः +जयद्रथ उवाच +कुशलं प्रातराशस्य सर्वा मेऽपचितिः कृता +एहि मे रथमारोह सुखमाप्नुहि केवलम् +गतश्रीकांश्च्युतान्राज्यात्कृपणान्गतचेतसः +अरण्यवासिनः पार्थान्नानुरोद्धुं त्वमर्हसि +न वै प्राज्ञा गतश्रीकं भर्तारमुपयुञ्जते +युञ्जानमनुयुञ्जीत न श्रियः संक्षये वसेत् +श्रिया विहीना राज्याच्च विनष्टाः शाश्वतीः समाः +अलं ते पाण्डुपुत्राणां भक्त्या क्लेशमुपासितुम् +भार्या मे भव सुश्रोणि त्यजैनान्सुखमाप्नुहि +अखिलान्सिन्धुसौवीरानवाप्नुहि मया सह +वैशंपायन उवाच +इत्युक्ता सिन्धुराजेन वाक्यं हृदयकम्पनम् +कृष्णा तस्मादपाक्रामद्देशात्सभ्रुकुटीमुखी +अवमत्यास्य तद्वाक्यमाक्षिप्य च सुमध्यमा +मैवमित्यब्रवीत्कृष्णा लज्जस्वेति च सैन्धवम् +सा काङ्क्षमाणा भर्तॄणामुपयानमनिन्दिता +विलोभयामास परं वाक्यैर्वाक्यानि युञ्जती +वैशंपायन उवाच +सरोषरागोपहतेन वल्गुना; सरागनेत्रेण नतोन्नतभ्रुवा +मुखेन विस्फूर्य सुवीरराष्ट्रपं; ततोऽब्रवीत्तं द्रुपदात्मजा पुनः +यशस्विनस्तीक्ष्णविषान्महारथा;नधिक्षिपन्मूढ न लज्जसे कथम् +महेन्द्रकल्पान्निरतान्स्वकर्मसु; स्थितान्समूहेष्वपि यक्षरक्षसाम् +न किंचिदीड्यं प्रवदन्ति पापं; वनेचरं वा गृहमेधिनं वा +तपस्विनं संपरिपूर्णविद्यं; भषन्ति हैवं श्वनराः सुवीर +अहं तु मन्ये तव नास्ति कश्चि;देतादृशे क्षत्रियसंनिवेशे +यस्त्वाद्य पातालमुखे पतन्तं; पाणौ गृहीत्वा प्रतिसंहरेत +नागं प्रभिन्नं गिरिकूटकल्प;मुपत्यकां हैमवतीं चरन्तम् +दण्डीव यूथादपसेधसे त्वं; यो जेतुमाशंससि धर्मराजम् +बाल्यात्प्रसुप्तस्य महाबलस्य; सिंहस्य पक्ष्माणि मुखाल्लुनासि +पदा समाहत्य पलायमानः; क्रुद्धं यदा द्रक्ष्यसि भीमसेनम् +महाबलं घोरतरं प्रवृद्धं; जातं हरिं पर्वतकन्दरेषु +प्रसुप्तमुग्रं प्रपदेन हंसि; यः क्रुद्धमासेत्स्यसि जिष्णुमुग्रम् +कृष्णोरगौ तीक्ष्णविषौ द्विजिह्वौ; मत्तः पदाक्रामसि पुच्छदेशे +यः पाण्डवाभ्यां पुरुषोत्तमाभ्यां; जघन्यजाभ्यां प्रयुयुत्ससे त्वम् +यथा च वेणुः कदली नलो वा; फलन्त्यभावाय न भूतयेऽऽत्मनः +तथैव मां तैः परिरक्ष्यमाणा;मादास्यसे कर्कटकीव गर्भम् +जयद्रथ उवाच +जानामि कृष्णे विदितं ममैत;द्यथा��िधास्ते नरदेवपुत्राः +न त्वेवमेतेन विभीषणेन; शक्या वयं त्रासयितुं त्वयाद्य +वयं पुनः सप्तदशेषु कृष्णे; कुलेषु सर्वेऽनवमेषु जाताः +षड्भ्यो गुणेभ्योऽभ्यधिका विहीना;न्मन्यामहे द्रौपदि पाण्डुपुत्रान् +सा क्षिप्रमातिष्ठ गजं रथं वा; न वाक्यमात्रेण वयं हि शक्याः +आशंस वा त्वं कृपणं वदन्ती; सौवीरराजस्य पुनः प्रसादम् +द्रौपद्युवाच +महाबला किं त्विह दुर्बलेव; सौवीरराजस्य मताहमस्मि +याहं प्रमाथादिह संप्रतीता; सौवीरराजं कृपणं वदेयम् +यस्या हि कृष्णौ पदवीं चरेतां; समास्थितावेकरथे सहायौ +इन्द्रोऽपि तां नापहरेत्कथंचि;न्मनुष्यमात्रः कृपणः कुतोऽन्यः +यदा किरीटी परवीरघाती; निघ्नन्रथस्थो द्विषतां मनांसि +मदन्तरे त्वद्ध्वजिनीं प्रवेष्टा; कक्षं दहन्नग्निरिवोष्णगेषु +जनार्दनस्यानुगा वृष्णिवीरा; महेष्वासाः केकयाश्चापि सर्वे +एते हि सर्वे मम राजपुत्राः; प्रहृष्टरूपाः पदवीं चरेयुः +मौर्वीविसृष्टाः स्तनयित्नुघोषा; गाण्डीवमुक्तास्त्वतिवेगवन्तः +हस्तं समाहत्य धनंजयस्य; भीमाः शब्दं घोरतरं नदन्ति +गाण्डीवमुक्तांश्च महाशरौघा;न्पतंगसंघानिव शीघ्रवेगान् +सशङ्खघोषः सतलत्रघोषो; गाण्डीवधन्वा मुहुरुद्वमंश्च +यदा शरानर्पयिता तवोरसि; तदा मनस्ते किमिवाभविष्यत् +गदाहस्तं भीममभिद्रवन्तं; माद्रीपुत्रौ संपतन्तौ दिशश्च +अमर्षजं क्रोधविषं वमन्तौ; दृष्ट्वा चिरं तापमुपैष्यसेऽधम +यथा चाहं नातिचरे कथंचि;त्पतीन्महार्हान्मनसापि जातु +तेनाद्य सत्येन वशीकृतं त्वां; द्रष्टास्मि पार्थैः परिकृष्यमाणम् +न संभ्रमं गन्तुमहं हि शक्ष्ये; त्वया नृशंसेन विकृष्यमाणा +समागताहं हि कुरुप्रवीरैः; पुनर्वनं काम्यकमागता च +वैशंपायन उवाच +सा ताननुप्रेक्ष्य विशालनेत्रा; जिघृक्षमाणानवभर्त्सयन्ती +प्रोवाच मा मा स्पृशतेति भीता; धौम्यं प्रचुक्रोश पुरोहितं सा +जग्राह तामुत्तरवस्त्रदेशे; जयद्रथस्तं समवाक्षिपत्सा +तया समाक्षिप्ततनुः स पापः; पपात शाखीव निकृत्तमूलः +प्रगृह्यमाणा तु महाजवेन; मुहुर्विनिःश्वस्य च राजपुत्री +सा कृष्यमाणा रथमारुरोह; धौम्यस्य पादावभिवाद्य कृष्णा +धौम्य उवाच +नेयं शक्या त्वया नेतुमविजित्य महारथान् +धर्मं क्षत्रस्य पौराणमवेक्षस्व जयद्रथ +क्षुद्रं कृत्वा फलं पापं प्राप्स्यसि त्वमसंशयम् +आसाद्य पाण्डव��न्वीरान्धर्मराजपुरोगमान् +वैशंपायन उवाच +इत्युक्त्वा ह्रियमाणां तां राजपुत्रीं यशस्विनीम् +अन्वगच्छत्तदा धौम्यः पदातिगणमध्यगः +वैशंपायन उवाच +ततो दिशः संप्रविहृत्य पार्था; मृगान्वराहान्महिषांश्च हत्वा +धनुर्धराः श्रेष्ठतमाः पृथिव्यां; पृथक्चरन्तः सहिता बभूवुः +ततो मृगव्यालगणानुकीर्णं; महावनं तद्विहगोपघुष्टम् +भ्रातॄंश्च तानभ्यवदद्युधिष्ठिरः; श्रुत्वा गिरो व्याहरतां मृगाणाम् +आदित्यदीप्तां दिशमभ्युपेत्य; मृगद्विजाः क्रूरमिमे वदन्ति +आयासमुग्रं प्रतिवेदयन्तो; महाहवं शत्रुभिर्वावमानम् +क्षिप्रं निवर्तध्वमलं मृगैर्नो; मनो हि मे दूयति दह्यते च +बुद्धिं समाच्छाद्य च मे समन्यु;रुद्धूयते प्राणपतिः शरीरे +सरः सुपर्णेन हृतोरगं यथा; राष्ट्रं यथाराजकमात्तलक्ष्मि +एवंविधं मे प्रतिभाति काम्यकं; शौण्डैर्यथा पीतरसश्च कुम्भः +ते सैन्धवैरत्यनिलौघवेगै;र्महाजवैर्वाजिभिरुह्यमानाः +युक्तैर्बृहद्भिः सुरथैर्नृवीरा;स्तदाश्रमायाभिमुखा बभूवुः +तेषां तु गोमायुरनल्पघोषो; निवर्ततां वाममुपेत्य पार्श्वम् +प्रव्याहरत्तं प्रविमृश्य राजा; प्रोवाच भीमं च धनंजयं च +यथा वदत्येष विहीनयोनिः; शालावृको वाममुपेत्य पार्श्वम् +सुव्यक्तमस्मानवमन्य पापैः; कृतोऽभिमर्दः कुरुभिः प्रसह्य +इत्येव ते तद्वनमाविशन्तो; महत्यरण्ये मृगयां चरित्वा +बालामपश्यन्त तदा रुदन्तीं; धात्रेयिकां प्रेष्यवधूं प्रियायाः +तामिन्द्रसेनस्त्वरितोऽभिसृत्य; रथादवप्लुत्य ततोऽभ्यधावत् +प्रोवाच चैनां वचनं नरेन्द्र; धात्रेयिकामार्ततरस्तदानीम् +किं रोदिषि त्वं पतिता धरण्यां; किं ते मुखं शुष्यति दीनवर्णम् +कच्चिन्न पापैः सुनृशंसकृद्भिः; प्रमाथिता द्रौपदी राजपुत्री +अनिन्द्यरूपा सुविशालनेत्रा; शरीरतुल्या कुरुपुंगवानाम् +यद्येव देवी पृथिवीं प्रविष्टा; दिवं प्रपन्नाप्यथ वा समुद्रम् +तस्या गमिष्यन्ति पदं हि पार्था;स्तथा हि संतप्यति धर्मराजः +को हीदृशानामरिमर्दनानां; क्लेशक्षमाणामपराजितानाम् +प्राणैः समामिष्टतमां जिहीर्षे;दनुत्तमं रत्नमिव प्रमूढः +न बुध्यते नाथवतीमिहाद्य; बहिश्चरं हृदयं पाण्डवानाम् +कस्याद्य कायं प्रतिभिद्य घोरा; महीं प्रवेक्ष्यन्ति शिताः शराग्र्याः +मा त्वं शुचस्तां प्रति भीरु विद्धि; यथाद्य कृष्णा प��नरेष्यतीति +निहत्य सर्वान्द्विषतः समग्रा;न्पार्थाः समेष्यन्त्यथ याज्ञसेन्या +अथाब्रवीच्चारुमुखं प्रमृज्य; धात्रेयिका सारथिमिन्द्रसेनम् +जयद्रथेनापहृता प्रमथ्य; पञ्चेन्द्रकल्पान्परिभूय कृष्णा +तिष्ठन्ति वर्त्मानि नवान्यमूनि; वृक्षाश्च न म्लान्ति तथैव भग्नाः +आवर्तयध्वं ह्यनुयात शीघ्रं; न दूरयातैव हि राजपुत्री +संनह्यध्वं सर्व एवेन्द्रकल्पा; महान्ति चारूणि च दंशनानि +गृह्णीत चापानि महाधनानि; शरांश्च शीघ्रं पदवीं व्रजध्वम् +पुरा हि निर्भर्त्सनदण्डमोहिता; प्रमूढचित्ता वदनेन शुष्यता +ददाति कस्मैचिदनर्हते तनुं; वराज्यपूर्णामिव भस्मनि स्रुचम् +पुरा तुषाग्नाविव हूयते हविः; पुरा श्मशाने स्रगिवापविध्यते +पुरा च सोमोऽध्वरगोऽवलिह्यते; शुना यथा विप्रजने प्रमोहिते +महत्यरण्ये मृगयां चरित्वा; पुरा शृगालो नलिनीं विगाहते +मा वः प्रियायाः सुनसं सुलोचनं; चन्द्रप्रभाच्छं वदनं प्रसन्नम् +स्पृश्याच्छुभं कश्चिदकृत्यकारी; श्वा वै पुरोडाशमिवोपयुङ्क्षीत् +एतानि वर्त्मान्यनुयात शीघ्रं; मा वः कालः क्षिप्रमिहात्यगाद्वै +युधिष्ठिर उवाच +भद्रे तूष्णीमास्स्व नियच्छ वाचं; मास्मत्सकाशे परुषाण्यवोचः +राजानो वा यदि वा राजपुत्रा; बलेन मत्ता वञ्चनां प्राप्नुवन्ति +वैशंपायन उवाच +एतावदुक्त्वा प्रययुर्हि शीघ्रं; तान्येव वर्त्मान्यनुवर्तमानाः +मुहुर्मुहुर्व्यालवदुच्छ्वसन्तो; ज्यां विक्षिपन्तश्च महाधनुर्भ्यः +ततोऽपश्यंस्तस्य सैन्यस्य रेणु;मुद्धूतं वै वाजिखुरप्रणुन्नम् +पदातीनां मध्यगतं च धौम्यं; विक्रोशन्तं भीममभिद्रवेति +ते सान्त्व्य धौम्यं परिदीनसत्त्वाः; सुखं भवानेत्विति राजपुत्राः +श्येना यथैवामिषसंप्रयुक्ता; जवेन तत्सैन्यमथाभ्यधावन् +तेषां महेन्द्रोपमविक्रमाणां; संरब्धानां धर्षणाद्याज्ञसेन्याः +क्रोधः प्रजज्वाल जयद्रथं च; दृष्ट्वा प्रियां तस्य रथे स्थितां च +प्रचुक्रुशुश्चाप्यथ सिन्धुराजं; वृकोदरश्चैव धनंजयश्च +यमौ च राजा च महाधनुर्धरा;स्ततो दिशः संमुमुहुः परेषाम् +वैशंपायन उवाच +ततो घोरतरः शब्दो वने समभवत्तदा +भीमसेनार्जुनौ दृष्ट्वा क्षत्रियाणाममर्षिणाम् +तेषां ध्वजाग्राण्यभिवीक्ष्य राजा; स्वयं दुरात्मा कुरुपुंगवानाम् +जयद्रथो याज्ञसेनीमुवाच; रथे स्थितां भानुमतीं हतौजा�� +आयान्तीमे पञ्च रथा महान्तो; मन्ये च कृष्णे पतयस्तवैते +सा जानती ख्यापय नः सुकेशि; परं परं पाण्डवानां रथस्थम् +द्रौपद्युवाच +किं ते ज्ञातैर्मूढ महाधनुर्धरै;रनायुष्यं कर्म कृत्वातिघोरम् +एते वीराः पतयो मे समेता; न वः शेषः कश्चिदिहास्ति युद्धे +आख्यातव्यं त्वेव सर्वं मुमूर्षो;र्मया तुभ्यं पृष्टया धर्म एषः +न मे व्यथा विद्यते त्वद्भयं वा; संपश्यन्त्याः सानुजं धर्मराजम् +यस्य ध्वजाग्रे नदतो मृदङ्गौ; नन्दोपनन्दौ मधुरौ युक्तरूपौ +एतं स्वधर्मार्थविनिश्चयज्ञं; सदा जनाः कृत्यवन्तोऽनुयान्ति +य एष जाम्बूनदशुद्धगौरः; प्रचण्डघोणस्तनुरायताक्षः +एतं कुरुश्रेष्ठतमं वदन्ति; युधिष्ठिरं धर्मसुतं पतिं मे +अप्येष शत्रोः शरणागतस्य; दद्यात्प्राणान्धर्मचारी नृवीरः +परैह्येनं मूढ जवेन भूतये; त्वमात्मनः प्राञ्जलिर्न्यस्तशस्त्रः +अथाप्येनं पश्यसि यं रथस्थं; महाभुजं शालमिव प्रवृद्धम् +संदष्टोष्ठं भ्रुकुटीसंहतभ्रुवं; वृकोदरो नाम पतिर्ममैषः +आजानेया बलिनः साधु दान्ता; महाबलाः शूरमुदावहन्ति +एतस्य कर्माण्यतिमानुषाणि; भीमेति शब्दोऽस्य गतः पृथिव्याम् +नास्यापराद्धाः शेषमिहाप्नुवन्ति; नाप्यस्य वैरं विस्मरते कदाचित् +वैरस्यान्तं संविधायोपयाति; पश्चाच्छान्तिं न च गच्छत्यतीव +मृदुर्वदान्यो धृतिमान्यशस्वी; जितेन्द्रियो वृद्धसेवी नृवीरः +भ्राता च शिष्यश्च युधिष्ठिरस्य; धनंजयो नाम पतिर्ममैषः +यो वै न कामान्न भयान्न लोभा;त्त्यजेद्धर्मं न नृशंसं च कुर्यात् +स एष वैश्वानरतुल्यतेजाः; कुन्तीसुतः शत्रुसहः प्रमाथी +यः सर्वधर्मार्थविनिश्चयज्ञो; भयार्तानां भयहर्ता मनीषी +यस्योत्तमं रूपमाहुः पृथिव्यां; यं पाण्डवाः परिरक्षन्ति सर्वे +प्राणैर्गरीयांसमनुव्रतं वै; स एष वीरो नकुलः पतिर्मे +यः खड्गयोधी लघुचित्रहस्तो; महांश्च धीमान्सहदेवोऽद्वितीयः +यस्याद्य कर्म द्रक्ष्यसे मूढसत्त्व; शतक्रतोर्वा दैत्यसेनासु संख्ये +शूरः कृतास्त्रो मतिमान्मनीषी; प्रियंकरो धर्मसुतस्य राज्ञः +य एष चन्द्रार्कसमानतेजा; जघन्यजः पाण्डवानां प्रियश्च +बुद्ध्या समो यस्य नरो न विद्यते; वक्ता तथा सत्सु विनिश्चयज्ञः +स एष शूरो नित्यममर्षणश्च; धीमान्प्राज्ञः सहदेवः पतिर्मे +त्यजेत्प्राणान्प्रविशेद्धव्यवाहं; न त्वेवैष व्याहरेद्धर्मबाह��यम् +सदा मनस्वी क्षत्रधर्मे निविष्टः; कुन्त्याः प्राणैरिष्टतमो नृवीरः +विशीर्यन्तीं नावमिवार्णवान्ते; रत्नाभिपूर्णां मकरस्य पृष्ठे +सेनां तवेमां हतसर्वयोधां; विक्षोभितां द्रक्ष्यसि पाण्डुपुत्रैः +इत्येते वै कथिताः पाण्डुपुत्रा; यांस्त्वं मोहादवमन्य प्रवृत्तः +यद्येतैस्त्वं मुच्यसेऽरिष्टदेहः; पुनर्जन्म प्राप्स्यसे जीव एव +वैशंपायन उवाच +ततः पार्थाः पञ्च पञ्चेन्द्रकल्पा;स्त्यक्त्वा त्रस्तान्प्राञ्जलींस्तान्पदातीन् +रथानीकं शरवर्षान्धकारं; चक्रुः क्रुद्धाः सर्वतः संनिगृह्य +वैशंपायन उवाच +संतिष्ठत प्रहरत तूर्णं विपरिधावत +इति स्म सैन्धवो राजा चोदयामास तान्नृपान् +ततो घोरतरः शब्दो रणे समभवत्तदा +भीमार्जुनयमान्दृष्ट्वा सैन्यानां सयुधिष्ठिरान् +शिबिसिन्धुत्रिगर्तानां विषादश्चाप्यजायत +तान्दृष्ट्वा पुरुषव्याघ्रान्व्याघ्रानिव बलोत्कटान् +हेमचित्रसमुत्सेधां सर्वशैक्यायसीं गदाम् +प्रगृह्याभ्यद्रवद्भीमः सैन्धवं कालचोदितम् +तदन्तरमथावृत्य कोटिकाश्योऽभ्यहारयत् +महता रथवंशेन परिवार्य वृकोदरम् +शक्तितोमरनाराचैर्वीरबाहुप्रचोदितैः +कीर्यमाणोऽपि बहुभिर्न स्म भीमोऽभ्यकम्पत +गजं तु सगजारोहं पदातींश्च चतुर्दश +जघान गदया भीमः सैन्धवध्वजिनीमुखे +पार्थः पञ्चशताञ्शूरान्पार्वतीयान्महारथान् +परीप्समानः सौवीरं जघान ध्वजिनीमुखे +राजा स्वयं सुवीराणां प्रवराणां प्रहारिणाम् +निमेषमात्रेण शतं जघान समरे तदा +ददृशे नकुलस्तत्र रथात्प्रस्कन्द्य खड्गधृक् +शिरांसि पादरक्षाणां बीजवत्प्रवपन्मुहुः +सहदेवस्तु संयाय रथेन गजयोधिनः +पातयामास नाराचैर्द्रुमेभ्य इव बर्हिणः +ततस्त्रिगर्तः सधनुरवतीर्य महारथात् +गदया चतुरो वाहान्राज्ञस्तस्य तदावधीत् +तमभ्याशगतं राजा पदातिं कुन्तिनन्दनः +अर्धचन्द्रेण बाणेन विव्याधोरसि धर्मराट् +स भिन्नहृदयो वीरो वक्त्राच्छोणितमुद्वमन् +पपाताभिमुखः पार्थं छिन्नमूल इव द्रुमः +इन्द्रसेनद्वितीयस्तु रथात्प्रस्कन्द्य धर्मराट् +हताश्वः सहदेवस्य प्रतिपेदे महारथम् +नकुलं त्वभिसंधाय क्षेमंकरमहामुखौ +उभावुभयतस्तीक्ष्णैः शरवर्षैरवर्षताम् +तौ शरैरभिवर्षन्तौ जीमूताविव वार्षिकौ +एकैकेन विपाठेन जघ्ने माद्रवतीसुतः +त्रिगर्तराजः सुरथस्तस्याथ रथधूर्गतः +रथमाक्षेपयामास गजेन गजयानवित् +नकुलस्त्वपभीस्तस्माद्रथाच्चर्मासिपाणिमान् +उद्भ्रान्तं स्थानमास्थाय तस्थौ गिरिरिवाचलः +सुरथस्तं गजवरं वधाय नकुलस्य तु +प्रेषयामास सक्रोधमभ्युच्छ्रितकरं ततः +नकुलस्तस्य नागस्य समीपपरिवर्तिनः +सविषाणं भुजं मूले खड्गेन निरकृन्तत +स विनद्य महानादं गजः कङ्कणभूषणः +पतन्नवाक्शिरा भूमौ हस्त्यारोहानपोथयत् +स तत्कर्म महत्कृत्वा शूरो माद्रवतीसुतः +भीमसेनरथं प्राप्य शर्म लेभे महारथः +भीमस्त्वापततो राज्ञः कोटिकाश्यस्य संगरे +सूतस्य नुदतो वाहान्क्षुरेणापाहरच्छिरः +न बुबोध हतं सूतं स राजा बाहुशालिना +तस्याश्वा व्यद्रवन्संख्ये हतसूतास्ततस्ततः +विमुखं हतसूतं तं भीमः प्रहरतां वरः +जघान तलयुक्तेन प्रासेनाभ्येत्य पाण्डवः +द्वादशानां तु सर्वेषां सौवीराणां धनंजयः +चकर्त निषितैर्भल्लैर्धनूंषि च शिरांसि च +शिबीनिक्ष्वाकुमुख्यांश्च त्रिगर्तान्सैन्धवानपि +जघानातिरथः संख्ये बाणगोचरमागतान् +सादिताः प्रत्यदृश्यन्त बहवः सव्यसाचिना +सपताकाश्च मातङ्गाः सध्वजाश्च महारथाः +प्रच्छाद्य पृथिवीं तस्थुः सर्वमायोधनं प्रति +शरीराण्यशिरस्कानि विदेहानि शिरांसि च +श्वगृध्रकङ्ककाकोलभासगोमायुवायसाः +अतृप्यंस्तत्र वीराणां हतानां मांसशोणितैः +हतेषु तेषु वीरेषु सिन्धुराजो जयद्रथः +विमुच्य कृष्णां संत्रस्तः पलायनपरोऽभवत् +स तस्मिन्संकुले सैन्ये द्रौपदीमवतार्य वै +प्राणप्रेप्सुरुपाधावद्वनं येन नराधमः +द्रौपदीं धर्मराजस्तु दृष्ट्वा धौम्यपुरस्कृताम् +माद्रीपुत्रेण वीरेण रथमारोपयत्तदा +ततस्तद्विद्रुतं सैन्यमपयाते जयद्रथे +आदिश्यादिश्य नाराचैराजघान वृकोदरः +सव्यसाची तु तं दृष्ट्वा पलायन्तं जयद्रथम् +वारयामास निघ्नन्तं भीमं सैन्धवसैनिकान् +अर्जुन उवाच +यस्यापचारात्प्राप्तोऽयमस्मान्क्लेशो दुरासदः +तमस्मिन्समरोद्देशे न पश्यामि जयद्रथम् +तमेवान्विष भद्रं ते किं ते योधैर्निपातितैः +अनामिषमिदं कर्म कथं वा मन्यते भवान् +वैशंपायन उवाच +इत्युक्तो भीमसेनस्तु गुडाकेशेन धीमता +युधिष्ठिरमभिप्रेक्ष्य वाग्मी वचनमब्रवीत् +हतप्रवीरा रिपवो भूयिष्ठं विद्रुता दिशः +गृहीत्वा द्रौपदीं राजन्निवर्ततु भवानितः +यमाभ्यां सह राजेन्द्र धौम्येन च महात्मना +प्राप्या���्रमपदं राजन्द्रौपदीं परिसान्त्वय +न हि मे मोक्ष्यते जीवन्मूढः सैन्धवको नृपः +पातालतलसंस्थोऽपि यदि शक्रोऽस्य सारथिः +युधिष्ठिर उवाच +न हन्तव्यो महाबाहो दुरात्मापि स सैन्धवः +दुःशलामभिसंस्मृत्य गान्धारीं च यशस्विनीम् +वैशंपायन उवाच +तच्छ्रुत्वा द्रौपदी भीममुवाच व्याकुलेन्द्रिया +कुपिता ह्रीमती प्राज्ञा पती भीमार्जुनावुभौ +कर्तव्यं चेत्प्रियं मह्यं वध्यः स पुरुषाधमः +सैन्धवापसदः पापो दुर्मतिः कुलपांसनः +भार्याभिहर्ता निर्वैरो यश्च राज्यहरो रिपुः +याचमानोऽपि संग्रामे न स जीवितुमर्हति +इत्युक्तौ तौ नरव्याघ्रौ ययतुर्यत्र सैन्धवः +राजा निववृते कृष्णामादाय सपुरोहितः +स प्रविश्याश्रमपदं व्यपविद्धबृसीघटम् +मार्कण्डेयादिभिर्विप्रैरनुकीर्णं ददर्श ह +द्रौपदीमनुशोचद्भिर्ब्राह्मणैस्तैः समागतैः +समियाय महाप्राज्ञः सभार्यो भ्रातृमध्यगः +ते स्म तं मुदिता दृष्ट्वा पुनरभ्यागतं नृपम् +जित्वा तान्सिन्धुसौवीरान्द्रौपदीं चाहृतां पुनः +स तैः परिवृतो राजा तत्रैवोपविवेश ह +प्रविवेशाश्रमं कृष्णा यमाभ्यां सह भामिनी +भीमार्जुनावपि श्रुत्वा क्रोशमात्रगतं रिपुम् +स्वयमश्वांस्तुदन्तौ तौ जवेनैवाभ्यधावताम् +इदमत्यद्भुतं चात्र चकार पुरुषोऽर्जुनः +क्रोशमात्रगतानश्वान्सैन्धवस्य जघान यत् +स हि दिव्यास्त्रसंपन्नः कृच्छ्रकालेऽप्यसंभ्रमः +अकरोद्दुष्करं कर्म शरैरस्त्रानुमन्त्रितैः +ततोऽभ्यधावतां वीरावुभौ भीमधनंजयौ +हताश्वं सैन्धवं भीतमेकं व्याकुलचेतसम् +सैन्धवस्तु हतान्दृष्ट्वा तथाश्वान्स्वान्सुदुःखितः +दृष्ट्वा विक्रमकर्माणि कुर्वाणं च धनंजयम् +पलायनकृतोत्साहः प्राद्रवद्येन वै वनम् +सैन्धवं त्वभिसंप्रेक्ष्य पराक्रान्तं पलायने +अनुयाय महाबाहुः फल्गुनो वाक्यमब्रवीत् +अनेन वीर्येण कथं स्त्रियं प्रार्थयसे बलात् +राजपुत्र निवर्तस्व न ते युक्तं पलायनम् +कथं चानुचरान्हित्वा शत्रुमध्ये पलायसे +इत्युच्यमानः पार्थेन सैन्धवो न न्यवर्तत +तिष्ठ तिष्ठेति तं भीमः सहसाभ्यद्रवद्बली +मा वधीरिति पार्थस्तं दयावानभ्यभाषत +वैशंपायन उवाच +जयद्रथस्तु संप्रेक्ष्य भ्रातरावुद्यतायुधौ +प्राद्रवत्तूर्णमव्यग्रो जीवितेप्सुः सुदुःखितः +तं भीमसेनो धावन्तमवतीर्य रथाद्बली +अभिद्रुत्य निजग्राह ���ेशपक्षेऽत्यमर्षणः +समुद्यम्य च तं रोषान्निष्पिपेष महीतले +गले गृहीत्वा राजानं ताडयामास चैव ह +पुनः संजीवमानस्य तस्योत्पतितुमिच्छतः +पदा मूर्ध्नि महाबाहुः प्राहरद्विलपिष्यतः +तस्य जानुं ददौ भीमो जघ्ने चैनमरत्निना +स मोहमगमद्राजा प्रहारवरपीडितः +विरोषं भीमसेनं तु वारयामास फल्गुनः +दुःशलायाः कृते राजा यत्तदाहेति कौरव +भीमसेन उवाच +नायं पापसमाचारो मत्तो जीवितुमर्हति +द्रौपद्यास्तदनर्हायाः परिक्लेष्टा नराधमः +किं नु शक्यं मया कर्तुं यद्राजा सततं घृणी +त्वं च बालिशया बुद्ध्या सदैवास्मान्प्रबाधसे +एवमुक्त्वा सटास्तस्य पञ्च चक्रे वृकोदरः +अर्धचन्द्रेण बाणेन किंचिदब्रुवतस्तदा +विकल्पयित्वा राजानं ततः प्राह वृकोदरः +जीवितुं चेच्छसे मूढ हेतुं मे गदतः शृणु +दासोऽस्मीति त्वया वाच्यं संसत्सु च सभासु च +एवं ते जीवितं दद्यामेष युद्धजितो विधिः +एवमस्त्विति तं राजा कृच्छ्रप्राणो जयद्रथः +प्रोवाच पुरुषव्याघ्रं भीममाहवशोभिनम् +तत एनं विचेष्टन्तं बद्ध्वा पार्थो वृकोदरः +रथमारोपयामास विसंज्ञं पांसुगुण्ठितम् +ततस्तं रथमास्थाय भीमः पार्थानुगस्तदा +अभ्येत्याश्रममध्यस्थमभ्यगच्छद्युधिष्ठिरम् +दर्शयामास भीमस्तु तदवस्थं जयद्रथम् +तं राजा प्राहसद्दृष्ट्वा मुच्यतामिति चाब्रवीत् +राजानं चाब्रवीद्भीमो द्रौपद्यै कथयेति वै +दासभावं गतो ह्येष पाण्डूनां पापचेतनः +तमुवाच ततो ज्येष्ठो भ्राता सप्रणयं वचः +मुञ्चैनमधमाचारं प्रमाणं यदि ते वयम् +द्रौपदी चाब्रवीद्भीममभिप्रेक्ष्य युधिष्ठिरम् +दासोऽयं मुच्यतां राज्ञस्त्वया पञ्चसटः कृतः +स मुक्तोऽभ्येत्य राजानमभिवाद्य युधिष्ठिरम् +ववन्दे विह्वलो राजा तांश्च सर्वान्मुनींस्तदा +तमुवाच घृणी राजा धर्मपुत्रो युधिष्ठिरः +तथा जयद्रथं दृष्ट्वा गृहीतं सव्यसाचिना +अदासो गच्छ मुक्तोऽसि मैवं कार्षीः पुनः क्वचित् +स्त्रीकामुक धिगस्तु त्वां क्षुद्रः क्षुद्रसहायवान् +एवंविधं हि कः कुर्यात्त्वदन्यः पुरुषाधमः +गतसत्त्वमिव ज्ञात्वा कर्तारमशुभस्य तम् +संप्रेक्ष्य भरतश्रेष्ठः कृपां चक्रे नराधिपः +धर्मे ते वर्धतां बुद्धिर्मा चाधर्मे मनः कृथाः +साश्वः सरथपादातः स्वस्ति गच्छ जयद्रथ +एवमुक्तस्तु सव्रीडं तूष्णीं किंचिदवाङ्मुखः +जगाम राजा दुःखार्तो गङ्गाद्वाराय भारत +स देवं शरणं गत्वा विरूपाक्षमुमापतिम् +तपश्चचार विपुलं तस्य प्रीतो वृषध्वजः +बलिं स्वयं प्रत्यगृह्णात्प्रीयमाणस्त्रिलोचनः +वरं चास्मै ददौ देवः स च जग्राह तच्छृणु +समस्तान्सरथान्पञ्च जयेयं युधि पाण्डवान् +इति राजाब्रवीद्देवं नेति देवस्तमब्रवीत् +अजय्यांश्चाप्यवध्यांश्च वारयिष्यसि तान्युधि +ऋतेऽर्जुनं महाबाहुं देवैरपि दुरासदम् +यमाहुरजितं देवं शङ्खचक्रगदाधरम् +प्रधानः सोऽस्त्रविदुषां तेन कृष्णेन रक्ष्यते +एवमुक्तस्तु नृपतिः स्वमेव भवनं ययौ +पाण्डवाश्च वने तस्मिन्न्यवसन्काम्यके तदा +जनमेजय उवाच +एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् +अत ऊर्ध्वं नरव्याघ्राः किमकुर्वत पाण्डवाः +वैशंपायन उवाच +एवं कृष्णां मोक्षयित्वा विनिर्जित्य जयद्रथम् +आसां चक्रे मुनिगणैर्धर्मराजो युधिष्ठिरः +तेषां मध्ये महर्षीणां शृण्वतामनुशोचताम् +मार्कण्डेयमिदं वाक्यमब्रवीत्पाण्डुनन्दनः +मन्ये कालश्च बलवान्दैवं च विधिनिर्मितम् +भवितव्यं च भूतानां यस्य नास्ति व्यतिक्रमः +कथं हि पत्नीमस्माकं धर्मज्ञां धर्मचारिणीम् +संस्पृशेदीदृशो भावः शुचिं स्तैन्यमिवानृतम् +न हि पापं कृतं किंचित्कर्म वा निन्दितं क्वचित् +द्रौपद्या ब्राह्मणेष्वेव धर्मः सुचरितो महान् +तां जहार बलाद्राजा मूढबुद्धिर्जयद्रथः +तस्याः संहरणात्प्राप्तः शिरसः केशवापनम् +पराजयं च संग्रामे ससहायः समाप्तवान् +प्रत्याहृता तथास्माभिर्हत्वा तत्सैन्धवं बलम् +तद्दारहरणं प्राप्तमस्माभिरवितर्कितम् +दुःखश्चायं वने वासो मृगयायां च जीविका +हिंसा च मृगजातीनां वनौकोभिर्वनौकसाम् +ज्ञातिभिर्विप्रवासश्च मिथ्या व्यवसितैरयम् +अस्ति नूनं मया कश्चिदल्पभाग्यतरो नरः +भवता दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा भवेत् +मार्कण्डेय उवाच +प्राप्तमप्रतिमं दुःखं रामेण भरतर्षभ +रक्षसा जानकी तस्य हृता भार्या बलीयसा +आश्रमाद्राक्षसेन्द्रेण रावणेन विहायसा +मायामास्थाय तरसा हत्वा गृध्रं जटायुषम् +प्रत्याजहार तां रामः सुग्रीवबलमाश्रितः +बद्ध्वा सेतुं समुद्रस्य दग्ध्वा लङ्कां शितैः शरैः +युधिष्ठिर उवाच +कस्मिन्रामः कुले जातः किंवीर्यः किंपराक्रमः +रावणः कस्य वा पुत्रः किं वैरं तस्य तेन ह +एतन्मे भगवन्सर्वं सम्यगाख्यातुमर्हसि +श्रोतुम��च्छामि चरितं रामस्याक्लिष्टकर्मणः +मार्कण्डेय उवाच +अजो नामाभवद्राजा महानिक्ष्वाकुवंशजः +तस्य पुत्रो दशरथः शश्वत्स्वाध्यायवाञ्शुचिः +अभवंस्तस्य चत्वारः पुत्रा धर्मार्थकोविदाः +रामलक्ष्मणशत्रुघ्ना भरतश्च महाबलः +रामस्य माता कौसल्या कैकेयी भरतस्य तु +सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रायाः परंतपौ +विदेहराजो जनकः सीता तस्यात्मजा विभो +यां चकार स्वयं त्वष्टा रामस्य महिषीं प्रियाम् +एतद्रामस्य ते जन्म सीतायाश्च प्रकीर्तितम् +रावणस्यापि ते जन्म व्याख्यास्यामि जनेश्वर +पितामहो रावणस्य साक्षाद्देवः प्रजापतिः +स्वयंभूः सर्वलोकानां प्रभुः स्रष्टा महातपाः +पुलस्त्यो नाम तस्यासीन्मानसो दयितः सुतः +तस्य वैश्रवणो नाम गवि पुत्रोऽभवत्प्रभुः +पितरं स समुत्सृज्य पितामहमुपस्थितः +तस्य कोपात्पिता राजन्ससर्जात्मानमात्मना +स जज्ञे विश्रवा नाम तस्यात्मार्धेन वै द्विजः +प्रतीकाराय सक्रोधस्ततो वैश्रवणस्य वै +पितामहस्तु प्रीतात्मा ददौ वैश्रवणस्य ह +अमरत्वं धनेशत्वं लोकपालत्वमेव च +ईशानेन तथा सख्यं पुत्रं च नलकूबरम् +राजधानीनिवेशं च लङ्कां रक्षोगणान्विताम् +मार्कण्डेय उवाच +पुलस्त्यस्य तु यः क्रोधादर्धदेहोऽभवन्मुनिः +विश्रवा नाम सक्रोधः स वैश्रवणमैक्षत +बुबुधे तं तु सक्रोधं पितरं राक्षसेश्वरः +कुबेरस्तत्प्रसादार्थं यतते स्म सदा नृप +स राजराजो लङ्कायां निवसन्नरवाहनः +राक्षसीः प्रददौ तिस्रः पितुर्वै परिचारिकाः +तास्तदा तं महात्मानं संतोषयितुमुद्यताः +ऋषिं भरतशार्दूल नृत्तगीतविशारदाः +पुष्पोत्कटा च राका च मालिनी च विशां पते +अन्योन्यस्पर्धया राजञ्श्रेयस्कामाः सुमध्यमाः +तासां स भगवांस्तुष्टो महात्मा प्रददौ वरान् +लोकपालोपमान्पुत्रानेकैकस्या यथेप्सितान् +पुष्पोत्कटायां जज्ञाते द्वौ पुत्रौ राक्षसेश्वरौ +कुम्भकर्णदशग्रीवौ बलेनाप्रतिमौ भुवि +मालिनी जनयामास पुत्रमेकं विभीषणम् +राकायां मिथुनं जज्ञे खरः शूर्पणखा तथा +विभीषणस्तु रूपेण सर्वेभ्योऽभ्यधिकोऽभवत् +स बभूव महाभागो धर्मगोप्ता क्रियारतिः +दशग्रीवस्तु सर्वेषां ज्येष्ठो राक्षसपुंगवः +महोत्साहो महावीर्यो महासत्त्वपराक्रमः +कुम्भकर्णो बलेनासीत्सर्वेभ्योऽभ्यधिकस्तदा +मायावी रणशौण्डश्च रौद्रश्च रजनीचरः +खरो धनुषि विक्र��न्तो ब्रह्मद्विट्पिशिताशनः +सिद्धविघ्नकरी चापि रौद्रा शूर्पणखा तथा +सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः +ऊषुः पित्रा सह रता गन्धमादनपर्वते +ततो वैश्रवणं तत्र ददृशुर्नरवाहनम् +पित्रा सार्धं समासीनमृद्ध्या परमया युतम् +जातस्पर्धास्ततस्ते तु तपसे धृतनिश्चयाः +ब्रह्माणं तोषयामासुर्घोरेण तपसा तदा +अतिष्ठदेकपादेन सहस्रं परिवत्सरान् +वायुभक्षो दशग्रीवः पञ्चाग्निः सुसमाहितः +अधःशायी कुम्भकर्णो यताहारो यतव्रतः +विभीषणः शीर्णपर्णमेकमभ्यवहारयत् +उपवासरतिर्धीमान्सदा जप्यपरायणः +तमेव कालमातिष्ठत्तीव्रं तप उदारधीः +खरः शूर्पणखा चैव तेषां वै तप्यतां तपः +परिचर्यां च रक्षां च चक्रतुर्हृष्टमानसौ +पूर्णे वर्षसहस्रे तु शिरश्छित्त्वा दशाननः +जुहोत्यग्नौ दुराधर्षस्तेनातुष्यज्जगत्प्रभुः +ततो ब्रह्मा स्वयं गत्वा तपसस्तान्न्यवारयत् +प्रलोभ्य वरदानेन सर्वानेव पृथक्पृथक् +ब्रह्मोवाच +प्रीतोऽस्मि वो निवर्तध्वं वरान्वृणुत पुत्रकाः +यद्यदिष्टमृते त्वेकममरत्वं तथास्तु तत् +यद्यदग्नौ हुतं सर्वं शिरस्ते महदीप्सया +तथैव तानि ते देहे भविष्यन्ति यथेप्सितम् +वैरूप्यं च न ते देहे कामरूपधरस्तथा +भविष्यसि रणेऽरीणां विजेतासि न संशयः +रावण उवाच +गन्धर्वदेवासुरतो यक्षराक्षसतस्तथा +सर्पकिंनरभूतेभ्यो न मे भूयात्पराभवः +ब्रह्मोवाच +य एते कीर्तिताः सर्वे न तेभ्योऽस्ति भयं तव +ऋते मनुष्याद्भद्रं ते तथा तद्विहितं मया +मार्कण्डेय उवाच +एवमुक्तो दशग्रीवस्तुष्टः समभवत्तदा +अवमेने हि दुर्बुद्धिर्मनुष्यान्पुरुषादकः +कुम्भकर्णमथोवाच तथैव प्रपितामहः +स वव्रे महतीं निद्रां तमसा ग्रस्तचेतनः +तथा भविष्यतीत्युक्त्वा विभीषणमुवाच ह +वरं वृणीष्व पुत्र त्वं प्रीतोऽस्मीति पुनः पुनः +विभीषण उवाच +परमापद्गतस्यापि नाधर्मे मे मतिर्भवेत् +अशिक्षितं च भगवन्ब्रह्मास्त्रं प्रतिभातु मे +ब्रह्मोवाच +यस्माद्राक्षसयोनौ ते जातस्यामित्रकर्शन +नाधर्मे रमते बुद्धिरमरत्वं ददामि ते +मार्कण्डेय उवाच +राक्षसस्तु वरं लब्ध्वा दशग्रीवो विशां पते +लङ्कायाश्च्यावयामास युधि जित्वा धनेश्वरम् +हित्वा स भगवाँल्लङ्कामाविशद्गन्धमादनम् +गन्धर्वयक्षानुगतो रक्षःकिंपुरुषैः सह +विमानं पुष्पकं तस्य जहाराक्रम्य रावणः +शशाप तं वैश्रवणो न त्वामेतद्वहिष्यति +यस्तु त्वां समरे हन्ता तमेवैतद्वहिष्यति +अवमन्य गुरुं मां च क्षिप्रं त्वं न भविष्यसि +विभीषणस्तु धर्मात्मा सतां धर्ममनुस्मरन् +अन्वगच्छन्महाराज श्रिया परमया युतः +तस्मै स भगवांस्तुष्टो भ्राता भ्रात्रे धनेश्वरः +सेनापत्यं ददौ धीमान्यक्षराक्षससेनयोः +राक्षसाः पुरुषादाश्च पिशाचाश्च महाबलाः +सर्वे समेत्य राजानमभ्यषिञ्चद्दशाननम् +दशग्रीवस्तु दैत्यानां देवानां च बलोत्कटः +आक्रम्य रत्नान्यहरत्कामरूपी विहंगमः +रावयामास लोकान्यत्तस्माद्रावण उच्यते +दशग्रीवः कामबलो देवानां भयमादधत् +मार्कण्डेय उवाच +ततो ब्रह्मर्षयः सिद्धा देवराजर्षयस्तथा +हव्यवाहं पुरस्कृत्य ब्रह्माणं शरणं गताः +अग्निरुवाच +यः स विश्रवसः पुत्रो दशग्रीवो महाबलः +अवध्यो वरदानेन कृतो भगवता पुरा +स बाधते प्रजाः सर्वा विप्रकारैर्महाबलः +ततो नस्त्रातु भगवन्नान्यस्त्राता हि विद्यते +ब्रह्मोवाच +न स देवासुरैः शक्यो युद्धे जेतुं विभावसो +विहितं तत्र यत्कार्यमभितस्तस्य निग्रहे +तदर्थमवतीर्णोऽसौ मन्नियोगाच्चतुर्भुजः +विष्णुः प्रहरतां श्रेष्ठः स कर्मैतत्करिष्यति +मार्कण्डेय उवाच +पितामहस्ततस्तेषां संनिधौ वाक्यमब्रवीत् +सर्वैर्देवगणैः सार्धं संभवध्वं महीतले +विष्णोः सहायानृक्षीषु वानरीषु च सर्वशः +जनयध्वं सुतान्वीरान्कामरूपबलान्वितान् +ततो भागानुभागेन देवगन्धर्वदानवाः +अवतर्तुं महीं सर्वे रञ्जयामासुरञ्जसा +तेषां समक्षं गन्धर्वीं दुन्दुभीं नाम नामतः +शशास वरदो देवो देवकार्यार्थसिद्धये +पितामहवचः श्रुत्वा गन्धर्वी दुन्दुभी ततः +मन्थरा मानुषे लोके कुब्जा समभवत्तदा +शक्रप्रभृतयश्चैव सर्वे ते सुरसत्तमाः +वानरर्क्षवरस्त्रीषु जनयामासुरात्मजान् +तेऽन्ववर्तन्पितॄन्सर्वे यशसा च बलेन च +भेत्तारो गिरिशृङ्गाणां शालतालशिलायुधाः +वज्रसंहननाः सर्वे सर्वे चौघबलास्तथा +कामवीर्यधराश्चैव सर्वे युद्धविशारदाः +नागायुतसमप्राणा वायुवेगसमा जवे +यत्रेच्छकनिवासाश्च केचिदत्र वनौकसः +एवं विधाय तत्सर्वं भगवाँल्लोकभावनः +मन्थरां बोधयामास यद्यत्कार्यं यथा यथा +सा तद्वचनमाज्ञाय तथा चक्रे मनोजवा +इतश्चेतश्च गच्छन्ती वैरसंधुक्षणे रता +युधिष्ठिर उवाच +उक्तं भगवता जन्म रामादीनां पृथक्पृथक् +���्रस्थानकारणं ब्रह्मञ्श्रोतुमिच्छामि कथ्यताम् +कथं दाशरथी वीरौ भ्रातरौ रामलक्ष्मणौ +प्रस्थापितौ वनं ब्रह्म मैथिली च यशस्विनी +मार्कण्डेय उवाच +जातपुत्रो दशरथः प्रीतिमानभवन्नृपः +क्रियारतिर्धर्मपरः सततं वृद्धसेविता +क्रमेण चास्य ते पुत्रा व्यवर्धन्त महौजसः +वेदेषु सरहस्येषु धनुर्वेदे च पारगाः +चरितब्रह्मचर्यास्ते कृतदाराश्च पार्थिव +यदा तदा दशरथः प्रीतिमानभवत्सुखी +ज्येष्ठो रामोऽभवत्तेषां रमयामास हि प्रजाः +मनोहरतया धीमान्पितुर्हृदयतोषणः +ततः स राजा मतिमान्मत्वात्मानं वयोऽधिकम् +मन्त्रयामास सचिवैर्धर्मज्ञैश्च पुरोहितैः +अभिषेकाय रामस्य यौवराज्येन भारत +प्राप्तकालं च ते सर्वे मेनिरे मन्त्रिसत्तमाः +लोहिताक्षं महाबाहुं मत्तमातङ्गगामिनम् +दीर्घबाहुं महोरस्कं नीलकुञ्चितमूर्धजम् +दीप्यमानं श्रिया वीरं शक्रादनवमं बले +पारगं सर्वधर्माणां बृहस्पतिसमं मतौ +सर्वानुरक्तप्रकृतिं सर्वविद्याविशारदम् +जितेन्द्रियममित्राणामपि दृष्टिमनोहरम् +नियन्तारमसाधूनां गोप्तारं धर्मचारिणाम् +धृतिमन्तमनाधृष्यं जेतारमपराजितम् +पुत्रं राजा दशरथः कौसल्यानन्दवर्धनम् +संदृश्य परमां प्रीतिमगच्छत्कुरुनन्दन +चिन्तयंश्च महातेजा गुणान्रामस्य वीर्यवान् +अभ्यभाषत भद्रं ते प्रीयमाणः पुरोहितम् +अद्य पुष्यो निशि ब्रह्मन्पुण्यं योगमुपैष्यति +संभाराः संभ्रियन्तां मे रामश्चोपनिमन्त्र्यताम् +इति तद्राजवचनं प्रतिश्रुत्याथ मन्थरा +कैकेयीमभिगम्येदं काले वचनमब्रवीत् +अद्य कैकेयि दौर्भाग्यं राज्ञा ते ख्यापितं महत् +आशीविषस्त्वां संक्रुद्धश्चण्डो दशति दुर्भगे +सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते +कुतो हि तव सौभाग्यं यस्याः पुत्रो न राज्यभाक् +सा तद्वचनमाज्ञाय सर्वाभरणभूषिता +वेदीविलग्नमध्येव बिभ्रती रूपमुत्तमम् +विविक्ते पतिमासाद्य हसन्तीव शुचिस्मिता +प्रणयं व्यञ्जयन्तीव मधुरं वाक्यमब्रवीत् +सत्यप्रतिज्ञ यन्मे त्वं काममेकं निसृष्टवान् +उपाकुरुष्व तद्राजंस्तस्मान्मुच्यस्व संकटात् +राजोवाच +वरं ददानि ते हन्त तद्गृहाण यदिच्छसि +अवध्यो वध्यतां कोऽद्य वध्यः कोऽद्य विमुच्यताम् +धनं ददानि कस्याद्य ह्रियतां कस्य वा पुनः +ब्राह्मणस्वादिहान्यत्र यत्किंचिद्वित्तमस्ति मे +मार���कण्डेय उवाच +सा तद्वचनमाज्ञाय परिगृह्य नराधिपम् +आत्मनो बलमाज्ञाय तत एनमुवाच ह +आभिषेचनिकं यत्ते रामार्थमुपकल्पितम् +भरतस्तदवाप्नोतु वनं गच्छतु राघवः +स तद्राजा वचः श्रुत्वा विप्रियं दारुणोदयम् +दुःखार्तो भरतश्रेष्ठ न किंचिद्व्याजहार ह +ततस्तथोक्तं पितरं रामो विज्ञाय वीर्यवान् +वनं प्रतस्थे धर्मात्मा राजा सत्यो भवत्विति +तमन्वगच्छल्लक्ष्मीवान्धनुष्माँल्लक्ष्मणस्तदा +सीता च भार्या भद्रं ते वैदेही जनकात्मजा +ततो वनं गते रामे राजा दशरथस्तदा +समयुज्यत देहस्य कालपर्यायधर्मणा +रामं तु गतमाज्ञाय राजानं च तथागतम् +आनाय्य भरतं देवी कैकेयी वाक्यमब्रवीत् +गतो दशरथः स्वर्गं वनस्थौ रामलक्ष्मणौ +गृहाण राज्यं विपुलं क्षेमं निहतकण्टकम् +तामुवाच स धर्मात्मा नृशंसं बत ते कृतम् +पतिं हत्वा कुलं चेदमुत्साद्य धनलुब्धया +अयशः पातयित्वा मे मूर्ध्नि त्वं कुलपांसने +सकामा भव मे मातरित्युक्त्वा प्ररुरोद ह +स चारित्रं विशोध्याथ सर्वप्रकृतिसंनिधौ +अन्वयाद्भ्रातरं रामं विनिवर्तनलालसः +कौसल्यां च सुमित्रां च कैकेयीं च सुदुःखितः +अग्रे प्रस्थाप्य यानैः स शत्रुघ्नसहितो ययौ +वसिष्ठवामदेवाभ्यां विप्रैश्चान्यैः सहस्रशः +पौरजानपदैः सार्धं रामानयनकाङ्क्षया +ददर्श चित्रकूटस्थं स रामं सहलक्ष्मणम् +तापसानामलंकारं धारयन्तं धनुर्धरम् +विसर्जितः स रामेण पितुर्वचनकारिणा +नन्दिग्रामेऽकरोद्राज्यं पुरस्कृत्यास्य पादुके +रामस्तु पुनराशङ्क्य पौरजानपदागमम् +प्रविवेश महारण्यं शरभङ्गाश्रमं प्रति +सत्कृत्य शरभङ्गं स दण्डकारण्यमाश्रितः +नदीं गोदावरीं रम्यामाश्रित्य न्यवसत्तदा +वसतस्तस्य रामस्य ततः शूर्पणखाकृतम् +खरेणासीन्महद्वैरं जनस्थाननिवासिना +रक्षार्थं तापसानां च राघवो धर्मवत्सलः +चतुर्दश सहस्राणि जघान भुवि रक्षसाम् +दूषणं च खरं चैव निहत्य सुमहाबलौ +चक्रे क्षेमं पुनर्धीमान्धर्मारण्यं स राघवः +हतेषु तेषु रक्षःसु ततः शूर्पणखा पुनः +ययौ निकृत्तनासोष्ठी लङ्कां भ्रातुर्निवेशनम् +ततो रावणमभ्येत्य राक्षसी दुःखमूर्छिता +पपात पादयोर्भ्रातुः संशुष्करुधिरानना +तां तथा विकृतां दृष्ट्वा रावणः क्रोधमूर्छितः +उत्पपातासनात्क्रुद्धो दन्तैर्दन्तानुपस्पृशन् +स्वानमात्यान्विसृज्याथ विविक्ते तामुवाच स�� +केनास्येवं कृता भद्रे मामचिन्त्यावमन्य च +कः शूलं तीक्ष्णमासाद्य सर्वगात्रैर्निषेवते +कः शिरस्यग्निमादाय विश्वस्तः स्वपते सुखम् +आशीविषं घोरतरं पादेन स्पृशतीह कः +सिंहं केसरिणं कश्च दंष्ट्रासु स्पृश्य तिष्ठति +इत्येवं ब्रुवतस्तस्य स्रोतोभ्यस्तेजसोऽर्चिषः +निश्चेरुर्दह्यतो रात्रौ वृक्षस्येव स्वरन्ध्रतः +तस्य तत्सर्वमाचख्यौ भगिनी रामविक्रमम् +खरदूषणसंयुक्तं राक्षसानां पराभवम् +स निश्चित्य ततः कृत्यं स्वसारमुपसान्त्व्य च +ऊर्ध्वमाचक्रमे राजा विधाय नगरे विधिम् +त्रिकूटं समतिक्रम्य कालपर्वतमेव च +ददर्श मकरावासं गम्भीरोदं महोदधिम् +तमतीत्याथ गोकर्णमभ्यगच्छद्दशाननः +दयितं स्थानमव्यग्रं शूलपाणेर्महात्मनः +तत्राभ्यगच्छन्मारीचं पूर्वामात्यं दशाननः +पुरा रामभयादेव तापस्यं समुपाश्रितम् +मार्कण्डेय उवाच +मारीचस्त्वथ संभ्रान्तो दृष्ट्वा रावणमागतम् +पूजयामास सत्कारैः फलमूलादिभिस्तथा +विश्रान्तं चैनमासीनमन्वासीनः स राक्षसः +उवाच प्रश्रितं वाक्यं वाक्यज्ञो वाक्यकोविदम् +न ते प्रकृतिमान्वर्णः कच्चित्क्षेमं पुरे तव +कच्चित्प्रकृतयः सर्वा भजन्ते त्वां यथा पुरा +किमिहागमने चापि कार्यं ते राक्षसेश्वर +कृतमित्येव तद्विद्धि यद्यपि स्यात्सुदुष्करम् +शशंस रावणस्तस्मै तत्सर्वं रामचेष्टितम् +मारीचस्त्वब्रवीच्छ्रुत्वा समासेनैव रावणम् +अलं ते राममासाद्य वीर्यज्ञो ह्यस्मि तस्य वै +बाणवेगं हि कस्तस्य शक्तः सोढुं महात्मनः +प्रव्रज्यायां हि मे हेतुः स एव पुरुषर्षभः +विनाशमुखमेतत्ते केनाख्यातं दुरात्मना +तमुवाचाथ सक्रोधो रावणः परिभर्त्सयन् +अकुर्वतोऽस्मद्वचनं स्यान्मृत्युरपि ते ध्रुवम् +मारीचश्चिन्तयामास विशिष्टान्मरणं वरम् +अवश्यं मरणे प्राप्ते करिष्याम्यस्य यन्मतम् +ततस्तं प्रत्युवाचाथ मारीचो राक्षसेश्वरम् +किं ते साह्यं मया कार्यं करिष्याम्यवशोऽपि तत् +तमब्रवीद्दशग्रीवो गच्छ सीतां प्रलोभय +रत्नशृङ्गो मृगो भूत्वा रत्नचित्रतनूरुहः +ध्रुवं सीता समालक्ष्य त्वां रामं चोदयिष्यति +अपक्रान्ते च काकुत्स्थे सीता वश्या भविष्यति +तामादायापनेष्यामि ततः स न भविष्यति +भार्यावियोगाद्दुर्बुद्धिरेतत्साह्यं कुरुष्व मे +इत्येवमुक्तो मारीचः कृत्वोदकमथात्मनः +रावणं पुरतो यान्तमन्वगच्छत्सुदुःखितः +ततस्तस्याश्रमं गत्वा रामस्याक्लिष्टकर्मणः +चक्रतुस्तत्तथा सर्वमुभौ यत्पूर्वमन्त्रितम् +रावणस्तु यतिर्भूत्वा मुण्डः कुण्डी त्रिदण्डधृक् +मृगश्च भूत्वा मारीचस्तं देशमुपजग्मतुः +दर्शयामास वैदेहीं मारीचो मृगरूपधृक् +चोदयामास तस्यार्थे सा रामं विधिचोदिता +रामस्तस्याः प्रियं कुर्वन्धनुरादाय सत्वरः +रक्षार्थे लक्ष्मणं न्यस्य प्रययौ मृगलिप्सया +स धन्वी बद्धतूणीरः खड्गगोधाङ्गुलित्रवान् +अन्वधावन्मृगं रामो रुद्रस्तारामृगं यथा +सोऽन्तर्हितः पुनस्तस्य दर्शनं राक्षसो व्रजन् +चकर्ष महदध्वानं रामस्तं बुबुधे ततः +निशाचरं विदित्वा तं राघवः प्रतिभानवान् +अमोघं शरमादाय जघान मृगरूपिणम् +स रामबाणाभिहतः कृत्वा रामस्वरं तदा +हा सीते लक्ष्मणेत्येवं चुक्रोशार्तस्वरेण ह +शुश्राव तस्य वैदेही ततस्तां करुणां गिरम् +सा प्राद्रवद्यतः शब्दस्तामुवाचाथ लक्ष्मणः +अलं ते शङ्कया भीरु को रामं विषहिष्यति +मुहूर्ताद्द्रक्ष्यसे राममागतं तं शुचिस्मिते +इत्युक्त्वा सा प्ररुदती पर्यशङ्कत देवरम् +हता वै स्त्रीस्वभावेन शुद्धचारित्रभूषणम् +सा तं परुषमारब्धा वक्तुं साध्वी पतिव्रता +नैष कालो भवेन्मूढ यं त्वं प्रार्थयसे हृदा +अप्यहं शस्त्रमादाय हन्यामात्मानमात्मना +पतेयं गिरिशृङ्गाद्वा विशेयं वा हुताशनम् +रामं भर्तारमुत्सृज्य न त्वहं त्वां कथंचन +निहीनमुपतिष्ठेयं शार्दूली क्रोष्टुकं यथा +एतादृशं वचः श्रुत्वा लक्ष्मणः प्रियराघवः +पिधाय कर्णौ सद्वृत्तः प्रस्थितो येन राघवः +स रामस्य पदं गृह्य प्रससार धनुर्धरः +एतस्मिन्नन्तरे रक्षो रावणः प्रत्यदृश्यत +अभव्यो भव्यरूपेण भस्मच्छन्न इवानलः +यतिवेषप्रतिच्छन्नो जिहीर्षुस्तामनिन्दिताम् +सा तमालक्ष्य संप्राप्तं धर्मज्ञा जनकात्मजा +निमन्त्रयामास तदा फलमूलाशनादिभिः +अवमन्य स तत्सर्वं स्वरूपं प्रतिपद्य च +सान्त्वयामास वैदेहीमिति राक्षसपुंगवः +सीते राक्षसराजोऽहं रावणो नाम विश्रुतः +मम लङ्का पुरी नाम्ना रम्या पारे महोदधेः +तत्र त्वं वरनारीषु शोभिष्यसि मया सह +भार्या मे भव सुश्रोणि तापसं त्यज राघवम् +एवमादीनि वाक्यानि श्रुत्वा सीताथ जानकी +पिधाय कर्णौ सुश्रोणी मैवमित्यब्रवीद्वचः +प्रपतेद्द्यौः सनक्षत्रा पृथिवी शकलीभवेत् +शैत्य��ग्निरियान्नाहं त्यजेयं रघुनन्दनम् +कथं हि भिन्नकरटं पद्मिनं वनगोचरम् +उपस्थाय महानागं करेणुः सूकरं स्पृशेत् +कथं हि पीत्वा माध्वीकं पीत्वा च मधुमाधवीम् +लोभं सौवीरके कुर्यान्नारी काचिदिति स्मरे +इति सा तं समाभाष्य प्रविवेशाश्रमं पुनः +तामनुद्रुत्य सुश्रोणीं रावणः प्रत्यषेधयत् +भर्त्सयित्वा तु रूक्षेण स्वरेण गतचेतनाम् +मूर्धजेषु निजग्राह खमुपाचक्रमे ततः +तां ददर्श तदा गृध्रो जटायुर्गिरिगोचरः +रुदतीं राम रामेति ह्रियमाणां तपस्विनीम् +मार्कण्डेय उवाच +सखा दशरथस्यासीज्जटायुररुणात्मजः +गृध्रराजो महावीर्यः संपातिर्यस्य सोदरः +स ददर्श तदा सीतां रावणाङ्कगतां स्नुषाम् +क्रोधादभ्यद्रवत्पक्षी रावणं राक्षसेश्वरम् +अथैनमब्रवीद्गृध्रो मुञ्च मुञ्चेति मैथिलीम् +ध्रियमाणे मयि कथं हरिष्यसि निशाचर +न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे वधूम् +उक्त्वैवं राक्षसेन्द्रं तं चकर्त नखरैर्भृशम् +पक्षतुण्डप्रहारैश्च बहुशो जर्जरीकृतः +चक्षार रुधिरं भूरि गिरिः प्रस्रवणैरिव +स वध्यमानो गृध्रेण रामप्रियहितैषिणा +खड्गमादाय चिच्छेद भुजौ तस्य पतत्रिणः +निहत्य गृध्रराजं स छिन्नाभ्रशिखरोपमम् +ऊर्ध्वमाचक्रमे सीतां गृहीत्वाङ्केन राक्षसः +यत्र यत्र तु वैदेही पश्यत्याश्रममण्डलम् +सरो वा सरितं वापि तत्र मुञ्चति भूषणम् +सा ददर्श गिरिप्रस्थे पञ्च वानरपुंगवान् +तत्र वासो महद्दिव्यमुत्ससर्ज मनस्विनी +तत्तेषां वानरेन्द्राणां पपात पवनोद्धुतम् +मध्ये सुपीतं पञ्चानां विद्युन्मेघान्तरे यथा +एवं हृतायां वैदेह्यां रामो हत्वा महामृगम् +निवृत्तो ददृशे धीमान्भ्रातरं लक्ष्मणं तदा +कथमुत्सृज्य वैदेहीं वने राक्षससेविते +इत्येवं भ्रातरं दृष्ट्वा प्राप्तोऽसीति व्यगर्हयत् +मृगरूपधरेणाथ रक्षसा सोऽपकर्षणम् +भ्रातुरागमनं चैव चिन्तयन्पर्यतप्यत +गर्हयन्नेव रामस्तु त्वरितस्तं समासदत् +अपि जीवति वैदेही नेति पश्यामि लक्ष्मण +तस्य तत्सर्वमाचख्यौ सीताया लक्ष्मणो वचः +यदुक्तवत्यसदृशं वैदेही पश्चिमं वचः +दह्यमानेन तु हृदा रामोऽभ्यपतदाश्रमम् +स ददर्श तदा गृध्रं निहतं पर्वतोपमम् +राक्षसं शङ्कमानस्तु विकृष्य बलवद्धनुः +अभ्यधावत काकुत्स्थस्ततस्तं सहलक्ष्मणः +स तावुवाच तेजस्वी सहितौ रामलक्ष्मणौ +गृध्रराजोऽस्मि भ���्रं वां सखा दशरथस्य ह +तस्य तद्वचनं श्रुत्वा संगृह्य धनुषी शुभे +कोऽयं पितरमस्माकं नाम्नाहेत्यूचतुश्च तौ +ततो ददृशतुस्तौ तं छिन्नपक्षद्वयं तथा +तयोः शशंस गृध्रस्तु सीतार्थे रावणाद्वधम् +अपृच्छद्राघवो गृध्रं रावणः कां दिशं गतः +तस्य गृध्रः शिरःकम्पैराचचक्षे ममार च +दक्षिणामिति काकुत्स्थो विदित्वास्य तदिङ्गितम् +संस्कारं लम्भयामास सखायं पूजयन्पितुः +ततो दृष्ट्वाश्रमपदं व्यपविद्धबृसीघटम् +विध्वस्तकलशं शून्यं गोमायुबलसेवितम् +दुःखशोकसमाविष्टौ वैदेहीहरणार्दितौ +जग्मतुर्दण्डकारण्यं दक्षिणेन परंतपौ +वने महति तस्मिंस्तु रामः सौमित्रिणा सह +ददर्श मृगयूथानि द्रवमाणानि सर्वशः +शब्दं च घोरं सत्त्वानां दावाग्नेरिव वर्धतः +अपश्येतां मुहूर्ताच्च कबन्धं घोरदर्शनम् +मेघपर्वतसंकाशं शालस्कन्धं महाभुजम् +उरोगतविशालाक्षं महोदरमहामुखम् +यदृच्छयाथ तद्रक्षः करे जग्राह लक्ष्मणम् +विषादमगमत्सद्यः सौमित्रिरथ भारत +स राममभिसंप्रेक्ष्य कृष्यते येन तन्मुखम् +विषण्णश्चाब्रवीद्रामं पश्यावस्थामिमां मम +हरणं चैव वैदेह्या मम चायमुपप्लवः +राज्यभ्रंशश्च भवतस्तातस्य मरणं तथा +नाहं त्वां सह वैदेह्या समेतं कोसलागतम् +द्रक्ष्यामि पृथिवीराज्ये पितृपैतामहे स्थितम् +द्रक्ष्यन्त्यार्यस्य धन्या ये कुशलाजशमीलवैः +अभिषिक्तस्य वदनं सोमं साभ्रलवं यथा +एवं बहुविधं धीमान्विललाप स लक्ष्मणः +तमुवाचाथ काकुत्स्थः संभ्रमेष्वप्यसंभ्रमः +मा विषीद नरव्याघ्र नैष कश्चिन्मयि स्थिते +छिन्ध्यस्य दक्षिणं बाहुं छिन्नः सव्यो मया भुजः +इत्येवं वदता तस्य भुजो रामेण पातितः +खड्गेन भृशतीक्ष्णेन निकृत्तस्तिलकाण्डवत् +ततोऽस्य दक्षिणं बाहुं खड्गेनाजघ्निवान्बली +सौमित्रिरपि संप्रेक्ष्य भ्रातरं राघवं स्थितम् +पुनरभ्याहनत्पार्श्वे तद्रक्षो लक्ष्मणो भृशम् +गतासुरपतद्भूमौ कबन्धः सुमहांस्ततः +तस्य देहाद्विनिःसृत्य पुरुषो दिव्यदर्शनः +ददृशे दिवमास्थाय दिवि सूर्य इव ज्वलन् +पप्रच्छ रामस्तं वाग्मी कस्त्वं प्रब्रूहि पृच्छतः +कामया किमिदं चित्रमाश्चर्यं प्रतिभाति मे +तस्याचचक्षे गन्धर्वो विश्वावसुरहं नृप +प्राप्तो ब्रह्मानुशापेन योनिं राक्षससेविताम् +रावणेन हृता सीता राज्ञा लङ्कानिवासिना +सुग्रीवमभिगच्छस्व स ते ���ाह्यं करिष्यति +एषा पम्पा शिवजला हंसकारण्डवायुता +ऋश्यमूकस्य शैलस्य संनिकर्षे तटाकिनी +संवसत्यत्र सुग्रीवश्चतुर्भिः सचिवैः सह +भ्राता वानरराजस्य वालिनो हेममालिनः +एतावच्छक्यमस्माभिर्वक्तुं द्रष्टासि जानकीम् +ध्रुवं वानरराजस्य विदितो रावणालयः +इत्युक्त्वान्तर्हितो दिव्यः पुरुषः स महाप्रभः +विस्मयं जग्मतुश्चोभौ तौ वीरौ रामलक्ष्मणौ +मार्कण्डेय उवाच +ततोऽविदूरे नलिनीं प्रभूतकमलोत्पलाम् +सीताहरणदुःखार्तः पम्पां रामः समासदत् +मारुतेन सुशीतेन सुखेनामृतगन्धिना +सेव्यमानो वने तस्मिञ्जगाम मनसा प्रियाम् +विललाप स राजेन्द्रस्तत्र कान्तामनुस्मरन् +कामबाणाभिसंतप्तः सौमित्रिस्तमथाब्रवीत् +न त्वामेवंविधो भावः स्प्रष्टुमर्हति मानद +आत्मवन्तमिव व्याधिः पुरुषं वृद्धशीलिनम् +प्रवृत्तिरुपलब्धा ते वैदेह्या रावणस्य च +तां त्वं पुरुषकारेण बुद्ध्या चैवोपपादय +अभिगच्छाव सुग्रीवं शैलस्थं हरिपुंगवम् +मयि शिष्ये च भृत्ये च सहाये च समाश्वस +एवं बहुविधैर्वाक्यैर्लक्ष्मणेन स राघवः +उक्तः प्रकृतिमापेदे कार्ये चानन्तरोऽभवत् +निषेव्य वारि पम्पायास्तर्पयित्वा पितॄनपि +प्रतस्थतुरुभौ वीरौ भ्रातरौ रामलक्ष्मणौ +तावृश्यमूकमभ्येत्य बहुमूलफलं गिरिम् +गिर्यग्रे वानरान्पञ्च वीरौ ददृशतुस्तदा +सुग्रीवः प्रेषयामास सचिवं वानरं तयोः +बुद्धिमन्तं हनूमन्तं हिमवन्तमिव स्थितम् +तेन संभाष्य पूर्वं तौ सुग्रीवमभिजग्मतुः +सख्यं वानरराजेन चक्रे रामस्ततो नृप +तद्वासो दर्शयामासुस्तस्य कार्ये निवेदिते +वानराणां तु यत्सीता ह्रियमाणाभ्यवासृजत् +तत्प्रत्ययकरं लब्ध्वा सुग्रीवं प्लवगाधिपम् +पृथिव्यां वानरैश्वर्ये स्वयं रामोऽभ्यषेचयत् +प्रतिजज्ञे च काकुत्स्थः समरे वालिनो वधम् +सुग्रीवश्चापि वैदेह्याः पुनरानयनं नृप +इत्युक्त्वा समयं कृत्वा विश्वास्य च परस्परम् +अभ्येत्य सर्वे किष्किन्धां तस्थुर्युद्धाभिकाङ्क्षिणः +सुग्रीवः प्राप्य किष्किन्धां ननादौघनिभस्वनः +नास्य तन्ममृषे वाली तं तारा प्रत्यषेधयत् +यथा नदति सुग्रीवो बलवानेष वानरः +मन्ये चाश्रयवान्प्राप्तो न त्वं निर्गन्तुमर्हसि +हेममाली ततो वाली तारां ताराधिपाननाम् +प्रोवाच वचनं वाग्मी तां वानरपतिः पतिः +सर्वभूतरुतज्ञा त्वं पश्य बुद्ध्या समन्विता +केनापाश्रयवान्प्राप्तो ममैष भ्रातृगन्धिकः +चिन्तयित्वा मुहूर्तं तु तारा ताराधिपप्रभा +पतिमित्यब्रवीत्प्राज्ञा शृणु सर्वं कपीश्वर +हृतदारो महासत्त्वो रामो दशरथात्मजः +तुल्यारिमित्रतां प्राप्तः सुग्रीवेण धनुर्धरः +भ्राता चास्य महाबाहुः सौमित्रिरपराजितः +लक्ष्मणो नाम मेधावी स्थितः कार्यार्थसिद्धये +मैन्दश्च द्विविदश्चैव हनूमांश्चानिलात्मजः +जाम्बवानृक्षराजश्च सुग्रीवसचिवाः स्थिताः +सर्व एते महात्मानो बुद्धिमन्तो महाबलाः +अलं तव विनाशाय रामवीर्यव्यपाश्रयात् +तस्यास्तदाक्षिप्य वचो हितमुक्तं कपीश्वरः +पर्यशङ्कत तामीर्षुः सुग्रीवगतमानसाम् +तारां परुषमुक्त्वा स निर्जगाम गुहामुखात् +स्थितं माल्यवतोऽभ्याशे सुग्रीवं सोऽभ्यभाषत +असकृत्त्वं मया मूढ निर्जितो जीवितप्रियः +मुक्तो ज्ञातिरिति ज्ञात्वा का त्वरा मरणे पुनः +इत्युक्तः प्राह सुग्रीवो भ्रातरं हेतुमद्वचः +प्राप्तकालममित्रघ्नो रामं संबोधयन्निव +हृतदारस्य मे राजन्हृतराज्यस्य च त्वया +किं नु जीवितसामर्थ्यमिति विद्धि समागतम् +एवमुक्त्वा बहुविधं ततस्तौ संनिपेततुः +समरे वालिसुग्रीवौ शालतालशिलायुधौ +उभौ जघ्नतुरन्योन्यमुभौ भूमौ निपेततुः +उभौ ववल्गतुश्चित्रं मुष्टिभिश्च निजघ्नतुः +उभौ रुधिरसंसिक्तौ नखदन्तपरिक्षतौ +शुशुभाते तदा वीरौ पुष्पिताविव किंशुकौ +न विशेषस्तयोर्युद्धे तदा कश्चन दृश्यते +सुग्रीवस्य तदा मालां हनूमान्कण्ठ आसजत् +स मालया तदा वीरः शुशुभे कण्ठसक्तया +श्रीमानिव महाशैलो मलयो मेघमालया +कृतचिह्नं तु सुग्रीवं रामो दृष्ट्वा महाधनुः +विचकर्ष धनुःश्रेष्ठं वालिमुद्दिश्य लक्ष्यवत् +विस्फारस्तस्य धनुषो यन्त्रस्येव तदा बभौ +वितत्रास तदा वाली शरेणाभिहतो हृदि +स भिन्नमर्माभिहतो वक्त्राच्छोणितमुद्वमन् +ददर्शावस्थितं राममारात्सौमित्रिणा सह +गर्हयित्वा स काकुत्स्थं पपात भुवि मूर्छितः +तारा ददर्श तं भूमौ तारापतिमिव च्युतम् +हते वालिनि सुग्रीवः किष्किन्धां प्रत्यपद्यत +तां च तारापतिमुखीं तारां निपतितेश्वराम् +रामस्तु चतुरो मासान्पृष्ठे माल्यवतः शुभे +निवासमकरोद्धीमान्सुग्रीवेणाभ्युपस्थितः +रावणोऽपि पुरीं गत्वा लङ्कां कामबलात्कृतः +सीतां निवेशयामास भवने नन्दनोपमे +अशोकवनिकाभ्याशे तापसाश्रमसंनिभे +भर्तृस्मरणतन्वङ्गी तापसीवेषधारिणी +उपवासतपःशीला तत्र सा पृथुलेक्षणा +उवास दुःखवसतीः फलमूलकृताशना +दिदेश राक्षसीस्तत्र रक्षणे राक्षसाधिपः +प्रासासिशूलपरशुमुद्गरालातधारिणीः +द्व्यक्षीं त्र्यक्षीं ललाटाक्षीं दीर्घजिह्वामजिह्विकाम् +त्रिस्तनीमेकपादां च त्रिजटामेकलोचनाम् +एताश्चान्याश्च दीप्ताक्ष्यः करभोत्कटमूर्धजाः +परिवार्यासते सीतां दिवारात्रमतन्द्रिताः +तास्तु तामायतापाङ्गीं पिशाच्यो दारुणस्वनाः +तर्जयन्ति सदा रौद्राः परुषव्यञ्जनाक्षराः +खादाम पाटयामैनां तिलशः प्रविभज्य ताम् +येयं भर्तारमस्माकमवमन्येह जीवति +इत्येवं परिभर्त्सन्तीस्त्रास्यमाना पुनः पुनः +भर्तृशोकसमाविष्टा निःश्वस्येदमुवाच ताः +आर्याः खादत मां शीघ्रं न मे लोभोऽस्ति जीविते +विना तं पुण्डरीकाक्षं नीलकुञ्चितमूर्धजम् +अप्येवाहं निराहारा जीवितप्रियवर्जिता +शोषयिष्यामि गात्राणि व्याली तालगता यथा +न त्वन्यमभिगच्छेयं पुमांसं राघवादृते +इति जानीत सत्यं मे क्रियतां यदनन्तरम् +तस्यास्तद्वचनं श्रुत्वा राक्षस्यस्ताः खरस्वनाः +आख्यातुं राक्षसेन्द्राय जग्मुस्तत्सर्वमादितः +गतासु तासु सर्वासु त्रिजटा नाम राक्षसी +सान्त्वयामास वैदेहीं धर्मज्ञा प्रियवादिनी +सीते वक्ष्यामि ते किंचिद्विश्वासं कुरु मे सखि +भयं ते व्येतु वामोरु शृणु चेदं वचो मम +अविन्ध्यो नाम मेधावी वृद्धो राक्षसपुंगवः +स रामस्य हितान्वेषी त्वदर्थे हि स मावदत् +सीता मद्वचनाद्वाच्या समाश्वास्य प्रसाद्य च +भर्ता ते कुशली रामो लक्ष्मणानुगतो बली +सख्यं वानरराजेन शक्रप्रतिमतेजसा +कृतवान्राघवः श्रीमांस्त्वदर्थे च समुद्यतः +मा च तेऽस्तु भयं भीरु रावणाल्लोकगर्हितात् +नलकूबरशापेन रक्षिता ह्यस्यनिन्दिते +शप्तो ह्येष पुरा पापो वधूं रम्भां परामृशन् +न शक्तो विवशां नारीमुपैतुमजितेन्द्रियः +क्षिप्रमेष्यति ते भर्ता सुग्रीवेणाभिरक्षितः +सौमित्रिसहितो धीमांस्त्वां चेतो मोक्षयिष्यति +स्वप्ना हि सुमहाघोरा दृष्टा मेऽनिष्टदर्शनाः +विनाशायास्य दुर्बुद्धेः पौलस्त्यकुलघातिनः +दारुणो ह्येष दुष्टात्मा क्षुद्रकर्मा निशाचरः +स्वभावाच्छीलदोषेण सर्वेषां भयवर्धनः +स्पर्धते सर्वदेवैर्यः कालोपहतचेतनः +मया विनाशलिङ्गानि स्वप्ने दृष्���ानि तस्य वै +तैलाभिषिक्तो विकचो मज्जन्पङ्के दशाननः +असकृत्खरयुक्ते तु रथे नृत्यन्निव स्थितः +कुम्भकर्णादयश्चेमे नग्नाः पतितमूर्धजाः +कृष्यन्ते दक्षिणामाशां रक्तमाल्यानुलेपनाः +श्वेतातपत्रः सोष्णीषः शुक्लमाल्यविभूषणः +श्वेतपर्वतमारूढ एक एव विभीषणः +सचिवाश्चास्य चत्वारः शुक्लमाल्यानुलेपनाः +श्वेतपर्वतमारूढा मोक्ष्यन्तेऽस्मान्महाभयात् +रामस्यास्त्रेण पृथिवी परिक्षिप्ता ससागरा +यशसा पृथिवीं कृत्स्नां पूरयिष्यति ते पतिः +अस्थिसंचयमारूढो भुञ्जानो मधुपायसम् +लक्ष्मणश्च मया दृष्टो निरीक्षन्सर्वतो दिशः +रुदती रुधिरार्द्राङ्गी व्याघ्रेण परिरक्षिता +असकृत्त्वं मया दृष्टा गच्छन्ती दिशमुत्तराम् +हर्षमेष्यसि वैदेहि क्षिप्रं भर्तृसमन्विता +राघवेण सह भ्रात्रा सीते त्वमचिरादिव +इति सा मृगशावाक्षी तच्छ्रुत्वा त्रिजटावचः +बभूवाशावती बाला पुनर्भर्तृसमागमे +यावदभ्यागता रौद्राः पिशाच्यस्ताः सुदारुणाः +ददृशुस्तां त्रिजटया सहासीनां यथा पुरा +मार्कण्डेय उवाच +ततस्तां भर्तृशोकार्तां दीनां मलिनवाससम् +मणिशेषाभ्यलंकारां रुदतीं च पतिव्रताम् +राक्षसीभिरुपास्यन्तीं समासीनां शिलातले +रावणः कामबाणार्तो ददर्शोपससर्प च +देवदानवगन्धर्वयक्षकिंपुरुषैर्युधि +अजितोऽशोकवनिकां ययौ कन्दर्पमोहितः +दिव्याम्बरधरः श्रीमान्सुमृष्टमणिकुण्डलः +विचित्रमाल्यमुकुटो वसन्त इव मूर्तिमान् +स कल्पवृक्षसदृशो यत्नादपि विभूषितः +श्मशानचैत्यद्रुमवद्भूषितोऽपि भयंकरः +स तस्यास्तनुमध्यायाः समीपे रजनीचरः +ददृशे रोहिणीमेत्य शनैश्चर इव ग्रहः +स तामामन्त्र्य सुश्रोणीं पुष्पकेतुशराहतः +इदमित्यब्रवीद्बालां त्रस्तां रौहीमिवाबलाम् +सीते पर्याप्तमेतावत्कृतो भर्तुरनुग्रहः +प्रसादं कुरु तन्वङ्गि क्रियतां परिकर्म ते +भजस्व मां वरारोहे महार्हाभरणाम्बरा +भव मे सर्वनारीणामुत्तमा वरवर्णिनि +सन्ति मे देवकन्याश्च राजर्षीणां तथाङ्गनाः +सन्ति दानवकन्याश्च दैत्यानां चापि योषितः +चतुर्दश पिशाचानां कोट्यो मे वचने स्थिताः +द्विस्तावत्पुरुषादानां रक्षसां भीमकर्मणाम् +ततो मे त्रिगुणा यक्षा ये मद्वचनकारिणः +केचिदेव धनाध्यक्षं भ्रातरं मे समाश्रिताः +गन्धर्वाप्सरसो भद्रे मामापानगतं सदा +उपतिष्ठन्ति वामोरु यथैव भ्रातरं मम +पुत्रोऽहमपि विप्रर्षेः साक्षाद्विश्रवसो मुनेः +पञ्चमो लोकपालानामिति मे प्रथितं यशः +दिव्यानि भक्ष्यभोज्यानि पानानि विविधानि च +यथैव त्रिदशेशस्य तथैव मम भामिनि +क्षीयतां दुष्कृतं कर्म वनवासकृतं तव +भार्या मे भव सुश्रोणि यथा मन्दोदरी तथा +इत्युक्ता तेन वैदेही परिवृत्य शुभानना +तृणमन्तरतः कृत्वा तमुवाच निशाचरम् +अशिवेनातिवामोरूरजस्रं नेत्रवारिणा +स्तनावपतितौ बाला सहितावभिवर्षती +उवाच वाक्यं तं क्षुद्रं वैदेही पतिदेवता +असकृद्वदतो वाक्यमीदृशं राक्षसेश्वर +विषादयुक्तमेतत्ते मया श्रुतमभाग्यया +तद्भद्रसुख भद्रं ते मानसं विनिवर्त्यताम् +परदारास्म्यलभ्या च सततं च पतिव्रता +न चैवोपयिकी भार्या मानुषी कृपणा तव +विवशां धर्षयित्वा च कां त्वं प्रीतिमवाप्स्यसि +प्रजापतिसमो विप्रो ब्रह्मयोनिः पिता तव +न च पालयसे धर्मं लोकपालसमः कथम् +भ्रातरं राजराजानं महेश्वरसखं प्रभुम् +धनेश्वरं व्यपदिशन्कथं त्विह न लज्जसे +इत्युक्त्वा प्रारुदत्सीता कम्पयन्ती पयोधरौ +शिरोधरां च तन्वङ्गी मुखं प्रच्छाद्य वाससा +तस्या रुदत्या भामिन्या दीर्घा वेणी सुसंयता +ददृशे स्वसिता स्निग्धा काली व्यालीव मूर्धनि +तच्छ्रुत्वा रावणो वाक्यं सीतयोक्तं सुनिष्ठुरम् +प्रत्याख्यातोऽपि दुर्मेधाः पुनरेवाब्रवीद्वचः +काममङ्गानि मे सीते दुनोतु मकरध्वजः +न त्वामकामां सुश्रोणीं समेष्ये चारुहासिनीम् +किं नु शक्यं मया कर्तुं यत्त्वमद्यापि मानुषम् +आहारभूतमस्माकं राममेवानुरुध्यसे +इत्युक्त्वा तामनिन्द्याङ्गीं स राक्षसगणेश्वरः +तत्रैवान्तर्हितो भूत्वा जगामाभिमतां दिशम् +राक्षसीभिः परिवृता वैदेही शोककर्शिता +सेव्यमाना त्रिजटया तत्रैव न्यवसत्तदा +मार्कण्डेय उवाच +राघवस्तु ससौमित्रिः सुग्रीवेणाभिपालितः +वसन्माल्यवतः पृष्ठे ददर्श विमलं नभः +स दृष्ट्वा विमले व्योम्नि निर्मलं शशलक्षणम् +ग्रहनक्षत्रताराभिरनुयातममित्रहा +कुमुदोत्पलपद्मानां गन्धमादाय वायुना +महीधरस्थः शीतेन सहसा प्रतिबोधितः +प्रभाते लक्ष्मणं वीरमभ्यभाषत दुर्मनाः +सीतां संस्मृत्य धर्मात्मा रुद्धां राक्षसवेश्मनि +गच्छ लक्ष्मण जानीहि किष्किन्धायां कपीश्वरम् +प्रमत्तं ग्राम्यधर्मेषु कृतघ्नं स्वार्थपण्डितम् +योऽसौ कुलाधमो मूढो मय�� राज्येऽभिषेचितः +सर्ववानरगोपुच्छा यमृक्षाश्च भजन्ति वै +यदर्थं निहतो वाली मया रघुकुलोद्वह +त्वया सह महाबाहो किष्किन्धोपवने तदा +कृतघ्नं तमहं मन्ये वानरापसदं भुवि +यो मामेवंगतो मूढो न जानीतेऽद्य लक्ष्मण +असौ मन्ये न जानीते समयप्रतिपादनम् +कृतोपकारं मां नूनमवमन्याल्पया धिया +यदि तावदनुद्युक्तः शेते कामसुखात्मकः +नेतव्यो वालिमार्गेण सर्वभूतगतिं त्वया +अथापि घटतेऽस्माकमर्थे वानरपुंगवः +तमादायैहि काकुत्स्थ त्वरावान्भव मा चिरम् +इत्युक्तो लक्ष्मणो भ्रात्रा गुरुवाक्यहिते रतः +प्रतस्थे रुचिरं गृह्य समार्गणगुणं धनुः +किष्किन्धाद्वारमासाद्य प्रविवेशानिवारितः +सक्रोध इति तं मत्वा राजा प्रत्युद्ययौ हरिः +तं सदारो विनीतात्मा सुग्रीवः प्लवगाधिपः +पूजया प्रतिजग्राह प्रीयमाणस्तदर्हया +तमब्रवीद्रामवचः सौमित्रिरकुतोभयः +स तत्सर्वमशेषेण श्रुत्वा प्रह्वः कृताञ्जलिः +सभृत्यदारो राजेन्द्र सुग्रीवो वानराधिपः +इदमाह वचः प्रीतो लक्ष्मणं नरकुञ्जरम् +नास्मि लक्ष्मण दुर्मेधा न कृतघ्नो न निर्घृणः +श्रूयतां यः प्रयत्नो मे सीतापर्येषणे कृतः +दिशः प्रस्थापिताः सर्वे विनीता हरयो मया +सर्वेषां च कृतः कालो मासेनागमनं पुनः +यैरियं सवना साद्रिः सपुरा सागराम्बरा +विचेतव्या मही वीर सग्रामनगराकरा +स मासः पञ्चरात्रेण पूर्णो भवितुमर्हति +ततः श्रोष्यसि रामेण सहितः सुमहत्प्रियम् +इत्युक्तो लक्ष्मणस्तेन वानरेन्द्रेण धीमता +त्यक्त्वा रोषमदीनात्मा सुग्रीवं प्रत्यपूजयत् +स रामं सहसुग्रीवो माल्यवत्पृष्ठमास्थितम् +अभिगम्योदयं तस्य कार्यस्य प्रत्यवेदयत् +इत्येवं वानरेन्द्रास्ते समाजग्मुः सहस्रशः +दिशस्तिस्रो विचित्याथ न तु ये दक्षिणां गताः +आचख्युस्ते तु रामाय महीं सागरमेखलाम् +विचितां न तु वैदेह्या दर्शनं रावणस्य वा +गतास्तु दक्षिणामाशां ये वै वानरपुंगवाः +आशावांस्तेषु काकुत्स्थः प्राणानार्तोऽप्यधारयत् +द्विमासोपरमे काले व्यतीते प्लवगास्ततः +सुग्रीवमभिगम्येदं त्वरिता वाक्यमब्रुवन् +रक्षितं वालिना यत्तत्स्फीतं मधुवनं महत् +त्वया च प्लवगश्रेष्ठ तद्भुङ्क्ते पवनात्मजः +वालिपुत्रोऽङ्गदश्चैव ये चान्ये प्लवगर्षभाः +विचेतुं दक्षिणामाशां राजन्प्रस्थापितास्त्वया +तेषां तं प्रणयं श्रुत्वा मे���े स कृतकृत्यताम् +कृतार्थानां हि भृत्यानामेतद्भवति चेष्टितम् +स तद्रामाय मेधावी शशंस प्लवगर्षभः +रामश्चाप्यनुमानेन मेने दृष्टां तु मैथिलीम् +हनूमत्प्रमुखाश्चापि विश्रान्तास्ते प्लवंगमाः +अभिजग्मुर्हरीन्द्रं तं रामलक्ष्मणसंनिधौ +गतिं च मुखवर्णं च दृष्ट्वा रामो हनूमतः +अगमत्प्रत्ययं भूयो दृष्टा सीतेति भारत +हनूमत्प्रमुखास्ते तु वानराः पूर्णमानसाः +प्रणेमुर्विधिवद्रामं सुग्रीवं लक्ष्मणं तथा +तानुवाचागतान्रामः प्रगृह्य सशरं धनुः +अपि मां जीवयिष्यध्वमपि वः कृतकृत्यता +अपि राज्यमयोध्यायां कारयिष्याम्यहं पुनः +निहत्य समरे शत्रूनाहृत्य जनकात्मजाम् +अमोक्षयित्वा वैदेहीमहत्वा च रिपून्रणे +हृतदारोऽवधूतश्च नाहं जीवितुमुत्सहे +इत्युक्तवचनं रामं प्रत्युवाचानिलात्मजः +प्रियमाख्यामि ते राम दृष्टा सा जानकी मया +विचित्य दक्षिणामाशां सपर्वतवनाकराम् +श्रान्ताः काले व्यतीते स्म दृष्टवन्तो महागुहाम् +प्रविशामो वयं तां तु बहुयोजनमायताम् +अन्धकारां सुविपिनां गहनां कीटसेविताम् +गत्वा सुमहदध्वानमादित्यस्य प्रभां ततः +दृष्टवन्तः स्म तत्रैव भवनं दिव्यमन्तरा +मयस्य किल दैत्यस्य तदासीद्वेश्म राघव +तत्र प्रभावती नाम तपोऽतप्यत तापसी +तया दत्तानि भोज्यानि पानानि विविधानि च +भुक्त्वा लब्धबलाः सन्तस्तयोक्तेन पथा ततः +निर्याय तस्मादुद्देशात्पश्यामो लवणाम्भसः +समीपे सह्यमलयौ दर्दुरं च महागिरिम् +ततो मलयमारुह्य पश्यन्तो वरुणालयम् +विषण्णा व्यथिताः खिन्ना निराशा जीविते भृशम् +अनेकशतविस्तीर्णं योजनानां महोदधिम् +तिमिनक्रझषावासं चिन्तयन्तः सुदुःखिताः +तत्रानशनसंकल्पं कृत्वासीना वयं तदा +ततः कथान्ते गृध्रस्य जटायोरभवत्कथा +ततः पर्वतशृङ्गाभं घोररूपं भयावहम् +पक्षिणं दृष्टवन्तः स्म वैनतेयमिवापरम् +सोऽस्मानतर्कयद्भोक्तुमथाभ्येत्य वचोऽब्रवीत् +भोः क एष मम भ्रातुर्जटायोः कुरुते कथाम् +संपातिर्नाम तस्याहं ज्येष्ठो भ्राता खगाधिपः +अन्योन्यस्पर्धयारूढावावामादित्यसंसदम् +ततो दग्धाविमौ पक्षौ न दग्धौ तु जटायुषः +तदा मे चिरदृष्टः स भ्राता गृध्रपतिः प्रियः +निर्दग्धपक्षः पतितो ह्यहमस्मिन्महागिरौ +तस्यैवं वदतोऽस्माभिर्हतो भ्राता निवेदितः +व्यसनं भवतश्चेदं संक्षेपाद्वै निवेदितम् +स संपातिस्तदा राजञ्श्रुत्वा सुमहदप्रियम् +विषण्णचेताः पप्रच्छ पुनरस्मानरिंदम +कः स रामः कथं सीता जटायुश्च कथं हतः +इच्छामि सर्वमेवैतच्छ्रोतुं प्लवगसत्तमाः +तस्याहं सर्वमेवैतं भवतो व्यसनागमम् +प्रायोपवेशने चैव हेतुं विस्तरतोऽब्रुवम् +सोऽस्मानुत्थापयामास वाक्येनानेन पक्षिराट् +रावणो विदितो मह्यं लङ्का चास्य महापुरी +दृष्टा पारे समुद्रस्य त्रिकूटगिरिकन्दरे +भवित्री तत्र वैदेही न मेऽस्त्यत्र विचारणा +इति तस्य वचः श्रुत्वा वयमुत्थाय सत्वराः +सागरप्लवने मन्त्रं मन्त्रयामः परंतप +नाध्यवस्यद्यदा कश्चित्सागरस्य विलङ्घने +ततः पितरमाविश्य पुप्लुवेऽहं महार्णवम् +शतयोजनविस्तीर्णं निहत्य जलराक्षसीम् +तत्र सीता मया दृष्टा रावणान्तःपुरे सती +उपवासतपःशीला भर्तृदर्शनलालसा +जटिला मलदिग्धाङ्गी कृशा दीना तपस्विनी +निमित्तैस्तामहं सीतामुपलभ्य पृथग्विधैः +उपसृत्याब्रुवं चार्यामभिगम्य रहोगताम् +सीते रामस्य दूतोऽहं वानरो मारुतात्मजः +त्वद्दर्शनमभिप्रेप्सुरिह प्राप्तो विहायसा +राजपुत्रौ कुशलिनौ भ्रातरौ रामलक्ष्मणौ +सर्वशाखामृगेन्द्रेण सुग्रीवेणाभिपालितौ +कुशलं त्वाब्रवीद्रामः सीते सौमित्रिणा सह +सखिभावाच्च सुग्रीवः कुशलं त्वानुपृच्छति +क्षिप्रमेष्यति ते भर्ता सर्वशाखामृगैः सह +प्रत्ययं कुरु मे देवि वानरोऽस्मि न राक्षसः +मुहूर्तमिव च ध्यात्वा सीता मां प्रत्युवाच ह +अवैमि त्वां हनूमन्तमविन्ध्यवचनादहम् +अविन्ध्यो हि महाबाहो राक्षसो वृद्धसंमतः +कथितस्तेन सुग्रीवस्त्वद्विधैः सचिवैर्वृतः +गम्यतामिति चोक्त्वा मां सीता प्रादादिमं मणिम् +धारिता येन वैदेही कालमेतमनिन्दिता +प्रत्ययार्थं कथां चेमां कथयामास जानकी +क्षिप्तामिषीकां काकस्य चित्रकूटे महागिरौ +भवता पुरुषव्याघ्र प्रत्यभिज्ञानकारणात् +श्रावयित्वा तदात्मानं ततो दग्ध्वा च तां पुरीम् +संप्राप्त इति तं रामः प्रियवादिनमर्चयत् +मार्कण्डेय उवाच +ततस्तत्रैव रामस्य समासीनस्य तैः सह +समाजग्मुः कपिश्रेष्ठाः सुग्रीववचनात्तदा +वृतः कोटिसहस्रेण वानराणां तरस्विनाम् +श्वशुरो वालिनः श्रीमान्सुषेणो राममभ्ययात् +कोटीशतवृतौ चापि गजो गवय एव च +वानरेन्द्रौ महावीर्यौ पृथक्पृथगदृश्यताम् +षष्टिकोटिसहस्राणि प्रकर्षन्प्रत्यदृश्यत +गोलाङ्गूलो महाराज गवाक्षो भीमदर्शनः +गन्धमादनवासी तु प्रथितो गन्धमादनः +कोटीसहस्रमुग्राणां हरीणां समकर्षत +पनसो नाम मेधावी वानरः सुमहाबलः +कोटीर्दश द्वादश च त्रिंशत्पञ्च प्रकर्षति +श्रीमान्दधिमुखो नाम हरिवृद्धोऽपि वीर्यवान् +प्रचकर्ष महत्सैन्यं हरीणां भीमतेजसाम् +कृष्णानां मुखपुण्ड्राणामृक्षाणां भीमकर्मणाम् +कोटीशतसहस्रेण जाम्बवान्प्रत्यदृश्यत +एते चान्ये च बहवो हरियूथपयूथपाः +असंख्येया महाराज समीयू रामकारणात् +शिरीषकुसुमाभानां सिंहानामिव नर्दताम् +श्रूयते तुमुलः शब्दस्तत्र तत्र प्रधावताम् +गिरिकूटनिभाः केचित्केचिन्महिषसंनिभाः +शरदभ्रप्रतीकाशाः पिष्टहिङ्गुलकाननाः +उत्पतन्तः पतन्तश्च प्लवमानाश्च वानराः +उद्धुन्वन्तोऽपरे रेणून्समाजग्मुः समन्ततः +स वानरमहालोकः पूर्णसागरसंनिभः +निवेशमकरोत्तत्र सुग्रीवानुमते तदा +ततस्तेषु हरीन्द्रेषु समावृत्तेषु सर्वशः +तिथौ प्रशस्ते नक्षत्रे मुहूर्ते चाभिपूजिते +तेन व्यूढेन सैन्येन लोकानुद्वर्तयन्निव +प्रययौ राघवः श्रीमान्सुग्रीवसहितस्तदा +मुखमासीत्तु सैन्यस्य हनूमान्मारुतात्मजः +जघनं पालयामास सौमित्रिरकुतोभयः +बद्धगोधाङ्गुलित्राणौ राघवौ तत्र रेजतुः +वृतौ हरिमहामात्रैश्चन्द्रसूर्यौ ग्रहैरिव +प्रबभौ हरिसैन्यं तच्छालतालशिलायुधम् +सुमहच्छालिभवनं यथा सूर्योदयं प्रति +नलनीलाङ्गदक्राथमैन्दद्विविदपालिता +ययौ सुमहती सेना राघवस्यार्थसिद्धये +विधिवत्सुप्रशस्तेषु बहुमूलफलेषु च +प्रभूतमधुमांसेषु वारिमत्सु शिवेषु च +निवसन्ती निराबाधा तथैव गिरिसानुषु +उपायाद्धरिसेना सा क्षारोदमथ सागरम् +द्वितीयसागरनिभं तद्बलं बहुलध्वजम् +वेलावनं समासाद्य निवासमकरोत्तदा +ततो दाशरथिः श्रीमान्सुग्रीवं प्रत्यभाषत +मध्ये वानरमुख्यानां प्राप्तकालमिदं वचः +उपायः को नु भवतां मतः सागरलङ्घने +इयं च महती सेना सागरश्चापि दुस्तरः +तत्रान्ये व्याहरन्ति स्म वानराः पटुमानिनः +समर्था लङ्घने सिन्धोर्न तु कृत्स्नस्य वानराः +केचिन्नौभिर्व्यवस्यन्ति केचिच्च विविधैः प्लवैः +नेति रामश्च तान्सर्वान्सान्त्वयन्प्रत्यभाषत +शतयोजनविस्तारं न शक्ताः सर्ववानराः +क्रान्तुं तोयनिधिं वीरा नैषा वो नैष्ठिकी मतिः +नावो न सन्ति सेनाया बह्व्यस्तारयितुं तथा +वणिजामुपघातं च कथमस्मद्विधश्चरेत् +विस्तीर्णं चैव नः सैन्यं हन्याच्छिद्रेषु वै परः +प्लवोडुपप्रतारश्च नैवात्र मम रोचते +अहं त्विमं जलनिधिं समारप्स्याम्युपायतः +प्रतिशेष्याम्युपवसन्दर्शयिष्यति मां ततः +न चेद्दर्शयिता मार्गं धक्ष्याम्येनमहं ततः +महास्त्रैरप्रतिहतैरत्यग्निपवनोज्ज्वलैः +इत्युक्त्वा सहसौमित्रिरुपस्पृश्याथ राघवः +प्रतिशिश्ये जलनिधिं विधिवत्कुशसंस्तरे +सागरस्तु ततः स्वप्ने दर्शयामास राघवम् +देवो नदनदीभर्ता श्रीमान्यादोगणैर्वृतः +कौसल्यामातरित्येवमाभाष्य मधुरं वचः +इदमित्याह रत्नानामाकरैः शतशो वृतः +ब्रूहि किं ते करोम्यत्र साहाय्यं पुरुषर्षभ +इक्ष्वाकुरस्मि ते ज्ञातिरिति रामस्तमब्रवीत् +मार्गमिच्छामि सैन्यस्य दत्तं नदनदीपते +येन गत्वा दशग्रीवं हन्यां पौलस्त्यपांसनम् +यद्येवं याचतो मार्गं न प्रदास्यति मे भवान् +शरैस्त्वां शोषयिष्यामि दिव्यास्त्रप्रतिमन्त्रितैः +इत्येवं ब्रुवतः श्रुत्वा रामस्य वरुणालयः +उवाच व्यथितो वाक्यमिति बद्धाञ्जलिः स्थितः +नेच्छामि प्रतिघातं ते नास्मि विघ्नकरस्तव +शृणु चेदं वचो राम श्रुत्वा कर्तव्यमाचर +यदि दास्यामि ते मार्गं सैन्यस्य व्रजतोऽऽज्ञया +अन्येऽप्याज्ञापयिष्यन्ति मामेवं धनुषो बलात् +अस्ति त्वत्र नलो नाम वानरः शिल्पिसंमतः +त्वष्टुर्देवस्य तनयो बलवान्विश्वकर्मणः +स यत्काष्ठं तृणं वापि शिलां वा क्षेप्स्यते मयि +सर्वं तद्धारयिष्यामि स ते सेतुर्भविष्यति +इत्युक्त्वान्तर्हिते तस्मिन्रामो नलमुवाच ह +कुरु सेतुं समुद्रे त्वं शक्तो ह्यसि मतो मम +तेनोपायेन काकुत्स्थः सेतुबन्धमकारयत् +दशयोजनविस्तारमायतं शतयोजनम् +नलसेतुरिति ख्यातो योऽद्यापि प्रथितो भुवि +रामस्याज्ञां पुरस्कृत्य धार्यते गिरिसंनिभः +तत्रस्थं स तु धर्मात्मा समागच्छद्विभीषणः +भ्राता वै राक्षसेन्द्रस्य चतुर्भिः सचिवैः सह +प्रतिजग्राह रामस्तं स्वागतेन महामनाः +सुग्रीवस्य तु शङ्काभूत्प्रणिधिः स्यादिति स्म ह +राघवस्तस्य चेष्टाभिः सम्यक्च चरितेङ्गितैः +यदा तत्त्वेन तुष्टोऽभूत्तत एनमपूजयत् +सर्वराक्षसराज्ये चाप्यभ्यषिञ्चद्विभीषणम् +चक्रे च मन्त्रानुचरं सुहृदं लक्ष्मणस्य च +विभीषणमते चैव सोऽत्यक्रामन्महार्णवम् +ससैन्यः सेतुना तेन मासेनैव नराधिप +ततो गत्वा समासाद्य लङ्कोद्यानान्यनेकशः +भेदयामास कपिभिर्महान्ति च बहूनि च +तत्रास्तां रावणामात्यौ राक्षसौ शुकसारणौ +चारौ वानररूपेण तौ जग्राह विभीषणः +प्रतिपन्नौ यदा रूपं राक्षसं तौ निशाचरौ +दर्शयित्वा ततः सैन्यं रामः पश्चादवासृजत् +निवेश्योपवने सैन्यं तच्छूरः प्राज्ञवानरम् +प्रेषयामास दौत्येन रावणस्य ततोऽङ्गदम् +मार्कण्डेय उवाच +प्रभूतान्नोदके तस्मिन्बहुमूलफले वने +सेनां निवेश्य काकुत्स्थो विधिवत्पर्यरक्षत +रावणश्च विधिं चक्रे लङ्कायां शास्त्रनिर्मितम् +प्रकृत्यैव दुराधर्षा दृढप्राकारतोरणा +अगाधतोयाः परिखा मीननक्रसमाकुलाः +बभूवुः सप्त दुर्धर्षाः खादिरैः शङ्कुभिश्चिताः +कर्णाट्टयन्त्रदुर्धर्षा बभूवुः सहुडोपलाः +साशीविषघटायोधाः ससर्जरसपांसवः +मुसलालातनाराचतोमरासिपरश्वधैः +अन्विताश्च शतघ्नीभिः समधूच्छिष्टमुद्गराः +पुरद्वारेषु सर्वेषु गुल्माः स्थावरजङ्गमाः +बभूवुः पत्तिबहुलाः प्रभूतगजवाजिनः +अङ्गदस्त्वथ लङ्काया द्वारदेशमुपागतः +विदितो राक्षसेन्द्रस्य प्रविवेश गतव्यथः +मध्ये राक्षसकोटीनां बह्वीनां सुमहाबलः +शुशुभे मेघमालाभिरादित्य इव संवृतः +स समासाद्य पौलस्त्यममात्यैरभिसंवृतम् +रामसंदेशमामन्त्र्य वाग्मी वक्तुं प्रचक्रमे +आह त्वां राघवो राजन्कोसलेन्द्रो महायशाः +प्राप्तकालमिदं वाक्यं तदादत्स्व कुरुष्व च +अकृतात्मानमासाद्य राजानमनये रतम् +विनश्यन्त्यनयाविष्टा देशाश्च नगराणि च +त्वयैकेनापराद्धं मे सीतामाहरता बलात् +वधायानपराद्धानामन्येषां तद्भविष्यति +ये त्वया बलदर्पाभ्यामाविष्टेन वनेचराः +ऋषयो हिंसिताः पूर्वं देवाश्चाप्यवमानिताः +राजर्षयश्च निहता रुदन्त्यश्चाहृताः स्त्रियः +तदिदं समनुप्राप्तं फलं तस्यानयस्य ते +हन्तास्मि त्वां सहामात्यं युध्यस्व पुरुषो भव +पश्य मे धनुषो वीर्यं मानुषस्य निशाचर +मुच्यतां जानकी सीता न मे मोक्ष्यसि कर्हिचित् +अराक्षसमिमं लोकं कर्तास्मि निशितैः शरैः +इति तस्य ब्रुवाणस्य दूतस्य परुषं वचः +श्रुत्वा न ममृषे राजा रावणः क्रोधमूर्छितः +इङ्गितज्ञास्ततो भर्तुश्चत्वारो रजनीचराः +चतुर्ष्वङ्गेषु जगृहुः शार्दूलमिव पक्षिणः +तांस्तथाङ्गेषु संसक्तानङ्गदो रजनीचरान् +आदायैव खमुत्पत्य प्रासादतलमाविशत् +वेगेनोत्पततस्तस्य पेतुस्ते रजनीचराः +भुवि संभिन्नहृदयाः प्रहारपरिपीडिताः +स मुक्तो हर्म्यशिखरात्तस्मात्पुनरवापतत् +लङ्घयित्वा पुरीं लङ्कां स्वबलस्य समीपतः +कोसलेन्द्रमथाभ्येत्य सर्वमावेद्य चाङ्गदः +विशश्राम स तेजस्वी राघवेणाभिनन्दितः +ततः सर्वाभिसारेण हरीणां वातरंहसाम् +भेदयामास लङ्कायाः प्राकारं रघुनन्दनः +विभीषणर्क्षाधिपती पुरस्कृत्याथ लक्ष्मणः +दक्षिणं नगरद्वारमवामृद्नाद्दुरासदम् +करभारुणगात्राणां हरीणां युद्धशालिनाम् +कोटीशतसहस्रेण लङ्कामभ्यपतत्तदा +उत्पतद्भिः पतद्भिश्च निपतद्भिश्च वानरैः +नादृश्यत तदा सूर्यो रजसा नाशितप्रभः +शालिप्रसूनसदृशैः शिरीषकुसुमप्रभैः +तरुणादित्यसदृशैः शरगौरैश्च वानरैः +प्राकारं ददृशुस्ते तु समन्तात्कपिलीकृतम् +राक्षसा विस्मिता राजन्सस्त्रीवृद्धाः समन्ततः +बिभिदुस्ते मणिस्तम्भान्कर्णाट्टशिखराणि च +भग्नोन्मथितवेगानि यन्त्राणि च विचिक्षिपुः +परिगृह्य शतघ्नीश्च सचक्राः सहुडोपलाः +चिक्षिपुर्भुजवेगेन लङ्कामध्ये महाबलाः +प्राकारस्थाश्च ये केचिन्निशाचरगणास्तदा +प्रदुद्रुवुस्ते शतशः कपिभिः समभिद्रुताः +ततस्तु राजवचनाद्राक्षसाः कामरूपिणः +निर्ययुर्विकृताकाराः सहस्रशतसंघशः +शस्त्रवर्षाणि वर्षन्तो द्रावयन्तो वनौकसः +प्राकारं शोधयन्तस्ते परं विक्रममास्थिताः +स माषराशिसदृशैर्बभूव क्षणदाचरैः +कृतो निर्वानरो भूयः प्राकारो भीमदर्शनैः +पेतुः शूलविभिन्नाङ्गा बहवो वानरर्षभाः +स्तम्भतोरणभग्नाश्च पेतुस्तत्र निशाचराः +केशाकेश्यभवद्युद्धं रक्षसां वानरैः सह +नखैर्दन्तैश्च वीराणां खादतां वै परस्परम् +निष्टनन्तो ह्युभयतस्तत्र वानरराक्षसाः +हता निपतिता भूमौ न मुञ्चन्ति परस्परम् +रामस्तु शरजालानि ववर्ष जलदो यथा +तानि लङ्कां समासाद्य जघ्नुस्तान्रजनीचरान् +सौमित्रिरपि नाराचैर्दृढधन्वा जितक्लमः +आदिश्यादिश्य दुर्गस्थान्पातयामास राक्षसान् +ततः प्रत्यवहारोऽभूत्सैन्यानां राघवाज्ञया +कृते विमर्दे लङ्कायां लब्धलक्षो जयोत्तरः +मार्कण्डेय उवाच +ततो निविशमानांस्तान्सैनिकान्रावणानुगाः +अभिजग्मुर्गणानेके पिशाचक्षुद्ररक्षसाम् +पर्वणः पूतनो जम्भः खरः क्रोधवशो हरिः +प्ररुजश्चारुजश्चैव प्रघसश्चैवमादयः +ततोऽभिपततां तेषामदृश्यानां दुरात्मनाम् +अन्तर्धानवधं तज्ज्ञश्चकार स विभीषणः +ते दृश्यमाना हरिभिर्बलिभिर्दूरपातिभिः +निहताः सर्वशो राजन्महीं जग्मुर्गतासवः +अमृष्यमाणः सबलो रावणो निर्ययावथ +व्यूह्य चौशनसं व्यूहं हरीन्सर्वानहारयत् +राघवस्त्वभिनिर्याय व्यूढानीकं दशाननम् +बार्हस्पत्यं विधिं कृत्वा प्रत्यव्यूहन्निशाचरम् +समेत्य युयुधे तत्र ततो रामेण रावणः +युयुधे लक्ष्मणश्चैव तथैवेन्द्रजिता सह +विरूपाक्षेण सुग्रीवस्तारेण च निखर्वटः +तुण्डेन च नलस्तत्र पटुशः पनसेन च +विषह्यं यं हि यो मेने स स तेन समेयिवान् +युयुधे युद्धवेलायां स्वबाहुबलमाश्रितः +स संप्रहारो ववृधे भीरूणां भयवर्धनः +लोमसंहर्षणो घोरः पुरा देवासुरे यथा +रावणो राममानर्छच्छक्तिशूलासिवृष्टिभिः +निशितैरायसैस्तीक्ष्णै रावणं चापि राघवः +तथैवेन्द्रजितं यत्तं लक्ष्मणो मर्मभेदिभिः +इन्द्रजिच्चापि सौमित्रिं बिभेद बहुभिः शरैः +विभीषणः प्रहस्तं च प्रहस्तश्च विभीषणम् +खगपत्रैः शरैस्तीक्ष्णैरभ्यवर्षद्गतव्यथः +तेषां बलवतामासीन्महास्त्राणां समागमः +विव्यथुः सकला येन त्रयो लोकाश्चराचराः +मार्कण्डेय उवाच +ततः प्रहस्तः सहसा समभ्येत्य विभीषणम् +गदया ताडयामास विनद्य रणकर्कशः +स तयाभिहतो धीमान्गदया भीमवेगया +नाकम्पत महाबाहुर्हिमवानिव सुस्थिरः +ततः प्रगृह्य विपुलां शतघण्टां विभीषणः +अभिमन्त्र्य महाशक्तिं चिक्षेपास्य शिरः प्रति +पतन्त्या स तया वेगाद्राक्षसोऽशनिनादया +हृतोत्तमाङ्गो ददृशे वातरुग्ण इव द्रुमः +तं दृष्ट्वा निहतं संख्ये प्रहस्तं क्षणदाचरम् +अभिदुद्राव धूम्राक्षो वेगेन महता कपीन् +तस्य मेघोपमं सैन्यमापतद्भीमदर्शनम् +दृष्ट्वैव सहसा दीर्णा रणे वानरपुंगवाः +ततस्तान्सहसा दीर्णान्दृष्ट्वा वानरपुंगवान् +निर्याय कपिशार्दूलो हनूमान्पर्यवस्थितः +तं दृष्ट्वावस्थितं संख्ये हरयः पवनात्मजम् +वेगेन महता राजन्संन्यवर्तन्त सर्वशः +ततः शब्दो महानासीत्तुमुलो लोमहर्षणः +रामरावणसैन्यानामन्योन्यमभिधावताम् +तस्मिन्प्रवृत्ते संग्रामे घोरे रुधिरकर्दमे +धूम्राक्षः कपिसैन्यं तद्द्रावयामास पत्रिभिः +तं राक्षसमहामात्रमापतन्तं सपत्नजित् +तरसा प्रतिजग्राह हनूमान्पवनात्मजः +तयोर्युद्धमभूद्घोरं हरिराक्षसवीरयोः +जिगीषतोर्य��धान्योन्यमिन्द्रप्रह्लादयोरिव +गदाभिः परिघैश्चैव राक्षसो जघ्निवान्कपिम् +कपिश्च जघ्निवान्रक्षः सस्कन्धविटपैर्द्रुमैः +ततस्तमतिकायेन साश्वं सरथसारथिम् +धूम्राक्षमवधीद्धीमान्हनूमान्मारुतात्मजः +ततस्तं निहतं दृष्ट्वा धूम्राक्षं राक्षसोत्तमम् +हरयो जातविस्रम्भा जघ्नुरभ्येत्य सैनिकान् +ते वध्यमाना बलिभिर्हरिभिर्जितकाशिभिः +राक्षसा भग्नसंकल्पा लङ्कामभ्यपतन्भयात् +तेऽभिपत्य पुरं भग्ना हतशेषा निशाचराः +सर्वं राज्ञे यथावृत्तं रावणाय न्यवेदयन् +श्रुत्वा तु रावणस्तेभ्यः प्रहस्तं निहतं युधि +धूम्राक्षं च महेष्वासं ससैन्यं वानरर्षभैः +सुदीर्घमिव निःश्वस्य समुत्पत्य वरासनात् +उवाच कुम्भकर्णस्य कर्मकालोऽयमागतः +इत्येवमुक्त्वा विविधैर्वादित्रैः सुमहास्वनैः +शयानमतिनिद्रालुं कुम्भकर्णमबोधयत् +प्रबोध्य महता चैनं यत्नेनागतसाध्वसः +स्वस्थमासीनमव्यग्रं विनिद्रं राक्षसाधिपः +ततोऽब्रवीद्दशग्रीवः कुम्भकर्णं महाबलम् +धन्योऽसि यस्य ते निद्रा कुम्भकर्णेयमीदृशी +य इमं दारुणं कालं न जानीषे महाभयम् +एष तीर्त्वार्णवं रामः सेतुना हरिभिः सह +अवमन्येह नः सर्वान्करोति कदनं महत् +मया ह्यपहृता भार्या सीता नामास्य जानकी +तां मोक्षयिषुरायातो बद्ध्वा सेतुं महार्णवे +तेन चैव प्रहस्तादिर्महान्नः स्वजनो हतः +तस्य नान्यो निहन्तास्ति त्वदृते शत्रुकर्शन +स दंशितोऽभिनिर्याय त्वमद्य बलिनां वर +रामादीन्समरे सर्वाञ्जहि शत्रूनरिंदम +दूषणावरजौ चैव वज्रवेगप्रमाथिनौ +तौ त्वां बलेन महता सहितावनुयास्यतः +इत्युक्त्वा राक्षसपतिः कुम्भकर्णं तरस्विनम् +संदिदेशेतिकर्तव्ये वज्रवेगप्रमाथिनौ +तथेत्युक्त्वा तु तौ वीरौ रावणं दूषणानुजौ +कुम्भकर्णं पुरस्कृत्य तूर्णं निर्ययतुः पुरात् +मार्कण्डेय उवाच +ततो विनिर्याय पुरात्कुम्भकर्णः सहानुगः +अपश्यत्कपिसैन्यं तज्जितकाश्यग्रतः स्थितम् +तमभ्येत्याशु हरयः परिवार्य समन्ततः +अभ्यघ्नंश्च महाकायैर्बहुभिर्जगतीरुहैः +करजैरतुदंश्चान्ये विहाय भयमुत्तमम् +बहुधा युध्यमानास्ते युद्धमार्गैः प्लवंगमाः +नानाप्रहरणैर्भीमं राक्षसेन्द्रमताडयन् +स ताड्यमानः प्रहसन्भक्षयामास वानरान् +पनसं च गवाक्षं च वज्रबाहुं च वानरम् +तद्दृष्ट्वा व्यथनं कर्म कुम्भकर्णस्य रक्षसः +उदक्रोशन्परित्रस्तास्तारप्रभृतयस्तदा +तं तारमुच्चैः क्रोशन्तमन्यांश्च हरियूथपान् +अभिदुद्राव सुग्रीवः कुम्भकर्णमपेतभीः +ततोऽभिपत्य वेगेन कुम्भकर्णं महामनाः +शालेन जघ्निवान्मूर्ध्नि बलेन कपिकुञ्जरः +स महात्मा महावेगः कुम्भकर्णस्य मूर्धनि +बिभेद शालं सुग्रीवो न चैवाव्यथयत्कपिः +ततो विनद्य प्रहसञ्शालस्पर्शविबोधितः +दोर्भ्यामादाय सुग्रीवं कुम्भकर्णोऽहरद्बलात् +ह्रियमाणं तु सुग्रीवं कुम्भकर्णेन रक्षसा +अवेक्ष्याभ्यद्रवद्वीरः सौमित्रिर्मित्रनन्दनः +सोऽभिपत्य महावेगं रुक्मपुङ्खं महाशरम् +प्राहिणोत्कुम्भकर्णाय लक्ष्मणः परवीरहा +स तस्य देहावरणं भित्त्वा देहं च सायकः +जगाम दारयन्भूमिं रुधिरेण समुक्षितः +तथा स भिन्नहृदयः समुत्सृज्य कपीश्वरम् +कुम्भकर्णो महेष्वासः प्रगृहीतशिलायुधः +अभिदुद्राव सौमित्रिमुद्यम्य महतीं शिलाम् +तस्याभिद्रवतस्तूर्णं क्षुराभ्यामुच्छ्रितौ करौ +चिच्छेद निशिताग्राभ्यां स बभूव चतुर्भुजः +तानप्यस्य भुजान्सर्वान्प्रगृहीतशिलायुधान् +क्षुरैश्चिच्छेद लघ्वस्त्रं सौमित्रिः प्रतिदर्शयन् +स बभूवातिकायश्च बहुपादशिरोभुजः +तं ब्रह्मास्त्रेण सौमित्रिर्ददाहाद्रिचयोपमम् +स पपात महावीर्यो दिव्यास्त्राभिहतो रणे +महाशनिविनिर्दग्धः पादपोऽङ्कुरवानिव +तं दृष्ट्वा वृत्रसंकाशं कुम्भकर्णं तरस्विनम् +गतासुं पतितं भूमौ राक्षसाः प्राद्रवन्भयात् +तथा तान्द्रवतो योधान्दृष्ट्वा तौ दूषणानुजौ +अवस्थाप्याथ सौमित्रिं संक्रुद्धावभ्यधावताम् +तावाद्रवन्तौ संक्रुद्धौ वज्रवेगप्रमाथिनौ +प्रतिजग्राह सौमित्रिर्विनद्योभौ पतत्रिभिः +ततः सुतुमुलं युद्धमभवल्लोमहर्षणम् +दूषणानुजयोः पार्थ लक्ष्मणस्य च धीमतः +महता शरवर्षेण राक्षसौ सोऽभ्यवर्षत +तौ चापि वीरौ संक्रुद्धावुभौ तौ समवर्षताम् +मुहूर्तमेवमभवद्वज्रवेगप्रमाथिनोः +सौमित्रेश्च महाबाहोः संप्रहारः सुदारुणः +अथाद्रिशृङ्गमादाय हनूमान्मारुतात्मजः +अभिद्रुत्याददे प्राणान्वज्रवेगस्य रक्षसः +नीलश्च महता ग्राव्णा दूषणावरजं हरिः +प्रमाथिनमभिद्रुत्य प्रममाथ महाबलः +ततः प्रावर्तत पुनः संग्रामः कटुकोदयः +रामरावणसैन्यानामन्योन्यमभिधावताम् +शतशो नैरृतान्वन्या जघ्नुर्वन्यांश्च नैरृताः +नैरृतास्तत्र वध्यन्ते प्रायशो न तु वानराः +मार्कण्डेय उवाच +ततः श्रुत्वा हतं संख्ये कुम्भकर्णं सहानुगम् +प्रहस्तं च महेष्वासं धूम्राक्षं चातितेजसम् +पुत्रमिन्द्रजितं शूरं रावणः प्रत्यभाषत +जहि रामममित्रघ्न सुग्रीवं च सलक्ष्मणम् +त्वया हि मम सत्पुत्र यशो दीप्तमुपार्जितम् +जित्वा वज्रधरं संख्ये सहस्राक्षं शचीपतिम् +अन्तर्हितः प्रकाशो वा दिव्यैर्दत्तवरैः शरैः +जहि शत्रूनमित्रघ्न मम शस्त्रभृतां वर +रामलक्ष्मणसुग्रीवाः शरस्पर्शं न तेऽनघ +समर्थाः प्रतिसंसोढुं कुतस्तदनुयायिनः +अकृता या प्रहस्तेन कुम्भकर्णेन चानघ +खरस्यापचितिः संख्ये तां गच्छस्व महाभुज +त्वमद्य निशितैर्बाणैर्हत्वा शत्रून्ससैनिकान् +प्रतिनन्दय मां पुत्र पुरा बद्ध्वेव वासवम् +इत्युक्तः स तथेत्युक्त्वा रथमास्थाय दंशितः +प्रययाविन्द्रजिद्राजंस्तूर्णमायोधनं प्रति +तत्र विश्राव्य विस्पष्टं नाम राक्षसपुंगवः +आह्वयामास समरे लक्ष्मणं शुभलक्षणम् +तं लक्ष्मणोऽप्यभ्यधावत्प्रगृह्य सशरं धनुः +त्रासयंस्तलघोषेण सिंहः क्षुद्रमृगं यथा +तयोः समभवद्युद्धं सुमहज्जयगृद्धिनोः +दिव्यास्त्रविदुषोस्तीव्रमन्योन्यस्पर्धिनोस्तदा +रावणिस्तु यदा नैनं विशेषयति सायकैः +ततो गुरुतरं यत्नमातिष्ठद्बलिनां वरः +तत एनं महावेगैरर्दयामास तोमरैः +तानागतान्स चिच्छेद सौमित्रिर्निशितैः शरैः +ते निकृत्ताः शरैस्तीक्ष्णैर्न्यपतन्वसुधातले +तमङ्गदो वालिसुतः श्रीमानुद्यम्य पादपम् +अभिद्रुत्य महावेगस्ताडयामास मूर्धनि +तस्येन्द्रजिदसंभ्रान्तः प्रासेनोरसि वीर्यवान् +प्रहर्तुमैच्छत्तं चास्य प्रासं चिच्छेद लक्ष्मणः +तमभ्याशगतं वीरमङ्गदं रावणात्मजः +गदयाताडयत्सव्ये पार्श्वे वानरपुंगवम् +तमचिन्त्य प्रहारं स बलवान्वालिनः सुतः +ससर्जेन्द्रजितः क्रोधाच्छालस्कन्धममित्रजित् +सोऽङ्गदेन रुषोत्सृष्टो वधायेन्द्रजितस्तरुः +जघानेन्द्रजितः पार्थ रथं साश्वं ससारथिम् +ततो हताश्वात्प्रस्कन्द्य रथात्स हतसारथिः +तत्रैवान्तर्दधे राजन्मायया रावणात्मजः +अन्तर्हितं विदित्वा तं बहुमायं च राक्षसम् +रामस्तं देशमागम्य तत्सैन्यं पर्यरक्षत +स राममुद्दिश्य शरैस्ततो दत्तवरैस्तदा +विव्याध सर्वगात्रेषु लक्ष्मणं च महारथम् +तमदृश्यं शरैः शूरौ माययान्तर्हितं तदा +योधयामासतुरुभौ रावणिं रामलक्ष्मणौ +स रुषा सर्वगात्रेषु तयोः पुरुषसिंहयोः +व्यसृजत्सायकान्भूयः शतशोऽथ सहस्रशः +तमदृश्यं विचिन्वन्तः सृजन्तमनिशं शरान् +हरयो विविशुर्व्योम प्रगृह्य महतीः शिलाः +तांश्च तौ चाप्यदृश्यः स शरैर्विव्याध राक्षसः +स भृशं ताडयन्वीरो रावणिर्माययावृतः +तौ शरैराचितौ वीरौ भ्रातरौ रामलक्ष्मणौ +पेततुर्गगनाद्भूमिं सूर्याचन्द्रमसाविव +मार्कण्डेय उवाच +तावुभौ पतितौ दृष्ट्वा भ्रातरावमितौजसौ +बबन्ध रावणिर्भूयः शरैर्दत्तवरैस्तदा +तौ वीरौ शरजालेन बद्धाविन्द्रजिता रणे +रेजतुः पुरुषव्याघ्रौ शकुन्ताविव पञ्जरे +तौ दृष्ट्वा पतितौ भूमौ शतशः सायकैश्चितौ +सुग्रीवः कपिभिः सार्धं परिवार्य ततः स्थितः +सुषेणमैन्दद्विविदैः कुमुदेनाङ्गदेन च +हनूमन्नीलतारैश्च नलेन च कपीश्वरः +ततस्तं देशमागम्य कृतकर्मा विभीषणः +बोधयामास तौ वीरौ प्रज्ञास्त्रेण प्रबोधितौ +विशल्यौ चापि सुग्रीवः क्षणेनोभौ चकार तौ +विशल्यया महौषध्या दिव्यमन्त्रप्रयुक्तया +तौ लब्धसंज्ञौ नृवरौ विशल्यावुदतिष्ठताम् +गततन्द्रीक्लमौ चास्तां क्षणेनोभौ महारथौ +ततो विभीषणः पार्थ राममिक्ष्वाकुनन्दनम् +उवाच विज्वरं दृष्ट्वा कृताञ्जलिरिदं वचः +अयमम्भो गृहीत्वा तु राजराजस्य शासनात् +गुह्यकोऽभ्यागतः श्वेतात्त्वत्सकाशमरिंदम +इदमम्भः कुबेरस्ते महाराजः प्रयच्छति +अन्तर्हितानां भूतानां दर्शनार्थं परंतप +अनेन स्पृष्टनयनो भूतान्यन्तर्हितान्युत +भवान्द्रक्ष्यति यस्मै च भवानेतत्प्रदास्यति +तथेति रामस्तद्वारि प्रतिगृह्याथ सत्कृतम् +चकार नेत्रयोः शौचं लक्ष्मणश्च महामनाः +सुग्रीवजाम्बवन्तौ च हनूमानङ्गदस्तथा +मैन्दद्विविदनीलाश्च प्रायः प्लवगसत्तमाः +तथा समभवच्चापि यदुवाच विभीषणः +क्षणेनातीन्द्रियाण्येषां चक्षूंष्यासन्युधिष्ठिर +इन्द्रजित्कृतकर्मा तु पित्रे कर्म तदात्मनः +निवेद्य पुनरागच्छत्त्वरयाजिशिरः प्रति +तमापतन्तं संक्रुद्धं पुनरेव युयुत्सया +अभिदुद्राव सौमित्रिर्विभीषणमते स्थितः +अकृताह्निकमेवैनं जिघांसुर्जितकाशिनम् +शरैर्जघान संक्रुद्धः कृतसंज्ञोऽथ लक्ष्मणः +तयोः समभवद्युद्धं तदान्योन्यं जिगीषतोः +अतीव चित्रमाश्चर्यं शक्रप्रह्लादयोरिव +अविध्यदिन्द्रजित्तीक्ष्णैः सौमि���्रिं मर्मभेदिभिः +सौमित्रिश्चानलस्पर्शैरविध्यद्रावणिं शरैः +सौमित्रिशरसंस्पर्शाद्रावणिः क्रोधमूर्छितः +असृजल्लक्ष्मणायाष्टौ शरानाशीविषोपमान् +तस्यासून्पावकस्पर्शैः सौमित्रिः पत्रिभिस्त्रिभिः +यथा निरहरद्वीरस्तन्मे निगदतः शृणु +एकेनास्य धनुष्मन्तं बाहुं देहादपातयत् +द्वितीयेन सनाराचं भुजं भूमौ न्यपातयत् +तृतीयेन तु बाणेन पृथुधारेण भास्वता +जहार सुनसं चारु शिरो भ्राजिष्णुकुण्डलम् +विनिकृत्तभुजस्कन्धं कबन्धं भीमदर्शनम् +तं हत्वा सूतमप्यस्त्रैर्जघान बलिनां वरः +लङ्कां प्रवेशयामासुर्वाजिनस्तं रथं तदा +ददर्श रावणस्तं च रथं पुत्रविनाकृतम् +स पुत्रं निहतं दृष्ट्वा त्रासात्संभ्रान्तलोचनः +रावणः शोकमोहार्तो वैदेहीं हन्तुमुद्यतः +अशोकवनिकास्थां तां रामदर्शनलालसाम् +खड्गमादाय दुष्टात्मा जवेनाभिपपात ह +तं दृष्ट्वा तस्य दुर्बुद्धेरविन्ध्यः पापनिश्चयम् +शमयामास संक्रुद्धं श्रूयतां येन हेतुना +महाराज्ये स्थितो दीप्ते न स्त्रियं हन्तुमर्हसि +हतैवैषा यदा स्त्री च बन्धनस्था च ते गृहे +न चैषा देहभेदेन हता स्यादिति मे मतिः +जहि भर्तारमेवास्या हते तस्मिन्हता भवेत् +न हि ते विक्रमे तुल्यः साक्षादपि शतक्रतुः +असकृद्धि त्वया सेन्द्रास्त्रासितास्त्रिदशा युधि +एवं बहुविधैर्वाक्यैरविन्ध्यो रावणं तदा +क्रुद्धं संशमयामास जगृहे च स तद्वचः +निर्याणे स मतिं कृत्वा निधायासिं क्षपाचरः +आज्ञापयामास तदा रथो मे कल्प्यतामिति +मार्कण्डेय उवाच +ततः क्रुद्धो दशग्रीवः प्रिये पुत्रे निपातिते +निर्ययौ रथमास्थाय हेमरत्नविभूषितम् +संवृतो राक्षसैर्घोरैर्विविधायुधपाणिभिः +अभिदुद्राव रामं स पोथयन्हरियूथपान् +तमाद्रवन्तं संक्रुद्धं मैन्दनीलनलाङ्गदाः +हनूमाञ्जाम्बवांश्चैव ससैन्याः पर्यवारयन् +ते दशग्रीवसैन्यं तदृक्षवानरयूथपाः +द्रुमैर्विध्वंसयां चक्रुर्दशग्रीवस्य पश्यतः +ततः स्वसैन्यमालोक्य वध्यमानमरातिभिः +मायावी व्यदधान्मायां रावणो राक्षसेश्वरः +तस्य देहाद्विनिष्क्रान्ताः शतशोऽथ सहस्रशः +राक्षसाः प्रत्यदृश्यन्त शरशक्त्यृष्टिपाणयः +तान्रामो जघ्निवान्सर्वान्दिव्येनास्त्रेण राक्षसान् +अथ भूयोऽपि मायां स व्यदधाद्राक्षसाधिपः +कृत्वा रामस्य रूपाणि लक्ष्मणस्य च भारत +अभिदुद���राव रामं च लक्ष्मणं च दशाननः +ततस्ते राममर्छन्तो लक्ष्मणं च क्षपाचराः +अभिपेतुस्तदा राजन्प्रगृहीतोच्चकार्मुकाः +तां दृष्ट्वा राक्षसेन्द्रस्य मायामिक्ष्वाकुनन्दनः +उवाच रामं सौमित्रिरसंभ्रान्तो बृहद्वचः +जहीमान्राक्षसान्पापानात्मनः प्रतिरूपकान् +जघान रामस्तांश्चान्यानात्मनः प्रतिरूपकान् +ततो हर्यश्वयुक्तेन रथेनादित्यवर्चसा +उपतस्थे रणे रामं मातलिः शक्रसारथिः +मातलिरुवाच +अयं हर्यश्वयुग्जैत्रो मघोनः स्यन्दनोत्तमः +अनेन शक्रः काकुत्स्थ समरे दैत्यदानवान् +शतशः पुरुषव्याघ्र रथोदारेण जघ्निवान् +तदनेन नरव्याघ्र मया यत्तेन संयुगे +स्यन्दनेन जहि क्षिप्रं रावणं मा चिरं कृथाः +इत्युक्तो राघवस्तथ्यं वचोऽशङ्कत मातलेः +मायेयं राक्षसस्येति तमुवाच विभीषणः +नेयं माया नरव्याघ्र रावणस्य दुरात्मनः +तदातिष्ठ रथं शीघ्रमिममैन्द्रं महाद्युते +ततः प्रहृष्टः काकुत्स्थस्तथेत्युक्त्वा विभीषणम् +रथेनाभिपपाताशु दशग्रीवं रुषान्वितः +हाहाकृतानि भूतानि रावणे समभिद्रुते +सिंहनादाः सपटहा दिवि दिव्याश्च नानदन् +स रामाय महाघोरं विससर्ज निशाचरः +शूलमिन्द्राशनिप्रख्यं ब्रह्मदण्डमिवोद्यतम् +तच्छूलमन्तरा रामश्चिच्छेद निशितैः शरैः +तद्दृष्ट्वा दुष्करं कर्म रावणं भयमाविशत् +ततः क्रुद्धः ससर्जाशु दशग्रीवः शिताञ्शरान् +सहस्रायुतशो रामे शस्त्राणि विविधानि च +ततो भुशुण्डीः शूलांश्च मुसलानि परश्वधान् +शक्तीश्च विविधाकाराः शतघ्नीश्च शितक्षुराः +तां मायां विकृतां दृष्ट्वा दशग्रीवस्य रक्षसः +भयात्प्रदुद्रुवुः सर्वे वानराः सर्वतोदिशम् +ततः सुपत्रं सुमुखं हेमपुङ्खं शरोत्तमम् +तूणादादाय काकुत्स्थो ब्रह्मास्त्रेण युयोज ह +तं बाणवर्यं रामेण ब्रह्मास्त्रेणाभिमन्त्रितम् +जहृषुर्देवगन्धर्वा दृष्ट्वा शक्रपुरोगमाः +अल्पावशेषमायुश्च ततोऽमन्यन्त रक्षसः +ब्रह्मास्त्रोदीरणाच्छत्रोर्देवगन्धर्वकिंनराः +ततः ससर्ज तं रामः शरमप्रतिमौजसम् +रावणान्तकरं घोरं ब्रह्मदण्डमिवोद्यतम् +स तेन राक्षसश्रेष्ठः सरथः साश्वसारथिः +प्रजज्वाल महाज्वालेनाग्निनाभिपरिष्कृतः +ततः प्रहृष्टास्त्रिदशाः सगन्धर्वाः सचारणाः +निहतं रावणं दृष्ट्वा रामेणाक्लिष्टकर्मणा +तत्यजुस्तं महाभागं पञ्च भूतानि रावणम् +भ्रंशितः सर्वलोकेषु स हि ब्रह्मास्त्रतेजसा +शरीरधातवो ह्यस्य मांसं रुधिरमेव च +नेशुर्ब्रह्मास्त्रनिर्दग्धा न च भस्माप्यदृश्यत +मार्कण्डेय उवाच +स हत्वा रावणं क्षुद्रं राक्षसेन्द्रं सुरद्विषम् +बभूव हृष्टः ससुहृद्रामः सौमित्रिणा सह +ततो हते दशग्रीवे देवाः सर्षिपुरोगमाः +आशीर्भिर्जययुक्ताभिरानर्चुस्तं महाभुजम् +रामं कमलपत्राक्षं तुष्टुवुः सर्वदेवताः +गन्धर्वाः पुष्पवर्षैश्च वाग्भिश्च त्रिदशालयाः +पूजयित्वा यथा रामं प्रतिजग्मुर्यथागतम् +तन्महोत्सवसंकाशमासीदाकाशमच्युत +ततो हत्वा दशग्रीवं लङ्कां रामो महायशाः +विभीषणाय प्रददौ प्रभुः परपुरंजयः +ततः सीतां पुरस्कृत्य विभीषणपुरस्कृताम् +अविन्ध्यो नाम सुप्रज्ञो वृद्धामात्यो विनिर्ययौ +उवाच च महात्मानं काकुत्स्थं दैन्यमास्थितम् +प्रतीच्छ देवीं सद्वृत्तां महात्मञ्जानकीमिति +एतच्छ्रुत्वा वचस्तस्मादवतीर्य रथोत्तमात् +बाष्पेणापिहितां सीतां ददर्शेक्ष्वाकुनन्दनः +तां दृष्ट्वा चारुसर्वाङ्गीं यानस्थां शोककर्शिताम् +मलोपचितसर्वाङ्गीं जटिलां कृष्णवाससम् +उवाच रामो वैदेहीं परामर्शविशङ्कितः +गच्छ वैदेहि मुक्ता त्वं यत्कार्यं तन्मया कृतम् +मामासाद्य पतिं भद्रे न त्वं राक्षसवेश्मनि +जरां व्रजेथा इति मे निहतोऽसौ निशाचरः +कथं ह्यस्मद्विधो जातु जानन्धर्मविनिश्चयम् +परहस्तगतां नारीं मुहूर्तमपि धारयेत् +सुवृत्तामसुवृत्तां वाप्यहं त्वामद्य मैथिलि +नोत्सहे परिभोगाय श्वावलीढं हविर्यथा +ततः सा सहसा बाला तच्छ्रुत्वा दारुणं वचः +पपात देवी व्यथिता निकृत्ता कदली यथा +यो ह्यस्या हर्षसंभूतो मुखरागस्तदाभवत् +क्षणेन स पुनर्भ्रष्टो निःश्वासादिव दर्पणे +ततस्ते हरयः सर्वे तच्छ्रुत्वा रामभाषितम् +गतासुकल्पा निश्चेष्टा बभूवुः सहलक्ष्मणाः +ततो देवो विशुद्धात्मा विमानेन चतुर्मुखः +पितामहो जगत्स्रष्टा दर्शयामास राघवम् +शक्रश्चाग्निश्च वायुश्च यमो वरुण एव च +यक्षाधिपश्च भगवांस्तथा सप्तर्षयोऽमलाः +राजा दशरथश्चैव दिव्यभास्वरमूर्तिमान् +विमानेन महार्हेण हंसयुक्तेन भास्वता +ततोऽन्तरिक्षं तत्सर्वं देवगन्धर्वसंकुलम् +शुशुभे तारकाचित्रं शरदीव नभस्तलम् +तत उत्थाय वैदेहि तेषां मध्ये यशस्विनी +उवाच वाक्यं कल्याणी रामं पृथुलवक्षसम् +राजपुत्र न ते कोपं करोमि विदिता हि मे +गतिः स्त्रीणां नराणां च शृणु चेदं वचो मम +अन्तश्चरति भूतानां मातरिश्वा सदागतिः +स मे विमुञ्चतु प्राणान्यदि पापं चराम्यहम् +अग्निरापस्तथाकाशं पृथिवी वायुरेव च +विमुञ्चन्तु मम प्राणान्यदि पापं चराम्यहम् +ततोऽन्तरिक्षे वागासीत्सर्वा विश्रावयन्दिशः +पुण्या संहर्षणी तेषां वानराणां महात्मनाम् +वायुरुवाच +भो भो राघव सत्यं वै वायुरस्मि सदागतिः +अपापा मैथिली राजन्संगच्छ सह भार्यया +अग्निरुवाच +अहमन्तःशरीरस्थो भूतानां रघुनन्दन +सुसूक्ष्ममपि काकुत्स्थ मैथिली नापराध्यति +वरुण उवाच +रसा वै मत्प्रसूता हि भूतदेहेषु राघव +अहं वै त्वां प्रब्रवीमि मैथिली प्रतिगृह्यताम् +ब्रह्मोवाच +पुत्र नैतदिहाश्चर्यं त्वयि राजर्षिधर्मिणि +साधो सद्वृत्तमार्गस्थे शृणु चेदं वचो मम +शत्रुरेष त्वया वीर देवगन्धर्वभोगिनाम् +यक्षाणां दानवानां च महर्षीणां च पातितः +अवध्यः सर्वभूतानां मत्प्रसादात्पुराभवत् +कस्माच्चित्कारणात्पापः कंचित्कालमुपेक्षितः +वधार्थमात्मनस्तेन हृता सीता दुरात्मना +नलकूबरशापेन रक्षा चास्याः कृता मया +यदि ह्यकामामासेवेत्स्त्रियमन्यामपि ध्रुवम् +शतधास्य फलेद्देह इत्युक्तः सोऽभवत्पुरा +नात्र शङ्का त्वया कार्या प्रतीच्छेमां महाद्युते +कृतं त्वया महत्कार्यं देवानाममरप्रभ +दशरथ उवाच +प्रीतोऽस्मि वत्स भद्रं ते पिता दशरथोऽस्मि ते +अनुजानामि राज्यं च प्रशाधि पुरुषोत्तम +राम उवाच +अभिवादये त्वां राजेन्द्र यदि त्वं जनको मम +गमिष्यामि पुरीं रम्यामयोध्यां शासनात्तव +मार्कण्डेय उवाच +तमुवाच पिता भूयः प्रहृष्टो मनुजाधिप +गच्छायोध्यां प्रशाधि त्वं राम रक्तान्तलोचन +ततो देवान्नमस्कृत्य सुहृद्भिरभिनन्दितः +महेन्द्र इव पौलोम्या भार्यया स समेयिवान् +ततो वरं ददौ तस्मै अविन्ध्याय परंतपः +त्रिजटां चार्थमानाभ्यां योजयामास राक्षसीम् +तमुवाच ततो ब्रह्मा देवैः शक्रमुखैर्वृतः +कौसल्यामातरिष्टांस्ते वरानद्य ददानि कान् +वव्रे रामः स्थितिं धर्मे शत्रुभिश्चापराजयम् +राक्षसैर्निहतानां च वानराणां समुद्भवम् +ततस्ते ब्रह्मणा प्रोक्ते तथेति वचने तदा +समुत्तस्थुर्महाराज वानरा लब्धचेतसः +सीता चापि महाभागा वरं हनुमते ददौ +रामकीर्त्या समं पुत्र जीवितं ते भविष्यति +दिव्यास्त��वामुपभोगाश्च मत्प्रसादकृताः सदा +उपस्थास्यन्ति हनुमन्निति स्म हरिलोचन +ततस्ते प्रेक्षमाणानां तेषामक्लिष्टकर्मणाम् +अन्तर्धानं ययुर्देवाः सर्वे शक्रपुरोगमाः +दृष्ट्वा तु रामं जानक्या समेतं शक्रसारथिः +उवाच परमप्रीतः सुहृन्मध्य इदं वचः +देवगन्धर्वयक्षाणां मानुषासुरभोगिनाम् +अपनीतं त्वया दुःखमिदं सत्यपराक्रम +सदेवासुरगन्धर्वा यक्षराक्षसपन्नगाः +कथयिष्यन्ति लोकास्त्वां यावद्भूमिर्धरिष्यति +इत्येवमुक्त्वानुज्ञाप्य रामं शस्त्रभृतां वरम् +संपूज्यापाक्रमत्तेन रथेनादित्यवर्चसा +ततः सीतां पुरस्कृत्य रामः सौमित्रिणा सह +सुग्रीवप्रमुखैश्चैव सहितः सर्ववानरैः +विधाय रक्षां लङ्कायां विभीषणपुरस्कृतः +संततार पुनस्तेन सेतुना मकरालयम् +पुष्पकेण विमानेन खेचरेण विराजता +कामगेन यथा मुख्यैरमात्यैः संवृतो वशी +ततस्तीरे समुद्रस्य यत्र शिश्ये स पार्थिवः +तत्रैवोवास धर्मात्मा सहितः सर्ववानरैः +अथैनान्राघवः काले समानीयाभिपूज्य च +विसर्जयामास तदा रत्नैः संतोष्य सर्वशः +गतेषु वानरेन्द्रेषु गोपुच्छर्क्षेषु तेषु च +सुग्रीवसहितो रामः किष्किन्धां पुनरागमत् +विभीषणेनानुगतः सुग्रीवसहितस्तदा +पुष्पकेण विमानेन वैदेह्या दर्शयन्वनम् +किष्किन्धां तु समासाद्य रामः प्रहरतां वरः +अङ्गदं कृतकर्माणं यौवराज्येऽभ्यषेचयत् +ततस्तैरेव सहितो रामः सौमित्रिणा सह +यथागतेन मार्गेण प्रययौ स्वपुरं प्रति +अयोध्यां स समासाद्य पुरीं राष्ट्रपतिस्ततः +भरताय हनूमन्तं दूतं प्रस्थापयत्तदा +लक्षयित्वेङ्गितं सर्वं प्रियं तस्मै निवेद्य च +वायुपुत्रे पुनः प्राप्ते नन्दिग्राममुपागमत् +स तत्र मलदिग्धाङ्गं भरतं चीरवाससम् +अग्रतः पादुके कृत्वा ददर्शासीनमासने +समेत्य भरतेनाथ शत्रुघ्नेन च वीर्यवान् +राघवः सहसौमित्रिर्मुमुदे भरतर्षभ +तथा भरतशत्रुघ्नौ समेतौ गुरुणा तदा +वैदेह्या दर्शनेनोभौ प्रहर्षं समवापतुः +तस्मै तद्भरतो राज्यमागतायाभिसत्कृतम् +न्यासं निर्यातयामास युक्तः परमया मुदा +ततस्तं वैष्णवे शूरं नक्षत्रेऽभिमतेऽहनि +वसिष्ठो वामदेवश्च सहितावभ्यषिञ्चताम् +सोऽभिषिक्तः कपिश्रेष्ठं सुग्रीवं ससुहृज्जनम् +विभीषणं च पौलस्त्यमन्वजानाद्गृहान्प्रति +अभ्यर्च्य विविधै रत्नैः प्रीतियुक्तौ मुदा युतौ +समाध���येतिकर्तव्यं दुःखेन विससर्ज ह +पुष्पकं च विमानं तत्पूजयित्वा स राघवः +प्रादाद्वैश्रवणायैव प्रीत्या स रघुनन्दनः +ततो देवर्षिसहितः सरितं गोमतीमनु +दशाश्वमेधानाजह्रे जारूथ्यान्स निरर्गलान् +मार्कण्डेय उवाच +एवमेतन्महाबाहो रामेणामिततेजसा +प्राप्तं व्यसनमत्युग्रं वनवासकृतं पुरा +मा शुचः पुरुषव्याघ्र क्षत्रियोऽसि परंतप +बाहुवीर्याश्रये मार्गे वर्तसे दीप्तनिर्णये +न हि ते वृजिनं किंचिद्दृश्यते परमण्वपि +अस्मिन्मार्गे विषीदेयुः सेन्द्रा अपि सुरासुराः +संहत्य निहतो वृत्रो मरुद्भिर्वज्रपाणिना +नमुचिश्चैव दुर्धर्षो दीर्घजिह्वा च राक्षसी +सहायवति सर्वार्थाः संतिष्ठन्तीह सर्वशः +किं नु तस्याजितं संख्ये भ्राता यस्य धनंजयः +अयं च बलिनां श्रेष्ठो भीमो भीमपराक्रमः +युवानौ च महेष्वासौ यमौ माद्रवतीसुतौ +एभिः सहायैः कस्मात्त्वं विषीदसि परंतप +य इमे वज्रिणः सेनां जयेयुः समरुद्गणाम् +त्वमप्येभिर्महेष्वासैः सहायैर्देवरूपिभिः +विजेष्यसि रणे सर्वानमित्रान्भरतर्षभ +इतश्च त्वमिमां पश्य सैन्धवेन दुरात्मना +बलिना वीर्यमत्तेन हृतामेभिर्महात्मभिः +आनीतां द्रौपदीं कृष्णां कृत्वा कर्म सुदुष्करम् +जयद्रथं च राजानं विजितं वशमागतम् +असहायेन रामेण वैदेही पुनराहृता +हत्वा संख्ये दशग्रीवं राक्षसं भीमविक्रमम् +यस्य शाखामृगा मित्रा ऋक्षाः कालमुखास्तथा +जात्यन्तरगता राजन्नेतद्बुद्ध्यानुचिन्तय +तस्मात्त्वं कुरुशार्दूल मा शुचो भरतर्षभ +त्वद्विधा हि महात्मानो न शोचन्ति परंतप +वैशंपायन उवाच +एवमाश्वासितो राजा मार्कण्डेयेन धीमता +त्यक्त्वा दुःखमदीनात्मा पुनरेवेदमब्रवीत् +युधिष्ठिर उवाच +नात्मानमनुशोचामि नेमान्भ्रातॄन्महामुने +हरणं चापि राज्यस्य यथेमां द्रुपदात्मजाम् +द्यूते दुरात्मभिः क्लिष्टाः कृष्णया तारिता वयम् +जयद्रथेन च पुनर्वनादपहृता बलात् +अस्ति सीमन्तिनी काचिद्दृष्टपूर्वाथ वा श्रुता +पतिव्रता महाभागा यथेयं द्रुपदात्मजा +मार्कण्डेय उवाच +शृणु राजन्कुलस्त्रीणां महाभाग्यं युधिष्ठिर +सर्वमेतद्यथा प्राप्तं सावित्र्या राजकन्यया +आसीन्मद्रेषु धर्मात्मा राजा परमधार्मिकः +ब्रह्मण्यश्च शरण्यश्च सत्यसंधो जितेन्द्रियः +यज्वा दानपतिर्दक्षः पौरजानपदप्रियः +पार्थिवोऽश्वपतिर्न���म सर्वभूतहिते रतः +क्षमावाननपत्यश्च सत्यवाग्विजितेन्द्रियः +अतिक्रान्तेन वयसा संतापमुपजग्मिवान् +अपत्योत्पादनार्थं स तीव्रं नियममास्थितः +काले परिमिताहारो ब्रह्मचारी जितेन्द्रियः +हुत्वा शतसहस्रं स सावित्र्या राजसत्तम +षष्ठे षष्ठे तदा काले बभूव मितभोजनः +एतेन नियमेनासीद्वर्षाण्यष्टादशैव तु +पूर्णे त्वष्टादशे वर्षे सावित्री तुष्टिमभ्यगात् +स्वरूपिणी तदा राजन्दर्शयामास तं नृपम् +अग्निहोत्रात्समुत्थाय हर्षेण महतान्विता +उवाच चैनं वरदा वचनं पार्थिवं तदा +ब्रह्मचर्येण शुद्धेन दमेन नियमेन च +सर्वात्मना च मद्भक्त्या तुष्टास्मि तव पार्थिव +वरं वृणीष्वाश्वपते मद्रराज यथेप्सितम् +न प्रमादश्च धर्मेषु कर्तव्यस्ते कथंचन +अश्वपतिरुवाच +अपत्यार्थः समारम्भः कृतो धर्मेप्सया मया +पुत्रा मे बहवो देवि भवेयुः कुलभावनाः +तुष्टासि यदि मे देवि काममेतं वृणोम्यहम् +संतानं हि परो धर्म इत्याहुर्मां द्विजातयः +सावित्र्युवाच +पूर्वमेव मया राजन्नभिप्रायमिमं तव +ज्ञात्वा पुत्रार्थमुक्तो वै तव हेतोः पितामहः +प्रसादाच्चैव तस्मात्ते स्वयंभुविहिताद्भुवि +कन्या तेजस्विनी सौम्य क्षिप्रमेव भविष्यति +उत्तरं च न ते किंचिद्व्याहर्तव्यं कथंचन +पितामहनिसर्गेण तुष्टा ह्येतद्ब्रवीमि ते +मार्कण्डेय उवाच +स तथेति प्रतिज्ञाय सावित्र्या वचनं नृपः +प्रसादयामास पुनः क्षिप्रमेवं भवेदिति +अन्तर्हितायां सावित्र्यां जगाम स्वगृहं नृपः +स्वराज्ये चावसत्प्रीतः प्रजा धर्मेण पालयन् +कस्मिंश्चित्तु गते काले स राजा नियतव्रतः +ज्येष्ठायां धर्मचारिण्यां महिष्यां गर्भमादधे +राजपुत्र्यां तु गर्भः स मालव्यां भरतर्षभ +व्यवर्धत यथा शुक्ले तारापतिरिवाम्बरे +प्राप्ते काले तु सुषुवे कन्यां राजीवलोचनाम् +क्रियाश्च तस्या मुदितश्चक्रे स नृपतिस्तदा +सावित्र्या प्रीतया दत्ता सावित्र्या हुतया ह्यपि +सावित्रीत्येव नामास्याश्चक्रुर्विप्रास्तथा पिता +सा विग्रहवतीव श्रीर्व्यवर्धत नृपात्मजा +कालेन चापि सा कन्या यौवनस्था बभूव ह +तां सुमध्यां पृथुश्रोणीं प्रतिमां काञ्चनीमिव +प्राप्तेयं देवकन्येति दृष्ट्वा संमेनिरे जनाः +तां तु पद्मपलाशाक्षीं ज्वलन्तीमिव तेजसा +न कश्चिद्वरयामास तेजसा प्रतिवारितः +अथोपोष्य शिरःस्नाता दै��तान्यभिगम्य सा +हुत्वाग्निं विधिवद्विप्रान्वाचयामास पर्वणि +ततः सुमनसः शेषाः प्रतिगृह्य महात्मनः +पितुः सकाशमगमद्देवी श्रीरिव रूपिणी +साभिवाद्य पितुः पादौ शेषाः पूर्वं निवेद्य च +कृताञ्जलिर्वरारोहा नृपतेः पार्श्वतः स्थिता +यौवनस्थां तु तां दृष्ट्वा स्वां सुतां देवरूपिणीम् +अयाच्यमानां च वरैर्नृपतिर्दुःखितोऽभवत् +राजोवाच +पुत्रि प्रदानकालस्ते न च कश्चिद्वृणोति माम् +स्वयमन्विच्छ भर्तारं गुणैः सदृशमात्मनः +प्रार्थितः पुरुषो यश्च स निवेद्यस्त्वया मम +विमृश्याहं प्रदास्यामि वरय त्वं यथेप्सितम् +श्रुतं हि धर्मशास्त्रे मे पठ्यमानं द्विजातिभिः +तथा त्वमपि कल्याणि गदतो मे वचः शृणु +अप्रदाता पिता वाच्यो वाच्यश्चानुपयन्पतिः +मृते भर्तरि पुत्रश्च वाच्यो मातुररक्षिता +इदं मे वचनं श्रुत्वा भर्तुरन्वेषणे त्वर +देवतानां यथा वाच्यो न भवेयं तथा कुरु +मार्कण्डेय उवाच +एवमुक्त्वा दुहितरं तथा वृद्धांश्च मन्त्रिणः +व्यादिदेशानुयात्रं च गम्यतामित्यचोदयत् +साभिवाद्य पितुः पादौ व्रीडितेव मनस्विनी +पितुर्वचनमाज्ञाय निर्जगामाविचारितम् +सा हैमं रथमास्थाय स्थविरैः सचिवैर्वृता +तपोवनानि रम्याणि राजर्षीणां जगाम ह +मान्यानां तत्र वृद्धानां कृत्वा पादाभिवन्दनम् +वनानि क्रमशस्तात सर्वाण्येवाभ्यगच्छत +एवं सर्वेषु तीर्थेषु धनोत्सर्गं नृपात्मजा +कुर्वती द्विजमुख्यानां तं तं देशं जगाम ह +मार्कण्डेय उवाच +अथ मद्राधिपो राजा नारदेन समागतः +उपविष्टः सभामध्ये कथायोगेन भारत +ततोऽभिगम्य तीर्थानि सर्वाण्येवाश्रमांस्तथा +आजगाम पितुर्वेश्म सावित्री सह मन्त्रिभिः +नारदेन सहासीनं दृष्ट्वा सा पितरं शुभा +उभयोरेव शिरसा चक्रे पादाभिवन्दनम् +नारद उवाच +क्व गताभूत्सुतेयं ते कुतश्चैवागता नृप +किमर्थं युवतीं भर्त्रे न चैनां संप्रयच्छसि +अश्वपतिरुवाच +कार्येण खल्वनेनैव प्रेषिताद्यैव चागता +तदस्याः शृणु देवर्षे भर्तारं योऽनया वृतः +मार्कण्डेय उवाच +सा ब्रूहि विस्तरेणेति पित्रा संचोदिता शुभा +दैवतस्येव वचनं प्रतिगृह्येदमब्रवीत् +आसीच्छाल्वेषु धर्मात्मा क्षत्रियः पृथिवीपतिः +द्युमत्सेन इति ख्यातः पश्चादन्धो बभूव ह +विनष्टचक्षुषस्तस्य बालपुत्रस्य धीमतः +सामीप्येन हृतं राज्यं छिद्रेऽस्मिन्पूर्ववैर��णा +स बालवत्सया सार्धं भार्यया प्रस्थितो वनम् +महारण्यगतश्चापि तपस्तेपे महाव्रतः +तस्य पुत्रः पुरे जातः संवृद्धश्च तपोवने +सत्यवाननुरूपो मे भर्तेति मनसा वृतः +नारद उवाच +अहो बत महत्पापं सावित्र्या नृपते कृतम् +अजानन्त्या यदनया गुणवान्सत्यवान्वृतः +सत्यं वदत्यस्य पिता सत्यं माता प्रभाषते +ततोऽस्य ब्राह्मणाश्चक्रुर्नामैतत्सत्यवानिति +बालस्याश्वाः प्रियाश्चास्य करोत्यश्वांश्च मृन्मयान् +चित्रेऽपि च लिखत्यश्वांश्चित्राश्व इति चोच्यते +राजोवाच +अपीदानीं स तेजस्वी बुद्धिमान्वा नृपात्मजः +क्षमावानपि वा शूरः सत्यवान्पितृनन्दनः +नारद उवाच +विवस्वानिव तेजस्वी बृहस्पतिसमो मतौ +महेन्द्र इव शूरश्च वसुधेव क्षमान्वितः +अश्वपतिरुवाच +अपि राजात्मजो दाता ब्रह्मण्यो वापि सत्यवान् +रूपवानप्युदारो वाप्यथ वा प्रियदर्शनः +नारद उवाच +साङ्कृते रन्तिदेवस्य स शक्त्या दानतः समः +ब्रह्मण्यः सत्यवादी च शिबिरौशीनरो यथा +ययातिरिव चोदारः सोमवत्प्रियदर्शनः +रूपेणान्यतमोऽश्विभ्यां द्युमत्सेनसुतो बली +स दान्तः स मृदुः शूरः स सत्यः स जितेन्द्रियः +स मैत्रः सोऽनसूयश्च स ह्रीमान्धृतिमांश्च सः +नित्यशश्चार्जवं तस्मिन्स्थितिस्तस्यैव च ध्रुवा +संक्षेपतस्तपोवृद्धैः शीलवृद्धैश्च कथ्यते +अश्वपतिरुवाच +गुणैरुपेतं सर्वैस्तं भगवन्प्रब्रवीषि मे +दोषानप्यस्य मे ब्रूहि यदि सन्तीह केचन +नारद उवाच +एको दोषोऽस्य नान्योऽस्ति सोऽद्य प्रभृति सत्यवान् +संवत्सरेण क्षीणायुर्देहन्यासं करिष्यति +राजोवाच +एहि सावित्रि गच्छ त्वमन्यं वरय शोभने +तस्य दोषो महानेको गुणानाक्रम्य तिष्ठति +यथा मे भगवानाह नारदो देवसत्कृतः +संवत्सरेण सोऽल्पायुर्देहन्यासं करिष्यति +सावित्र्युवाच +सकृदंशो निपतति सकृत्कन्या प्रदीयते +सकृदाह ददानीति त्रीण्येतानि सकृत्सकृत् +दीर्घायुरथ वाल्पायुः सगुणो निर्गुणोऽपि वा +सकृद्वृतो मया भर्ता न द्वितीयं वृणोम्यहम् +मनसा निश्चयं कृत्वा ततो वाचाभिधीयते +क्रियते कर्मणा पश्चात्प्रमाणं मे मनस्ततः +नारद उवाच +स्थिरा बुद्धिर्नरश्रेष्ठ सावित्र्या दुहितुस्तव +नैषा चालयितुं शक्या धर्मादस्मात्कथंचन +नान्यस्मिन्पुरुषे सन्ति ये सत्यवति वै गुणाः +प्रदानमेव तस्मान्मे रोचते दुहितुस्तव +राजोवाच +अविचा��्यमेतदुक्तं हि तथ्यं भगवता वचः +करिष्याम्येतदेवं च गुरुर्हि भगवान्मम +नारद उवाच +अविघ्नमस्तु सावित्र्याः प्रदाने दुहितुस्तव +साधयिष्यामहे तावत्सर्वेषां भद्रमस्तु वः +मार्कण्डेय उवाच +एवमुक्त्वा खमुत्पत्य नारदस्त्रिदिवं गतः +राजापि दुहितुः सर्वं वैवाहिकमकारयत् +मार्कण्डेय उवाच +अथ कन्याप्रदाने स तमेवार्थं विचिन्तयन् +समानिन्ये च तत्सर्वं भाण्डं वैवाहिकं नृपः +ततो वृद्धान्द्विजान्सर्वानृत्विजः सपुरोहितान् +समाहूय तिथौ पुण्ये प्रययौ सह कन्यया +मेध्यारण्यं स गत्वा च द्युमत्सेनाश्रमं नृपः +पद्भ्यामेव द्विजैः सार्धं राजर्षिं तमुपागमत् +तत्रापश्यन्महाभागं शालवृक्षमुपाश्रितम् +कौश्यां बृस्यां समासीनं चक्षुर्हीनं नृपं तदा +स राजा तस्य राजर्षेः कृत्वा पूजां यथार्हतः +वाचा सुनियतो भूत्वा चकारात्मनिवेदनम् +तस्यार्घ्यमासनं चैव गां चावेद्य स धर्मवित् +किमागमनमित्येवं राजा राजानमब्रवीत् +तस्य सर्वमभिप्रायमितिकर्तव्यतां च ताम् +सत्यवन्तं समुद्दिश्य सर्वमेव न्यवेदयत् +अश्वपतिरुवाच +सावित्री नाम राजर्षे कन्येयं मम शोभना +तां स्वधर्मेण धर्मज्ञ स्नुषार्थे त्वं गृहाण मे +द्युमत्सेन उवाच +च्युताः स्म राज्याद्वनवासमाश्रिता;श्चराम धर्मं नियतास्तपस्विनः +कथं त्वनर्हा वनवासमाश्रमे; सहिष्यते क्लेशमिमं सुता तव +अश्वपतिरुवाच +सुखं च दुःखं च भवाभवात्मकं; यदा विजानाति सुताहमेव च +न मद्विधे युज्यति वाक्यमीदृशं; विनिश्चयेनाभिगतोऽस्मि ते नृप +आशां नार्हसि मे हन्तुं सौहृदात्प्रणयेन च +अभितश्चागतं प्रेम्णा प्रत्याख्यातुं न मार्हसि +अनुरूपो हि संयोगे त्वं ममाहं तवापि च +स्नुषां प्रतीच्छ मे कन्यां भार्यां सत्यवतः सुताम् +द्युमत्सेन उवाच +पूर्वमेवाभिलषितः संबन्धो मे त्वया सह +भ्रष्टराज्यस्त्वहमिति तत एतद्विचारितम् +अभिप्रायस्त्वयं यो मे पूर्वमेवाभिकाङ्क्षितः +स निर्वर्ततु मेऽद्यैव काङ्क्षितो ह्यसि मेऽतिथिः +मार्कण्डेय उवाच +ततः सर्वान्समानीय द्विजानाश्रमवासिनः +यथाविधि समुद्वाहं कारयामासतुर्नृपौ +दत्त्वा त्वश्वपतिः कन्यां यथार्हं च परिच्छदम् +ययौ स्वमेव भवनं युक्तः परमया मुदा +सत्यवानपि भार्यां तां लब्ध्वा सर्वगुणान्विताम् +मुमुदे सा च तं लब्ध्वा भर्तारं मनसेप्सितम् +गते पितरि सर्वाणि संन्यस्याभरणानि सा +जगृहे वल्कलान्येव वस्त्रं काषायमेव च +परिचारैर्गुणैश्चैव प्रश्रयेण दमेन च +सर्वकामक्रियाभिश्च सर्वेषां तुष्टिमावहत् +श्वश्रूं शरीरसत्कारैः सर्वैराच्छादनादिभिः +श्वशुरं देवकार्यैश्च वाचः संयमनेन च +तथैव प्रियवादेन नैपुणेन शमेन च +रहश्चैवोपचारेण भर्तारं पर्यतोषयत् +एवं तत्राश्रमे तेषां तदा निवसतां सताम् +कालस्तपस्यतां कश्चिदतिचक्राम भारत +सावित्र्यास्तु शयानायास्तिष्ठन्त्याश्च दिवानिशम् +नारदेन यदुक्तं तद्वाक्यं मनसि वर्तते +मार्कण्डेय उवाच +ततः काले बहुतिथे व्यतिक्रान्ते कदाचन +प्राप्तः स कालो मर्तव्यं यत्र सत्यवता नृप +गणयन्त्याश्च सावित्र्या दिवसे दिवसे गते +तद्वाक्यं नारदेनोक्तं वर्तते हृदि नित्यशः +चतुर्थेऽहनि मर्तव्यमिति संचिन्त्य भामिनी +व्रतं त्रिरात्रमुद्दिश्य दिवारात्रं स्थिताभवत् +तं श्रुत्वा नियमं दुःखं वध्वा दुःखान्वितो नृपः +उत्थाय वाक्यं सावित्रीमब्रवीत्परिसान्त्वयन् +अतितीव्रोऽयमारम्भस्त्वयारब्धो नृपात्मजे +तिसृणां वसतीनां हि स्थानं परमदुष्करम् +सावित्र्युवाच +न कार्यस्तात संतापः पारयिष्याम्यहं व्रतम् +व्यवसायकृतं हीदं व्यवसायश्च कारणम् +द्युमत्सेन उवाच +व्रतं भिन्धीति वक्तुं त्वां नास्मि शक्तः कथंचन +पारयस्वेति वचनं युक्तमस्मद्विधो वदेत् +मार्कण्डेय उवाच +एवमुक्त्वा द्युमत्सेनो विरराम महामनाः +तिष्ठन्ती चापि सावित्री काष्ठभूतेव लक्ष्यते +श्वोभूते भर्तृमरणे सावित्र्या भरतर्षभ +दुःखान्वितायास्तिष्ठन्त्याः सा रात्रिर्व्यत्यवर्तत +अद्य तद्दिवसं चेति हुत्वा दीप्तं हुताशनम् +युगमात्रोदिते सूर्ये कृत्वा पौर्वाह्णिकीः क्रियाः +ततः सर्वान्द्विजान्वृद्धाञ्श्वश्रूं श्वशुरमेव च +अभिवाद्यानुपूर्व्येण प्राञ्जलिर्नियता स्थिता +अवैधव्याशिषस्ते तु सावित्र्यर्थं हिताः शुभाः +ऊचुस्तपस्विनः सर्वे तपोवननिवासिनः +एवमस्त्विति सावित्री ध्यानयोगपरायणा +मनसा ता गिरः सर्वाः प्रत्यगृह्णात्तपस्विनाम् +तं कालं च मुहूर्तं च प्रतीक्षन्ती नृपात्मजा +यथोक्तं नारदवचश्चिन्तयन्ती सुदुःखिता +ततस्तु श्वश्रूश्वशुरावूचतुस्तां नृपात्मजाम् +एकान्तस्थामिदं वाक्यं प्रीत्या भरतसत्तम +श्वशुरावूचतुः +व्रतो यथोपदिष्टोऽयं यथावत���पारितस्त्वया +आहारकालः संप्राप्तः क्रियतां यदनन्तरम् +सावित्र्युवाच +अस्तं गते मयादित्ये भोक्तव्यं कृतकामया +एष मे हृदि संकल्पः समयश्च कृतो मया +मार्कण्डेय उवाच +एवं संभाषमाणायाः सावित्र्या भोजनं प्रति +स्कन्धे परशुमादाय सत्यवान्प्रस्थितो वनम् +सावित्री त्वाह भर्तारं नैकस्त्वं गन्तुमर्हसि +सह त्वयागमिष्यामि न हि त्वां हातुमुत्सहे +सत्यवानुवाच +वनं न गतपूर्वं ते दुःखः पन्थाश्च भामिनि +व्रतोपवासक्षामा च कथं पद्भ्यां गमिष्यसि +सावित्र्युवाच +उपवासान्न मे ग्लानिर्नास्ति चापि परिश्रमः +गमने च कृतोत्साहां प्रतिषेद्धुं न मार्हसि +सत्यवानुवाच +यदि ते गमनोत्साहः करिष्यामि तव प्रियम् +मम त्वामन्त्रय गुरून्न मां दोषः स्पृशेदयम् +मार्कण्डेय उवाच +साभिगम्याब्रवीच्छ्वश्रूं श्वशुरं च महाव्रता +अयं गच्छति मे भर्ता फलाहारो महावनम् +इच्छेयमभ्यनुज्ञातुमार्यया श्वशुरेण च +अनेन सह निर्गन्तुं न हि मे विरहः क्षमः +गुर्वग्निहोत्रार्थकृते प्रस्थितश्च सुतस्तव +न निवार्यो निवार्यः स्यादन्यथा प्रस्थितो वनम् +संवत्सरः किंचिदूनो न निष्क्रान्ताहमाश्रमात् +वनं कुसुमितं द्रष्टुं परं कौतूहलं हि मे +द्युमत्सेन उवाच +यतः प्रभृति सावित्री पित्रा दत्ता स्नुषा मम +नानयाभ्यर्थनायुक्तमुक्तपूर्वं स्मराम्यहम् +तदेषा लभतां कामं यथाभिलषितं वधूः +अप्रमादश्च कर्तव्यः पुत्रि सत्यवतः पथि +मार्कण्डेय उवाच +उभाभ्यामभ्यनुज्ञाता सा जगाम यशस्विनी +सह भर्त्रा हसन्तीव हृदयेन विदूयता +सा वनानि विचित्राणि रमणीयानि सर्वशः +मयूररवघुष्टानि ददर्श विपुलेक्षणा +नदीः पुण्यवहाश्चैव पुष्पितांश्च नगोत्तमान् +सत्यवानाह पश्येति सावित्रीं मधुराक्षरम् +निरीक्षमाणा भर्तारं सर्वावस्थमनिन्दिता +मृतमेव हि तं मेने काले मुनिवचः स्मरन् +अनुवर्तती तु भर्तारं जगाम मृदुगामिनी +द्विधेव हृदयं कृत्वा तं च कालमवेक्षती +मार्कण्डेय उवाच +अथ भार्यासहायः स फलान्यादाय वीर्यवान् +कठिनं पूरयामास ततः काष्ठान्यपाटयत् +तस्य पाटयतः काष्ठं स्वेदो वै समजायत +व्यायामेन च तेनास्य जज्ञे शिरसि वेदना +सोऽभिगम्य प्रियां भार्यामुवाच श्रमपीडितः +व्यायामेन ममानेन जाता शिरसि वेदना +अङ्गानि चैव सावित्रि हृदयं दूयतीव च +अस्वस्थमिव चात्मानं लक्षये मितभाषि���ि +शूलैरिव शिरो विद्धमिदं संलक्षयाम्यहम् +तत्स्वप्तुमिच्छे कल्याणि न स्थातुं शक्तिरस्ति मे +समासाद्याथ सावित्री भर्तारमुपगूह्य च +उत्सङ्गेऽस्य शिरः कृत्वा निषसाद महीतले +ततः सा नारदवचो विमृशन्ती तपस्विनी +तं मुहूर्तं क्षणं वेलां दिवसं च युयोज ह +मुहूर्तादिव चापश्यत्पुरुषं पीतवाससम् +बद्धमौलिं वपुष्मन्तमादित्यसमतेजसम् +श्यामावदातं रक्ताक्षं पाशहस्तं भयावहम् +स्थितं सत्यवतः पार्श्वे निरीक्षन्तं तमेव च +तं दृष्ट्वा सहसोत्थाय भर्तुर्न्यस्य शनैः शिरः +कृताञ्जलिरुवाचार्ता हृदयेन प्रवेपता +दैवतं त्वाभिजानामि वपुरेतद्ध्यमानुषम् +कामया ब्रूहि मे देव कस्त्वं किं च चिकीर्षसि +यम उवाच +पतिव्रतासि सावित्रि तथैव च तपोन्विता +अतस्त्वामभिभाषामि विद्धि मां त्वं शुभे यमम् +अयं ते सत्यवान्भर्ता क्षीणायुः पार्थिवात्मजः +नेष्याम्येनमहं बद्ध्वा विद्ध्येतन्मे चिकीर्षितम् +मार्कण्डेय उवाच +इत्युक्त्वा पितृराजस्तां भगवान्स्वं चिकीर्षितम् +यथावत्सर्वमाख्यातुं तत्प्रियार्थं प्रचक्रमे +अयं हि धर्मसंयुक्तो रूपवान्गुणसागरः +नार्हो मत्पुरुषैर्नेतुमतोऽस्मि स्वयमागतः +ततः सत्यवतः कायात्पाशबद्धं वशं गतम् +अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात् +ततः समुद्धृतप्राणं गतश्वासं हतप्रभम् +निर्विचेष्टं शरीरं तद्बभूवाप्रियदर्शनम् +यमस्तु तं तथा बद्ध्वा प्रयातो दक्षिणामुखः +सावित्री चापि दुःखार्ता यममेवान्वगच्छत +नियमव्रतसंसिद्धा महाभागा पतिव्रता +यम उवाच +निवर्त गच्छ सावित्रि कुरुष्वास्यौर्ध्वदेहिकम् +कृतं भर्तुस्त्वयानृण्यं यावद्गम्यं गतं त्वया +सावित्र्युवाच +यत्र मे नीयते भर्ता स्वयं वा यत्र गच्छति +मयापि तत्र गन्तव्यमेष धर्मः सनातनः +तपसा गुरुवृत्त्या च भर्तुः स्नेहाद्व्रतेन च +तव चैव प्रसादेन न मे प्रतिहता गतिः +प्राहुः सप्तपदं मित्रं बुधास्तत्त्वार्थदर्शिनः +मित्रतां च पुरस्कृत्य किंचिद्वक्ष्यामि तच्छृणु +नानात्मवन्तस्तु वने चरन्ति; धर्मं च वासं च परिश्रमं च +विज्ञानतो धर्ममुदाहरन्ति; तस्मात्सन्तो धर्ममाहुः प्रधानम् +एकस्य धर्मेण सतां मतेन; सर्वे स्म तं मार्गमनुप्रपन्नाः +मा वै द्वितीयं मा तृतीयं च वाञ्छे; तस्मात्सन्तो धर्ममाहुः प्रधानम् +यम उवाच +निवर्त तुष्टोऽस्मि तवानय��� गिरा; स्वराक्षरव्यञ्जनहेतुयुक्तया +वरं वृणीष्वेह विनास्य जीवितं; ददानि ते सर्वमनिन्दिते वरम् +सावित्र्युवाच +च्युतः स्वराज्याद्वनवासमाश्रितो; विनष्टचक्षुः श्वशुरो ममाश्रमे +स लब्धचक्षुर्बलवान्भवेन्नृप;स्तव प्रसादाज्ज्वलनार्कसंनिभः +यम उवाच +ददानि ते सर्वमनिन्दिते वरं; यथा त्वयोक्तं भविता च तत्तथा +तवाध्वना ग्लानिमिवोपलक्षये; निवर्त गच्छस्व न ते श्रमो भवेत् +सावित्र्युवाच +कुतः श्रमो भर्तृसमीपतो हि मे; यतो हि भर्ता मम सा गतिर्ध्रुवा +यतः पतिं नेष्यसि तत्र मे गतिः; सुरेश भूयश्च वचो निबोध मे +सतां सकृत्संगतमीप्सितं परं; ततः परं मित्रमिति प्रचक्षते +न चाफलं सत्पुरुषेण संगतं; ततः सतां संनिवसेत्समागमे +यम उवाच +मनोनुकूलं बुधबुद्धिवर्धनं; त्वयाहमुक्तो वचनं हिताश्रयम् +विना पुनः सत्यवतोऽस्य जीवितं; वरं द्वितीयं वरयस्व भामिनि +सावित्र्युवाच +हृतं पुरा मे श्वशुरस्य धीमतः; स्वमेव राज्यं स लभेत पार्थिवः +जह्यात्स्वधर्मं न च मे गुरुर्यथा; द्वितीयमेतं वरयामि ते वरम् +यम उवाच +स्वमेव राज्यं प्रतिपत्स्यतेऽचिरा;न्न च स्वधर्मात्परिहास्यते नृपः +कृतेन कामेन मया नृपात्मजे; निवर्त गच्छस्व न ते श्रमो भवेत् +सावित्र्युवाच +प्रजास्त्वयेमा नियमेन संयता; नियम्य चैता नयसे न कामया +अतो यमत्वं तव देव विश्रुतं; निबोध चेमां गिरमीरितां मया +अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा +अनुग्रहश्च दानं च सतां धर्मः सनातनः +एवंप्रायश्च लोकोऽयं मनुष्याः शक्तिपेशलाः +सन्तस्त्वेवाप्यमित्रेषु दयां प्राप्तेषु कुर्वते +यम उवाच +पिपासितस्येव यथा भवेत्पय;स्तथा त्वया वाक्यमिदं समीरितम् +विना पुनः सत्यवतोऽस्य जीवितं; वरं वृणीष्वेह शुभे यदिच्छसि +सावित्र्युवाच +ममानपत्यः पृथिवीपतिः पिता; भवेत्पितुः पुत्रशतं ममौरसम् +कुलस्य संतानकरं च यद्भवे;त्तृतीयमेतं वरयामि ते वरम् +यम उवाच +कुलस्य संतानकरं सुवर्चसं; शतं सुतानां पितुरस्तु ते शुभे +कृतेन कामेन नराधिपात्मजे; निवर्त दूरं हि पथस्त्वमागता +सावित्र्युवाच +न दूरमेतन्मम भर्तृसंनिधौ; मनो हि मे दूरतरं प्रधावति +तथा व्रजन्नेव गिरं समुद्यतां; मयोच्यमानां शृणु भूय एव च +विवस्वतस्त्वं तनयः प्रतापवां;स्ततो हि वैवस्वत उच्यसे बुधैः +शमेन धर्मेण च रञ्जिताः प्रजा;स्ततस्तवेहेश्वर धर्मराज��ा +आत्मन्यपि न विश्वासस्तावान्भवति सत्सु यः +तस्मात्सत्सु विशेषेण सर्वः प्रणयमिच्छति +सौहृदात्सर्वभूतानां विश्वासो नाम जायते +तस्मात्सत्सु विशेषेण विश्वासं कुरुते जनः +यम उवाच +उदाहृतं ते वचनं यदङ्गने; शुभे न तादृक्त्वदृते मया श्रुतम् +अनेन तुष्टोऽस्मि विनास्य जीवितं; वरं चतुर्थं वरयस्व गच्छ च +सावित्र्युवाच +ममात्मजं सत्यवतस्तथौरसं; भवेदुभाभ्यामिह यत्कुलोद्वहम् +शतं सुतानां बलवीर्यशालिना;मिदं चतुर्थं वरयामि ते वरम् +यम उवाच +शतं सुतानां बलवीर्यशालिनां; भविष्यति प्रीतिकरं तवाबले +परिश्रमस्ते न भवेन्नृपात्मजे; निवर्त दूरं हि पथस्त्वमागता +सावित्र्युवाच +सतां सदा शाश्वती धर्मवृत्तिः; सन्तो न सीदन्ति न च व्यथन्ति +सतां सद्भिर्नाफलः संगमोऽस्ति; सद्भ्यो भयं नानुवर्तन्ति सन्तः +सन्तो हि सत्येन नयन्ति सूर्यं; सन्तो भूमिं तपसा धारयन्ति +सन्तो गतिर्भूतभव्यस्य राज;न्सतां मध्ये नावसीदन्ति सन्तः +आर्यजुष्टमिदं वृत्तमिति विज्ञाय शाश्वतम् +सन्तः परार्थं कुर्वाणा नावेक्षन्ते प्रतिक्रियाम् +न च प्रसादः सत्पुरुषेषु मोघो; न चाप्यर्थो नश्यति नापि मानः +यस्मादेतन्नियतं सत्सु नित्यं; तस्मात्सन्तो रक्षितारो भवन्ति +यम उवाच +यथा यथा भाषसि धर्मसंहितं; मनोनुकूलं सुपदं महार्थवत् +तथा तथा मे त्वयि भक्तिरुत्तमा; वरं वृणीष्वाप्रतिमं यतव्रते +सावित्र्युवाच +न तेऽपवर्गः सुकृताद्विनाकृत;स्तथा यथान्येषु वरेषु मानद +वरं वृणे जीवतु सत्यवानयं; यथा मृता ह्येवमहं विना पतिम् +न कामये भर्तृविनाकृता सुखं; न कामये भर्तृविनाकृता दिवम् +न कामये भर्तृविनाकृता श्रियं; न भर्तृहीना व्यवसामि जीवितुम् +वरातिसर्गः शतपुत्रता मम; त्वयैव दत्तो ह्रियते च मे पतिः +वरं वृणे जीवतु सत्यवानयं; तवैव सत्यं वचनं भविष्यति +मार्कण्डेय उवाच +तथेत्युक्त्वा तु तान्पाशान्मुक्त्वा वैवस्वतो यमः +धर्मराजः प्रहृष्टात्मा सावित्रीमिदमब्रवीत् +एष भद्रे मया मुक्तो भर्ता ते कुलनन्दिनि +अरोगस्तव नेयश्च सिद्धार्थश्च भविष्यति +चतुर्वर्षशतं चायुस्त्वया सार्धमवाप्स्यति +इष्ट्वा यज्ञैश्च धर्मेण ख्यातिं लोके गमिष्यति +त्वयि पुत्रशतं चैव सत्यवाञ्जनयिष्यति +ते चापि सर्वे राजानः क्षत्रियाः पुत्रपौत्रिणः +ख्यातास्त्वन्नामधेयाश्च भविष्यन्तीह शा���्वताः +पितुश्च ते पुत्रशतं भविता तव मातरि +मालव्यां मालवा नाम शाश्वताः पुत्रपौत्रिणः +भ्रातरस्ते भविष्यन्ति क्षत्रियास्त्रिदशोपमाः +एवं तस्यै वरं दत्त्वा धर्मराजः प्रतापवान् +निवर्तयित्वा सावित्रीं स्वमेव भवनं ययौ +सावित्र्यपि यमे याते भर्तारं प्रतिलभ्य च +जगाम तत्र यत्रास्या भर्तुः शावं कलेवरम् +सा भूमौ प्रेक्ष्य भर्तारमुपसृत्योपगूह्य च +उत्सङ्गे शिर आरोप्य भूमावुपविवेश ह +संज्ञां च सत्यवाँल्लब्ध्वा सावित्रीमभ्यभाषत +प्रोष्यागत इव प्रेम्णा पुनः पुनरुदीक्ष्य वै +सत्यवानुवाच +सुचिरं बत सुप्तोऽस्मि किमर्थं नावबोधितः +क्व चासौ पुरुषः श्यामो योऽसौ मां संचकर्ष ह +सावित्र्युवाच +सुचिरं बत सुप्तोऽसि ममाङ्के पुरुषर्षभ +गतः स भगवान्देवः प्रजासंयमनो यमः +विश्रान्तोऽसि महाभाग विनिद्रश्च नृपात्मज +यदि शक्यं समुत्तिष्ठ विगाढां पश्य शर्वरीम् +मार्कण्डेय उवाच +उपलभ्य ततः संज्ञां सुखसुप्त इवोत्थितः +दिशः सर्वा वनान्तांश्च निरीक्ष्योवाच सत्यवान् +फलाहारोऽस्मि निष्क्रान्तस्त्वया सह सुमध्यमे +ततः पाटयतः काष्ठं शिरसो मे रुजाभवत् +शिरोभितापसंतप्तः स्थातुं चिरमशक्नुवन् +तवोत्सङ्गे प्रसुप्तोऽहमिति सर्वं स्मरे शुभे +त्वयोपगूढस्य च मे निद्रयापहृतं मनः +ततोऽपश्यं तमो घोरं पुरुषं च महौजसम् +तद्यदि त्वं विजानासि किं तद्ब्रूहि सुमध्यमे +स्वप्नो मे यदि वा दृष्टो यदि वा सत्यमेव तत् +तमुवाचाथ सावित्री रजनी व्यवगाहते +श्वस्ते सर्वं यथावृत्तमाख्यास्यामि नृपात्मज +उत्तिष्ठोत्तिष्ठ भद्रं ते पितरौ पश्य सुव्रत +विगाढा रजनी चेयं निवृत्तश्च दिवाकरः +नक्तंचराश्चरन्त्येते हृष्टाः क्रूराभिभाषिणः +श्रूयन्ते पर्णशब्दाश्च मृगाणां चरतां वने +एताः शिवा घोरनादा दिशं दक्षिणपश्चिमाम् +आस्थाय विरुवन्त्युग्राः कम्पयन्त्यो मनो मम +सत्यवानुवाच +वनं प्रतिभयाकारं घनेन तमसा वृतम् +न विज्ञास्यसि पन्थानं गन्तुं चैव न शक्ष्यसि +सावित्र्युवाच +अस्मिन्नद्य वने दग्धे शुष्कवृक्षः स्थितो ज्वलन् +वायुना धम्यमानोऽग्निर्दृश्यतेऽत्र क्वचित्क्वचित् +ततोऽग्निमानयित्वेह ज्वालयिष्यामि सर्वतः +काष्ठानीमानि सन्तीह जहि संतापमात्मनः +यदि नोत्सहसे गन्तुं सरुजं त्वाभिलक्षये +न च ज्ञास्यसि पन्थानं तमसा संवृते वने +श्वः प्रभाते वने दृश्ये यास्यावोऽनुमते तव +वसावेह क्षपामेतां रुचितं यदि तेऽनघ +सत्यवानुवाच +शिरोरुजा निवृत्ता मे स्वस्थान्यङ्गानि लक्षये +मातापितृभ्यामिच्छामि संगमं त्वत्प्रसादजम् +न कदाचिद्विकाले हि गतपूर्वो मयाश्रमः +अनागतायां संध्यायां माता मे प्ररुणद्धि माम् +दिवापि मयि निष्क्रान्ते संतप्येते गुरू मम +विचिनोति च मां तातः सहैवाश्रमवासिभिः +मात्रा पित्रा च सुभृशं दुःखिताभ्यामहं पुरा +उपालब्धः सुबहुशश्चिरेणागच्छसीति ह +का त्ववस्था तयोरद्य मदर्थमिति चिन्तये +तयोरदृश्ये मयि च महद्दुःखं भविष्यति +पुरा मामूचतुश्चैव रात्रावस्रायमाणकौ +भृशं सुदुःखितौ वृद्धौ बहुशः प्रीतिसंयुतौ +त्वया हीनौ न जीवाव मुहूर्तमपि पुत्रक +यावद्धरिष्यसे पुत्र तावन्नौ जीवितं ध्रुवम् +वृद्धयोरन्धयोर्यष्टिस्त्वयि वंशः प्रतिष्ठितः +त्वयि पिण्डश्च कीर्तिश्च संतानं चावयोरिति +माता वृद्धा पिता वृद्धस्तयोर्यष्टिरहं किल +तौ रात्रौ मामपश्यन्तौ कामवस्थां गमिष्यतः +निद्रायाश्चाभ्यसूयामि यस्या हेतोः पिता मम +माता च संशयं प्राप्ता मत्कृतेऽनपकारिणी +अहं च संशयं प्राप्तः कृच्छ्रामापदमास्थितः +मातापितृभ्यां हि विना नाहं जीवितुमुत्सहे +व्यक्तमाकुलया बुद्ध्या प्रज्ञाचक्षुः पिता मम +एकैकमस्यां वेलायां पृच्छत्याश्रमवासिनम् +नात्मानमनुशोचामि यथाहं पितरं शुभे +भर्तारं चाप्यनुगतां मातरं परिदुर्बलाम् +मत्कृतेन हि तावद्य संतापं परमेष्यतः +जीवन्तावनुजीवामि भर्तव्यौ तौ मयेति ह +तयोः प्रियं मे कर्तव्यमिति जीवामि चाप्यहम् +मार्कण्डेय उवाच +एवमुक्त्वा स धर्मात्मा गुरुवर्ती गुरुप्रियः +उच्छ्रित्य बाहू दुःखार्तः सस्वरं प्ररुरोद ह +ततोऽब्रवीत्तथा दृष्ट्वा भर्तारं शोककर्शितम् +प्रमृज्याश्रूणि नेत्राभ्यां सावित्री धर्मचारिणी +यदि मेऽस्ति तपस्तप्तं यदि दत्तं हुतं यदि +श्वश्रूश्वशुरभर्तॄणां मम पुण्यास्तु शर्वरी +न स्मराम्युक्तपूर्वां वै स्वैरेष्वप्यनृतां गिरम् +तेन सत्येन तावद्य ध्रियेतां श्वशुरौ मम +सत्यवानुवाच +कामये दर्शनं पित्रोर्याहि सावित्रि माचिरम् +पुरा मातुः पितुर्वापि यदि पश्यामि विप्रियम् +न जीविष्ये वरारोहे सत्येनात्मानमालभे +यदि धर्मे च ते बुद्धिर्मां चेज्जीवन्तमिच्छसि +मम प्रियं वा कर्तव्यं गच्छस्���ाश्रममन्तिकात् +मार्कण्डेय उवाच +सावित्री तत उत्थाय केशान्संयम्य भामिनी +पतिमुत्थापयामास बाहुभ्यां परिगृह्य वै +उत्थाय सत्यवांश्चापि प्रमृज्याङ्गानि पाणिना +दिशः सर्वाः समालोक्य कठिने दृष्टिमादधे +तमुवाचाथ सावित्री श्वः फलानीह नेष्यसि +योगक्षेमार्थमेतत्ते नेष्यामि परशुं त्वहम् +कृत्वा कठिनभारं सा वृक्षशाखावलम्बिनम् +गृहीत्वा परशुं भर्तुः सकाशं पुनरागमत् +वामे स्कन्धे तु वामोरूर्भर्तुर्बाहुं निवेश्य सा +दक्षिणेन परिष्वज्य जगाम मृदुगामिनी +सत्यवानुवाच +अभ्यासगमनाद्भीरु पन्थानो विदिता मम +वृक्षान्तरालोकितया ज्योत्स्नया चापि लक्षये +आगतौ स्वः पथा येन फलान्यवचितानि च +यथागतं शुभे गच्छ पन्थानं मा विचारय +पलाशषण्डे चैतस्मिन्पन्था व्यावर्तते द्विधा +तस्योत्तरेण यः पन्थास्तेन गच्छ त्वरस्व च +स्वस्थोऽस्मि बलवानस्मि दिदृक्षुः पितरावुभौ +मार्कण्डेय उवाच +ब्रुवन्नेवं त्वरायुक्तः स प्रायादाश्रमं प्रति +मार्कण्डेय उवाच +एतस्मिन्नेव काले तु द्युमत्सेनो महावने +लब्धचक्षुः प्रसन्नात्मा दृष्ट्या सर्वं ददर्श ह +स सर्वानाश्रमान्गत्वा शैब्यया सह भार्यया +पुत्रहेतोः परामार्तिं जगाम मनुजर्षभ +तावाश्रमान्नदीश्चैव वनानि च सरांसि च +तांस्तान्देशान्विचिन्वन्तौ दम्पती परिजग्मतुः +श्रुत्वा शब्दं तु यत्किंचिदुन्मुखौ सुतशङ्कया +सावित्रीसहितोऽभ्येति सत्यवानित्यधावताम् +भिन्नैश्च परुषैः पादैः सव्रणैः शोणितोक्षितैः +कुशकण्टकविद्धाङ्गावुन्मत्ताविव धावतः +ततोऽभिसृत्य तैर्विप्रैः सर्वैराश्रमवासिभिः +परिवार्य समाश्वास्य समानीतौ स्वमाश्रमम् +तत्र भार्यासहायः स वृतो वृद्धैस्तपोधनैः +आश्वासितो विचित्रार्थैः पूर्वराज्ञां कथाश्रयैः +ततस्तौ पुनराश्वस्तौ वृद्धौ पुत्रदिदृक्षया +बाल्ये वृत्तानि पुत्रस्य स्मरन्तौ भृशदुःखितौ +पुनरुक्त्वा च करुणां वाचं तौ शोककर्शितौ +हा पुत्र हा साध्वि वधूः क्वासि क्वासीत्यरोदताम् +सुवर्चा उवाच +यथास्य भार्या सावित्री तपसा च दमेन च +आचारेण च संयुक्ता तथा जीवति सत्यवान् +गौतम उवाच +वेदाः साङ्गा मयाधीतास्तपो मे संचितं महत् +कौमारं ब्रह्मचर्यं मे गुरवोऽग्निश्च तोषिताः +समाहितेन चीर्णानि सर्वाण्येव व्रतानि मे +वायुभक्षोपवासश्च कुशलानि च यानि मे +अनेन त��सा वेद्मि सर्वं परिचिकीर्षितम् +सत्यमेतन्निबोध त्वं ध्रियते सत्यवानिति +शिष्य उवाच +उपाध्यायस्य मे वक्त्राद्यथा वाक्यं विनिःसृतम् +नैतज्जातु भवेन्मिथ्या तथा जीवति सत्यवान् +ऋषय ऊचुः +यथास्य भार्या सावित्री सर्वैरेव सुलक्षणैः +अवैधव्यकरैर्युक्ता तथा जीवति सत्यवान् +भारद्वाज उवाच +यथास्य भार्या सावित्री तपसा च दमेन च +आचारेण च संयुक्ता तथा जीवति सत्यवान् +दाल्भ्य उवाच +यथा दृष्टिः प्रवृत्ता ते सावित्र्याश्च यथा व्रतम् +गताहारमकृत्वा च तथा जीवति सत्यवान् +माण्डव्य उवाच +यथा वदन्ति शान्तायां दिशि वै मृगपक्षिणः +पार्थिवी च प्रवृत्तिस्ते तथा जीवति सत्यवान् +धौम्य उवाच +सर्वैर्गुणैरुपेतस्ते यथा पुत्रो जनप्रियः +दीर्घायुर्लक्षणोपेतस्तथा जीवति सत्यवान् +मार्कण्डेय उवाच +एवमाश्वासितस्तैस्तु सत्यवाग्भिस्तपस्विभिः +तांस्तान्विगणयन्नर्थानवस्थित इवाभवत् +ततो मुहूर्तात्सावित्री भर्त्रा सत्यवता सह +आजगामाश्रमं रात्रौ प्रहृष्टा प्रविवेश ह +ब्राह्मणा ऊचुः +पुत्रेण संगतं त्वाद्य चक्षुष्मन्तं निरीक्ष्य च +सर्वे वयं वै पृच्छामो वृद्धिं ते पृथिवीपते +समागमेन पुत्रस्य सावित्र्या दर्शनेन च +चक्षुषश्चात्मनो लाभात्त्रिभिर्दिष्ट्या विवर्धसे +सर्वैरस्माभिरुक्तं यत्तथा तन्नात्र संशयः +भूयो भूयश्च वृद्धिस्ते क्षिप्रमेव भविष्यति +मार्कण्डेय उवाच +ततोऽग्निं तत्र संज्वाल्य द्विजास्ते सर्व एव हि +उपासां चक्रिरे पार्थ द्युमत्सेनं महीपतिम् +शैब्या च सत्यवांश्चैव सावित्री चैकतः स्थिताः +सर्वैस्तैरभ्यनुज्ञाता विशोकाः समुपाविशन् +ततो राज्ञा सहासीनाः सर्वे ते वनवासिनः +जातकौतूहलाः पार्थ पप्रच्छुर्नृपतेः सुतम् +प्रागेव नागतं कस्मात्सभार्येण त्वया विभो +विरात्रे चागतं कस्मात्कोऽनुबन्धश्च तेऽभवत् +संतापितः पिता माता वयं चैव नृपात्मज +नाकस्मादिति जानीमस्तत्सर्वं वक्तुमर्हसि +सत्यवानुवाच +पित्राहमभ्यनुज्ञातः सावित्रीसहितो गतः +अथ मेऽभूच्छिरोदुःखं वने काष्ठानि भिन्दतः +सुप्तश्चाहं वेदनया चिरमित्युपलक्षये +तावत्कालं च न मया सुप्तपूर्वं कदाचन +सर्वेषामेव भवतां संतापो मा भवेदिति +अतो विरात्रागमनं नान्यदस्तीह कारणम् +गौतम उवाच +अकस्माच्चक्षुषः प्राप्तिर्द्युमत्सेनस्य ते पितुः +नास्य त��वं कारणं वेत्थ सावित्री वक्तुमर्हति +श्रोतुमिच्छामि सावित्रि त्वं हि वेत्थ परावरम् +त्वां हि जानामि सावित्रि सावित्रीमिव तेजसा +त्वमत्र हेतुं जानीषे तस्मात्सत्यं निरुच्यताम् +रहस्यं यदि ते नास्ति किंचिदत्र वदस्व नः +सावित्र्युवाच +एवमेतद्यथा वेत्थ संकल्पो नान्यथा हि वः +न च किंचिद्रहस्यं मे श्रूयतां तथ्यमत्र यत् +मृत्युर्मे भर्तुराख्यातो नारदेन महात्मना +स चाद्य दिवसः प्राप्तस्ततो नैनं जहाम्यहम् +सुप्तं चैनं यमः साक्षादुपागच्छत्सकिंकरः +स एनमनयद्बद्ध्वा दिशं पितृनिषेविताम् +अस्तौषं तमहं देवं सत्येन वचसा विभुम् +पञ्च वै तेन मे दत्ता वराः शृणुत तान्मम +चक्षुषी च स्वराज्यं च द्वौ वरौ श्वशुरस्य मे +लब्धं पितुः पुत्रशतं पुत्राणामात्मनः शतम् +चतुर्वर्षशतायुर्मे भर्ता लब्धश्च सत्यवान् +भर्तुर्हि जीवितार्थं तु मया चीर्णं स्थिरं व्रतम् +एतत्सत्यं मयाख्यातं कारणं विस्तरेण वः +यथा वृत्तं सुखोदर्कमिदं दुःखं महन्मम +ऋषय ऊचुः +निमज्जमानं व्यसनैरभिद्रुतं; कुलं नरेन्द्रस्य तमोमये ह्रदे +त्वया सुशीले धृतधर्मपुण्यया; समुद्धृतं साध्वि पुनः कुलीनया +मार्कण्डेय उवाच +तथा प्रशस्य ह्यभिपूज्य चैव ते; वरस्त्रियं तामृषयः समागताः +नरेन्द्रमामन्त्र्य सपुत्रमञ्जसा; शिवेन जग्मुर्मुदिताः स्वमालयम् +मार्कण्डेय उवाच +तस्यां रात्र्यां व्यतीतायामुदिते सूर्यमण्डले +कृतपूर्वाह्णिकाः सर्वे समेयुस्ते तपोधनाः +तदेव सर्वं सावित्र्या महाभाग्यं महर्षयः +द्युमत्सेनाय नातृप्यन्कथयन्तः पुनः पुनः +ततः प्रकृतयः सर्वाः शाल्वेभ्योऽभ्यागता नृप +आचख्युर्निहतं चैव स्वेनामात्येन तं नृपम् +तं मन्त्रिणा हतं श्रुत्वा ससहायं सबान्धवम् +न्यवेदयन्यथातत्त्वं विद्रुतं च द्विषद्बलम् +ऐकमत्यं च सर्वस्य जनस्याथ नृपं प्रति +सचक्षुर्वाप्यचक्षुर्वा स नो राजा भवत्विति +अनेन निश्चयेनेह वयं प्रस्थापिता नृप +प्राप्तानीमानि यानानि चतुरङ्गं च ते बलम् +प्रयाहि राजन्भद्रं ते घुष्टस्ते नगरे जयः +अध्यास्स्व चिररात्राय पितृपैतामहं पदम् +चक्षुष्मन्तं च तं दृष्ट्वा राजानं वपुषान्वितम् +मूर्धभिः पतिताः सर्वे विस्मयोत्फुल्ललोचनाः +ततोऽभिवाद्य तान्वृद्धान्द्विजानाश्रमवासिनः +तैश्चाभिपूजितः सर्वैः प्रययौ नगरं प्रति +शैब्या च सह ���ावित्र्या स्वास्तीर्णेन सुवर्चसा +नरयुक्तेन यानेन प्रययौ सेनया वृता +ततोऽभिषिषिचुः प्रीत्या द्युमत्सेनं पुरोहिताः +पुत्रं चास्य महात्मानं यौवराज्येऽभ्यषेचयन् +ततः कालेन महता सावित्र्याः कीर्तिवर्धनम् +तद्वै पुत्रशतं जज्ञे शूराणामनिवर्तिनाम् +भ्रातॄणां सोदराणां च तथैवास्याभवच्छतम् +मद्राधिपस्याश्वपतेर्मालव्यां सुमहाबलम् +एवमात्मा पिता माता श्वश्रूः श्वशुर एव च +भर्तुः कुलं च सावित्र्या सर्वं कृच्छ्रात्समुद्धृतम् +तथैवैषापि कल्याणी द्रौपदी शीलसंमता +तारयिष्यति वः सर्वान्सावित्रीव कुलाङ्गना +वैशंपायन उवाच +एवं स पाण्डवस्तेन अनुनीतो महात्मना +विशोको विज्वरो राजन्काम्यके न्यवसत्तदा +जनमेजय उवाच +यत्तत्तदा महाब्रह्मँल्लोमशो वाक्यमब्रवीत् +इन्द्रस्य वचनादेत्य पाण्डुपुत्रं युधिष्ठिरम् +यच्चापि ते भयं तीव्रं न च कीर्तयसे क्वचित् +तच्चाप्यपहरिष्यामि सव्यसाचाविहागते +किं नु तद्विदुषां श्रेष्ठ कर्णं प्रति महद्भयम् +आसीन्न च स धर्मात्मा कथयामास कस्यचित् +वैशंपायन उवाच +अहं ते राजशार्दूल कथयामि कथामिमाम् +पृच्छते भरतश्रेष्ठ शुश्रूषस्व गिरं मम +द्वादशे समतिक्रान्ते वर्षे प्राप्ते त्रयोदशे +पाण्डूनां हितकृच्छक्रः कर्णं भिक्षितुमुद्यतः +अभिप्रायमथो ज्ञात्वा महेन्द्रस्य विभावसुः +कुण्डलार्थे महाराज सूर्यः कर्णमुपागमत् +महार्हे शयने वीरं स्पर्ध्यास्तरणसंवृते +शयानमभिविश्वस्तं ब्रह्मण्यं सत्यवादिनम् +स्वप्नान्ते निशि राजेन्द्र दर्शयामास रश्मिवान् +कृपया परयाविष्टः पुत्रस्नेहाच्च भारत +ब्राह्मणो वेदविद्भूत्वा सूर्यो योगाद्धि रूपवान् +हितार्थमब्रवीत्कर्णं सान्त्वपूर्वमिदं वचः +कर्ण मद्वचनं तात शृणु सत्यभृतां वर +ब्रुवतोऽद्य महाबाहो सौहृदात्परमं हितम् +उपायास्यति शक्रस्त्वां पाण्डवानां हितेप्सया +ब्राह्मणच्छद्मना कर्ण कुण्डलापजिहीर्षया +विदितं तेन शीलं ते सर्वस्य जगतस्तथा +यथा त्वं भिक्षितः सद्भिर्ददास्येव न याचसे +त्वं हि तात ददास्येव ब्राह्मणेभ्यः प्रयाचितः +वित्तं यच्चान्यदप्याहुर्न प्रत्याख्यासि कर्हिचित् +तं त्वामेवंविधं ज्ञात्वा स्वयं वै पाकशासनः +आगन्ता कुण्डलार्थाय कवचं चैव भिक्षितुम् +तस्मै प्रयाचमानाय न देये कुण्डले त्वया +अनुनेयः परं शक्त��या श्रेय एतद्धि ते परम् +कुण्डलार्थे ब्रुवंस्तात कारणैर्बहुभिस्त्वया +अन्यैर्बहुविधैर्वित्तैः स निवार्यः पुनः पुनः +रत्नैः स्त्रीभिस्तथा भोगैर्धनैर्बहुविधैरपि +निदर्शनैश्च बहुभिः कुण्डलेप्सुः पुरंदरः +यदि दास्यसि कर्ण त्वं सहजे कुण्डले शुभे +आयुषः प्रक्षयं गत्वा मृत्योर्वशमुपेष्यसि +कवचेन च संयुक्तः कुण्डलाभ्यां च मानद +अवध्यस्त्वं रणेऽरीणामिति विद्धि वचो मम +अमृतादुत्थितं ह्येतदुभयं रत्नसंभवम् +तस्माद्रक्ष्यं त्वया कर्ण जीवितं चेत्प्रियं तव +कर्ण उवाच +को मामेवं भवान्प्राह दर्शयन्सौहृदं परम् +कामया भगवन्ब्रूहि को भवान्द्विजवेषधृक् +ब्राह्मण उवाच +अहं तात सहस्रांशुः सौहृदात्त्वां निदर्शये +कुरुष्वैतद्वचो मे त्वमेतच्छ्रेयः परं हि ते +कर्ण उवाच +श्रेय एव ममात्यन्तं यस्य मे गोपतिः प्रभुः +प्रवक्ताद्य हितान्वेषी शृणु चेदं वचो मम +प्रसादये त्वां वरदं प्रणयाच्च ब्रवीम्यहम् +न निवार्यो व्रतादस्मादहं यद्यस्मि ते प्रियः +व्रतं वै मम लोकोऽयं वेत्ति कृत्स्नो विभावसो +यथाहं द्विजमुख्येभ्यो दद्यां प्राणानपि ध्रुवम् +यद्यागच्छति शक्रो मां ब्राह्मणच्छद्मनावृतः +हितार्थं पाण्डुपुत्राणां खेचरोत्तम भिक्षितुम् +दास्यामि विबुधश्रेष्ठ कुण्डले वर्म चोत्तमम् +न मे कीर्तिः प्रणश्येत त्रिषु लोकेषु विश्रुता +मद्विधस्यायशस्यं हि न युक्तं प्राणरक्षणम् +युक्तं हि यशसा युक्तं मरणं लोकसंमतम् +सोऽहमिन्द्राय दास्यामि कुण्डले सह वर्मणा +यदि मां बलवृत्रघ्नो भिक्षार्थमुपयास्यति +हितार्थं पाण्डुपुत्राणां कुण्डले मे प्रयाचितुम् +तन्मे कीर्तिकरं लोके तस्याकीर्तिर्भविष्यति +वृणोमि कीर्तिं लोके हि जीवितेनापि भानुमन् +कीर्तिमानश्नुते स्वर्गं हीनकीर्तिस्तु नश्यति +कीर्तिर्हि पुरुषं लोके संजीवयति मातृवत् +अकीर्तिर्जीवितं हन्ति जीवतोऽपि शरीरिणः +अयं पुराणः श्लोको हि स्वयं गीतो विभावसो +धात्रा लोकेश्वर यथा कीर्तिरायुर्नरस्य वै +पुरुषस्य परे लोके कीर्तिरेव परायणम् +इह लोके विशुद्धा च कीर्तिरायुर्विवर्धनी +सोऽहं शरीरजे दत्त्वा कीर्तिं प्राप्स्यामि शाश्वतीम् +दत्त्वा च विधिवद्दानं ब्राह्मणेभ्यो यथाविधि +हुत्वा शरीरं संग्रामे कृत्वा कर्म सुदुष्करम् +विजित्य वा परानाजौ यशः प्राप्स्यामि केव���म् +भीतानामभयं दत्त्वा संग्रामे जीवितार्थिनाम् +वृद्धान्बालान्द्विजातींश्च मोक्षयित्वा महाभयात् +प्राप्स्यामि परमं लोके यशः स्वर्भानुसूदन +जीवितेनापि मे रक्ष्या कीर्तिस्तद्विद्धि मे व्रतम् +सोऽहं दत्त्वा मघवते भिक्षामेतामनुत्तमाम् +ब्राह्मणच्छद्मिने देव लोके गन्ता परां गतिम् +सूर्य उवाच +माहितं कर्ण कार्षीस्त्वमात्मनः सुहृदां तथा +पुत्राणामथ भार्याणामथो मातुरथो पितुः +शरीरस्याविरोधेन प्राणिनां प्राणभृद्वर +इष्यते यशसः प्राप्तिः कीर्तिश्च त्रिदिवे स्थिरा +यस्त्वं प्राणविरोधेन कीर्तिमिच्छसि शाश्वतीम् +सा ते प्राणान्समादाय गमिष्यति न संशयः +जीवतां कुरुते कार्यं पिता माता सुतास्तथा +ये चान्ये बान्धवाः केचिल्लोकेऽस्मिन्पुरुषर्षभ +राजानश्च नरव्याघ्र पौरुषेण निबोध तत् +कीर्तिश्च जीवतः साध्वी पुरुषस्य महाद्युते +मृतस्य कीर्त्या किं कार्यं भस्मीभूतस्य देहिनः +मृतः कीर्तिं न जानाति जीवन्कीर्तिं समश्नुते +मृतस्य कीर्तिर्मर्त्यस्य यथा माला गतायुषः +अहं तु त्वां ब्रवीम्येतद्भक्तोऽसीति हितेप्सया +भक्तिमन्तो हि मे रक्ष्या इत्येतेनापि हेतुना +भक्तोऽयं परया भक्त्या मामित्येव महाभुज +ममापि भक्तिरुत्पन्ना स त्वं कुरु वचो मम +अस्ति चात्र परं किंचिदध्यात्मं देवनिर्मितम् +अतश्च त्वां ब्रवीम्येतत्क्रियतामविशङ्कया +देवगुह्यं त्वया ज्ञातुं न शक्यं पुरुषर्षभ +तस्मान्नाख्यामि ते गुह्यं काले वेत्स्यति तद्भवान् +पुनरुक्तं च वक्ष्यामि त्वं राधेय निबोध तत् +मास्मै ते कुण्डले दद्या भिक्षवे वज्रपाणये +शोभसे कुण्डलाभ्यां हि रुचिराभ्यां महाद्युते +विशाखयोर्मध्यगतः शशीव विमलो दिवि +कीर्तिश्च जीवतः साध्वी पुरुषस्येति विद्धि तत् +प्रत्याख्येयस्त्वया तात कुण्डलार्थे पुरंदरः +शक्या बहुविधैर्वाक्यैः कुण्डलेप्सा त्वयानघ +विहन्तुं देवराजस्य हेतुयुक्तैः पुनः पुनः +उपपत्त्युपपन्नार्थैर्माधुर्यकृतभूषणैः +पुरंदरस्य कर्ण त्वं बुद्धिमेतामपानुद +त्वं हि नित्यं नरव्याघ्र स्पर्धसे सव्यसाचिना +सव्यसाची त्वया चैव युधि शूरः समेष्यति +न तु त्वामर्जुनः शक्तः कुण्डलाभ्यां समन्वितम् +विजेतुं युधि यद्यस्य स्वयमिन्द्रः शरो भवेत् +तस्मान्न देये शक्राय त्वयैते कुण्डले शुभे +संग्रामे यदि निर्जेतु��� कर्ण कामयसेऽर्जुनम् +कर्ण उवाच +भगवन्तमहं भक्तो यथा मां वेत्थ गोपते +तथा परमतिग्मांशो नान्यं देवं कथंचन +न मे दारा न मे पुत्रा न चात्मा सुहृदो न च +तथेष्टा वै सदा भक्त्या यथा त्वं गोपते मम +इष्टानां च महात्मानो भक्तानां च न संशयः +कुर्वन्ति भक्तिमिष्टां च जानीषे त्वं च भास्कर +इष्टो भक्तश्च मे कर्णो न चान्यद्दैवतं दिवि +जानीत इति वै कृत्वा भगवानाह मद्धितम् +भूयश्च शिरसा याचे प्रसाद्य च पुनः पुनः +इति ब्रवीमि तिग्मांशो त्वं तु मे क्षन्तुमर्हसि +बिभेमि न तथा मृत्योर्यथा बिभ्येऽनृतादहम् +विशेषेण द्विजातीनां सर्वेषां सर्वदा सताम् +प्रदाने जीवितस्यापि न मेऽत्रास्ति विचारणा +यच्च मामात्थ देव त्वं पाण्डवं फल्गुनं प्रति +व्येतु संतापजं दुःखं तव भास्कर मानसम् +अर्जुनं प्रति मां चैव विजेष्यामि रणेऽर्जुनम् +तवापि विदितं देव ममाप्यस्त्रबलं महत् +जामदग्न्यादुपात्तं यत्तथा द्रोणान्महात्मनः +इदं त्वमनुजानीहि सुरश्रेष्ठ व्रतं मम +भिक्षते वज्रिणे दद्यामपि जीवितमात्मनः +सूर्य उवाच +यदि तात ददास्येते वज्रिणे कुण्डले शुभे +त्वमप्येनमथो ब्रूया विजयार्थं महाबल +नियमेन प्रदद्यास्त्वं कुण्डले वै शतक्रतोः +अवध्यो ह्यसि भूतानां कुण्डलाभ्यां समन्वितः +अर्जुनेन विनाशं हि तव दानवसूदनः +प्रार्थयानो रणे वत्स कुण्डले ते जिहीर्षति +स त्वमप्येनमाराध्य सूनृताभिः पुनः पुनः +अभ्यर्थयेथा देवेशममोघार्थं पुरंदरम् +अमोघां देहि मे शक्तिममित्रविनिबर्हिणीम् +दास्यामि ते सहस्राक्ष कुण्डले वर्म चोत्तमम् +इत्येवं नियमेन त्वं दद्याः शक्राय कुण्डले +तया त्वं कर्ण संग्रामे हनिष्यसि रणे रिपून् +नाहत्वा हि महाबाहो शत्रूनेति करं पुनः +सा शक्तिर्देवराजस्य शतशोऽथ सहस्रशः +वैशंपायन उवाच +एवमुक्त्वा सहस्रांशुः सहसान्तरधीयत +ततः सूर्याय जप्यान्ते कर्णः स्वप्नं न्यवेदयत् +यथादृष्टं यथातत्त्वं यथोक्तमुभयोर्निशि +तत्सर्वमानुपूर्व्येण शशंसास्मै वृषस्तदा +तच्छ्रुत्वा भगवान्देवो भानुः स्वर्भानुसूदनः +उवाच तं तथेत्येव कर्णं सूर्यः स्मयन्निव +ततस्तत्त्वमिति ज्ञात्वा राधेयः परवीरहा +शक्तिमेवाभिकाङ्क्षन्वै वासवं प्रत्यपालयत् +जनमेजय उवाच +किं तद्गुह्यं न चाख्यातं कर्णायेहोष्णरश्मिना +कीदृशे कुण्डले ते च कवचं चैव कीदृशम् +���ुतश्च कवचं तस्य कुण्डले चैव सत्तम +एतदिच्छाम्यहं श्रोतुं तन्मे ब्रूहि तपोधन +वैशंपायन उवाच +अयं राजन्ब्रवीम्येतद्यत्तद्गुह्यं विभावसोः +यादृशे कुण्डले चैव कवचं चैव यादृशम् +कुन्तिभोजं पुरा राजन्ब्राह्मणः समुपस्थितः +तिग्मतेजा महाप्रांशुः श्मश्रुदण्डजटाधरः +दर्शनीयोऽनवद्याङ्गस्तेजसा प्रज्वलन्निव +मधुपिङ्गो मधुरवाक्तपःस्वाध्यायभूषणः +स राजानं कुन्तिभोजमब्रवीत्सुमहातपाः +भिक्षामिच्छाम्यहं भोक्तुं तव गेहे विमत्सर +न मे व्यलीकं कर्तव्यं त्वया वा तव चानुगैः +एवं वत्स्यामि ते गेहे यदि ते रोचतेऽनघ +यथाकामं च गच्छेयमागच्छेयं तथैव च +शय्यासने च मे राजन्नापराध्येत कश्चन +तमब्रवीत्कुन्तिभोजः प्रीतियुक्तमिदं वचः +एवमस्तु परं चेति पुनश्चैनमथाब्रवीत् +मम कन्या महाब्रह्मन्पृथा नाम यशस्विनी +शीलवृत्तान्विता साध्वी नियता न च मानिनी +उपस्थास्यति सा त्वां वै पूजयानवमन्य च +तस्याश्च शीलवृत्तेन तुष्टिं समुपयास्यसि +एवमुक्त्वा तु तं विप्रमभिपूज्य यथाविधि +उवाच कन्यामभ्येत्य पृथां पृथुललोचनाम् +अयं वत्से महाभागो ब्राह्मणो वस्तुमिच्छति +मम गेहे मया चास्य तथेत्येवं प्रतिश्रुतम् +त्वयि वत्से पराश्वस्य ब्राह्मणस्याभिराधनम् +तन्मे वाक्यं न मिथ्या त्वं कर्तुमर्हसि कर्हिचित् +अयं तपस्वी भगवान्स्वाध्यायनियतो द्विजः +यद्यद्ब्रूयान्महातेजास्तत्तद्देयममत्सरात् +ब्राह्मणा हि परं तेजो ब्राह्मणा हि परं तपः +ब्राह्मणानां नमस्कारैः सूर्यो दिवि विराजते +अमानयन्हि मानार्हान्वातापिश्च महासुरः +निहतो ब्रह्मदण्डेन तालजङ्घस्तथैव च +सोऽयं वत्से महाभार आहितस्त्वयि सांप्रतम् +त्वं सदा नियता कुर्या ब्राह्मणस्याभिराधनम् +जानामि प्रणिधानं ते बाल्यात्प्रभृति नन्दिनि +ब्राह्मणेष्विह सर्वेषु गुरुबन्धुषु चैव ह +तथा प्रेष्येषु सर्वेषु मित्रसंबन्धिमातृषु +मयि चैव यथावत्त्वं सर्वमादृत्य वर्तसे +न ह्यतुष्टो जनोऽस्तीह पुरे चान्तःपुरे च ते +सम्यग्वृत्त्यानवद्याङ्गि तव भृत्यजनेष्वपि +संदेष्टव्यां तु मन्ये त्वां द्विजातिं कोपनं प्रति +पृथे बालेति कृत्वा वै सुता चासि ममेति च +वृष्णीनां त्वं कुले जाता शूरस्य दयिता सुता +दत्ता प्रीतिमता मह्यं पित्रा बाला पुरा स्वयम् +वसुदेवस्य भगिनी सुतानां प्रवरा मम +अग्र्यमग्रे प्रतिज्ञाय तेनासि दुहिता मम +तादृशे हि कुले जाता कुले चैव विवर्धिता +सुखात्सुखमनुप्राप्ता ह्रदाद्ध्रदमिवागता +दौष्कुलेया विशेषेण कथंचित्प्रग्रहं गताः +बालभावाद्विकुर्वन्ति प्रायशः प्रमदाः शुभे +पृथे राजकुले जन्म रूपं चाद्भुतदर्शनम् +तेन तेनासि संपन्ना समुपेता च भामिनी +सा त्वं दर्पं परित्यज्य दम्भं मानं च भामिनि +आराध्य वरदं विप्रं श्रेयसा योक्ष्यसे पृथे +एवं प्राप्स्यसि कल्याणि कल्याणमनघे ध्रुवम् +कोपिते तु द्विजश्रेष्ठे कृत्स्नं दह्येत मे कुलम् +कुन्त्युवाच +ब्राह्मणं यन्त्रिता राजनुपस्थास्यामि पूजया +यथाप्रतिज्ञं राजेन्द्र न च मिथ्या ब्रवीम्यहम् +एष चैव स्वभावो मे पूजयेयं द्विजानिति +तव चैव प्रियं कार्यं श्रेयश्चैतत्परं मम +यद्येवैष्यति सायाह्ने यदि प्रातरथो निशि +यद्यर्धरात्रे भगवान्न मे कोपं करिष्यति +लाभो ममैष राजेन्द्र यद्वै पूजयती द्विजान् +आदेशे तव तिष्ठन्ती हितं कुर्यां नरोत्तम +विस्रब्धो भव राजेन्द्र न व्यलीकं द्विजोत्तमः +वसन्प्राप्स्यति ते गेहे सत्यमेतद्ब्रवीमि ते +यत्प्रियं च द्विजस्यास्य हितं चैव तवानघ +यतिष्यामि तथा राजन्व्येतु ते मानसो ज्वरः +ब्राह्मणा हि महाभागाः पूजिताः पृथिवीपते +तारणाय समर्थाः स्युर्विपरीते वधाय च +साहमेतद्विजानन्ती तोषयिष्ये द्विजोत्तमम् +न मत्कृते व्यथां राजन्प्राप्स्यसि द्विजसत्तमात् +अपराधे हि राजेन्द्र राज्ञामश्रेयसे द्विजाः +भवन्ति च्यवनो यद्वत्सुकन्यायाः कृते पुरा +नियमेन परेणाहमुपस्थास्ये द्विजोत्तमम् +यथा त्वया नरेन्द्रेदं भाषितं ब्राह्मणं प्रति +राजोवाच +एवमेतत्त्वया भद्रे कर्तव्यमविशङ्कया +मद्धितार्थं कुलार्थं च तथात्मार्थं च नन्दिनि +वैशंपायन उवाच +एवमुक्त्वा तु तां कन्यां कुन्तिभोजो महायशाः +पृथां परिददौ तस्मै द्विजाय सुतवत्सलः +इयं ब्रह्मन्मम सुता बाला सुखविवर्धिता +अपराध्येत यत्किंचिन्न तत्कार्यं हृदि त्वया +द्विजातयो महाभागा वृद्धबालतपस्विषु +भवन्त्यक्रोधनाः प्रायो विरुद्धेष्वपि नित्यदा +सुमहत्यपराधेऽपि क्षान्तिः कार्या द्विजातिभिः +यथाशक्ति यथोत्साहं पूजा ग्राह्या द्विजोत्तम +तथेति ब्राह्मणेनोक्ते स राजा प्रीतमानसः +हंसचन्द्रांशुसंकाशं गृहमस्य न्यवेदयत् +तत्राग्निशरणे कॢप्तमासनं तस्य भानुमत् +आहारादि च सर्वं तत्तथैव प्रत्यवेदयत् +निक्षिप्य राजपुत्री तु तन्द्रीं मानं तथैव च +आतस्थे परमं यत्नं ब्राह्मणस्याभिराधने +तत्र सा ब्राह्मणं गत्वा पृथा शौचपरा सती +विधिवत्परिचारार्हं देववत्पर्यतोषयत् +वैशंपायन उवाच +सा तु कन्या महाराज ब्राह्मणं संशितव्रतम् +तोषयामास शुद्धेन मनसा संशितव्रता +प्रातरायास्य इत्युक्त्वा कदाचिद्द्विजसत्तमः +तत आयाति राजेन्द्र साये रात्रावथो पुनः +तं च सर्वासु वेलासु भक्ष्यभोज्यप्रतिश्रयैः +पूजयामास सा कन्या वर्धमानैस्तु सर्वदा +अन्नादिसमुदाचारः शय्यासनकृतस्तथा +दिवसे दिवसे तस्य वर्धते न तु हीयते +निर्भर्त्सनापवादैश्च तथैवाप्रियया गिरा +ब्राह्मणस्य पृथा राजन्न चकाराप्रियं तदा +व्यस्ते काले पुनश्चैति न चैति बहुशो द्विजः +दुर्लभ्यमपि चैवान्नं दीयतामिति सोऽब्रवीत् +कृतमेव च तत्सर्वं पृथा तस्मै न्यवेदयत् +शिष्यवत्पुत्रवच्चैव स्वसृवच्च सुसंयता +यथोपजोषं राजेन्द्र द्विजातिप्रवरस्य सा +प्रीतिमुत्पादयामास कन्या यत्नैरनिन्दिता +तस्यास्तु शीलवृत्तेन तुतोष द्विजसत्तमः +अवधानेन भूयोऽस्य परं यत्नमथाकरोत् +तां प्रभाते च साये च पिता पप्रच्छ भारत +अपि तुष्यति ते पुत्रि ब्राह्मणः परिचर्यया +तं सा परममित्येव प्रत्युवाच यशस्विनी +ततः प्रीतिमवापाग्र्यां कुन्तिभोजो महामनाः +ततः संवत्सरे पूर्णे यदासौ जपतां वरः +नापश्यद्दुष्कृतं किंचित्पृथायाः सौहृदे रतः +ततः प्रीतमना भूत्वा स एनां ब्राह्मणोऽब्रवीत् +प्रीतोऽस्मि परमं भद्रे परिचारेण ते शुभे +वरान्वृणीष्व कल्याणि दुरापान्मानुषैरिह +यैस्त्वं सीमन्तिनीः सर्वा यशसाभिभविष्यसि +कुन्त्युवाच +कृतानि मम सर्वाणि यस्या मे वेदवित्तम +त्वं प्रसन्नः पिता चैव कृतं विप्र वरैर्मम +ब्राह्मण उवाच +यदि नेच्छसि भद्रे त्वं वरं मत्तः शुचिस्मिते +इमं मन्त्रं गृहाण त्वमाह्वानाय दिवौकसाम् +यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि +तेन तेन वशे भद्रे स्थातव्यं ते भविष्यति +अकामो वा सकामो वा न स नैष्यति ते वशम् +विबुधो मन्त्रसंशान्तो वाक्ये भृत्य इवानतः +वैशंपायन उवाच +न शशाक द्वितीयं सा प्रत्याख्यातुमनिन्दिता +तं वै द्विजातिप्रवरं तदा शापभयान्नृप +ततस्तामनवद्याङ्गीं ग्राहयामास वै द्विजः +मन्त्रग्रामं तदा ��ाजन्नथर्वशिरसि श्रुतम् +तं प्रदाय तु राजेन्द्र कुन्तिभोजमुवाच ह +उषितोऽस्मि सुखं राजन्कन्यया परितोषितः +तव गेहे सुविहितः सदा सुप्रतिपूजितः +साधयिष्यामहे तावदित्युक्त्वान्तरधीयत +स तु राजा द्विजं दृष्ट्वा तत्रैवान्तर्हितं तदा +बभूव विस्मयाविष्टः पृथां च समपूजयत् +वैशंपायन उवाच +गते तस्मिन्द्विजश्रेष्ठे कस्मिंश्चित्कालपर्यये +चिन्तयामास सा कन्या मन्त्रग्रामबलाबलम् +अयं वै कीदृशस्तेन मम दत्तो महात्मना +मन्त्रग्रामो बलं तस्य ज्ञास्ये नातिचिरादिव +एवं संचिन्तयन्ती सा ददर्शर्तुं यदृच्छया +व्रीडिता साभवद्बाला कन्याभावे रजस्वला +अथोद्यन्तं सहस्रांशुं पृथा दीप्तं ददर्श ह +न ततर्प च रूपेण भानोः संध्यागतस्य सा +तस्या दृष्टिरभूद्दिव्या सापश्यद्दिव्यदर्शनम् +आमुक्तकवचं देवं कुण्डलाभ्यां विभूषितम् +तस्याः कौतूहलं त्वासीन्मन्त्रं प्रति नराधिप +आह्वानमकरोत्साथ तस्य देवस्य भामिनी +प्राणानुपस्पृश्य तदा आजुहाव दिवाकरम् +आजगाम ततो राजंस्त्वरमाणो दिवाकरः +मधुपिङ्गो महाबाहुः कम्बुग्रीवो हसन्निव +अङ्गदी बद्धमुकुटो दिशः प्रज्वालयन्निव +योगात्कृत्वा द्विधात्मानमाजगाम तताप च +आबभाषे ततः कुन्तीं साम्ना परमवल्गुना +आगतोऽस्मि वशं भद्रे तव मन्त्रबलात्कृतः +किं करोम्यवशो राज्ञि ब्रूहि कर्ता तदस्मि ते +कुन्त्युवाच +गम्यतां भगवंस्तत्र यतोऽसि समुपागतः +कौतूहलात्समाहूतः प्रसीद भगवन्निति +सूर्य उवाच +गमिष्येऽहं यथा मां त्वं ब्रवीषि तनुमध्यमे +न तु देवं समाहूय न्याय्यं प्रेषयितुं वृथा +तवाभिसंधिः सुभगे सूर्यात्पुत्रो भवेदिति +वीर्येणाप्रतिमो लोके कवची कुण्डलीति च +सा त्वमात्मप्रदानं वै कुरुष्व गजगामिनि +उत्पत्स्यति हि पुत्रस्ते यथासंकल्पमङ्गने +अथ गच्छाम्यहं भद्रे त्वयासंगम्य सुस्मिते +शप्स्यामि त्वामहं क्रुद्धो ब्राह्मणं पितरं च ते +त्वत्कृते तान्प्रधक्ष्यामि सर्वानपि न संशयः +पितरं चैव ते मूढं यो न वेत्ति तवानयम् +तस्य च ब्राह्मणस्याद्य योऽसौ मन्त्रमदात्तव +शीलवृत्तमविज्ञाय धास्यामि विनयं परम् +एते हि विबुधाः सर्वे पुरंदरमुखा दिवि +त्वया प्रलब्धं पश्यन्ति स्मयन्त इव भामिनि +पश्य चैनान्सुरगणान्दिव्यं चक्षुरिदं हि ते +पूर्वमेव मया दत्तं दृष्टवत्यसि येन माम् +वैशंपायन उवाच +ततोऽ���श्यत्त्रिदशान्राजपुत्री; सर्वानेव स्वेषु धिष्ण्येषु खस्थान् +प्रभासन्तं भानुमन्तं महान्तं; यथादित्यं रोचमानं तथैव +सा तान्दृष्ट्वा व्रीडमानेव बाला; सूर्यं देवी वचनं प्राह भीता +गच्छ त्वं वै गोपते स्वं विमानं; कन्याभावाद्दुःख एषोपचारः +पिता माता गुरवश्चैव येऽन्ये; देहस्यास्य प्रभवन्ति प्रदाने +नाहं धर्मं लोपयिष्यामि लोके; स्त्रीणां वृत्तं पूज्यते देहरक्षा +मया मन्त्रबलं ज्ञातुमाहूतस्त्वं विभावसो +बाल्याद्बालेति कृत्वा तत्क्षन्तुमर्हसि मे विभो +सूर्य उवाच +बालेति कृत्वानुनयं तवाहं; ददानि नान्यानुनयं लभेत +आत्मप्रदानं कुरु कुन्तिकन्ये; शान्तिस्तवैवं हि भवेच्च भीरु +न चापि युक्तं गन्तुं हि मया मिथ्याकृतेन वै +गमिष्याम्यनवद्याङ्गि लोके समवहास्यताम् +सर्वेषां विबुधानां च वक्तव्यः स्यामहं शुभे +सा त्वं मया समागच्छ पुत्रं लप्स्यसि मादृशम् +विशिष्टा सर्वलोकेषु भविष्यसि च भामिनि +वैशंपायन उवाच +सा तु कन्या बहुविधं ब्रुवन्ती मधुरं वचः +अनुनेतुं सहस्रांशुं न शशाक मनस्विनी +न शशाक यदा बाला प्रत्याख्यातुं तमोनुदम् +भीता शापात्ततो राजन्दध्यौ दीर्घमथान्तरम् +अनागसः पितुः शापो ब्राह्मणस्य तथैव च +मन्निमित्तः कथं न स्यात्क्रुद्धादस्माद्विभावसोः +बालेनापि सता मोहाद्भृशं सापह्नवान्यपि +नात्यासादयितव्यानि तेजांसि च तपांसि च +साहमद्य भृशं भीता गृहीता च करे भृशम् +कथं त्वकार्यं कुर्यां वै प्रदानं ह्यात्मनः स्वयम् +सैवं शापपरित्रस्ता बहु चिन्तयती तदा +मोहेनाभिपरीताङ्गी स्मयमाना पुनः पुनः +तं देवमब्रवीद्भीता बन्धूनां राजसत्तम +व्रीडाविह्वलया वाचा शापत्रस्ता विशां पते +कुन्त्युवाच +पिता मे ध्रियते देव माता चान्ये च बान्धवाः +न तेषु ध्रियमाणेषु विधिलोपो भवेदयम् +त्वया मे संगमो देव यदि स्याद्विधिवर्जितः +मन्निमित्तं कुलस्यास्य लोके कीर्तिर्नशेत्ततः +अथ वा धर्ममेतं त्वं मन्यसे तपतां वर +ऋते प्रदानाद्बन्धुभ्यस्तव कामं करोम्यहम् +आत्मप्रदानं दुर्धर्ष तव कृत्वा सती त्वहम् +त्वयि धर्मो यशश्चैव कीर्तिरायुश्च देहिनाम् +सूर्य उवाच +न ते पिता न ते माता गुरवो वा शुचिस्मिते +प्रभवन्ति वरारोहे भद्रं ते शृणु मे वचः +सर्वान्कामयते यस्मात्कनेर्धातोश्च भामिनि +तस्मात्कन्येह सुश्रोणि स्वतन्त्रा वरव��्णिनि +नाधर्मश्चरितः कश्चित्त्वया भवति भामिनि +अधर्मं कुत एवाहं चरेयं लोककाम्यया +अनावृताः स्त्रियः सर्वा नराश्च वरवर्णिनि +स्वभाव एष लोकानां विकारोऽन्य इति स्मृतः +सा मया सह संगम्य पुनः कन्या भविष्यसि +पुत्रश्च ते महाबाहुर्भविष्यति महायशाः +कुन्त्युवाच +यदि पुत्रो मम भवेत्त्वत्तः सर्वतमोपह +कुण्डली कवची शूरो महाबाहुर्महाबलः +सूर्य उवाच +भविष्यति महाबाहुः कुण्डली दिव्यवर्मभृत् +उभयं चामृतमयं तस्य भद्रे भविष्यति +कुन्त्युवाच +यद्येतदमृतादस्ति कुण्डले वर्म चोत्तमम् +मम पुत्रस्य यं वै त्वं मत्त उत्पादयिष्यसि +अस्तु मे संगमो देव यथोक्तं भगवंस्त्वया +त्वद्वीर्यरूपसत्त्वौजा धर्मयुक्तो भवेत्स च +सूर्य उवाच +अदित्या कुण्डले राज्ञि दत्ते मे मत्तकाशिनि +तेऽस्य दास्यामि वै भीरु वर्म चैवेदमुत्तमम् +पृथोवाच +परमं भगवन्देव संगमिष्ये त्वया सह +यदि पुत्रो भवेदेवं यथा वदसि गोपते +वैशंपायन उवाच +तथेत्युक्त्वा तु तां कुन्तीमाविवेश विहंगमः +स्वर्भानुशत्रुर्योगात्मा नाभ्यां पस्पर्श चैव ताम् +ततः सा विह्वलेवासीत्कन्या सूर्यस्य तेजसा +पपाताथ च सा देवी शयने मूढचेतना +सूर्य उवाच +साधयिष्यामि सुश्रोणि पुत्रं वै जनयिष्यसि +सर्वशस्त्रभृतां श्रेष्ठं कन्या चैव भविष्यसि +वैशंपायन उवाच +ततः सा व्रीडिता बाला तदा सूर्यमथाब्रवीत् +एवमस्त्विति राजेन्द्र प्रस्थितं भूरिवर्चसम् +इति स्मोक्ता कुन्तिराजात्मजा सा; विवस्वन्तं याचमाना सलज्जा +तस्मिन्पुण्ये शयनीये पपात; मोहाविष्टा भज्यमाना लतेव +तां तिग्मांशुस्तेजसा मोहयित्वा; योगेनाविश्यात्मसंस्थां चकार +न चैवैनां दूषयामास भानुः; संज्ञां लेभे भूय एवाथ बाला +वैशंपायन उवाच +ततो गर्भः समभवत्पृथायाः पृथिवीपते +शुक्ले दशोत्तरे पक्षे तारापतिरिवाम्बरे +सा बान्धवभयाद्बाला तं गर्भं विनिगूहती +धारयामास सुश्रोणी न चैनां बुबुधे जनः +न हि तां वेद नार्यन्या काचिद्धात्रेयिकामृते +कन्यापुरगतां बालां निपुणां परिरक्षणे +ततः कालेन सा गर्भं सुषुवे वरवर्णिनी +कन्यैव तस्य देवस्य प्रसादादमरप्रभम् +तथैव बद्धकवचं कनकोज्ज्वलकुण्डलम् +हर्यक्षं वृषभस्कन्धं यथास्य पितरं तथा +जातमात्रं च तं गर्भं धात्र्या संमन्त्र्य भामिनी +मञ्जूषायामवदधे स्वास्तीर्णायां समन्ततः +मधूच्छिष्���स्थितायां सा सुखायां रुदती तथा +श्लक्ष्णायां सुपिधानायामश्वनद्यामवासृजत् +जानती चाप्यकर्तव्यं कन्याया गर्भधारणम् +पुत्रस्नेहेन राजेन्द्र करुणं पर्यदेवयत् +समुत्सृजन्ती मञ्जूषामश्वनद्यास्तदा जले +उवाच रुदती कुन्ती यानि वाक्यानि तच्छृणु +स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यश्च पुत्रक +दिव्येभ्यश्चैव भूतेभ्यस्तथा तोयचराश्च ये +शिवास्ते सन्तु पन्थानो मा च ते परिपन्थिनः +आगमाश्च तथा पुत्र भवन्त्वद्रोहचेतसः +पातु त्वां वरुणो राजा सलिले सलिलेश्वरः +अन्तरिक्षेऽन्तरिक्षस्थः पवनः सर्वगस्तथा +पिता त्वां पातु सर्वत्र तपनस्तपतां वरः +येन दत्तोऽसि मे पुत्र दिव्येन विधिना किल +आदित्या वसवो रुद्राः साध्या विश्वे च देवताः +मरुतश्च सहेन्द्रेण दिशश्च सदिगीश्वराः +रक्षन्तु त्वां सुराः सर्वे समेषु विषमेषु च +वेत्स्यामि त्वां विदेशेऽपि कवचेनोपसूचितम् +धन्यस्ते पुत्र जनको देवो भानुर्विभावसुः +यस्त्वां द्रक्ष्यति दिव्येन चक्षुषा वाहिनीगतम् +धन्या सा प्रमदा या त्वां पुत्रत्वे कल्पयिष्यति +यस्यास्त्वं तृषितः पुत्र स्तनं पास्यसि देवज +को नु स्वप्नस्तया दृष्टो या त्वामादित्यवर्चसम् +दिव्यवर्मसमायुक्तं दिव्यकुण्डलभूषितम् +पद्मायतविशालाक्षं पद्मताम्रतलोज्ज्वलम् +सुललाटं सुकेशान्तं पुत्रत्वे कल्पयिष्यति +धन्या द्रक्ष्यन्ति पुत्र त्वां भूमौ संसर्पमाणकम् +अव्यक्तकलवाक्यानि वदन्तं रेणुगुण्ठितम् +धन्या द्रक्ष्यन्ति पुत्र त्वां पुनर्यौवनगे मुखे +हिमवद्वनसंभूतं सिंहं केसरिणं यथा +एवं बहुविधं राजन्विलप्य करुणं पृथा +अवासृजत मञ्जूषामश्वनद्यास्तदा जले +रुदती पुत्रशोकार्ता निशीथे कमलेक्षणा +धात्र्या सह पृथा राजन्पुत्रदर्शनलालसा +विसर्जयित्वा मञ्जूषां संबोधनभयात्पितुः +विवेश राजभवनं पुनः शोकातुरा ततः +मञ्जूषा त्वश्वनद्याः सा ययौ चर्मण्वतीं नदीम् +चर्मण्वत्याश्च यमुनां ततो गङ्गां जगाम ह +गङ्गायाः सूतविषयं चम्पामभ्याययौ पुरीम् +स मञ्जूषागतो गर्भस्तरङ्गैरुह्यमानकः +अमृतादुत्थितं दिव्यं तत्तु वर्म सकुण्डलम् +धारयामास तं गर्भं दैवं च विधिनिर्मितम् +वैशंपायन उवाच +एतस्मिन्नेव काले तु धृतराष्ट्रस्य वै सखा +सूतोऽधिरथ इत्येव सदारो जाह्नवीं ययौ +तस्य भार्याभवद्राजन्रूपेणासदृ��ी भुवि +राधा नाम महाभागा न सा पुत्रमविन्दत +अपत्यार्थे परं यत्नमकरोच्च विशेषतः +सा ददर्शाथ मञ्जूषामुह्यमानां यदृच्छया +दत्तरक्षाप्रतिसरामन्वालभनशोभिताम् +ऊर्मीतरङ्गैर्जाह्नव्याः समानीतामुपह्वरम् +सा तां कौतूहलात्प्राप्तां ग्राहयामास भामिनी +ततो निवेदयामास सूतस्याधिरथस्य वै +स तामुद्धृत्य मञ्जूषामुत्सार्य जलमन्तिकात् +यन्त्रैरुद्घाटयामास सोऽपश्यत्तत्र बालकम् +तरुणादित्यसंकाशं हेमवर्मधरं तथा +मृष्टकुण्डलयुक्तेन वदनेन विराजता +स सूतो भार्यया सार्धं विस्मयोत्फुल्ललोचनः +अङ्कमारोप्य तं बालं भार्यां वचनमब्रवीत् +इदमत्यद्भुतं भीरु यतो जातोऽस्मि भामिनि +दृष्टवान्देवगर्भोऽयं मन्येऽस्मान्समुपागतः +अनपत्यस्य पुत्रोऽयं देवैर्दत्तो ध्रुवं मम +इत्युक्त्वा तं ददौ पुत्रं राधायै स महीपते +प्रतिजग्राह तं राधा विधिवद्दिव्यरूपिणम् +पुत्रं कमलगर्भाभं देवगर्भं श्रिया वृतम् +पुपोष चैनं विधिवद्ववृधे स च वीर्यवान् +ततः प्रभृति चाप्यन्ये प्राभवन्नौरसाः सुताः +वसुवर्मधरं दृष्ट्वा तं बालं हेमकुण्डलम् +नामास्य वसुषेणेति ततश्चक्रुर्द्विजातयः +एवं स सूतपुत्रत्वं जगामामितविक्रमः +वसुषेण इति ख्यातो वृष इत्येव च प्रभुः +स ज्येष्ठपुत्रः सूतस्य ववृधेऽङ्गेषु वीर्यवान् +चारेण विदितश्चासीत्पृथाया दिव्यवर्मभृत् +सूतस्त्वधिरथः पुत्रं विवृद्धं समये ततः +दृष्ट्वा प्रस्थापयामास पुरं वारणसाह्वयम् +तत्रोपसदनं चक्रे द्रोणस्येष्वस्त्रकर्मणि +सख्यं दुर्योधनेनैवमगच्छत्स च वीर्यवान् +द्रोणात्कृपाच्च रामाच्च सोऽस्त्रग्रामं चतुर्विधम् +लब्ध्वा लोकेऽभवत्ख्यातः परमेष्वासतां गतः +संधाय धार्तराष्ट्रेण पार्थानां विप्रिये स्थितः +योद्धुमाशंसते नित्यं फल्गुनेन महात्मना +सदा हि तस्य स्पर्धासीदर्जुनेन विशां पते +अर्जुनस्य च कर्णेन यतो दृष्टो बभूव सः +तं तु कुण्डलिनं दृष्ट्वा वर्मणा च समन्वितम् +अवध्यं समरे मत्वा पर्यतप्यद्युधिष्ठिरः +यदा तु कर्णो राजेन्द्र भानुमन्तं दिवाकरम् +स्तौति मध्यंदिने प्राप्ते प्राञ्जलिः सलिले स्थितः +तत्रैनमुपतिष्ठन्ति ब्राह्मणा धनहेतवः +नादेयं तस्य तत्काले किंचिदस्ति द्विजातिषु +तमिन्द्रो ब्राह्मणो भूत्वा भिक्षां देहीत्युपस्थितः +स्वागतं चेति राधेयस्तमथ प्रत्यभाषत +वैशंपायन उवाच +देवराजमनुप्राप्तं ब्राह्मणच्छद्मना वृषः +दृष्ट्वा स्वागतमित्याह न बुबोधास्य मानसम् +हिरण्यकण्ठीः प्रमदा ग्रामान्वा बहुगोकुलान् +किं ददानीति तं विप्रमुवाचाधिरथिस्ततः +ब्राह्मण उवाच +हिरण्यकण्ठ्यः प्रमदा यच्चान्यत्प्रीतिवर्धनम् +नाहं दत्तमिहेच्छामि तदर्थिभ्यः प्रदीयताम् +यदेतत्सहजं वर्म कुण्डले च तवानघ +एतदुत्कृत्य मे देहि यदि सत्यव्रतो भवान् +एतदिच्छाम्यहं क्षिप्रं त्वया दत्तं परंतप +एष मे सर्वलाभानां लाभः परमको मतः +कर्ण उवाच +अवनिं प्रमदा गाश्च निर्वापं बहुवार्षिकम् +तत्ते विप्र प्रदास्यामि न तु वर्म न कुण्डले +वैशंपायन उवाच +एवं बहुविधैर्वाक्यैर्याच्यमानः स तु द्विजः +कर्णेन भरतश्रेष्ठ नान्यं वरमयाचत +सान्त्वितश्च यथाशक्ति पूजितश्च यथाविधि +नैवान्यं स द्विजश्रेष्ठः कामयामास वै वरम् +यदा नान्यं प्रवृणुते वरं वै द्विजसत्तमः +तदैनमब्रवीद्भूयो राधेयः प्रहसन्निव +सहजं वर्म मे विप्र कुण्डले चामृतोद्भवे +तेनावध्योऽस्मि लोकेषु ततो नैतद्ददाम्यहम् +विशालं पृथिवीराज्यं क्षेमं निहतकण्टकम् +प्रतिगृह्णीष्व मत्तस्त्वं साधु ब्राह्मणपुंगव +कुण्डलाभ्यां विमुक्तोऽहं वर्मणा सहजेन च +गमनीयो भविष्यामि शत्रूणां द्विजसत्तम +यदा नान्यं वरं वव्रे भगवान्पाकशासनः +ततः प्रहस्य कर्णस्तं पुनरित्यब्रवीद्वचः +विदितो देवदेवेश प्रागेवासि मम प्रभो +न तु न्याय्यं मया दातुं तव शक्र वृथा वरम् +त्वं हि देवेश्वरः साक्षात्त्वया देयो वरो मम +अन्येषां चैव भूतानामीश्वरो ह्यसि भूतकृत् +यदि दास्यामि ते देव कुण्डले कवचं तथा +वध्यतामुपयास्यामि त्वं च शक्रावहास्यताम् +तस्माद्विनिमयं कृत्वा कुण्डले वर्म चोत्तमम् +हरस्व शक्र कामं मे न दद्यामहमन्यथा +शक्र उवाच +विदितोऽहं रवेः पूर्वमायन्नेव तवान्तिकम् +तेन ते सर्वमाख्यातमेवमेतन्न संशयः +काममस्तु तथा तात तव कर्ण यथेच्छसि +वर्जयित्वा तु मे वज्रं प्रवृणीष्व यदिच्छसि +वैशंपायन उवाच +ततः कर्णः प्रहृष्टस्तु उपसंगम्य वासवम् +अमोघां शक्तिमभ्येत्य वव्रे संपूर्णमानसः +कर्ण उवाच +वर्मणा कुण्डलाभ्यां च शक्तिं मे देहि वासव +अमोघां शत्रुसंघानां घातनीं पृतनामुखे +वैशंपायन उवाच +ततः संचिन्त्य मनसा मुहूर्तमिव वासवः +शक्त्यर्थं पृथिवीपाल कर्णं व��क्यमथाब्रवीत् +कुण्डले मे प्रयच्छस्व वर्म चैव शरीरजम् +गृहाण कर्ण शक्तिं त्वमनेन समयेन मे +अमोघा हन्ति शतशः शत्रून्मम करच्युता +पुनश्च पाणिमभ्येति मम दैत्यान्विनिघ्नतः +सेयं तव करं प्राप्य हत्वैकं रिपुमूर्जितम् +गर्जन्तं प्रतपन्तं च मामेवैष्यति सूतज +कर्ण उवाच +एकमेवाहमिच्छामि रिपुं हन्तुं महाहवे +गर्जन्तं प्रतपन्तं च यतो मम भयं भवेत् +इन्द्र उवाच +एकं हनिष्यसि रिपुं गर्जन्तं बलिनं रणे +त्वं तु यं प्रार्थयस्येकं रक्ष्यते स महात्मना +यमाहुर्वेदविद्वांसो वराहमजितं हरिम् +नारायणमचिन्त्यं च तेन कृष्णेन रक्ष्यते +कर्ण उवाच +एवमप्यस्तु भगवन्नेकवीरवधे मम +अमोघा प्रवरा शक्तिर्येन हन्यां प्रतापिनम् +उत्कृत्य तु प्रदास्यामि कुण्डले कवचं च ते +निकृत्तेषु च गात्रेषु न मे बीभत्सता भवेत् +इन्द्र उवाच +न ते बीभत्सता कर्ण भविष्यति कथंचन +व्रणश्चापि न गात्रेषु यस्त्वं नानृतमिच्छसि +यादृशस्ते पितुर्वर्णस्तेजश्च वदतां वर +तादृशेनैव वर्णेन त्वं कर्ण भविता पुनः +विद्यमानेषु शस्त्रेषु यद्यमोघामसंशये +प्रमत्तो मोक्ष्यसे चापि त्वय्येवैषा पतिष्यति +कर्ण उवाच +संशयं परमं प्राप्य विमोक्ष्ये वासवीमिमाम् +यथा मामात्थ शक्र त्वं सत्यमेतद्ब्रवीमि ते +वैशंपायन उवाच +ततः शक्तिं प्रज्वलितां प्रतिगृह्य विशां पते +शस्त्रं गृहीत्वा निशितं सर्वगात्राण्यकृन्तत +ततो देवा मानवा दानवाश्च; निकृन्तन्तं कर्णमात्मानमेवम् +दृष्ट्वा सर्वे सिद्धसंघाश्च नेदु;र्न ह्यस्यासीद्दुःखजो वै विकारः +ततो दिव्या दुन्दुभयः प्रणेदुः; पपातोच्चैः पुष्पवर्षं च दिव्यम् +दृष्ट्वा कर्णं शस्त्रसंकृत्तगात्रं; मुहुश्चापि स्मयमानं नृवीरम् +ततश्छित्त्वा कवचं दिव्यमङ्गा;त्तथैवार्द्रं प्रददौ वासवाय +तथोत्कृत्य प्रददौ कुण्डले ते; वैकर्तनः कर्मणा तेन कर्णः +ततः शक्रः प्रहसन्वञ्चयित्वा; कर्णं लोके यशसा योजयित्वा +कृतं कार्यं पाण्डवानां हि मेने; ततः पश्चाद्दिवमेवोत्पपात +श्रुत्वा कर्णं मुषितं धार्तराष्ट्रा; दीनाः सर्वे भग्नदर्पा इवासन् +तां चावस्थां गमितं सूतपुत्रं; श्रुत्वा पार्था जहृषुः काननस्थाः +जनमेजय उवाच +क्वस्था वीराः पाण्डवास्ते बभूवुः; कुतश्चैतच्छ्रुतवन्तः प्रियं ते +किं वाकार्षुर्द्वादशेऽब्दे व्यतीते; तन्मे सर्वं भगवान्व��याकरोतु +वैशंपायन उवाच +लब्ध्वा कृष्णां सैन्धवं द्रावयित्वा; विप्रैः सार्धं काम्यकादाश्रमात्ते +मार्कण्डेयाच्छ्रुतवन्तः पुराणं; देवर्षीणां चरितं विस्तरेण +प्रत्याजग्मुः सरथाः सानुयात्राः; सर्वैः सार्धं सूदपौरोगवैश्च +ततः पुण्यं द्वैतवनं नृवीरा; निस्तीर्योग्रं वनवासं समग्रम् +जनमेजय उवाच +एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् +प्रतिलभ्य ततः कृष्णां किमकुर्वत पाण्डवाः +वैशंपायन उवाच +एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् +विहाय काम्यकं राजा सह भ्रातृभिरच्युतः +पुनर्द्वैतवनं रम्यमाजगाम युधिष्ठिरः +स्वादुमूलफलं रम्यं मार्कण्डेयाश्रमं प्रति +अनुगुप्तफलाहाराः सर्व एव मिताशनाः +न्यवसन्पाण्डवास्तत्र कृष्णया सह भारत +वसन्द्वैतवने राजा कुन्तीपुत्रो युधिष्ठिरः +भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ +ब्राह्मणार्थे पराक्रान्ता धर्मात्मानो यतव्रताः +क्लेशमार्छन्त विपुलं सुखोदर्कं परंतपाः +अजातशत्रुमासीनं भ्रातृभिः सहितं वने +आगम्य ब्राह्मणस्तूर्णं संतप्त इदमब्रवीत् +अरणीसहितं मह्यं समासक्तं वनस्पतौ +मृगस्य घर्षमाणस्य विषाणे समसज्जत +तदादाय गतो राजंस्त्वरमाणो महामृगः +आश्रमात्त्वरितः शीघ्रं प्लवमानो महाजवः +तस्य गत्वा पदं शीघ्रमासाद्य च महामृगम् +अग्निहोत्रं न लुप्येत तदानयत पाण्डवाः +ब्राह्मणस्य वचः श्रुत्वा संतप्तोऽथ युधिष्ठिरः +धनुरादाय कौन्तेयः प्राद्रवद्भ्रातृभिः सह +सन्नद्धा धन्विनः सर्वे प्राद्रवन्नरपुंगवाः +ब्राह्मणार्थे यतन्तस्ते शीघ्रमन्वगमन्मृगम् +कर्णिनालीकनाराचानुत्सृजन्तो महारथाः +नाविध्यन्पाण्डवास्तत्र पश्यन्तो मृगमन्तिकात् +तेषां प्रयतमानानां नादृश्यत महामृगः +अपश्यन्तो मृगं श्रान्ता दुःखं प्राप्ता मनस्विनः +शीतलच्छायमासाद्य न्यग्रोधं गहने वने +क्षुत्पिपासापरीताङ्गाः पाण्डवाः समुपाविशन् +तेषां समुपविष्टानां नकुलो दुःखितस्तदा +अब्रवीद्भ्रातरं ज्येष्ठममर्षात्कुरुसत्तम +नास्मिन्कुले जातु ममज्ज धर्मो; न चालस्यादर्थलोपो बभूव +अनुत्तराः सर्वभूतेषु भूयः; संप्राप्ताः स्मः संशयं केन राजन् +युधिष्ठिर उवाच +नापदामस्ति मर्यादा न निमित्तं न कारणम् +धर्मस्तु विभजत्यत्र उभयोः पुण्यपापयोः +भीम उवाच +प्रातिकाम्यनयत्कृष्णां सभायां प्रेष्यवत्तदा +न मया निहतस्तत्र तेन प्राप्ताः स्म संशयम् +अर्जुन उवाच +वाचस्तीक्ष्णास्थिभेदिन्यः सूतपुत्रेण भाषिताः +अतितीक्ष्णा मया क्षान्तास्तेन प्राप्ताः स्म संशयम् +सहदेव उवाच +शकुनिस्त्वां यदाजैषीदक्षद्यूतेन भारत +स मया न हतस्तत्र तेन प्राप्ताः स्म संशयम् +वैशंपायन उवाच +ततो युधिष्ठिरो राजा नकुलं वाक्यमब्रवीत् +आरुह्य वृक्षं माद्रेय निरीक्षस्व दिशो दश +पानीयमन्तिके पश्य वृक्षान्वाप्युदकाश्रयान् +इमे हि भ्रातरः श्रान्तास्तव तात पिपासिताः +नकुलस्तु तथेत्युक्त्वा शीघ्रमारुह्य पादपम् +अब्रवीद्भ्रातरं ज्येष्ठमभिवीक्ष्य समन्ततः +पश्यामि बहुलान्राजन्वृक्षानुदकसंश्रयान् +सारसानां च निर्ह्रादमत्रोदकमसंशयम् +ततोऽब्रवीत्सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः +गच्छ सौम्य ततः शीघ्रं तूर्णं पानीयमानय +नकुलस्तु तथेत्युक्त्वा भ्रातुर्ज्येष्ठस्य शासनात् +प्राद्रवद्यत्र पानीयं शीघ्रं चैवान्वपद्यत +स दृष्ट्वा विमलं तोयं सारसैः परिवारितम् +पातुकामस्ततो वाचमन्तरिक्षात्स शुश्रुवे +मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः +प्रश्नानुक्त्वा तु माद्रेय ततः पिब हरस्व च +अनादृत्य तु तद्वाक्यं नकुलः सुपिपासितः +अपिबच्छीतलं तोयं पीत्वा च निपपात ह +चिरायमाणे नकुले कुन्तीपुत्रो युधिष्ठिरः +अब्रवीद्भ्रातरं वीरं सहदेवमरिंदमम् +भ्राता चिरायते तात सहदेव तवाग्रजः +तं चैवानय सोदर्यं पानीयं च त्वमानय +सहदेवस्तथेत्युक्त्वा तां दिशं प्रत्यपद्यत +ददर्श च हतं भूमौ भ्रातरं नकुलं तदा +भ्रातृशोकाभिसंतप्तस्तृषया च प्रपीडितः +अभिदुद्राव पानीयं ततो वागभ्यभाषत +मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः +प्रश्नानुक्त्वा यथाकामं ततः पिब हरस्व च +अनादृत्य तु तद्वाक्यं सहदेवः पिपासितः +अपिबच्छीतलं तोयं पीत्वा च निपपात ह +अथाब्रवीत्स विजयं कुन्तीपुत्रो युधिष्ठिरः +भ्रातरौ ते चिरगतौ बीभत्सो शत्रुकर्शन +तौ चैवानय भद्रं ते पानीयं च त्वमानय +एवमुक्तो गुडाकेशः प्रगृह्य सशरं धनुः +आमुक्तखड्गो मेधावी तत्सरः प्रत्यपद्यत +यतः पुरुषशार्दूलौ पानीयहरणे गतौ +तौ ददर्श हतौ तत्र भ्रातरौ श्वेतवाहनः +प्रसुप्ताविव तौ दृष्ट्वा नरसिंहः सुदुःखितः +धनुरुद्यम्य कौन्तेयो व्यलोकयत तद्वनम् +नापश्यत्तत्र किंचित्स भूतं तस्मिन्महावने +सव्यसाची ततः श्रान्तः पानीयं सोऽभ्यधावत +अभिधावंस्ततो वाचमन्तरिक्षात्स शुश्रुवे +किमासीदसि पानीयं नैतच्छक्यं बलात्त्वया +कौन्तेय यदि वै प्रश्नान्मयोक्तान्प्रतिपत्स्यसे +ततः पास्यसि पानीयं हरिष्यसि च भारत +वारितस्त्वब्रवीत्पार्थो दृश्यमानो निवारय +यावद्बाणैर्विनिर्भिन्नः पुनर्नैवं वदिष्यसि +एवमुक्त्वा ततः पार्थः शरैरस्त्रानुमन्त्रितैः +ववर्ष तां दिशं कृत्स्नां शब्दवेधं च दर्शयन् +कर्णिनालीकनाराचानुत्सृजन्भरतर्षभ +अनेकैरिषुसंघातैरन्तरिक्षं ववर्ष ह +यक्ष उवाच +किं विघातेन ते पार्थ प्रश्नानुक्त्वा ततः पिब +अनुक्त्वा तु ततः प्रश्नान्पीत्वैव न भविष्यसि +वैशंपायन उवाच +स त्वमोघानिषून्मुक्त्वा तृष्णयाभिप्रपीडितः +अविज्ञायैव तान्प्रश्नान्पीत्वैव निपपात ह +अथाब्रवीद्भीमसेनं कुन्तीपुत्रो युधिष्ठिरः +नकुलः सहदेवश्च बीभत्सुश्चापराजितः +चिरं गतास्तोयहेतोर्न चागच्छन्ति भारत +तांश्चैवानय भद्रं ते पानीयं च त्वमानय +भीमसेनस्तथेत्युक्त्वा तां दिशं प्रत्यपद्यत +यत्र ते पुरुषव्याघ्रा भ्रातरोऽस्य निपातिताः +तान्दृष्ट्वा दुःखितो भीमस्तृषया च प्रपीडितः +अमन्यत महाबाहुः कर्म तद्यक्षरक्षसाम् +स चिन्तयामास तदा योद्धव्यं ध्रुवमद्य मे +पास्यामि तावत्पानीयमिति पार्थो वृकोदरः +ततोऽभ्यधावत्पानीयं पिपासुः पुरुषर्षभः +यक्ष उवाच +मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः +प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च +वैशंपायन उवाच +एवमुक्तस्ततो भीमो यक्षेणामिततेजसा +अविज्ञायैव तान्प्रश्नान्पीत्वैव निपपात ह +ततः कुन्तीसुतो राजा विचिन्त्य पुरुषर्षभः +समुत्थाय महाबाहुर्दह्यमानेन चेतसा +अपेतजननिर्घोषं प्रविवेश महावनम् +रुरुभिश्च वराहैश्च पक्षिभिश्च निषेवितम् +नीलभास्वरवर्णैश्च पादपैरुपशोभितम् +भ्रमरैरुपगीतं च पक्षिभिश्च महायशाः +स गच्छन्कानने तस्मिन्हेमजालपरिष्कृतम् +ददर्श तत्सरः श्रीमान्विश्वकर्मकृतं यथा +उपेतं नलिनीजालैः सिन्धुवारैश्च वेतसैः +केतकैः करवीरैश्च पिप्पलैश्चैव संवृतम् +श्रमार्तस्तदुपागम्य सरो दृष्ट्वाथ विस्मितः +वैशंपायन उवाच +स ददर्श हतान्भ्रातॄँल्लोकपालानिव च्युतान् +युगान्ते समनुप्राप्ते शक्रप्रतिमगौरवान् +विप्रकीर्णधनुर्बाणं दृष्ट्वा निहतमर्जुनम् +भीमसेनं यमौ चोभौ निर्विचेष्टान्गतायुषः +स दीर्घमुष्णं निःश्वस्य शोकबाष्पपरिप्लुतः +बुद्ध्या विचिन्तयामास वीराः केन निपातिताः +नैषां शस्त्रप्रहारोऽस्ति पदं नेहास्ति कस्यचित् +भूतं महदिदं मन्ये भ्रातरो येन मे हताः +एकाग्रं चिन्तयिष्यामि पीत्वा वेत्स्यामि वा जलम् +स्यात्तु दुर्योधनेनेदमुपांशुविहितं कृतम् +गान्धारराजरचितं सततं जिह्मबुद्धिना +यस्य कार्यमकार्यं वा सममेव भवत्युत +कस्तस्य विश्वसेद्वीरो दुर्मतेरकृतात्मनः +अथ वा पुरुषैर्गूढैः प्रयोगोऽयं दुरात्मनः +भवेदिति महाबाहुर्बहुधा समचिन्तयत् +तस्यासीन्न विषेणेदमुदकं दूषितं यथा +मुखवर्णाः प्रसन्ना मे भ्रातॄणामित्यचिन्तयत् +एकैकशश्चौघबलानिमान्पुरुषसत्तमान् +कोऽन्यः प्रतिसमासेत कालान्तकयमादृते +एतेनाध्यवसायेन तत्तोयमवगाढवान् +गाहमानश्च तत्तोयमन्तरिक्षात्स शुश्रुवे +यक्ष उवाच +अहं बकः शैवलमत्स्यभक्षो; मया नीताः प्रेतवशं तवानुजाः +त्वं पञ्चमो भविता राजपुत्र; न चेत्प्रश्नान्पृच्छतो व्याकरोषि +मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः +प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च +युधिष्ठिर उवाच +रुद्राणां वा वसूनां वा मरुतां वा प्रधानभाक् +पृच्छामि को भवान्देवो नैतच्छकुनिना कृतम् +हिमवान्पारियात्रश्च विन्ध्यो मलय एव च +चत्वारः पर्वताः केन पातिता भुवि तेजसा +अतीव ते महत्कर्म कृतं बलवतां वर +यन्न देवा न गन्धर्वा नासुरा न च राक्षसाः +विषहेरन्महायुद्धे कृतं ते तन्महाद्भुतम् +न ते जानामि यत्कार्यं नाभिजानामि काङ्क्षितम् +कौतूहलं महज्जातं साध्वसं चागतं मम +येनास्म्युद्विग्नहृदयः समुत्पन्नशिरोज्वरः +पृच्छामि भगवंस्तस्मात्को भवानिह तिष्ठति +यक्ष उवाच +यक्षोऽहमस्मि भद्रं ते नास्मि पक्षी जलेचरः +मयैते निहताः सर्वे भ्रातरस्ते महौजसः +वैशंपायन उवाच +ततस्तामशिवां श्रुत्वा वाचं स परुषाक्षराम् +यक्षस्य ब्रुवतो राजन्नुपक्रम्य तदा स्थितः +विरूपाक्षं महाकायं यक्षं तालसमुच्छ्रयम् +ज्वलनार्कप्रतीकाशमधृष्यं पर्वतोपमम् +सेतुमाश्रित्य तिष्ठन्तं ददर्श भरतर्षभः +मेघगम्भीरया वाचा तर्जयन्तं महाबलम् +यक्ष उवाच +इमे ते भ्रातरो राजन्वार्यमाणा मयासकृत् +बलात्तोयं जिहीर्षन्तस्ततो वै सूदिता मया +न पेयमुदकं राजन���प्राणानिह परीप्सता +पार्थ मा साहसं कार्षीर्मम पूर्वपरिग्रहः +प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च +युधिष्ठिर उवाच +नैवाहं कामये यक्ष तव पूर्वपरिग्रहम् +कामं नैतत्प्रशंसन्ति सन्तो हि पुरुषाः सदा +यदात्मना स्वमात्मानं प्रशंसेत्पुरुषः प्रभो +यथाप्रज्ञं तु ते प्रश्नान्प्रतिवक्ष्यामि पृच्छ माम् +यक्ष उवाच +किं स्विदादित्यमुन्नयति के च तस्याभितश्चराः +कश्चैनमस्तं नयति कस्मिंश्च प्रतितिष्ठति +युधिष्ठिर उवाच +ब्रह्मादित्यमुन्नयति देवास्तस्याभितश्चराः +धर्मश्चास्तं नयति च सत्ये च प्रतितिष्ठति +यक्ष उवाच +केन स्विच्छ्रोत्रियो भवति केन स्विद्विन्दते महत् +केन द्वितीयवान्भवति राजन्केन च बुद्धिमान् +युधिष्ठिर उवाच +श्रुतेन श्रोत्रियो भवति तपसा विन्दते महत् +धृत्या द्वितीयवान्भवति बुद्धिमान्वृद्धसेवया +यक्ष उवाच +किं ब्राह्मणानां देवत्वं कश्च धर्मः सतामिव +कश्चैषां मानुषो भावः किमेषामसतामिव +युधिष्ठिर उवाच +स्वाध्याय एषां देवत्वं तप एषां सतामिव +मरणं मानुषो भावः परिवादोऽसतामिव +यक्ष उवाच +किं क्षत्रियाणां देवत्वं कश्च धर्मः सतामिव +कश्चैषां मानुषो भावः किमेषामसतामिव +युधिष्ठिर उवाच +इष्वस्त्रमेषां देवत्वं यज्ञ एषां सतामिव +भयं वै मानुषो भावः परित्यागोऽसतामिव +यक्ष उवाच +किमेकं यज्ञियं साम किमेकं यज्ञियं यजुः +का चैका वृश्चते यज्ञं कां यज्ञो नातिवर्तते +युधिष्ठिर उवाच +प्राणो वै यज्ञियं साम मनो वै यज्ञियं यजुः +वागेका वृश्चते यज्ञं तां यज्ञो नातिवर्तते +यक्ष उवाच +किं स्विदापततां श्रेष्ठं किं स्विन्निपततां वरम् +किं स्वित्प्रतिष्ठमानानां किं स्वित्प्रवदतां वरम् +युधिष्ठिर उवाच +वर्षमापततां श्रेष्ठं बीजं निपततां वरम् +गावः प्रतिष्ठमानानां पुत्रः प्रवदतां वरः +यक्ष उवाच +इन्द्रियार्थाननुभवन्बुद्धिमाँल्लोकपूजितः +संमतः सर्वभूतानामुच्छ्वसन्को न जीवति +युधिष्ठिर उवाच +देवतातिथिभृत्यानां पितॄणामात्मनश्च यः +न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति +यक्ष उवाच +किं स्विद्गुरुतरं भूमेः किं स्विदुच्चतरं च खात् +किं स्विच्छीघ्रतरं वायोः किं स्विद्बहुतरं नृणाम् +युधिष्ठिर उवाच +माता गुरुतरा भूमेः पिता उच्चतरश्च खात् +मनः शीघ्रतरं वायोश्चिन्ता बहुतरी नृणाम् +यक्ष उवाच +किं स्वित्सुप्तं न निमिषति किं स्विज्जातं न चोपति +कस्य स्विद्धृदयं नास्ति किं स्विद्वेगेन वर्धते +युधिष्ठिर उवाच +मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति +अश्मनो हृदयं नास्ति नदी वेगेन वर्धते +यक्ष उवाच +किं स्वित्प्रवसतो मित्रं किं स्विन्मित्रं गृहे सतः +आतुरस्य च किं मित्रं किं स्विन्मित्रं मरिष्यतः +युधिष्ठिर उवाच +सार्थः प्रवसतो मित्रं भार्या मित्रं गृहे सतः +आतुरस्य भिषङ्मित्रं दानं मित्रं मरिष्यतः +यक्ष उवाच +किं स्विदेको विचरति जातः को जायते पुनः +किं स्विद्धिमस्य भैषज्यं किं स्विदावपनं महत् +युधिष्ठिर उवाच +सूर्य एको विचरति चन्द्रमा जायते पुनः +अग्निर्हिमस्य भैषज्यं भूमिरावपनं महत् +यक्ष उवाच +किं स्विदेकपदं धर्म्यं किं स्विदेकपदं यशः +किं स्विदेकपदं स्वर्ग्यं किं स्विदेकपदं सुखम् +युधिष्ठिर उवाच +दाक्ष्यमेकपदं धर्म्यं दानमेकपदं यशः +सत्यमेकपदं स्वर्ग्यं शीलमेकपदं सुखम् +यक्ष उवाच +किं स्विदात्मा मनुष्यस्य किं स्विद्दैवकृतः सखा +उपजीवनं किं स्विदस्य किं स्विदस्य परायणम् +युधिष्ठिर उवाच +पुत्र आत्मा मनुष्यस्य भार्या दैवकृतः सखा +उपजीवनं च पर्जन्यो दानमस्य परायणम् +यक्ष उवाच +धन्यानामुत्तमं किं स्विद्धनानां किं स्विदुत्तमम् +लाभानामुत्तमं किं स्वित्किं सुखानां तथोत्तमम् +युधिष्ठिर उवाच +धन्यानामुत्तमं दाक्ष्यं धनानामुत्तमं श्रुतम् +लाभानां श्रेष्ठमारोग्यं सुखानां तुष्टिरुत्तमा +यक्ष उवाच +कश्च धर्मः परो लोके कश्च धर्मः सदाफलः +किं नियम्य न शोचन्ति कैश्च संधिर्न जीर्यते +युधिष्ठिर उवाच +आनृशंस्यं परो धर्मस्त्रयीधर्मः सदाफलः +मनो यम्य न शोचन्ति सद्भिः संधिर्न जीर्यते +यक्ष उवाच +किं नु हित्वा प्रियो भवति किं नु हित्वा न शोचति +किं नु हित्वार्थवान्भवति किं नु हित्वा सुखी भवेत् +युधिष्ठिर उवाच +मानं हित्वा प्रियो भवति क्रोधं हित्वा न शोचति +कामं हित्वार्थवान्भवति लोभं हित्वा सुखी भवेत् +यक्ष उवाच +मृतः कथं स्यात्पुरुषः कथं राष्ट्रं मृतं भवेत् +श्राद्धं मृतं कथं च स्यात्कथं यज्ञो मृतो भवेत् +युधिष्ठिर उवाच +मृतो दरिद्रः पुरुषो मृतं राष्ट्रमराजकम् +मृतमश्रोत्रियं श्राद्धं मृतो यज्ञस्त्वदक्षिणः +यक्ष उवाच +का दिक्किमुदकं प्रोक्तं किमन्नं पार्थ किं विषम् +श्राद्धस्य कालमाख्याहि ततः पिब हरस्व च +युधिष्ठिर उवाच +सन्तो दिग्जलमाकाशं गौरन्नं प्रार्थना विषम् +श्राद्धस्य ब्राह्मणः कालः कथं वा यक्ष मन्यसे +यक्ष उवाच +व्याख्याता मे त्वया प्रश्ना याथातथ्यं परंतप +पुरुषं त्विदानीमाख्याहि यश्च सर्वधनी नरः +युधिष्ठिर उवाच +दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः +यावत्स शब्दो भवति तावत्पुरुष उच्यते +तुल्ये प्रियाप्रिये यस्य सुखदुःखे तथैव च +अतीतानागते चोभे स वै सर्वधनी नरः +यक्ष उवाच +व्याख्यातः पुरुषो राजन्यश्च सर्वधनी नरः +तस्मात्तवैको भ्रातॄणां यमिच्छसि स जीवतु +युधिष्ठिर उवाच +श्यामो य एष रक्ताक्षो बृहच्छाल इवोद्गतः +व्यूढोरस्को महाबाहुर्नकुलो यक्ष जीवतु +यक्ष उवाच +प्रियस्ते भीमसेनोऽयमर्जुनो वः परायणम् +स कस्मान्नकुलं राजन्सापत्नं जीवमिच्छसि +यस्य नागसहस्रेण दशसंख्येन वै बलम् +तुल्यं तं भीममुत्सृज्य नकुलं जीवमिच्छसि +तथैनं मनुजाः प्राहुर्भीमसेनं प्रियं तव +अथ केनानुभावेन सापत्नं जीवमिच्छसि +यस्य बाहुबलं सर्वे पाण्डवाः समुपाश्रिताः +अर्जुनं तमपाहाय नकुलं जीवमिच्छसि +युधिष्ठिर उवाच +आनृशंस्यं परो धर्मः परमार्थाच्च मे मतम् +आनृशंस्यं चिकीर्षामि नकुलो यक्ष जीवतु +धर्मशीलः सदा राजा इति मां मानवा विदुः +स्वधर्मान्न चलिष्यामि नकुलो यक्ष जीवतु +यथा कुन्ती तथा माद्री विशेषो नास्ति मे तयोः +मातृभ्यां सममिच्छामि नकुलो यक्ष जीवतु +यक्ष उवाच +यस्य तेऽर्थाच्च कामाच्च आनृशंस्यं परं मतम् +तस्मात्ते भ्रातरः सर्वे जीवन्तु भरतर्षभ +वैशंपायन उवाच +ततस्ते यक्षवचनादुदतिष्ठन्त पाण्डवाः +क्षुत्पिपासे च सर्वेषां क्षणे तस्मिन्व्यगच्छताम् +युधिष्ठिर उवाच +सरस्येकेन पादेन तिष्ठन्तमपराजितम् +पृच्छामि को भवान्देवो न मे यक्षो मतो भवान् +वसूनां वा भवानेको रुद्राणामथ वा भवान् +अथ वा मरुतां श्रेष्ठो वज्री वा त्रिदशेश्वरः +मम हि भ्रातर इमे सहस्रशतयोधिनः +न तं योगं प्रपश्यामि येन स्युर्विनिपातिताः +सुखं प्रतिविबुद्धानामिन्द्रियाण्युपलक्षये +स भवान्सुहृदस्माकमथ वा नः पिता भवान् +यक्ष उवाच +अहं ते जनकस्तात धर्मो मृदुपराक्रम +त्वां दिदृक्षुरनुप्राप्तो विद्धि मां भरतर्षभ +यशः सत्यं दमः शौचमार्जवं ह्रीरचापलम् +दानं तपो ब्रह्मचर्यमित्येतास्तनवो मम +अहिंसा समता शान्तिस��तपः शौचममत्सरः +द्वाराण्येतानि मे विद्धि प्रियो ह्यसि सदा मम +दिष्ट्या पञ्चसु रक्तोऽसि दिष्ट्या ते षट्पदी जिता +द्वे पूर्वे मध्यमे द्वे च द्वे चान्ते सांपरायिके +धर्मोऽहमस्मि भद्रं ते जिज्ञासुस्त्वामिहागतः +आनृशंस्येन तुष्टोऽस्मि वरं दास्यामि तेऽनघ +वरं वृणीष्व राजेन्द्र दाता ह्यस्मि तवानघ +ये हि मे पुरुषा भक्ता न तेषामस्ति दुर्गतिः +युधिष्ठिर उवाच +अरणीसहितं यस्य मृग आदाय गच्छति +तस्याग्नयो न लुप्येरन्प्रथमोऽस्तु वरो मम +धर्म उवाच +अरणीसहितं तस्य ब्राह्मणस्य हृतं मया +मृगवेषेण कौन्तेय जिज्ञासार्थं तव प्रभो +वैशंपायन उवाच +ददानीत्येव भगवानुत्तरं प्रत्यपद्यत +अन्यं वरय भद्रं ते वरं त्वममरोपम +युधिष्ठिर उवाच +वर्षाणि द्वादशारण्ये त्रयोदशमुपस्थितम् +तत्र नो नाभिजानीयुर्वसतो मनुजाः क्वचित् +वैशंपायन उवाच +ददानीत्येव भगवानुत्तरं प्रत्यपद्यत +भूयश्चाश्वासयामास कौन्तेयं सत्यविक्रमम् +यद्यपि स्वेन रूपेण चरिष्यथ महीमिमाम् +न वो विज्ञास्यते कश्चित्त्रिषु लोकेषु भारत +वर्षं त्रयोदशं चेदं मत्प्रसादात्कुरूद्वहाः +विराटनगरे गूढा अविज्ञाताश्चरिष्यथ +यद्वः संकल्पितं रूपं मनसा यस्य यादृशम् +तादृशं तादृशं सर्वे छन्दतो धारयिष्यथ +अरणीसहितं चेदं ब्राह्मणाय प्रयच्छत +जिज्ञासार्थं मया ह्येतदाहृतं मृगरूपिणा +तृतीयं गृह्यतां पुत्र वरमप्रतिमं महत् +त्वं हि मत्प्रभवो राजन्विदुरश्च ममांशभाक् +युधिष्ठिर उवाच +देवदेवो मया दृष्टो भवान्साक्षात्सनातनः +यं ददासि वरं तुष्टस्तं ग्रहीष्याम्यहं पितः +जयेयं लोभमोहौ च क्रोधं चाहं सदा विभो +दाने तपसि सत्ये च मनो मे सततं भवेत् +धर्म उवाच +उपपन्नो गुणैः सर्वैः स्वभावेनासि पाण्डव +भवान्धर्मः पुनश्चैव यथोक्तं ते भविष्यति +वैशंपायन उवाच +इत्युक्त्वान्तर्दधे धर्मो भगवाँल्लोकभावनः +समेताः पाण्डवाश्चैव सुखसुप्ता मनस्विनः +अभ्येत्य चाश्रमं वीराः सर्व एव गतक्लमाः +आरणेयं ददुस्तस्मै ब्राह्मणाय तपस्विने +इदं समुत्थानसमागमं मह;त्पितुश्च पुत्रस्य च कीर्तिवर्धनम् +पठन्नरः स्याद्विजितेन्द्रियो वशी; सपुत्रपौत्रः शतवर्षभाग्भवेत् +न चाप्यधर्मे न सुहृद्विभेदने; परस्वहारे परदारमर्शने +कदर्यभावे न रमेन्मनः सदा; नृणां सदाख्यानमिदं विजानताम् +वैशंपायन उवाच +धर्मेण तेऽभ्यनुज्ञाताः पाण्डवाः सत्यविक्रमाः +अज्ञातवासं वत्स्यन्तश्छन्ना वर्षं त्रयोदशम् +उपोपविश्य विद्वांसः सहिताः संशितव्रताः +ये तद्भक्ता वसन्ति स्म वनवासे तपस्विनः +तानब्रुवन्महात्मानः शिष्टाः प्राञ्जलयस्तदा +अभ्यनुज्ञापयिष्यन्तस्तं निवासं धृतव्रताः +विदितं भवतां सर्वं धार्तराष्ट्रैर्यथा वयम् +छद्मना हृतराज्याश्च निःस्वाश्च बहुशः कृताः +उषिताश्च वने कृच्छ्रं यत्र द्वादश वत्सरान् +अज्ञातवाससमयं शेषं वर्षं त्रयोदशम् +तद्वत्स्यामो वयं छन्नास्तदनुज्ञातुमर्हथ +सुयोधनश्च दुष्टात्मा कर्णश्च सहसौबलः +जानन्तो विषमं कुर्युरस्मास्वत्यन्तवैरिणः +युक्ताचाराश्च युक्ताश्च पौरस्य स्वजनस्य च +अपि नस्तद्भवेद्भूयो यद्वयं ब्राह्मणैः सह +समस्ताः स्वेषु राष्ट्रेषु स्वराज्यस्था भवेमहि +इत्युक्त्वा दुःखशोकार्तः शुचिर्धर्मसुतस्तदा +संमूर्छितोऽभवद्राजा साश्रुकण्ठो युधिष्ठिरः +तमथाश्वासयन्सर्वे ब्राह्मणा भ्रातृभिः सह +अथ धौम्योऽब्रवीद्वाक्यं महार्थं नृपतिं तदा +राजन्विद्वान्भवान्दान्तः सत्यसंधो जितेन्द्रियः +नैवंविधाः प्रमुह्यन्ति नराः कस्यांचिदापदि +देवैरप्यापदः प्राप्ताश्छन्नैश्च बहुशस्तथा +तत्र तत्र सपत्नानां निग्रहार्थं महात्मभिः +इन्द्रेण निषधान्प्राप्य गिरिप्रस्थाश्रमे तदा +छन्नेनोष्य कृतं कर्म द्विषतां बलनिग्रहे +विष्णुनाश्वशिरः प्राप्य तथादित्यां निवत्स्यता +गर्भे वधार्थं दैत्यानामज्ञातेनोषितं चिरम् +प्राप्य वामनरूपेण प्रच्छन्नं ब्रह्मरूपिणा +बलेर्यथा हृतं राज्यं विक्रमैस्तच्च ते श्रुतम् +और्वेण वसता छन्नमूरौ ब्रह्मर्षिणा तदा +यत्कृतं तात लोकेषु तच्च सर्वं श्रुतं त्वया +प्रच्छन्नं चापि धर्मज्ञ हरिणा वृत्रनिग्रहे +वज्रं प्रविश्य शक्रस्य यत्कृतं तच्च ते श्रुतम् +हुताशनेन यच्चापः प्रविश्य छन्नमासता +विबुधानां कृतं कर्म तच्च सर्वं श्रुतं त्वया +एवं विवस्वता तात छन्नेनोत्तमतेजसा +निर्दग्धाः शत्रवः सर्वे वसता भुवि सर्वशः +विष्णुना वसता चापि गृहे दशरथस्य वै +दशग्रीवो हतश्छन्नं संयुगे भीमकर्मणा +एवमेते महात्मानः प्रच्छन्नास्तत्र तत्र ह +अजयञ्शात्रवान्युद्धे तथा त्वमपि जेष्यसि +तथा धौम्येन धर्मज्ञो वाक्यैः संपरितोषितः +शास्त्रबुद्ध्या स्वबुद्ध्��ा च न चचाल युधिष्ठिरः +अथाब्रवीन्महाबाहुर्भीमसेनो महाबलः +राजानं बलिनां श्रेष्ठो गिरा संपरिहर्षयन् +अवेक्षया महाराज तव गाण्डीवधन्वना +धर्मानुगतया बुद्ध्या न किंचित्साहसं कृतम् +सहदेवो मया नित्यं नकुलश्च निवारितौ +शक्तौ विध्वंसने तेषां शत्रुघ्नौ भीमविक्रमौ +न वयं तत्प्रहास्यामो यस्मिन्योक्ष्यति नो भवान् +भवान्विधत्तां तत्सर्वं क्षिप्रं जेष्यामहे परान् +इत्युक्ते भीमसेनेन ब्राह्मणाः परमाशिषः +प्रयुज्यापृच्छ्य भरतान्यथास्वान्स्वान्ययुर्गृहान् +सर्वे वेदविदो मुख्या यतयो मुनयस्तथा +आशीरुक्त्वा यथान्यायं पुनर्दर्शनकाङ्क्षिणः +सह धौम्येन विद्वांसस्तथा ते पञ्च पाण्डवाः +उत्थाय प्रययुर्वीराः कृष्णामादाय भारत +क्रोशमात्रमतिक्रम्य तस्माद्देशान्निमित्ततः +श्वोभूते मनुजव्याघ्राश्छन्नवासार्थमुद्यताः +पृथक्शास्त्रविदः सर्वे सर्वे मन्त्रविशारदाः +संधिविग्रहकालज्ञा मन्त्राय समुपाविशन्